All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
व (6/8)
रक्तालुके महावीरजिने स्यात्तान्त्रिकान्तरे ।वीरा तु मलपूक्षीरविदारीदुग्धिकासु च ॥ ५५४७ ॥
45.5547 · p. 412
अनुष्टुप्
गम्भारीक्षीरकाकोलीतामलक्येलवालुके ।रम्भायां च सुरायां च पतिपुत्रवती स्त्रियाम् ॥ ५५४८ ॥
45.5548 · p. 412
अनुष्टुप्
वीरं तु शृङ्गीशृङ्गाटनतोशीरारुके नले ।क्लीबं पुष्करमूलेऽपि मरिचे काञ्जिके तथा ॥ ५५४९ ॥
45.5549 · p. 412
अनुष्टुप्
त्रि तु शूरे परे पक्षिक्षेपके विगते रणे ।पक्षिक्षेपे तु विक्षेपे वीरा वीर इति द्वयोः ॥ ५५५० ॥
45.5550 · p. 412
अनुष्टुप्
शरे वीरतरः पुंसि शवे तं केचिदूचिरे ।वीरणे क्ली वीरतरं वीरश्रेष्ठे पुनस्त्रिषु ॥ ५५५१ ॥
45.5551 · p. 412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वी (wrong syllable)
अथ वीरतरुः शृङ्गाटकोशीरनडार्जुने ।भल्लातकेऽपि पुँल्लिङ्गः करवीरेऽपि चेष्यते ॥ ५५५२ ॥
45.5552 · p. 412
अनुष्टुप्
नयान्तरे मयूरे तु द्वयोर्वीरन्धरो मतः ।वीरभद्रोऽश्वमेधाश्वे वीरश्रेष्ठे च वीरणे ॥ ५५५३ ॥
45.5553 · p. 412
अनुष्टुप्
रुद्रान्तरे शिवस्यापि कीर्त्तितोऽनुचरान्तरे ।स्याद्वीरललितं वीरक्रीडाच्छन्दोभिदोरपि ॥ ५५५४ ॥
45.5554 · p. 412
अनुष्टुप्
वीरलोको वीरजने वीरावासे तथा मतः ।वीरवान् वीरयुक्ते त्रिर्वीर्यवत्यपि च क्वचित् ॥ ५५५५ ॥
45.5555 · p. 412
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वी (wrong syllable)
वीरवती-वृक्षादनी
स्त्रीत्वे वीरवती गन्धद्रव्यभेदाऽऽपगाभिदोः ।वीरवृक्षो बिल्वधान्यभिदोर्भल्लातकेऽर्जुने ॥ ५५५६ ॥
45.5556 · p. 413
अनुष्टुप्
वीरसेनो नलपिता आरूकफले तु नप् ।वीरहा त्रिषु वीरारौ ना तूत्सन्नाग्निहोत्रिणि ॥ ५५५७ ॥
45.5557 · p. 413
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वीराशंसनमाजेर्भूर्या स्यादतिभयप्रदा ।तस्यां तथैव वीरस्याशंसनेऽपि नपुंसकम् ॥ ५५५८ ॥
45.5558 · p. 413
अनुष्टुप्
वीरिणी वीरमातर्यप्यसिक्न्यां दक्षयोषिति ।सरिद्भेदे वीरिणीति यस्या नामान्तरं विदुः ॥ ५५५९ ॥
45.5559 · p. 413
अनुष्टुप्
वीरेन्द्रो वीरवर्ये स्याद्वीरेन्द्री योगिनीभिदि ।वीरोज्झो योऽग्निहोत्री सन्नाऽब्दमग्निं जुहोत्यसौ ॥ ५५६० ॥
45.5560 · p. 413
अनुष्टुप्
वीरस्य तूज्झके चैष वीरोज्झो वाच्यवन्मतः ।वीर्यं रेतोऽन्नशक्त्याह्वबलशौर्यपराक्रमे ॥ ५५६१ ॥
45.5561 · p. 413
अनुष्टुप्
दीप्तिमाहात्म्ययोः क्लीबं स्त्रीवीर्याऽतिबलौषधे ।वीवधो विवधः पर्याहारे भारे तथाऽध्वनि ॥ ५५६२ ॥
45.5562 · p. 413
अनुष्टुप्
वीशः स्याद्विंशतिपलमाने पुँल्लिङ्ग एष तु ।वृकः सूर्येन्दुवज्रेषु जठराग्नौ बकद्रुमे ॥ ५५६३ ॥
45.5563 · p. 413
अनुष्टुप्
नृभूम्नि देशभेदे स्याद्वृकं क्लीबं हले मतम् ।त्रिषु स्तेने च धूर्त्ते च द्वयोस्त्वीहामृगे शुनि ॥ ५५६४ ॥
45.5564 · p. 413
अनुष्टुप्
काकोलूकशृगालेषु क्षत्रियेऽपि वृको वृकी ।वृकी तु वृद्धवाशिन्यां स्त्रियामेव निरुच्यते ॥ ५५६५ ॥
45.5565 · p. 413
अनुष्टुप्
वृका वृकीति द्वितयमम्बष्ठायां प्रकीर्त्तिता ।वृकधूपः कृत्रिमश्रीपिष्टनिर्यासयोर्मतः ॥ ५५६६ ॥
45.5566 · p. 413
अनुष्टुप्
वृकधूपस्तु सरलद्रवकृत्रिमधूपयोः ।वृकलो वल्कले स्त्री तु अन्त्रे च वृकला स्मृता ॥ ५५६७ ॥
45.5567 · p. 413
अनुष्टुप्
द्वाराधःकाष्ठपार्श्वे स्त्री वृकवाला प्रकीर्त्तिता ।वृकोदरो भीमे भूम्नि प्रमथानां गणान्तरे ॥ ५५६८ ॥
45.5568 · p. 413
अनुष्टुप्
वृक्षादनश्चलदले मधुच्छत्रकुठारयोः ।वृक्षादनी तु वन्दायां विदारीकन्दकेऽपि च ॥ ५५६९ ॥
45.5569 · p. 413
अनुष्टुप्
वृक्षावासः-वृत्रः
वृक्षावासो भिक्षुभेदे पक्षिणि त्वनपुंसके ।वृक्षेशयस्त्रिर्द्रुशये द्वयोः सर्पान्तरे मतः ॥ ५५७० ॥
45.5570 · p. 414
अनुष्टुप्
वृजिनं क्ली बले पापे केशेऽथ कुटिले त्रिषु ।वृतं धने वाच्यवत्तु तत्र यद्वरणं कृतम् ॥ ५५७१ ॥
45.5571 · p. 414
अनुष्टुप्
वृतिर्निरोधे सम्भक्तावपि चावेष्टके स्त्रियाम् ।धात्वोस्तु वर्त्ततौ चापि वृत्यतौ च पुमानयम् ॥ ५५७२ ॥
45.5572 · p. 414
अनुष्टुप्
वृत्तोऽतीतेऽप्यधीतेऽतिवर्त्तुलेऽपि वृते मृते ।दृढेऽन्यलिङ्गं वा क्लीबं छन्दश्चारित्रवृत्तिषु ॥ ५५७३ ॥
45.5573 · p. 414
अनुष्टुप्
वृत्तः कूर्मे द्वयो [र्नस्त्री सम्भक्तौ च स्वरूपके] ।वृत्ता महाकोशातक्यां रेणुकाझिञ्जरिष्टयोः ॥ ५५७४ ॥
45.5574 · p. 414
अनुष्टुप्
प्रियङ्गौ मांसरोहिण्यां छन्दोभेदे तथा स्त्रियाम् ।वृत्तकः श्रमणे द्वे स्याद्वृत्तकं गद्यभिद्यपि ॥ ५५७५ ॥
45.5575 · p. 414
अनुष्टुप्
वृत्तपर्णी महापूर्वशणपुष्प्यौषधे तथा ।पाठाख्यभेषजेऽप्येषा स्त्रीलिङ्गे परिकीर्त्तिता ॥ ५५७६ ॥
45.5576 · p. 414
अनुष्टुप्
वृत्तपुष्पः कदम्बेऽपि शिरीषे चैव मुद्गरे ।दाडिमे बदरे वृत्तफलः क्ली मरिचे मतः ॥ ५५७७ ॥
45.5577 · p. 414
अनुष्टुप्
हरीतक्यां तु वृन्ताके स्त्रियां कर्कटिकान्तरे ।वृत्तभङ्गश्चरित्रस्य छन्दसश्चैव विप्लवे ॥ ५५७८ ॥
45.5578 · p. 414
अनुष्टुप्
अर्कपर्णेऽपि मल्ल्यां च स्त्रियां स्याद्वृत्तमल्लिका ।वृत्तान्तः प्रक्रियायां स्यात्कार्त्स्न्यवार्त्ताप्रभेदयोः ॥ ५५७९ ॥
45.5579 · p. 414
अनुष्टुप्
वृत्तार्धं छन्दसोऽर्धेऽपि वर्त्तुलार्धे तथा मतम् ।वृत्तिस्तु वर्त्तने कृष्या मारभट्यादिकेष्वपि ॥ ५५८० ॥
45.5580 · p. 414
अनुष्टुप्
शब्दोच्चारणधर्मेषु द्रुतमध्यादिषु त्रिषु ।ऋक्पादस्याप्युपान्तेऽप्यप्रतिबन्धप्रवर्त्तने ॥ ५५८१ ॥
45.5581 · p. 414
अनुष्टुप्
व्याख्याने ग्रन्थभेदे च सामगीतिगुणान्तरे ।कृत्तद्धितादावभिधादौ च मल्लीरुजोरपि ॥ ५५८२ ॥
45.5582 · p. 414
अनुष्टुप्
संभक्तौ मरणे चापि स्त्रीलिङ्गे परिकीर्त्तिता ।वृत्रं धने ध्वनौ पापे वृत्रो दैत्यान्तरे गिरौ ॥ ५५८३ ॥
45.5583 · p. 414
अनुष्टुप्
वृथाजातः-वृन्दारका
मेघेऽन्धकारे शत्रौ च पुँल्लिङ्गः परिकीर्त्तितः ।वृथाजातो द्विजे यज्ञत्यागिनि त्रि तु यौगिके ॥ ५५८४ ॥
45.5584 · p. 415
अनुष्टुप्
वृद्धो वैवस्वते क्ली तु शैलेये स्थविरे त्रिषु ।त्रिमात्रसामवर्णे च स्यादेधितमनीषिणोः ॥ ५५८५ ॥
45.5585 · p. 415
अनुष्टुप्
गजे त्वशीतिवर्षे द्वे वृद्धापत्ये तथा मतः ।वृद्धदारक उक्तो ना छगलान्त्र्याख्यभेषजे ॥ ५५८६ ॥
45.5586 · p. 415
अनुष्टुप्
जीर्णभार्ये तु वृद्धस्य भेदकेऽपि त्रिषु स्मृतः ।वृद्धधूपः शिरीषेऽपि श्रीवासेऽपि पुमान्मतः ॥ ५५८७ ॥
45.5587 · p. 415
अनुष्टुप्
वृद्धश्रवाः पुमानिन्द्रे महायशसि वाच्यवत् ।वृद्धावस्कन्दी तु पुंसि शक्रे त्रिषु तु यौगिके ॥ ५५८८ ॥
45.5588 · p. 415
अनुष्टुप्
वृद्धिस्तु वर्धने योगेऽप्यष्टवर्गौषधान्तरे ।कालान्तरे चाभ्युदये समृद्धावपि योषिति ॥ ५५८९ ॥
45.5589 · p. 415
अनुष्टुप्
ऋणातिरिक्तदातव्ये प्रयोक्त्रे पुत्रजन्मनि ।मुष्कवृद्ध्यात्मके वर्ध्मसंज्ञे रोगान्तरेऽपि च ॥ ५५९० ॥
45.5590 · p. 415
अनुष्टुप्
वृधः सुहृदि सौहार्दै त्रिस्तु सौहार्दकारिणि ।वृधसानस्तु पुरुषे मृत्यौ भूमिधनेऽपि च ॥ ५५९१ ॥
45.5591 · p. 415
अनुष्टुप्
अथाभिधेयवद्वृद्धिशालिन्येष प्रकीर्त्तितः ।वृधसानुः पुमान्पत्रे पुरुषे च कृतावपि ॥ ५५९२ ॥
45.5592 · p. 415
अनुष्टुप्
वृन्तं तरूणां प्रसवबन्धने चूचुकेऽपि च ।शल्कादिमूलेऽपि घटीधारायां च नपुंसकम् ॥ ५५९३ ॥
45.5593 · p. 415
अनुष्टुप्
कालिङ्गसंज्ञवल्ल्यां तु वृन्ताके वृन्त इष्यते ।वृन्तो वृन्तीति च स्त्रीपुंसयोर्जन्त्वन्तरे मतः ॥ ५५९४ ॥
45.5594 · p. 415
अनुष्टुप्
वृन्ताच्छन्दोविशेषेऽपि तथैव स्थावरान्तरे ।वृन्दं कदम्बे तौर्यत्रिकिणां सङ्घे तथा मतम् ॥ ५५९५ ॥
45.5595 · p. 415
अनुष्टुप्
वृन्दस्त्वर्बुदसंख्यायां [समूहेऽपि पुमानथ] ।वृन्दा तु तुलसीस्तम्बे राधायां च प्रकीर्त्तिता ॥ ५५९६ ॥
45.5596 · p. 415
अनुष्टुप्
जलन्धरस्य पत्न्यां च जिनशक्तान्तरेऽपि च ।वृन्दारकस्त्रिषु श्रेष्ठे तत्र वृन्दारका तथा ॥ ५५९७ ॥
45.5597 · p. 415
अनुष्टुप्
वृन्दारिका-वृषी
वृन्दारिका मता स्त्रीत्वे द्वयोर्देवे प्रकीर्त्तिता ।वृन्दावनं तु मथुरोपशल्यारण्यभिद्यथ ॥ ५५९८ ॥
45.5598 · p. 416
अनुष्टुप्
वृन्दावनी तु तुलसीस्तम्बे स्त्री परिकीर्त्तिता ।वृन्दावनेश्वरः कृष्णे राधा वृन्दावनेश्वरी ॥ ५५९९ ॥
45.5599 · p. 416
अनुष्टुप्
वृशः स्यादटरूषे ना वृशा स्तम्बान्तरे मता ।भौमायार्कार्पिते तत्र या च श्वेतपुनर्नवा ॥ ५६०० ॥
45.5600 · p. 416
अनुष्टुप्
वृश्चिकस्तु द्रुणे राशौ पुमान्स्यान्मदनद्रुमे ।अग्रहायणमासेऽपि हालिकेऽपि प्रकीर्त्तितः ॥ ५६०१ ॥
45.5601 · p. 416
अनुष्टुप्
वृश्चिका तु द्वयोस्तत्र याऽसौ श्वेतपुर्ननवा ।वृश्चिकी तु द्वयोःशूककीटेऽथो वृश्चिकी तथा ॥ ५६०२ ॥
45.5602 · p. 416
अनुष्टुप्metre not read in every line
वृश्चिका च मता पादाङ्गुलीये स्त्रीत्व एव सा ।वृश्चिकाली स्त्रियामुष्ट्रधूम्रपुच्छ्याख्यभेषजे ॥ ५६०३ ॥
45.5603 · p. 416
अनुष्टुप्
वृश्चिकालं वृश्चिकस्य क्लीबं स्यातुच्छकण्टके ।वृष आर्द्रक ओषध्यां बलेऽपि लशुनेऽपि च ॥ ५६०४ ॥
45.5604 · p. 416
अनुष्टुप्
वृत्तौ मुष्कफलयोः कोष्ठावयवभेदयोः ।उक्ष्णि धर्मे बलीवर्दे पुंसि शक्रे बृहस्पतौ ॥ ५६०५ ॥
45.5605 · p. 416
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 वृ (syllables merged)
मेषाद्द्वितीयराशौ च बले कर्णे शिवे हरौ ।सूर्ये रेतसि कामेक्षु या च चित्रपुनर्नवा ॥ ५६०६ ॥
45.5606 · p. 416
अनुष्टुप्
तत्र हैमवते कन्दविशेषे मन्दिरान्तरे ।वास्तुस्थानान्तरे पञ्चदशेऽब्दे च बृहस्पतेः ॥ ५६०७ ॥
45.5607 · p. 416
अनुष्टुप्
शत्रौ साध्यान्तरेऽध्यक्षे करणस्य चतुष्पदः ।वाच्यवत्सुकुले श्रेष्ठे तस्या स्याद्भूरिरेतसि ॥ ५६०८ ॥
45.5608 · p. 416
अनुष्टुप्
द्वे त्वश्वे मूषिके देवे क्ली त्वन्तःपुररेतसोः ।वृषा स्त्री कदली ऋद्ध्यौषधन्यग्रोधिकास्वपि ॥ ५६०९ ॥
45.5609 · p. 416
अनुष्टुप्
कपिकच्छ्वां वृषाऽप्येषाऽटरूषे कैश्चिदिष्यते ।सामभेदेऽप्यथ हरीतक्यां चापि प्रकीर्त्तिता ॥ ५६१० ॥
45.5610 · p. 416
अनुष्टुप्
वृसी तु कैश्चिद्भ्रमतो वृषीति परिकीर्त्तिता ।वृषा मूषिकपर्ण्यां च मुनीनामासने वृषी ॥ ५६११ ॥
45.5611 · p. 416
अनुष्टुप्
वृषकं-वृष्णिः
छन्दोभेदे निदानोक्तेऽप्यष्टपञ्चाशदक्षरे ।वृषकं सामभेदे स्याद्वृषकस्तूद्भिदन्तरे ॥ ५६१२ ॥
45.5612 · p. 417
अनुष्टुप्
वृषकर्मा तु योगेऽथायुधो मन्त्रान्तरे पुमान् ।वृषणोऽस्त्र्यण्डकोशोऽण्डौ वृषणौ वृषणः शिवे ॥ ५६१३ ॥
45.5613 · p. 417
अनुष्टुप्
वृषणश्वो वर्षकाश्व इन्द्रेऽपीन्द्राश्व एव च ।वृषण्वसुः पुमानिन्द्रे वृषण्वसु तु तद्धने ॥ ५६१४ ॥
45.5614 · p. 417
अनुष्टुप्
वृषध्वजः शिवे पुंसि दुर्गायां तु वृषध्वजा ।वृषपर्वा कशेरौ च क्रमुके केशरे शिवे ॥ ५६१५ ॥
45.5615 · p. 417
अनुष्टुप्
वृषभस्तूक्ष्णि शक्रेऽपि वृषराशौ श्रवे बिले ।वृषकेतू मुहूर्त्तेऽष्टाविंशे चाप्यर्हदन्तरे ॥ ५६१६ ॥
45.5616 · p. 417
अनुष्टुप्
दशद्युनृपतौ कृष्णनिहते चासुरान्तरे ।अद्रिभेदेऽथ वृषभा त्वार्षभे सरिदन्तरे ॥ ५६१७ ॥
45.5617 · p. 417
अनुष्टुप्
वृषभी विधवायां च कपिकच्छ्वां प्रकीर्त्तिता ।स पुंस्त्वे तूत्तरः श्रेष्ठे वृषभो वाच्यवन्मतः ॥ ५६१८ ॥
45.5618 · p. 417
अनुष्टुप्
शिवेऽपि चाद्रिभेदेऽपि पुमान्स्याद्वृषभध्वजः ।वृषलो वृषभे शूद्रे चन्द्रगुप्तनृपे नदे ॥ ५६१९ ॥
45.5619 · p. 417
अनुष्टुप्
पलाण्डुभेदेऽथ हये द्वे स्त्री स्याद्द्वारयोषिति ।वृषलण्डी तु पिप्पल्यां स्त्री न स्त्री वृषवर्चसि ॥ ५६२० ॥
45.5620 · p. 417
अनुष्टुप्
वृषाकपिस्तु पुंसीन्द्रेऽप्यग्नौ सूर्ये हरे हरौ ।सूक्तान्तरे रुद्रभेदे स्यादिन्द्रतनयेऽपि च ॥ ५६२१ ॥
45.5621 · p. 417
अनुष्टुप्
वृषाकपाय्युमास्वाहाश्रीशचीपूषसि स्त्रियाम् ।शतावर्यां च जीवन्त्यामोतौ तु द्वे वृषाकपिः ॥ ५६२२ ॥
45.5622 · p. 417
अनुष्टुप्
वृषाङ्कः क्लीबभल्लातमहत्त्वशिवसाधुषु ।वृषाणकः शिवे ऋष्यन्तरेऽपि प्रमथान्तरे ॥ ५६२३ ॥
45.5623 · p. 417
अनुष्टुप्
वृष्टिस्तु वर्षणेऽप्येकाहान्तरेऽपि स्त्रियां मता ।त्रिषु वृष्टिसनिर्वृष्टिदातरि स्त्रीबहुत्वके ॥ ५६२४ ॥
45.5624 · p. 417
अनुष्टुप्
ता इष्टकान्तरे वृष्टिसनयः परिकीर्त्तिताः ।वृष्णिश्चण्डेऽपि पाषण्डे स पुंस्त्वे वाच्यवन्मतः ॥ ५६२५ ॥
45.5625 · p. 417
अनुष्टुप्
वृष्णयः-वेणा
वृष्णयः पाण्डवेषु स्युर्यदुष्वपि नृभूमनि ।वृष्णिर्द्वे गविमेषेऽथ किरणे मारुते शिवे ॥ ५६२६ ॥
45.5626 · p. 418
अनुष्टुप्
अग्नाविन्द्रे च कृष्णे च वृष्णिः पुंसि प्रकीर्त्तितः ।वृष्णयस्तु वर्षके त्रि स्याद्वृष्ण्यं पुंस्त्वे नपुंसकम् ॥ ५६२७ ॥
45.5627 · p. 418
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वृष्य इक्षौ माषधान्ये ना त्रिः स्याच्छुक्रवर्धके ।वृष्या शतावरीपथ्याविदारीवृद्धिभेषजे ॥ ५६२८ ॥
45.5628 · p. 418
अनुष्टुप्
वृष्यं नपुंसकं प्रोक्तं विदारीसंज्ञभेषजे ।वेकटो मणिकारे ना यूनि चैव विदूषके ॥ ५६२९ ॥
45.5629 · p. 418
अनुष्टुप्
द्वयोस्तु मत्स्यभेदे स्याद्वेकटं त्वद्भुतेऽव्ययम् ।वेगो जवे प्रवाहे च महाकालफलेऽपि च ॥ ५६३० ॥
45.5630 · p. 418
अनुष्टुप्
पुमान्मूलादिप्रवृत्तौ स्याद्रेतो रोगवायुषु ।वेगवान्द्वे तरक्षौ स्त्री वेगवत्योषधीभिदि ॥ ५६३१ ॥
45.5631 · p. 418
अनुष्टुप्
छन्दोऽन्तरे सरिद्भेदे त्रिस्तु वेगिनि वेगवान् ।वेगी वायौ पुमाञ्श्येने द्वयोर्वेगवति त्रिषु ॥ ५६३२ ॥
45.5632 · p. 418
अनुष्टुप्
स्याद्वेजनः सप्तदशेऽरग्नौ यूपस्य मूलतः ।अरत्रयः सप्तदशपदीयाः संख्यया मताः ॥ ५६३३ ॥
45.5633 · p. 418
अनुष्टुप्
अना तु वेजयत्यर्थे क्लीबं तु चलने भये ।वेटी स्त्री ना विवेटस्तु पुमाञ्शब्दे प्रकीर्त्तितः ॥ ५६३४ ॥
45.5634 · p. 418
अनुष्टुप्
वेडा नावि स्त्रियां वेडं सान्द्रविच्छिन्नचन्दने ।वेणस्तु द्वे मनुष्याणां जातिभेदे प्रकीर्त्तितः ॥ ५६३५ ॥
45.5635 · p. 418
अनुष्टुप्
पुत्रे वैदेहकाऽम्बष्ठ्योर्वेन नाम्न्येव जीवति ।लङ्घनप्लवनाद्यैः स्यात्तूग्रराज्ञीसुतेऽपि च ॥ ५६३६ ॥
45.5636 · p. 418
अनुष्टुप्
मायासम्मोहनादीनि वृत्तिस्तस्य भवेद्यदि ।केषाञ्चिद्वेणुकारेऽपि वेणस्त्रीपुंसयोर्मतः ॥ ५६३७ ॥
45.5637 · p. 418
अनुष्टुप्
वेणा तु नृ स्त्रियां ज्ञातिनिशामनगतिष्वपि ।चिन्तायामपि वादित्रग्रहणेऽपि सरिद्भिदि ॥ ५६३८ ॥
45.5638 · p. 418
अनुष्टुप्
वेणिः-वेदगर्भः
वेणि (णी) र्व्याधौ केशबन्धे जनन्यां च सरित्यपि ।वेणिर्जलस्रुतौ केशबन्धभेदे लतान्तरे ॥ ५६३९ ॥
45.5639 · p. 419
अनुष्टुप्
देवताडाह्वये मध्ये नद्यादेरपि च स्त्रियाम् ।वेणिस्तु वेणतौ धातौ पुँल्लिङ्गे परिकीर्त्तितः ॥ ५६४० ॥
45.5640 · p. 419
अनुष्टुप्
वेणिका स्त्री मता वेण्यां नरजात्यन्तरे नृभू ।वेणुर्नृपान्तरे त्वक्सारेऽपि वाद्यान्तरे पुमान् ॥ ५६४१ ॥
45.5641 · p. 419
अनुष्टुप्
वेणुकं गजतोत्रे स्याद्वंशवाद्ये तु वेणुका ।स्त्रीपुंसयोर्वेणुकी स्यान्निषादी क्षत्रियोद्भवे ॥ ५६४२ ॥
45.5642 · p. 419
अनुष्टुप्
अथ स्त्री वेणुका स्यादुद्भिद्भेदे विषवत्फले ।सरिद्भेदेऽथ पुंभूम्नि नृजातिभिदि वेणुकाः ॥ ५६४३ ॥
45.5643 · p. 419
अनुष्टुप्
वेणुजो वेणुबीजे स्याद्वेणुजं मरिचे मतम् ।नागभेदे द्वयोः स्त्री तु तृणभिद्वेणुपत्रिका ॥ ५६४४ ॥
45.5644 · p. 419
अनुष्टुप्
ना ज्योतिष्मत्सुते स्त्री वेणुमती सरिदन्तरे ।वेणुबीजे वेणुयवो तथा वेणुयवी स्त्रियाम् ॥ ५६४५ ॥
45.5645 · p. 419
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
वेतस्तु वेत्रे वेता तु वेतने परिकीर्त्तितः ।वेतण्डो द्वे गजे वेतण्डा दुर्गायां प्रकीर्त्तिता ॥ ५६४६ ॥
45.5646 · p. 419
अनुष्टुप्
वेतनं रजते मूल्ये भृतावपि नपुंसकम् ।वेतसी निचुले द्वे स्याद्वेतसं छुरिकान्तरे ॥ ५६४७ ॥
45.5647 · p. 419
अनुष्टुप्
वेतस्वती तु स्त्रीनद्यां त्रिषु स्याद्बहुवेतसे ।वेतालाऽपि च वेताली दुर्गा प्रेतान्तरे तु ना ॥ ५६४८ ॥
45.5648 · p. 419
अनुष्टुप्
वेत्रोऽस्त्री स्तम्बभेदे क्ली यष्टौ वंश्यङ्गभिद्यपि ।वेत्रवत्यापगाभेदे दुर्गा चित्ररथीति या ॥ ५६४९ ॥
45.5649 · p. 419
अनुष्टुप्
तत्र वेत्रासुरस्यापि मातरि स्त्रीत्व इष्यते ।वेत्री तु द्वारपाले द्वे त्रिषु वेत्रवति स्मृतः ॥ ५६५० ॥
45.5650 · p. 419
अनुष्टुप्
वेदः श्रुतौ चतुःसंख्या विष्वोर्वित्ते प्रकीर्त्तितः ।कुशे मुञ्जेऽपि वेदा तु नदीभेदे प्रकीर्त्तिता ॥ ५६५१ ॥
45.5651 · p. 419
अनुष्टुप्
वेदकर्त्ता शिवे विष्णौ सूर्येऽपि च पुमान्मतः ।वेदगर्भो द्वयोर्विप्रे पुमांस्तु ब्रह्मणि स्मृतः ॥ ५६५२ ॥
45.5652 · p. 419
अनुष्टुप्
वेदगर्भा-वेधिनी
वेदगर्भा पुनः स्त्रीत्वे सरस्वत्यां प्रकीर्त्तिता ।वेदनं तु न ना ज्ञाने तथानुभवपीडयोः ॥ ५६५३ ॥
45.5653 · p. 420
अनुष्टुप्
नपुंसकन्तु सत्तायां तथा लाभविचारयोः ।वेदमाता तु गायत्री सावित्री च सरस्वती ॥ ५६५४ ॥
45.5654 · p. 420
अनुष्टुप्
नदीभेदे वेदवती श्रीसीताद्रौपदीषु च ।ऋषौ क्वचिद्वेदशिराः क्लीबं तूपनिषत्स्वपि ॥ ५६५५ ॥
45.5655 · p. 420
अनुष्टुप्
वेदः सान्तं मतं ज्ञाने [नपुंसकमिदम्भवेत्] ।वेदाङ्गं षट्सु शिक्षादिष्वथ सूर्ये पुमान्मतः ॥ ५६५६ ॥
45.5656 · p. 420
अनुष्टुप्
आदित्यानां द्वादशानां तथैव क्वचिदिष्यते ।वेदात्मा तु पुमान्विष्णौ सूर्ये ब्रह्मण्यपीष्यते ॥ ५६५७ ॥
45.5657 · p. 420
अनुष्टुप्
वेदिर्वितर्दौ यागाय परिष्कृतभुवि स्त्रियाम् ।चतुष्कोणाग्निकुण्डेऽग्निकुण्डे वेदयतौ तु ना ॥ ५६५८ ॥
45.5658 · p. 420
अनुष्टुप्
पुमांस्तु पण्डितेऽपि स्या [न्मुद्रायामङ्गुले स्त्रियाम्] ।वेदिकाङ्गुलिमुद्रायां स्त्रीत्वे वेद्यामपीष्यते ॥ ५६५९ ॥
45.5659 · p. 420
अनुष्टुप्
अम्बष्ठायां पुनर्वेदि क्लीबलिङ्गं प्रकीर्त्तितम् ।वेदी तु ब्रह्मणि पुमान्वेदिनी स्त्री सरिद्भिदि ॥ ५६६० ॥
45.5660 · p. 420
अनुष्टुप्
वेद्यं तु वेदैः संबद्धे वेदितव्येऽपि वाच्यवत् ।ज्ञानकार्ये तु वेद्या सा स्त्रीलिङ्गे परिकीर्त्तिता ॥ ५६६१ ॥
45.5661 · p. 420
अनुष्टुप्
वेधश्छेद ग्रहादीनां दर्शने धातुमिश्रणे ।शतत्रुट्यात्मकलवत्र्यंशमाने तथा पुमान् ॥ ५६६२ ॥
45.5662 · p. 420
अनुष्टुप्
वेधा पुनर्मकारे सा स्त्रीलिङ्गे परिकीर्त्तिता ।वेधकं व्यद्धरि त्रि स्यात्क्ली धान्याके च सैन्धवे ॥ ५६६३ ॥
45.5663 · p. 420
अनुष्टुप्
वेधकः पुंसि कर्पूरे चन्दने चाम्लवेतसे ।वेधनं व्यधने स्त्रीत्वास्फोटन्यां वेधनी मता ॥ ५६६४ ॥
45.5664 · p. 420
अनुष्टुप्
वेधमुख्या तु कस्तूर्यां ना तु कर्चूरके भवेत् ।वेधा विदुषि सर्वज्ञे त्रिर्ना देशे हरौ विधौ ॥ ५६६५ ॥
45.5665 · p. 420
अनुष्टुप्
[पर्णद्रुसूर्यधर्मेषु प्रणेतरि तथा पुमान्] ।वेध्यम्लवेतसे वेधिनी तु मेथीजलौकसोः ॥ ५६६६ ॥
45.5666 · p. 420
अनुष्टुप्