कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ब

बः पुमान्वरुणे सिन्धौ भगे तोपे गतेऽपि च ।गन्धने तन्तुसन्ताने पुंस्येव वपने स्मृतः ॥ ३८१५ ॥
39.3815 · p. 283
अनुष्टुप्
बकस्तु ना दाल्भ्यमुनावेकचक्रेश्वरेऽसुरे ।बकपुष्पद्रुमे तद्वत्कुबेरेऽपि प्रकीर्त्तितः ॥ ३८१६ ॥
39.3816 · p. 283
अनुष्टुप्

बकः-बन्धूकः

द्वे तु पक्षिणि कह्वाख्ये पुल्कसीक्षत्रजेऽपि च ।बको रुक्मवलाकाभिद्वातावर्जितशाखयोः ॥ ३८१७ ॥
39.3817 · p. 284
अनुष्टुप्
बडिशं त्वध्यमानस्य भेदेऽपि स्यान्नपुंसकम् ।मत्स्यवेधनयन्त्रे च विरज्जौ परिकीर्त्तितम् ॥ ३८१८ ॥
39.3818 · p. 284
अनुष्टुप्
बण्ठरः स्थगिकारज्जौ लाङ्गले कुक्कुरस्य च ।करीरकोषे तालस्य पल्लवे च पयोधरे ॥ ३८१९ ॥
39.3819 · p. 284
अनुष्टुप्
बदरी कुवलीवृक्षेऽजगन्धास्तम्बके स्त्रियाम् ।ईश्वरस्थानभेदेऽथ कार्पास्यां बदरा तथा ॥ ३८२० ॥
39.3820 · p. 284
अनुष्टुप्
विष्वक्सेनप्रिया संज्ञभेषजे बदरं तु नप् ।उक्तं पूर्वस्थावराणाम्प्रसवे परिकीर्त्तितम् ॥ ३८२१ ॥
39.3821 · p. 284
अनुष्टुप्
अथ बद्धशिखा स्त्री स्यादुच्चटायां शिशौ त्रिषु ।बधिः श्येने च काके च नृस्त्रियोः परिकीर्त्तितः ॥ ३८२२ ॥
39.3822 · p. 284
अनुष्टुप्
बन्दनी नतिजीवातुकुटीयाचनकर्मसु ।बन्दा वन्द्याञ्च भिक्षुक्यां लताभेदेऽपि च स्त्रियाम् ॥ ३८२३ ॥
39.3823 · p. 284
अनुष्टुप्
बन्धः सीसाख्यलोहेऽपि पुमानाधौ च बन्धने ।स्याद्बन्धकी स्त्री कुलटाऽनाप्तसत्कृतिवेश्ययोः ॥ ३८२४ ॥
39.3824 · p. 284
अनुष्टुप्
करिण्यामप्यथाऽऽधौ तु बन्धकं त्रिषु बन्द्धरि ।बन्धनं क्ली संयमने त्रि तु बन्धस्य साधने ॥ ३८२५ ॥
39.3825 · p. 284
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सं (wrong syllable)
पशुबन्धनरज्जौ तु बन्धनी स्त्री प्रकीर्त्तिता ।बन्धुः स्वरे ना स्वजने तुर्ये राशौ च लग्नतः ॥ ३८२६ ॥
39.3826 · p. 284
अनुष्टुप्
अथ बन्धुरधिक्षेप्ये वाच्यवत्परिकीर्त्तितः ।बन्धुजीवस्तु बन्धूके क्ली तत्पुष्पे प्रकीर्त्तितम् ॥ ३८२७ ॥
39.3827 · p. 284
अनुष्टुप्
योगार्थे त्वस्य लिङ्गादि तर्कणीयं यथायथम् ।बन्धुरस्तु द्वयोर्हंसे बन्धूके न स्त्रियामयम् ॥ ३८२८ ॥
39.3828 · p. 284
अनुष्टुप्
त्रिलिङ्गः सुन्दरे नम्रे तथा स्यादुन्नतानते ।बन्धुरं मुकुटे पुंसि स्त्रीचिह्ने तैलकल्कयोः ॥ ३८२९ ॥
39.3829 · p. 284
अनुष्टुप्
बन्धूके वधिरे हंसे त्रिषु स्याद्रम्पनम्रयोः ।बन्धूको बन्धुजीवाख्यपुष्पगुल्मेऽसनद्रुमे ॥ ३८३० ॥
39.3830 · p. 284
अनुष्टुप्

बन्धूकम्-बलिः

नपुंसकं तु बन्धूकमनयोः प्रसवे मतम् ।बन्धूरा पण्ययोषायां स्त्रियां पुंभूम्नि शत्रुषु ॥ ३८३१ ॥
39.3831 · p. 285
अनुष्टुप्
बभ्रुर्ना केशवे पूर्वराजभेदर्षिभेदयोः ।आनौ कडारवृषभे धने वर्णे च पिङ्गले ॥ ३८३२ ॥
39.3832 · p. 285
अनुष्टुप्
त्रि तु तद्वति खल्वाटे द्वे त्वोते नकुलेऽपि च ।स्त्रियां तु बभ्रुरित्येषा कपिलायां गवि स्मृता ॥ ३८३३ ॥
39.3833 · p. 285
अनुष्टुप्
बरटा द्वयोर्वरट्यां स्त्री हंस्यां च तत्पतौ पुमान् ।बरण्डोऽप्यन्तरे वेदीसमूहमुखरागयोः ॥ ३८३४ ॥
39.3834 · p. 285
अनुष्टुप्metre not read in every line
बरण्डकस्तु मातङ्गवेद्यां यौवनकण्टके ।बराटकः पद्मबीजकोषे रज्जौ कपर्दके ॥ ३८३५ ॥
39.3835 · p. 285
अनुष्टुप्
बर्पटी व्रीहिभेदे च तथा पण्यस्त्रियां मता ।बर्बरो बर्बरी म्लेच्छजातिभेदे द्वयोर्भवेत् ॥ ३८३६ ॥
39.3836 · p. 285
अनुष्टुप्
बर्बरा त्वजगन्धायां भार्ग्यां चापि स्त्रियां मता ।बर्हं मयूरपिच्छेऽपि वृक्षपत्रे नपुंसकम् ॥ ३८३७ ॥
39.3837 · p. 285
अनुष्टुप्
बर्हिणं भारतद्वीपान्तरे केकिनि तु द्वयोः ।बर्हिः कुशेक्षुखे यज्ञे क्ली महत्यनले तु ना ॥ ३८३८ ॥
39.3838 · p. 285
अनुष्टुप्
बलोऽस्त्र्यस्थनि रूपे च शक्तिरेतश्चमूष्वपि ।स्थौल्येऽथ ना यावकाख्ययवे चापि हलायुधे ॥ ३८३९ ॥
39.3839 · p. 285
अनुष्टुप्
दैत्यान्तरेऽथ बलिनि त्रिः स्त्री वाट्यालके बला ।पिप्पल्याञ्च द्विलिङ्गस्तु बलः काके प्रकीर्त्तितः ॥ ३८४० ॥
39.3840 · p. 285
अनुष्टुप्
बलजं गोपुरक्षेत्रे शस्यसङ्गरयोरपि ।बणिज्यायां पुमान् बाणिज्यके च करणान्तरे ॥ ३८४१ ॥
39.3841 · p. 285
अनुष्टुप्
बलदेवो बले वाते त्रायमाणौषधौ स्त्रियाम् ।वलभद्रा त्रायमाणाकुमार्योः पुंसि सीरिणि ॥ ३८४२ ॥
39.3842 · p. 285
अनुष्टुप्
बलाहको गिरौ मेघे दैत्यनागविशेषयोः ।बलिः पूजोपहारे ना भागधेये नृपस्य च ॥ ३८४३ ॥
39.3843 · p. 285
अनुष्टुप्
प्राणनार्थकधातौ च दैत्यभेदेऽपि कीर्त्तितः ।देवतार्चनतूर्ये तु नृस्त्रियोर्बलिरिष्यते ॥ ३८४४ ॥
39.3844 · p. 285
अनुष्टुप्

बलिः-बाणः

बलिर्दैत्यप्रभेदे ना करचामरदण्डयोः ।उपहारे पुमान्स्त्री तु जरयाश्लथचर्मणि ॥ ३८४५ ॥
39.3845 · p. 286
अनुष्टुप्
गृहदारुप्रभेदे च जठरावयवेऽपि च ।बली माषे नालिकेरे शोणाम्लाने च मज्ज्ञि च ॥ ३८४६ ॥
39.3846 · p. 286
अनुष्टुप्
षष्ठे शरीरधातूनां कारवेल्लान्तरेऽपि च ।बृहत्कर्कोटकाख्ये ना बलयुक्ते तु स त्रिषु ॥ ३८४७ ॥
39.3847 · p. 286
अनुष्टुप्
बलिपुष्टीर्द्वयोः काके योगार्थे तु यथायथम् ।बलिभुक्तु द्वयोः काके बलिभोक्तरि तु त्रिषु ॥ ३८४८ ॥
39.3848 · p. 286
अनुष्टुप्
बलीका विसकण्ठ्यां च बन्धकीकुलटार्थयोः ।बलूरस्तु पले पुंसि स्तने चाथ झषे द्वयोः ॥ ३८४९ ॥
39.3849 · p. 286
अनुष्टुप्
बल्यं प्रधानधातौ स्यात्क्लीबं बलकरे त्रिषु ।बहलं पुष्कले सान्द्रे भेद्यवत्परिकीर्त्तितम् ॥ ३८५० ॥
39.3850 · p. 286
अनुष्टुप्
बहिष्ठन्तु महिष्ठे त्रि ह्रीबेरे तु नपुंसकम् ।बहुर्व्रतान्तहोमाग्नौ भेद्यलिङ्गं तु वाच्ययोः ॥ ३८५१ ॥
39.3851 · p. 286
अनुष्टुप्
त्रित्वादिसंख्यासंख्येये महाऽर्थेऽप्यत्र च स्त्रियाम् ।यदावृत्तिस्तदा बह्वी बहुरित्यपि वा द्वयम् ॥ ३८५२ ॥
39.3852 · p. 286
अनुष्टुप्
बहुप्रजो द्वे वराहे योगार्थे तु यथायथम् ।भवेद्बहुफलो नीपे क्ष्मामलक्यां तु योषिति ॥ ३८५३ ॥
39.3853 · p. 286
अनुष्टुप्
बहुरूपः शिवे विष्णौ धूनके सरटे स्मरे ।बहुलस्तु पुमानग्नौ कृष्णपक्षे च नीपके ॥ ३८५४ ॥
39.3854 · p. 286
अनुष्टुप्
त्रिस्तु कृष्णे प्रभूते च कृत्तिकाकालजातके ।अथ स्त्री बहुला श्वेताभूम्येलासुरभीषु च ॥ ३८५५ ॥
39.3855 · p. 286
अनुष्टुप्
स्त्री भूम्नि कृत्तिकास्वेता रोदस्योर्बहुले इति ।बहुलीकृतमेतत्त्रिः पूतधान्येऽपि विस्तृते ॥ ३८५६ ॥
39.3856 · p. 286
अनुष्टुप्
शतावर्यां बहुसुता योगार्थे तु यथायथम् ।बाढस्त्रिषु भृशार्थे स्याद्बाढं त्वनुमतावपि ॥ ३८५७ ॥
39.3857 · p. 286
अनुष्टुप्
अवश्यमर्थे च तथा प्रतिज्ञायां नपुंसकम् ।बाणोऽसुरे बलिसुते तथेक्ष्वाकुमहीभृतः ॥ ३८५८ ॥
39.3858 · p. 286
अनुष्टुप्

बाणिजकः-बालेयः

प्रपौत्रे वृक्षभेदे च ककुभाख्ये पुमान्मतः ।द्वयो बणिग्नीलझिण्ट्यामस्त्रियां शरतद्भिदोः ॥ ३८५९ ॥
39.3859 · p. 287
अनुष्टुप्
भवेद्बाणिजकः पुंसि बडवान्ते वणिज्यपि ।बाणी सरस्वती देव्यां वाचि स्यूतावपि स्त्रियाम् ॥ ३८६० ॥
39.3860 · p. 287
अनुष्टुप्
बाधः क्षुद्रफले पूगे बले चापि पुमान्मतः ।द्वयोस्तु बाधा दुःखे च निषेधे च प्रकीर्त्तिता ॥ ३८६१ ॥
39.3861 · p. 287
अनुष्टुप्
बान्धवो ज्ञातिसुहृदोर्द्वे त्रि स्याद्बन्धुयोगिनि ।बाभ्रवी गिरिजायां स्त्री बभ्रुवंश्ये द्वयोर्भवेत् ॥ ३८६२ ॥
39.3862 · p. 287
अनुष्टुप्
बभ्रुसम्बन्धिनि त्रि स्यान्न स्त्री दृक्कर्णयोर्मले ।गणिस्थराजे पुँल्लिङ्गो बाभ्रवः परिकीर्त्तितः ॥ ३८६३ ॥
39.3863 · p. 287
अनुष्टुप्
बारकी शत्रुचित्राश्वपर्णी जीवपयोधिषु ।बारुण्डी द्वारपिण्ड्यां स्त्रो फणिनां राजके पुमान् ॥ ३८६४ ॥
39.3864 · p. 287
अनुष्टुप्
न स्त्रियां सेकपात्रे च मलेऽक्ष्णः श्रवणस्य च ।बार्दरस्तु पुमान्मेलनन्दायां दिवसे तु नप् ॥ ३८६५ ॥
39.3865 · p. 287
अनुष्टुप्
बार्हतं बृहतीच्छन्दस्यपि स्याद्बृहतीफले ।बृहत्या बृहतश्चापि सम्बन्धिन्यभिधेयवत् ॥ ३८६६ ॥
39.3866 · p. 287
अनुष्टुप्
बालः शिशौ च मूर्खे च वाच्यवत्परिकीर्त्तितः ।बालस्तु नालिकेरे ना पञ्चवर्षगजे द्वयोः ॥ ३८६७ ॥
39.3867 · p. 287
अनुष्टुप्
बाला तु मल्लिकाभेदे हरिद्रायामपि स्त्रियाम् ।बालकस्तु पुमान्कृष्णशालौ त्रिस्त्वतिबालिशे ॥ ३८६८ ॥
39.3868 · p. 287
अनुष्टुप्
बालकस्तु शिशावज्ञे बालधौ हयहस्तिनोः ।अङ्गुलीयकह्रीबेरवलये पुंसि बालिका ॥ ३८६९ ॥
39.3869 · p. 287
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
बालायां बालुकापत्रकाहलाकर्णभूषणे ।बालवत्सो बालपुत्रयुते त्रिष्वथ च द्वयोः ॥ ३८७० ॥
39.3870 · p. 287
अनुष्टुप्
पारावताख्यादन्यस्मिन्कपोताख्यविहङ्गमे ।बालिशस्तु भवेन्मूर्खे तथा बालेऽभिधेयवत् ॥ ३८७१ ॥
39.3871 · p. 287
अनुष्टुप्
बालुका सिकतासु स्याद्बालुकं त्वेलबालुके ।बालेयो गर्दभे दैत्येऽपि द्वयोः परिकीर्त्तितः ॥ ३८७२ ॥
39.3872 · p. 287
अनुष्टुप्

बाष्पः-बिम्बः

मृदौ बलिहिते चापि खलेऽपि त्रिषु कीर्त्तितः ।बाष्पस्तु धूमाभासे ना मुखतोयादिजेऽश्रुणि ॥ ३८७३ ॥
39.3873 · p. 288
अनुष्टुप्
शाकभेदे च बाष्पी तु हिङ्गुपत्र्याख्यभेषजे ।बाहा प्रवाहणे नृस्त्री स्त्रियां बाहौ प्रकीर्त्तिता ॥ ३८७४ ॥
39.3874 · p. 288
अनुष्टुप्
बाहुः पुरुषभेदे ना द्वयोस्त्वेष भुजे मतः ।षट्त्रिंशदङ्गुलेऽप्येष स्यात्प्रमाणान्तरे तथा ॥ ३८७५ ॥
39.3875 · p. 288
अनुष्टुप्
गृहादिद्वारपार्श्वस्थयाज्ञिकख्यातदारुषु ।बाहुकः कर्कटे चार्के दात्यूहे जलखातके ॥ ३८७६ ॥
39.3876 · p. 288
अनुष्टुप्
बाहुजस्तु द्वयोः कीरे क्षत्रिये च प्रकीर्त्तितः ।स्वयंजाततिले पुंसि बाहुजाते तु वाच्यवत् ॥ ३८७७ ॥
39.3877 · p. 288
अनुष्टुप्
बाहुदा स्त्री नदीभेदे बाहोर्दातरि तु त्रिषु ।अनयोर्बहुदस्यापि त्रि सम्बन्धिनि बाहुदी ॥ ३८७८ ॥
39.3878 · p. 288
अनुष्टुप्
बाहुलः कार्त्तिके पुंसि बाहुत्राणे तु बाहुलम् ।स्याद्बाहुलं तु बहुलसम्बन्धिन्यभिधेयवत् ॥ ३८७९ ॥
39.3879 · p. 288
अनुष्टुप्
बाहुलेयः पुमान्स्कन्दे द्वयोस्तु बहुलासुते ।बाह्यं स्वकल्पिते नृत्ते क्लीबं त्रिस्तु बहिर्भवे ॥ ३८८० ॥
39.3880 · p. 288
अनुष्टुप्
बाह्लवन्तु क्लीबलिङ्गं हिङ्गुकुङ्कुमयोर्मतम् ।बाह्लिकं क्ली कुसुम्भेऽपि हिङ्गुकुङ्कुमयोरपि ॥ ३८८१ ॥
39.3881 · p. 288
अनुष्टुप्
पुंभूम्नि देशभेदेपि द्वयोस्तद्देशजन्तुषु ।विशेषाद्वाल्हिकाऽश्वेषु बाल्हीकं तत्समार्थकम् ॥ ३८८२ ॥
39.3882 · p. 288
अनुष्टुप्
बिदलः पाटिते काष्ठे वेण्वादीनां दलेऽपि च ।द्विधाकृते मुद्गादावस्त्रियां परिकीर्त्तितः ॥ ३८८३ ॥
39.3883 · p. 288
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ते (syllables merged)
भ्रुवोर्मध्ये बिदुर्दन्तक्षतभेदे पुमान्मतः ।वेदितर्यन्यलिङ्गः स्यात् स्वकार्यप्रकृतौ पुमान् ॥ ३८८४ ॥
39.3884 · p. 288
अनुष्टुप्
बिन्दुर्विप्रुषि पश्वादिशरीरस्थपृषत्सु ना ।लवे चावयवे नश्यत्प्रजयोषिति तु द्वयोः ॥ ३८८५ ॥
39.3885 · p. 288
अनुष्टुप्
बिन्दुलस्तु भवेदम्बुवेतसे वेतसेऽपि च ।बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु ॥ ३८८६ ॥
39.3886 · p. 288
अनुष्टुप्

बिम्बः-बुधानः

प्रतिबिम्बे तत्प्रकृतौ समानत्वोपधानयोः ।आदर्शे स्त्री तु बिम्बोष्ठीलतायां क्ली तु तत्फले ॥ ३८८७ ॥
39.3887 · p. 289
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
बिम्बस्तु कृकलासे स्यान्नानावर्णक्षमे द्वयोः ।बिम्बिसारकमित्युक्तं चापभेदे नपुंसकम् ॥ ३८८८ ॥
39.3888 · p. 289
अनुष्टुप्
बाणभेदे तु विज्ञेयो ना द्वापञ्चाशदङ्गुले ।बिलं छिद्रे गुहायाञ्च पुमानुच्चैःश्रवोहये ॥ ३८८९ ॥
39.3889 · p. 289
अनुष्टुप्
बिलेशयो द्वे नकुले मूषिके भुजगेऽपि च ।बिलेशया तु गोधायामियं स्त्रीत्वे प्रकीर्त्तिता ॥ ३८९० ॥
39.3890 · p. 289
अनुष्टुप्
बिल्वः पादपभेदे ना श्रीफलाख्ये प्रकीर्त्तितः ।क्लीबन्तु तत्फले विम्बमानेऽपि फलनामनि ॥ ३८९१ ॥
39.3891 · p. 289
अनुष्टुप्
बिसखण्डं रक्तपद्मे योगार्थे तु यथायथम् ।बीजमन्नेऽप्यपत्ये च रेतस्यङ्कुरकारणे ॥ ३८९२ ॥
39.3892 · p. 289
अनुष्टुप्
फलास्थनि च हेतौ च नपुंसकमुदीरितम् ।बीजपुष्पं मरुबके तथा मदनकेऽपि च ॥ ३८९३ ॥
39.3893 · p. 289
अनुष्टुप्
बीजी बीजवति त्रि स्यात्पुमांस्तु पितरि स्मृतः ।बीज्यो धान्ये यावशूकाख्ययवक्षारभिद्यपि ॥ ३८९४ ॥
39.3894 · p. 289
अनुष्टुप्
बीभत्सस्तु पुमान्पापे काव्यस्थे च रसान्तरे ।बुकस्तु शिवमल्ल्यां ना मूषायां तु बुका स्त्रियाम् ॥ ३८९५ ॥
39.3895 · p. 289
अनुष्टुप्
बुक्कणो वावदूके त्रिः शुनि द्वे ना नृपान्तरे ।बुद्धो ना सुगतेऽथ त्रिः पण्डिते ज्ञातरि स्मृतः ॥ ३८९६ ॥
39.3896 · p. 289
अनुष्टुप्
ज्ञायमाने च फुल्ले च बोधने तु नपुंसकम् ।बुद्धिमान्राजभृङ्गाख्ये स्याद्धम्याटान्तरे द्वयोः ॥ ३८९७ ॥
39.3897 · p. 289
अनुष्टुप्
वाच्यवद्बुद्धिमानेष बुद्धियुक्ते प्रकीर्त्तितः ।बुद्बुदोऽपां विकारे ना नेत्ररोगे त्रि तद्वति ॥ ३८९८ ॥
39.3898 · p. 289
अनुष्टुप्
बुधः सुरे द्वयोर्ना तु बुधश्चान्द्रमसायनौ ।विद्वद्वोद्ध्रोस्त्रिषु बुधो बुद्धौ तु स्यात्स्त्रियां बुधा ॥ ३८९९ ॥
39.3899 · p. 289
अनुष्टुप्
मुण्डीसंज्ञतृणस्तम्बे बृद्धिसंज्ञे च भेषजे ।बुधानस्तु गुरौ पुंसि विज्ञे स्यादभिधेयवत् ॥ ३९०० ॥
39.3900 · p. 289
अनुष्टुप्

बुध्नः-बोधिः

बुध्नः प्रजापतौ रुद्रे पृष्ठान्ते स्वर्गतुण्डयोः ।वृक्षादेरप्यवाग्भागे पुँल्लिङ्गः परिकीर्त्तितः ॥ ३९०१ ॥
39.3901 · p. 290
अनुष्टुप्
बुलिर्यौनौ च वायौ च स्त्रियामेषा प्रकीर्त्तिता ।बुसः कडंगरे न स्त्री क्लीबं तु सलिले बुसम् ॥ ३९०२ ॥
39.3902 · p. 290
अनुष्टुप्
गोकरीषेन्धने त्वेषा बुसा स्त्री परिकीर्त्तिता ।बुस्तः प्रहसने पुंसि धनुष्कोटौ नपुंसकम् ॥ ३९०३ ॥
39.3903 · p. 290
अनुष्टुप्
बृञ्चूको द्वे मातृवाहनाम्नि जन्तौ जले तु नप् ।बृन्दारको द्वयोर्देवे त्रि तु मुख्येऽपि सुन्दरे ॥ ३९०४ ॥
39.3904 · p. 290
अनुष्टुप्
बृहच्छदः शोथशत्रुस्तम्बे ना त्रि तु यौगिके ।बृहत्त्वारण्यके साम्नि त्वामिद्धीत्यृक्समुद्भवे ॥ ३९०५ ॥
39.3905 · p. 290
अनुष्टुप्
क्ली त्रिर्महति तत्रापि स्त्र्यर्थे स्याद्बृहतीत्यथ ।प्रसहासंज्ञवार्त्ताक्यां छन्दोभेदेषु केषुचित् ॥ ३९०६ ॥
39.3906 · p. 290
अनुष्टुप्
षट्त्रिंशदक्षराद्येषु तथा विश्वावसोरपि ।वीणायां क्षुद्रवार्त्ताक्यां बृहतीवाच्यपि स्त्रियाम् ॥ ३९०७ ॥
39.3907 · p. 290
अनुष्टुप्
बृहत्कं सामभेदे य आगन्तेत्यृचि गीयते ।मणिभेदेऽपि तत्रायं बृहत्कः पुंसि कीर्त्तितः ॥ ३९०८ ॥
39.3908 · p. 290
अनुष्टुप्
प्रविकासिप्रभोऽल्पोऽपि यो महानिव लक्ष्यते ।बृहन्नला गुडाकेशे महापोटगले पुमान् ॥ ३९०९ ॥
39.3909 · p. 290
अनुष्टुप्
बेकटः स्याद्वैकटिके मत्स्यभेदे च यूनि च ।बेटकस्त्रिर्वैकटिके तथा सञ्जातयौवने ॥ ३९१० ॥
39.3910 · p. 290
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 द्वै (wrong syllable); pāda 3, syllable 5 र्वै (wrong syllable)
बैजिकं शिग्रुतैले च हेतौ सद्योऽङ्कुरे तु ना ।अथ बीजप्रयोज्यादौ बैजिकं भेद्यलिङ्गकम् ॥ ३९११ ॥
39.3911 · p. 290
अनुष्टुप्
बोधनी बोधपिप्पल्योर्बोधनं गन्धदीपने ।बोधनीया स्त्रियां बृद्धिसंज्ञके भेषजान्तरे ॥ ३९१२ ॥
39.3912 · p. 290
अनुष्टुप्
अथ बोधयितव्ये च बोद्धव्येऽपि च वाच्यवत् ।बोधिस्त्वर्थे स्त्रियां सम्यग्ज्ञाने च द्वे तु कुक्कुटे ॥ ३९१३ ॥
39.3913 · p. 290
अनुष्टुप्

बोलम्-ब्राह्मण्यं

पुमांस्तु बोधिर्बुद्धे स्यादश्वत्थेऽपि प्रकीर्त्तितः ।बोलं साज्ये मधुनि च तक्कोले ना त्वपोभ्रमे ॥ ३९१४ ॥
39.3914 · p. 291
अनुष्टुप्
लेखन्युद्धृतमस्यां च तथा गन्धरसौषधे ।बध्नो ना ऋषिभित्सर्गसूर्ये द्वे त्वश्वविप्रयोः ॥ ३९१५ ॥
39.3915 · p. 291
अनुष्टुप्
ब्रह्मघोषो वेदघोषे तथैव गरलान्तरे ।ब्रह्मचारी पुमान्स्कन्देऽप्युपनीतेऽपि कीर्त्तितः ॥ ३९१६ ॥
39.3916 · p. 291
अनुष्टुप्
ब्रह्मचारिण्युमायां स्त्री त्रि त्वमैथुनकारिणि ।ब्रह्मण्यः स्याद्ब्रह्मसाधु ब्रह्मदारुशनैश्चरे ॥ ३९१७ ॥
39.3917 · p. 291
अनुष्टुप्
ब्रह्मदण्डी तु भाङ्र्ग्यां स्याद्ब्रह्मदण्डो धनुर्भिदि ।ब्रह्मा रुद्रहृषीकेशविरिञ्चार्केन्दुवह्निषु ॥ ३९१८ ॥
39.3918 · p. 291
अनुष्टुप्
यज्ञे विप्रे च भृग्वादिष्वृत्विग्भेदे तु पुंस्ययम् ।क्लीबं तु वेदे मन्त्रेऽन्ने खेऽध्वात्माऽऽत्मतपः सु च ॥ ३९१९ ॥
39.3919 · p. 291
अनुष्टुप्
मोक्षे जपे धने चैतेष्वर्थेषु ब्रह्म कीर्त्तितम् ।ब्रह्मपुत्रो विषे ब्रह्मवालुकाख्ये पुमान्मतः ॥ ३९२० ॥
39.3920 · p. 291
अनुष्टुप्
रुद्रे केतुग्रहे चापि योगार्थे तु यथायथम् ।ब्रह्मपुत्रः क्षेत्रभेदे नदभेदे च पुंस्ययम् ॥ ३९२१ ॥
39.3921 · p. 291
अनुष्टुप्
ब्रह्मबन्धुस्त्र्यधिक्षिप्य निर्देश्ये ब्राह्मणाधमे ।ब्रह्मी तु फञ्जिकायां स्याच्छाकमत्स्यप्रभेदयोः ॥ ३९२२ ॥
39.3922 · p. 291
अनुष्टुप्
ब्राह्मोऽन्तिमे रात्रियामेऽथ ब्राह्मी सप्तमातृषु ।एकस्यां दिशि चोर्ध्वायां ब्रह्मरीत्याख्यलोहके ॥ ३९२३ ॥
39.3923 · p. 291
अनुष्टुप्
मत्स्याक्ष्याख्यतृणस्तम्बवाचिषु त्रि तु यौगिके ।ब्राह्मणस्तु द्वयोर्विप्र आत्मज्ञे तु त्रिषु स्मृतः ॥ ३९२४ ॥
39.3924 · p. 291
अनुष्टुप्
स्याद्व्याख्यायकवेदांशतदंशान्तरयोस्तु नप् ।ब्राह्मणी तु ब्रह्मरीतिलोहे भार्ङ्ग्यामपि स्त्रियाम् ॥ ३९२५ ॥
39.3925 · p. 291
अनुष्टुप्
हरेणुस्पृक्कयोश्चापि स्यात्पिङ्गविपुले तथा ।पिपीलिकान्तरे रक्तपुच्छे चाञ्जनिकान्तरे ॥ ३९२६ ॥
39.3926 · p. 291
अनुष्टुप्
ब्राह्मण्यं विप्रसङ्घे ब्राह्मणानां भावकर्मणोः ॥ ३९२६-१/२ ॥
39.113 · p. 291