All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ऐ
ऐशब्दो दृश्यते हूतौ स्मृत्यामन्त्रणयोरपि ।ऐन्द्रिरिन्द्रसुते कृष्णकाकेऽपि कथितो द्वयोः ॥ ९१८ ॥
14.918 · p. 70
अनुष्टुप्
ऐन्द्री पूर्वदिशि स्त्री स्याद्विशालानाम्नि भूरुहि ।त्रि त्विन्द्रयोगिनि पुमान्सर्वयज्ञऋतुष्वयम् ॥ ९१९ ॥
14.919 · p. 70
अनुष्टुप्
ऐमः-ओलकः
ऐमः पुमान्हस्तिकर्कोटकवल्ल्यां प्रकीर्त्तितः ।तत्फले क्लीबमैनी तु त्रिषु स्यादिभयोगिनि ॥ ९२० ॥
14.920 · p. 71
अनुष्टुप्
ऐरावतोऽभ्रमातङ्गे नारङ्गे लकुचद्रुमे ।नागभेदे च पुंसि स्यात्क्लीनारङ्गफलेऽपि च ॥ ९२१ ॥
14.921 · p. 71
अनुष्टुप्
लकुचस्य फले तद्वदृजुदीर्घेन्द्रकार्मुके ।अश्विन्याद्यृक्षनवकक्लृप्तवीथीत्रयात्मनः ॥ ९२२ ॥
14.922 · p. 71
अनुष्टुप्
देवयानाध्वनः खस्थे स्थानेऽथैरावती स्त्रियाम् ।वीथ्यां पुनर्वस्वाद्यैश्च क्लृप्तायामुडुभिस्त्रिभिः ॥ ९२३ ॥
14.923 · p. 71
अनुष्टुप्
विद्युत्तद्भेदयोश्चापि योगार्थे त्वभिधेयवत् ।ऐश्वरं क्ली चतुर्हस्तप्रमाणे त्रीश्वराश्रिते ॥ ९२४ ॥
14.924 · p. 71
अनुष्टुप्