All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
उ (1/2)
उ सम्बोधनरोषोक्त्योरनुकम्पानियोगयोः ।पदस्य पूरणे पादपूरणे चाव्ययं स्मृतम् ॥ ६८९ ॥
7.689 · p. 53
अनुष्टुप्
उः पुमानुच्यते विष्णौ शिवेप्योष्ठ्यस्वरे तथा ।उक्ता स्त्र्येकाक्षरच्छन्दस्युक्तं स्याद्भाषिते त्रिषु ॥ ६९० ॥
7.690 · p. 53
अनुष्टुप्
उक्थं-उच्छ्वासः
उक्थं नपुंसकं प्रोक्तं सामस्तोत्रेषु च त्रिषु ।परेष्वग्निष्टोमसाम्न औक्थिक्ये सामलक्षणे ॥ ६९१ ॥
7.691 · p. 54
अनुष्टुप्
शस्त्राख्ययागमन्त्रेषु सामवेदे च साम्नि च ।उक्षा पुंसि बलीवर्दे त्रिषूक्ष्णी महति स्मृता ॥ ६९२ ॥
7.692 · p. 54
अनुष्टुप्
उखः पुंसि स्फिचि परे कर्णपार्श्वेऽप्यधीयते ।ओखीयान्तं च शाखायामृषिभेदे प्रवक्तरि ॥ ६९३ ॥
7.693 · p. 54
अनुष्टुप्
स्त्री तु स्थाल्यामुखा यज्ञविदा मुख्याऽग्निसंभृते ।साधने चतुरस्रे च मृत्पात्रेऽग्निचयोचिते ॥ ६९४ ॥
7.694 · p. 54
अनुष्टुप्
उग्रः शिवे ना द्वे स्वोढशूद्रायां क्षत्रियात्सुते ।विप्रात्सुपे च स्वोढायां शूद्रायामप्यथ स्त्रियाम् ॥ ६९५ ॥
7.695 · p. 54
अनुष्टुप्
उग्रं नपुंसके प्रोक्तं घटिकालवणे तथा ।कालशेये च रौद्रे तु त्रिलिङ्गं परिकीर्त्तितम् ॥ ६९६ ॥
7.696 · p. 54
अनुष्टुप्
उग्रगन्धाऽजमोदायां वचायां छिल्लिकोषधौ ।ना सिते लशुने चीर्णावृन्ताख्यफलवीरुधि ॥ ६९७ ॥
7.697 · p. 54
अनुष्टुप्
उग्रा वचा खराश्वाख्याजमोदाभेदयोर्मता ।उचितन्तु स्वभावे क्ली निश्चिताभ्यस्तयोः पुनः ॥ ६९८ ॥
7.698 · p. 54
अनुष्टुप्
योग्ये चिरानुयाते च त्रिर्युक्तेऽनुमतेपि च ।उच्चयो वस्त्रनीव्यां स्याद्धस्तादाने च चौर्यतः ॥ ६९९ ॥
7.699 · p. 54
अनुष्टुप्
अधःस्थितस्य पुष्पादेरुच्चयः परिकीर्त्तितः ।उच्चलं त्र्युच्चलितरि क्ली चापान्तरचेतसोः ॥ ७०० ॥
7.700 · p. 54
अनुष्टुप्
उच्चिङ्गटस्तृणगडमत्स्ये द्वे कोपने त्रिषु ।उच्चैःश्रवास्तु नेन्द्राश्वे घोटमात्रे तु स द्वयोः ॥ ७०१ ॥
7.701 · p. 54
अनुष्टुप्
उच्चकर्णे तु लिङ्गादिप्रयोज्यमभिधेयवत् ।उच्छीतष्टिट्टिभे द्वे स्यात्स्वप्ने पुंसि प्रकीर्त्तितः ॥ ७०२ ॥
7.702 · p. 54
अनुष्टुप्
उच्छीर्षमुपबर्हे क्ली त्रिषु तूच्छिरसि स्मृतः ।उच्छुनः पुंसि वैशाखे त्रि तूद्गतशुनादिके ॥ ७०३ ॥
7.703 · p. 54
अनुष्टुप्
उच्छ्रितं त्रिषु संजातप्रवृद्धोत्थापितोन्मते ।उच्छ्वास आख्यायिकांशे प्राणनेऽपि पुमानयम् ॥ ७०४ ॥
7.704 · p. 54
अनुष्टुप्
उज्जटः-उत्तरं
उज्जटः शून्यदेशे त्रिस्तूर्ध्वीभूतजटादिषु ।उज्जृम्भितं त्रिषूत्फुल्ले चेष्टायां तु नपुंसकम् ॥ ७०५ ॥
7.705 · p. 55
अनुष्टुप्
उज्ज्वलो दीप्तविशदविकाशिष्वभिधेयवत् ।शृङ्गारे तु रसे प्रोक्तो नित्यं पुँल्लिङ्ग उज्ज्वलः ॥ ७०६ ॥
7.706 · p. 55
अनुष्टुप्
उज्झकः स्नेहशून्ये स्यादुज्झितर्यपि वाच्यवत् ।उटजोऽस्त्री पर्णगृहे गृहमात्रेऽपि कीर्त्तितः ॥ ७०७ ॥
7.707 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
उडुर्विप्रे द्वयोरुक्तो नक्षत्रे नप्स्त्रियोर्भवेत् ।उडुपोऽस्त्री प्लवे प्रोक्तश्चन्द्रे पुंसि प्रकीर्त्तितः ॥ ७०८ ॥
7.708 · p. 55
अनुष्टुप्
उड्डीशो ग्रन्थभेदे स्यात्पुंसि चण्डीपतावपि ।उत्प्रश्ने च वितर्के चाप्यव्ययं परिकीर्त्तितम् ॥ ७०९ ॥
7.709 · p. 55
अनुष्टुप्
उताऽत्यर्थे विकल्पे च तर्के प्रश्ने समुच्चये ।उताहो इति संप्रोक्तं परिप्रश्नविचारयोः ॥ ७१० ॥
7.710 · p. 55
अनुष्टुप्
उत्कटस्तूद्भटे मत्ते तीव्रेऽपि त्रिषु कीर्त्तितः ।उत्कटं तु भेवत्क्लीबं योगिनामासनान्तरे ॥ ७११ ॥
7.711 · p. 55
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भे (wrong syllable)
उद्भटक्षीबयोस्त्वेतदुत्कटं त्रिषु कीर्त्तितम् ।क्लीबमुत्कलिकं चित्ते भवेदुत्कम्पिते त्रिषु ॥ ७१२ ॥
7.712 · p. 55
अनुष्टुप्
कथितोत्कलिकोत्कण्ठाहेलासलिलवीचिषु ।उत्कीर्णः स्यादुल्लिखिते ना पुर्याख्ये जलाशये ॥ ७१३ ॥
7.713 · p. 55
अनुष्टुप्
उत्कृष्टस्तु प्रकृष्टे स्यादूर्ध्वं नीते च वाच्यवत् ।उत्क्षेपणं तूत्थिप्ते स्याद्व्यंजने धान्यमर्दने ॥ ७१४ ॥
7.714 · p. 55
अनुष्टुप्
उत्तंसः कर्णपूरेऽपि शेखरेऽपि च न स्त्रियाम् ।उत्तप्तं शुष्कमांसे क्ली त्रिष्वेतत्तु प्रदीप्तयोः ॥ ७१५ ॥
7.715 · p. 55
अनुष्टुप्
उत्तमस्तिड्विभक्तीनामन्तिमत्रितये त्रि तु ।उत्कृष्टे दुग्धिकायां तु स्त्रियामेवोत्तमा मता ॥ ७१६ ॥
7.716 · p. 55
अनुष्टुप्
उत्तरं प्रतिवाक्ये क्ली ना विराटसुते तथा ।निम्नादुत्तारणेऽथ स्त्री स्नुषायामर्जुनस्य च ॥ ७१७ ॥
7.717 · p. 55
अनुष्टुप्
उत्तराङ्गं-उत्साहा
उदीच्ये तूत्तमे चोर्ध्वे पुरे चैवोत्तरस्त्रिषु ।स्यादुत्तराङ्गं द्वारस्य तिर्यङ्न्यस्तोर्ध्वदारुणि ॥ ७१८ ॥
7.718 · p. 56
अनुष्टुप्
यौगिकेऽर्थेऽस्य लिङ्गादि परिज्ञेयं प्रयोगतः ।उत्तानं त्रिष्वनिम्ने स्यादूर्ध्वीकृतपुरोंऽशके ॥ ७१९ ॥
7.719 · p. 56
अनुष्टुप्
उत्ताल तु त्रिषूत्तान उन्नताच्चण्डयोरपि ।उत्त्रासस्तु भये सप्तदशारत्नेररत्निके ॥ ७२० ॥
7.720 · p. 56
अनुष्टुप्
यूपस्य मूलादारभ्य द्वितीयेऽपि पुमान्मतः ।उत्थानमुद्गमे वास्तौ तन्त्रेहापौरुषेषु च ॥ ७२१ ॥
7.721 · p. 56
अनुष्टुप्
रणेऽङ्गणे च हर्षे च मलरोगे च मुस्तके ।उत्थितं प्रोद्यते जाते वृद्धिमत्यपि वाच्यवत् ॥ ७२२ ॥
7.722 · p. 56
अनुष्टुप्
स्यादुत्पतनमुत्पत्तौ तथोर्ध्वगमनेऽपि च ।उत्पलोऽस्त्री कुवलये क्लीबं कुष्ठाख्यभेषजे ॥ ७२३ ॥
7.723 · p. 56
अनुष्टुप्
उत्पली तुषचर्पट्यां स्त्रियामेषा प्रकीर्त्तिता ।उत्पातः पुंस्यजन्ये स्यात्तथोत्पतनकर्मणि ॥ ७२४ ॥
7.724 · p. 56
अनुष्टुप्
उत्पिबो द्वे चकोराख्यपक्षिण्युत्पातरि त्रिषु ।उत्प्रेक्षाऽनवधानेपि काव्यालङ्करणान्तरे ॥ ७२५ ॥
7.725 · p. 56
अनुष्टुप्
उत्फुल्लं करणे स्त्रीणां त्रिषूत्ताने विकस्वरे ।उत्सो व्योम्न्यम्बुधौ कूपे जलाधारान्तरे पुमान् ॥ ७२६ ॥
7.726 · p. 56
अनुष्टुप्
उत्सङ्गोऽङ्के वाराणस्य पूर्वांघ्रेर्यन्नखात्परम् ।पिण्डिकान्तं विभक्तस्य सप्तधास्य चतुर्थके ॥ ७२७ ॥
7.727 · p. 56
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अधः प्रारभ्य भागे चाग्न्याधानेऽपि प्रकीर्त्तितः ।उत्सर्गः पुंसि सामान्यन्याये च त्यागदानयोः ॥ ७२८ ॥
7.728 · p. 56
अनुष्टुप्
उत्सर्जनं तु दाने च परित्यागेऽपि कीर्त्तितम् ।उत्सवो मह उत्सेकामर्षेच्छाप्रसरेषु च ॥ ७२९ ॥
7.729 · p. 56
अनुष्टुप्
उत्सादना नवोच्छेदोन्नत्योरुद्वर्त्तनेऽपि च ।उत्साहोऽध्यवसाये ना सूत्रे च परिकीर्त्तितः ॥ ७३० ॥
7.730 · p. 56
अनुष्टुप्
उत्साहनाऽङ्कार्थवाद्यघोषे प्रोत्साहने न ना ।उत्साहा तु स्त्रियामारकूटलोहे प्रकीर्त्तिता ॥ ७३१ ॥
7.731 · p. 56
अनुष्टुप्
उत्सृष्टं-उदात्तः
उत्सृष्टं त्रिषु दत्ते च त्यक्तेऽथो देवमारिषे ।मारिषाख्यस्य शाकस्य भेदेप्युत्सृष्ट एष ना ॥ ७३२ ॥
7.732 · p. 57
अनुष्टुप्
उत्सेधो मकरच्छत्रध्वजोष्णीषतनूषु च ।प्रसोमदेववर्गस्य चतुर्थे साम्नि चोन्नतौ ॥ ७३३ ॥
7.733 · p. 57
अनुष्टुप्
उद्विभागे प्रकाशे च प्राबल्यास्वास्थ्यशक्तिषु ।प्राधान्ये बन्धने भावे मोक्षे लाभोर्ध्वकर्मणोः ॥ ७३४ ॥
7.734 · p. 57
अनुष्टुप्
उदक् त्रिषूत्तरे दिग्देशकालविषये मतम् ।उदङ्मुखेऽप्युदीच्ये स्त्री तूदीची यक्षराड्दिशि ॥ ७३५ ॥
7.735 · p. 57
अनुष्टुप्
प्रथमा पञ्चमी सप्तम्यर्थकं त्वेषु वाऽव्ययम् ।उदकं तु भवेत्तोये ह्रीबेरेऽपि नपुंसकम् ॥ ७३६ ॥
7.736 · p. 57
अनुष्टुप्
छन्दोभेदेऽपि तत्प्रोक्तं तथैव द्विशतस्वरे ।उदक्या ऋतुमत्यां स्त्री त्रि स्यादुदकसाधुनि ॥ ७३७ ॥
7.737 · p. 57
अनुष्टुप्
उदकार्हे प्रियाचारशूद्रे तु स्याद्द्वयोरयम् ।उदञ्चस्तु पुमान्वाद्यदण्डे परभृते द्वयोः ॥ ७३८ ॥
7.738 · p. 57
अनुष्टुप्
उदञ्चनं क्ली स्थाल्यादिपिधाने स्यात्तथोद्गमे ।स्त्रीनपुंसकयोस्तूर्ध्वं गमने स्यादुदञ्चना ॥ ७३९ ॥
7.739 · p. 57
अनुष्टुप्
उदन्तः पुंसि साधौ स्याद्वार्त्तायामप्युदीरितः ।उदयस्तूदयाद्रौ स्याद्धनोत्पत्तौ तथोद्गमे ॥ ७४० ॥
7.740 · p. 57
अनुष्टुप्
उन्नतावुपरिस्थेऽपि पूर्वराजान्तरेपि च ।क्ली तूद्गतावुदयनं वत्सेशागस्त्ययोस्तु ना ॥ ७४१ ॥
7.741 · p. 57
अनुष्टुप्
क्लीबं तूदयनीयं यत् यज्ञकर्मान्तरे स्मृतम् ।तद्योगादाहरादिष्वप्ययं शब्दः प्रकीर्त्तितः ॥ ७४२ ॥
7.742 · p. 57
अनुष्टुप्
उदरं तु न ना ज्ञेयं जठरे क्ली तु संयुगे ।भवेदुदरथिः पुंसि समुद्रे च रवावपि ॥ ७४३ ॥
7.743 · p. 57
अनुष्टुप्
उदर्क एष्यत्कालीनफले मदनकण्टके ।अन्तिमेऽवयवे चापि पुमानेष प्रकीर्त्तितः ॥ ७४४ ॥
7.744 · p. 57
अनुष्टुप्
उदर्चिरग्नौ त्रिपुनरुद्गतार्चिषि कीर्त्तितः ।उदात्तो वागलंकारभेदे चोच्चैःस्वरे पुमान् ॥ ७४५ ॥
7.745 · p. 57
अनुष्टुप्
उदानः-उद्धातः
त्रिस्तूच्चैःस्वरयुक्ते स्याद्दयात्यागादिमत्यपि ।उदानस्तूदरावर्त्ते वायुभेदे भुजङ्गमे ॥ ७४६ ॥
7.746 · p. 58
अनुष्टुप्
उदारो दातृमहतोस्त्रिषु दक्षे च विश्रुते ।उदार एष कङ्गौ ना त्रिष्वग्राम्यमहात्मनोः ॥ ७४७ ॥
7.747 · p. 58
अनुष्टुप्
दानशौण्डे तथैतेषु स्त्र्यर्थे वृत्तिर्यदा तदा ।उदारा चाप्युदारी चैतद्रूपद्वयं भवेत् ॥ ७४८ ॥
7.748 · p. 58
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उदास्थितः पुमान्भिक्षुवेषधारिचरे मतः ।शूरान्तरेऽपि द्वाःस्थे तु त्रिलिङ्गः परिकीर्त्तितः ॥ ७४९ ॥
7.749 · p. 58
अनुष्टुप्
उदितं कथितेऽपि स्यादुद्गतेप्यभिधेयवत् ।उदीच्यं त्रिरुदग्जादौ ह्रीबेरे तु नपुंसकम् ॥ ७५० ॥
7.750 · p. 58
अनुष्टुप्
उदुम्बरो जन्तुफले देहल्यां कुष्ठभिद्यपि ।पण्डके तु पुमानेषोऽथ नृभूमन्युदुम्बराः ॥ ७५१ ॥
7.751 · p. 58
अनुष्टुप्
नीवृतः सालसंज्ञस्यावयवे क्षुद्रनीवृति ।उदुम्बरं तु हेमाक्षे क्लीबं ताम्रे च कीर्त्तितम् ॥ ७५२ ॥
7.752 · p. 58
अनुष्टुप्
उदूखलं गुग्गुलौ स्यात्तथा क्लीबमुलूखले ।उदूढं विपुले स्थूल ऊढे चाप्यभिधेयवत् ॥ ७५३ ॥
7.753 · p. 58
अनुष्टुप्
उद्गता विषमे वृत्तविशेषे स्त्री त्रि तूदिते ।भावे क्तप्रत्यये त्वेतदुद्गमे स्यान्नपुंसकम् ॥ ७५४ ॥
7.754 · p. 58
अनुष्टुप्
उद्गातोच्चैर्गातरि त्रि पुमान्स्यादृत्विगन्तरे ।उद्गीथ ऊर्ध्वास्यशुनां विरावे सामजातके ॥ ७५५ ॥
7.755 · p. 58
अनुष्टुप्
द्वितीयभक्तौ साम्नश्च पञ्चधा स्यात्कृतस्य सः ।उद्ग्राहितमुपन्यस्ते त्रिर्बद्धे ग्राहितेपि च ॥ ७५६ ॥
7.756 · p. 58
अनुष्टुप्
उद्घः शस्ते देहपुटे देहवायावगौ तथा ।उद्घनो यत्र निःक्षिप्य काष्ठे काष्ठस्य तत्क्षणम् ॥ ७५७ ॥
7.757 · p. 58
अनुष्टुप्
तत्रोद्गतघनादौ तु त्रिलिङ्गोऽयं प्रकीर्त्तितः ।उद्घातो मुद्गरेऽपि स्यात्कुटुङ्गे समुपक्रमे ॥ ७५८ ॥
7.758 · p. 58
अनुष्टुप्
उद्दण्डपालः-उद्र
प्रदेशे मानभेदे च प्राणायामस्य कालतः ।यस्य लक्षणमित्युक्तं योगशास्त्रविशारदैः ॥ ७६० ॥
7.760 · p. 59
अनुष्टुप्
चोटिकान्त्रिः परामृश्य जानुस्फोटक्रियाऽथ ताः ।षट्त्रिंशन्मन्द उद्घातो द्विगुणत्रिगुणैः पुनः ॥ ७६१ ॥
7.761 · p. 59
अनुष्टुप्
मध्यमश्चोत्तमश्चैव प्रथमो द्वादशैव वा ।उद्दण्डपालो न क्ली स्यात्सर्पमत्स्यप्रभेदयोः ॥ ७६२ ॥
7.762 · p. 59
अनुष्टुप्
उद्दन्तुरस्त्रिषूत्तुङ्गे करालोत्कटदन्तयोः ।उद्दामो वरुणेनाऽथ त्रिरबद्धे विशृङ्खले ॥ ७६३ ॥
7.763 · p. 59
अनुष्टुप्
उद्दालस्तु भवेद्वृक्षे श्लेष्मातक इति श्रुते ।उन्नते मुकुलाकारे मत्स्यग्रहणसाधने ॥ ७६४ ॥
7.764 · p. 59
अनुष्टुप्
स्यादुद्धननमुत्खातौ क्लीबं स्त्रीशण्डयोः पुनः ।स्फ्यनामधेये कुद्दाले भवेदुद्धननीत्यसौ ॥ ७६५ ॥
7.765 · p. 59
अनुष्टुप्
स्यादुद्धरणमुद्वारे वान्ताऽन्नेप्यशितोज्झिते ।उत्पाटनक्रियायां च नपुंसकमिदं मतम् ॥ ७६६ ॥
7.766 · p. 59
अनुष्टुप्
उद्धर्षस्तु महे पुंसि त्रिषु तूत्कटहर्षके ।उद्धानमुद्गते त्रि स्यात् क्ली चुल्ल्यामुद्गमेपि च ॥ ७६७ ॥
7.767 · p. 59
अनुष्टुप्
उद्धार उद्धतावुक्त ऋणे चावृद्धिके पुमान् ।उद्धृतं स्यात्त्रिषूत्क्षिप्ते परिभुक्तोज्झितेपि च ॥ ७६८ ॥
7.768 · p. 59
अनुष्टुप्
उद्बन्धः खनकाज्जाते क्षत्रियायां द्वयोर्मतः ।उल्लम्बने ना तर्वादेर्विशेषाद्बन्धकारणे ॥ ७६९ ॥
7.769 · p. 59
अनुष्टुप्
उद्बुद्धस्तु भवेत्फुल्ले प्रबुद्धेऽप्यभिधेयवत् ।उद्भित्तु सामभेदे क्ली स्यादुद्भिज्जे तु स त्रिषु ॥ ७७० ॥
7.770 · p. 59
अनुष्टुप्
एकाहक्रतुभेदे तु पुमानुद्भित्प्रकार्त्तितः ।उद्भिदं कूप्यलवणे क्लीबं ना तु जलोद्गमे ॥ ७७१ ॥
7.771 · p. 59
अनुष्टुप्
कूपादेस्त्रिषु तूद्भिज्जे तरुगुल्मादिवस्तुनि ।उद्यानं संग्रहोद्गत्योर्वनभेदे प्रयोजने ॥ ७७२ ॥
7.772 · p. 59
अनुष्टुप्
तथा निस्सरणेत्येतन्नपुंसकमुदीरितम् ।उद्र उद्री जले तौ द्वे ऋषिभेदे तु पुंस्ययम् ॥ ७७३ ॥
7.773 · p. 59
अनुष्टुप्
उद्वर्त्तनं-उपकार्या
उद्वर्त्तनं न नाऽङ्गस्य मलोन्मर्दनकर्मणि ।उद्वृत्तिहेतुव्यापारे क्लीबे तद्वृत्तिवाचकम् ॥ ७७४ ॥
7.774 · p. 60
अनुष्टुप्
उद्वान्तो निर्मदगजे पुमानुच्छर्दिते त्रिषु ।उद्वासना वधेऽन्यत्र न्यासेऽन्यत्र स्थितस्य च ॥ ७७५ ॥
7.775 · p. 60
अनुष्टुप्
आवाहितस्य देवादेरुत्सर्जनविधावपि ।उद्वाह ऊर्ध्ववहने विवाहे तनये पुमान् ॥ ७७६ ॥
7.776 · p. 60
अनुष्टुप्
उद्वाहनं प्रणीते स्याद्रज्ज्वामुद्वाहनी मता ।उद्वेगं क्ली पूगफले पुमानुद्वेजने भवेत् ॥ ७७७ ॥
7.777 · p. 60
अनुष्टुप्
त्रिषु तूद्गतवेगादावुद्वेगः परिकीर्त्तितः ।उन्नं स्यात्सुरते क्लीबं त्रिषु क्लिन्ने प्रकीर्त्तितम् ॥ ७७८ ॥
7.778 · p. 60
अनुष्टुप्
उन्निद्रस्तु भवेत्फुल्ले निद्राहीने च वाच्यवत् ।उन्नेतो हितरि त्र्युन्नायेना … त्विगन्तरे ॥ ७७९ ॥
7.779 · p. 60
अनुष्टुप्metre not read in every line
उन्मत्तः पुंसि धत्तूरमुचुकुन्दाख्यवृक्षयोः ।फले तु क्लीबमनयोस्त्रि तून्मादवति स्मृतः ॥ ७८० ॥
7.780 · p. 60
अनुष्टुप्
उन्मदस्तु पुमाञ्छूर्पे कच्छपे तु द्वयोरयम् ।उन्माथः पुंसि हिंसायां कूटयन्त्रे च कीर्त्तितः ॥ ७८१ ॥
7.781 · p. 60
अनुष्टुप्
उन्मार्गे च ध्रुवे चायं त्रिलिङ्गः परिकीर्त्तितः ।स्यादुन्मिषितमुन्मेषे त्रिस्तु सोन्मेषफुल्लयोः ॥ ७८२ ॥
7.782 · p. 60
अनुष्टुप्
उन्मीलनं स्यादुन्मेषे विकासे कुसुमस्य च ।उन्मीलितं त्रि सोन्मेषे फुल्ले चोन्मीलने तु नप् ॥ ७८३ ॥
7.783 · p. 60
अनुष्टुप्
उप स्यादधिकाऽर्थे च हीनार्थासन्नयोरपि ।उपकण्ठन्तु सामीप्यगुणे चास्कन्दिताभिधे ॥ ७८४ ॥
7.784 · p. 60
अनुष्टुप्
अश्वस्य गतिभेदेऽथ त्रि तद्वति समीपगे ।उपकारस्तूपकृतौ विकीर्णकुसुमादिषु ॥ ७८५ ॥
7.785 · p. 60
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
त्रिषूपकारकः प्रोक्तः उपकारस्य कर्त्तरि ।स्त्री तूपकारिका राजाऽऽवासे पिष्टान्तरेपि च ॥ ७८६ ॥
7.786 · p. 60
अनुष्टुप्
उपकार्या राजसद्मन्युपकारोचितेऽन्यवत् ।स्मृतोपकुञ्चिका सूक्ष्मैलायां कृष्णे च जीरके ॥ ७८७ ॥
7.787 · p. 60
अनुष्टुप्
उपकमः-उपनाहः
ना तूपकुर्वाणो ब्रह्मचारिभेदे त्रि यौगिके ।उपक्रमश्चिकित्सायामुपधारम्भयोरपि ॥ ७८८ ॥
7.788 · p. 61
अनुष्टुप्
उपायपूर्वेऽप्यारम्भे शरेपि परिकीर्त्तितः ।अङ्गीकृतावुपगमः समीपगमनेपि च ॥ ७८९ ॥
7.789 · p. 61
अनुष्टुप्
उपग्रहः पुमान्वन्द्यां ग्रहणेऽप्यनुकूलने ।स्यात्परस्मैपदेऽप्येष आत्मनेपद एव च ॥ ७९० ॥
7.790 · p. 61
अनुष्टुप्
उपग्राह्यमुपादेये त्रि क्लीबं प्राभृते मतम् ।उपचर्या चिकित्सायां पूजायां च स्त्रियां मता ॥ ७९१ ॥
7.791 · p. 61
अनुष्टुप्
उपचार उपास्तौ च प्राभृतेऽपि पुमान्मतः ।विसर्जनीयस्य स्थाने सकारो यश्च तत्र च ॥ ७९२ ॥
7.792 · p. 61
अनुष्टुप्
भवेदुपचितं दग्धे समृद्धेऽपि तथा त्रिषु ।उपचित्रा पृश्निपर्ण्यां न्यग्रोधीसंज्ञगुल्मके ॥ ७९३ ॥
7.793 · p. 61
अनुष्टुप्
स्त्रीलिङ्गे नागदन्त्यां च योगार्थे त्वभिधेयवत् ।स्मृतोपजिह्विका वम्य्रां जिह्वारोगान्तरेऽपि च ॥ ७९४ ॥
7.794 · p. 61
अनुष्टुप्
उपतापो रोगतापत्वरासु परिकीर्त्तितः ।उपदंशो विदंशे च मेढ्ररोगान्तरेपि च ॥ ७९५ ॥
7.795 · p. 61
अनुष्टुप्
उपद्रवश्चतुर्थ्यां सामभक्तावप्युद्रुतौ ।मुख्यरोगानुगे रोगे उत्पाते च त्रिषु त्वयम् ॥ ७९६ ॥
7.796 · p. 61
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उपयाते द्रवं क्ली तु द्रवस्य स्यात्समीपगे ।उपधाऽन्त्यादलः पूर्ववर्णे च सुपरीक्षणे ॥ ७९७ ॥
7.797 · p. 61
अनुष्टुप्
उपधानक्रियायां च छन्दनायामपि स्त्रियाम् ।उपधानमुपष्टम्भ उपष्टम्भनसाधने ॥ ७९८ ॥
7.798 · p. 61
अनुष्टुप्
उच्छीर्षकाख्यगण्डौ च प्रणये च विषे तथा ।उपधिः स्याद्रथस्याङ्ग औषधेयाभिधे पुमान् ॥ ७९९ ॥
7.799 · p. 61
अनुष्टुप्
उपधानक्रियायां च व्याजे चाऽयं प्रकीर्त्तितः ।उपधूपित आसन्नमरणे त्रि च धूपिते ॥ ८०० ॥
7.800 · p. 61
अनुष्टुप्
उपनाहस्तु वैरानुबन्धे वीणानिबन्धने ।पद्मलोचनसन्धिस्थरागभेदे च कीर्त्तितः ॥ ८०१ ॥
7.801 · p. 61
अनुष्टुप्
उपनिधिः-उपशयः
व्रणादेर्भेषजे बीजेऽप्ययं पुंसि प्रकीर्त्तितः ।पुमानुपनिधिर्न्यासे धने च त्रि तु यौगिके ॥ ८०२ ॥
7.802 · p. 62
अनुष्टुप्
पूये तनौ तथा साम्नोर्यद्गानं यज्ञकर्मणि ।तत्र चोपनिमन्त्रेपि नप् स्त्री चोपनिबन्धना ॥ ८०३ ॥
7.803 · p. 62
अनुष्टुप्
रहस्यार्थे तूपनिषद्धर्मवेदान्तयोः स्त्रियाम् ।रहसीत्यपरे प्राहुः प्रथमर्त्तौ च योषिताम् ॥ ८०४ ॥
7.804 · p. 62
अनुष्टुप्
उपप्लवो विप्लवे चोपरागोत्पातराहुषु ।अथोपमानमौपम्ये सादृश्यविषयिण्यपि ॥ ८०५ ॥
7.805 · p. 62
अनुष्टुप्
अथोपयमनं प्रोक्तं विवाहे स्वीकृतावपि ।उपरः पुंसि मेद्ये स्यादुपरा तु दिशि स्त्रियाम् ॥ ८०६ ॥
7.806 · p. 62
अनुष्टुप्
यूपस्य त्वक्षते मूल उपरं स्यान्नपुंसकम् ।उपरक्तो भवेत्पुंसि राहुग्रस्ते तु सूर्ययोः ॥ ८०७ ॥
7.807 · p. 62
अनुष्टुप्
त्रि पुनर्व्यसनार्त्ते च जपापुष्पादिवस्तुनः ।प्रभोपरञ्जिते द्रव्ये स्फटिकादौ च कीर्त्तितः ॥ ८०८ ॥
7.808 · p. 62
अनुष्टुप्