All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
म (4/4)
मुष्टिकस्तु पुमान्स्वर्णकारे स्यात्स्त्री तु मुष्टिका ।स्वर्णकारोपकरणभेद एषा प्रकीर्त्तिता ॥ ४४३६ ॥
41.4436 · p. 331
अनुष्टुप्
मुसलोऽस्त्र्यवघाताय दण्डे स्त्री तु मुसल्यसौ ।गृहगोधातालमूलीकुस्तुम्बुरुषु कीर्त्तिता ॥ ४४३७ ॥
41.4437 · p. 331
अनुष्टुप्
मुस्ता तु मुस्तके त्रि स्याद्विषभेदे तु न स्त्रियाम् ।मुहरिस्तु पुमान्सूर्ये तथा स्यादनडुह्यपि ॥ ४४३८ ॥
41.4438 · p. 331
अनुष्टुप्
मुहिरोऽर्के स्मरे पुंसि त्रिर्मूर्खे क्ली तमस्यपि ।मूको दैत्यान्तरे ना त्रि [रवाच्यमतिदीनयोः] ॥ ४४३९ ॥
41.4439 · p. 331
अनुष्टुप्
अश्वायां वेसराज्जाते [पशौ द्वे क्ल्याविलाम्बुनि] ।मूढा प्रहेलिकाभेदे मोहने तु नपुंसकम् ॥ ४४४० ॥
41.4440 · p. 331
अनुष्टुप्
मूढस्तु तन्द्रितेऽप्यज्ञे क्रुद्धमूर्च्छितयोस्त्रिषु ।मूत आतञ्चने व्रीहावपि पुंसि मतस्तथा ॥ ४४४१ ॥
41.4441 · p. 331
अनुष्टुप्
आचमन्यां तृणैर्बद्धे भारे ब्रीह्यादिकस्य च ।वस्त्रवेष्टनबन्धेऽथ त्रिर्बद्धे क्ली तु बन्धने ॥ ४४४२ ॥
41.4442 · p. 331
अनुष्टुप्
मूर्च्छनं स्यादभिव्याप्तौ मोहे चाप्यथ मूर्च्छना ।गीतिधर्मान्तरे स्त्री स्यान्नना मूर्च्छयतेः कृतौ ॥ ४४४३ ॥
41.4443 · p. 331
अनुष्टुप्
मूर्च्छितस्तु प्रवृद्धेऽपि मूढसोच्छ्राययोस्त्रिषु ।मूर्त्तः स्यात्त्रिषु मूर्च्छाले कठिने मूर्त्तिमत्यपि ॥ ४४४४ ॥
41.4444 · p. 331
अनुष्टुप्
मूर्त्तिः काये च काठिन्ये काकप्रतिमयोरपि ।मूर्धाभिषिक्तो ना राज्ञि क्षत्रिये तु द्वयोर्मतः ॥ ४४४५ ॥
41.4445 · p. 331
अनुष्टुप्
अथ प्रधाने मूर्धाभिषिक्तः स्यात्त्रिषु च प्रभौ ।मूर्धावसिक्तो द्वे विप्रात्क्षत्रियाजे त्रियौगिके ॥ ४४४६ ॥
41.4446 · p. 331
अनुष्टुप्
मूलोऽस्त्र्यादौ समीपे च वृक्षाङ्घ्रौ च वशीकृतौ ।नक्षत्रभेदे स्वीये च कारणेऽपि प्रकीर्त्तितः ॥ ४४४७ ॥
41.4447 · p. 331
अनुष्टुप्
मूलकः-मृत्युञ्जयः
मूलकोऽस्त्री बुस्तिकाख्यशाकस्तम्बान्तरे मतः ।मूलनक्षत्रसंयुक्तकालजाते त्रिषु स्मृतः ॥ ४४४८ ॥
41.4448 · p. 332
अनुष्टुप्
मूलेरस्तु पुमानुक्त आपणीयवनस्पतौ ।स्याद्वनस्पतिमात्रेऽपि पण्ये तु स्यान्नपुंसकम् ॥ ४४४९ ॥
41.4449 · p. 332
अनुष्टुप्
मूल्यं क्ली वेतने [त्रिस्तु वहने मूल्य इष्यते] ।माषमुद्गादिके मूलोत्पाट्ये तत्रापि चेष्यते ॥ ४४५० ॥
41.4450 · p. 332
अनुष्टुप्
यः परादिरुपादानद्रव्यतुल्यप्रयोजनः ।मूषा लोहकृतां तैजसावर्त्तन्याख्यभाण्डके ॥ ४४५१ ॥
41.4451 · p. 332
अनुष्टुप्
द्वे तु चौरे भवेन्मूषा मूषश्चोरे भवेत्त्रिषु ।मूषिकस्त्वाखुजातौ द्वे स्त्रीत्वे त्वेतस्य मूषिका ॥ ४४५२ ॥
41.4452 · p. 332
अनुष्टुप्
अनिष्टगन्धे विज्ञेया मूषिकैः सदृशाकृतौ ।मूषिका निर्विषाणां च जातिभेदे जलौकसाम् ॥ ४४५३ ॥
41.4453 · p. 332
अनुष्टुप्
मृगो मकरराशौ च मृगशीर्षे च तद्युते ।काले पश्वन्वेषणयोर्द्वे तु हस्तिकुरङ्गयोः ॥ ४४५४ ॥
41.4454 · p. 332
अनुष्टुप्
स षडङ्गुलयोनौ तु नायिकायां भवेन्मृगी ।मृगनेत्रा रात्रिभेदे त्रिर्मृगाक्षे स्त्रियो भिदि ॥ ४४५५ ॥
41.4455 · p. 332
अनुष्टुप्
मृगयुः पुंसि गोमायौ व्याधे च परमेष्ठिनि ।पुमान्मृगरिपुः सिंहे व्याघ्रेऽपि परिकीर्त्तितः ॥ ४४५६ ॥
41.4456 · p. 332
अनुष्टुप्
नपुंसकं मृगशिरो मृगशीर्षे त्रि यौगिके ।मृगशीर्षं सोमऋक्षे योगार्थे तु यथायथम् ॥ ४४५७ ॥
41.4457 · p. 332
अनुष्टुप्
मृगारिस्तु तरक्षौ स्याद्योगार्थे तु यथायथम् ।कण्ठीरवे च शार्दूले मृगारिस्तु भवेद्द्वयोः ॥ ४४५८ ॥
41.4458 · p. 332
अनुष्टुप्
मृणालोऽस्त्री बिसे पद्माङ्कुरे स्यात्पद्मकोरके ।मृतं त्रि नष्टे भैक्षे तु याचिते मरणे च नप् ॥ ४४५९ ॥
41.4459 · p. 332
अनुष्टुप्
मृत्युर्द्वयोः स्यान्मरणे पुमानेवाऽन्तके मतः ।मृत्यु [ञ्जयोमहादेवे] श्रीफलद्रोणकाकयोः ॥ ४४६० ॥
41.4460 · p. 332
अनुष्टुप्
मृत्युपुष्पः-मेघवाहनः
मृत्युपुष्पः पुमान्वेणाविक्षावपि तथा मतः ।स्यात्कदल्यां मृत्युफला महाकालफले पुमान् ॥ ४४६१ ॥
41.4461 · p. 333
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मृ (wrong syllable)
मृत्युसंयमनः पुंस्यासनभेदेऽस्य लक्षणम् ।भुजवेष्टितजङ्घोरोश्चूलिकाश्लेषितावनेः ॥ ४४६२ ॥
41.4462 · p. 333
अनुष्टुप्
पृष्ठतो भुजपाशश्चेन्मृत्युसंयमनो हि सः ।योगार्थे त्वस्य लिङ्गादि तर्कणीयं यथायथम् ॥ ४४६३ ॥
41.4463 · p. 333
अनुष्टुप्
मृत्सा मृत्स्ना तुवर्याञ्च तथा श्रेष्ठमृदि स्मृते ।मृत्स्त्री जले मृत्तिकायां तुवरीसंज्ञभेषजे ॥ ४४६४ ॥
41.4464 · p. 333
अनुष्टुप्
मृदङ्गो लतयोः स्वल्पफलकोशातकीति च ।महाकोशातकीतिख्यातयोर्वाद्यान्तरेऽपि च ॥ ४४६५ ॥
41.4465 · p. 333
अनुष्टुप्
मुरजाख्येऽथ लतयोरुक्तयोः प्रसवे नपि ।मृदु वङ्गे कोमले तु त्रि स्यादकठिनेऽपि च ॥ ४४६६ ॥
41.4466 · p. 333
अनुष्टुप्
मृदुकण्टक उक्तो द्वे पाठीने त्रि तु यौगिके ।मृदुत्वक् पुंसि भूर्जे च मुञ्जे त्रिषु तु यौगिके ॥ ४४६७ ॥
41.4467 · p. 333
अनुष्टुप्
मृदुरोमा शशे द्वे स्याद्योगार्थे तु यथायथम् ।मृदुलं क्लीबमगुरौ मृदुनि त्रिषु कीर्त्तितम् ॥ ४४६८ ॥
41.4468 · p. 333
अनुष्टुप्
मृष्टेरुको वदान्येऽपि मृष्टाशिन्यतिथिद्विषि ।मेकला विन्ध्यपर्यन्तनीवृद्भेदे नृभूमनि ॥ ४४६९ ॥
41.4469 · p. 333
अनुष्टुप्
मेकलोऽद्र्यन्तरे शीतगुणे त्रिषु तु तद्वति ।मेखला कटिसूत्रेऽपि श्रोणिस्थानेऽपि च स्त्रियाम् ॥ ४४७० ॥
41.4470 · p. 333
अनुष्टुप्
खड्गत्सरुबिबन्धस्याश्रयेऽद्रिकटके तथा ।मेघः स्यात्पुंसि जलदे मुस्तायां च तदर्थकाः ॥ ४४७१ ॥
41.4471 · p. 333
अनुष्टुप्
मेघजं तु जले क्लीबं त्रि तु स्यान्मेघसम्भवे ।मेघनादो मेघघोष इन्द्रजित्तण्डुलीययोः ॥ ४४७२ ॥
41.4472 · p. 333
अनुष्टुप्
वरुणे च द्वयोस्त्वेष आखुजात्यन्तरे मतः ।मेघपुष्पो हरेरश्वे पुँल्लिङ्गः परिकीर्त्तितः ॥ ४४७३ ॥
41.4473 · p. 333
अनुष्टुप्
मेघपुष्पं तु पिण्डाभ्राम्बुनादेयेषु नप्स्मृतम् ।मेघवाहन इत्येष पुंसि शक्रे शिवेऽपि च ॥ ४४७४ ॥
41.4474 · p. 333
अनुष्टुप्
मेघानन्दा-मेषिका
मेघानन्दा बलाका स्यान्मेघानन्दास्तु बर्हिणः ।मेघ्यः प्रावृषि ना त्रिस्तु मेघसाधुनि तद्भवे ॥ ४४७५ ॥
41.4475 · p. 334
अनुष्टुप्
मेचकः श्यामले कृष्णे पुमांस्तद्वति तु त्रिषु ।मेचकोऽस्त्री मयूरस्य चन्द्रके स्तनचूचुके ॥ ४४७६ ॥
41.4476 · p. 334
अनुष्टुप्
मेचकं त्वन्धकारे च क्लीबं स्रोतोऽञ्जने मतम् ।मेढ्रं नपुंसकं शिश्ने मेढ्रो मेषे द्वयोर्मतः ॥ ४४७७ ॥
41.4477 · p. 334
अनुष्टुप्
मेथिः पुमान्खले दारुन्यस्तं यत्पशुबन्धने ।मेथीवन्मेथिकायां सा स्त्रीलिङ्गे परिकीर्त्तिता ॥ ४४७८ ॥
41.4478 · p. 334
अनुष्टुप्
मेदा तु स्त्र्योषधीभेदे मेदने ना द्वयोः पुनः ।वैदेहकनिषादीजे मर्त्यजात्यन्तरे भवेत् ॥ ४४७९ ॥
41.4479 · p. 334
अनुष्टुप्
मेदुरौषधिभेदे स्त्री सान्द्रस्निग्धे पुनस्त्रिषु ।मेधा स्त्री धारणावत्यां भवेद्बुद्धौ धनेऽप्यथ ॥ ४४८० ॥
41.4480 · p. 334
अनुष्टुप्
मेधो यज्ञे सङ्गमे तु द्वयोर्मेधाविनि त्रिषु ।मेधातिथिः शुके द्वे स्यान्मुनिभेदे पुनः पुमान् ॥ ४४८१ ॥
41.4481 · p. 334
अनुष्टुप्
मेधावती महाज्योतिष्मत्यां स्त्री त्रिः समेधके ।मेध्यं शुचिनि यज्ञार्हे मेधाभ्वर्हादिषु त्रिषु ॥ ४४८२ ॥
41.4482 · p. 334
अनुष्टुप्
मेध्यस्तु खदिरे छागे यवे मुञ्जे पुमान्मतः ।मेध्यं धने बले स्वर्णे मेध्या तु स्यान्नदीभिदि ॥ ४४८३ ॥
41.4483 · p. 334
अनुष्टुप्
केतकीरोचनाज्योतिष्मतीब्राह्मीशमीषु च ।माण्डूक्यां शङ्खपुष्प्यां च वचयोः श्वेतरक्तयोः ॥ ४४८४ ॥
41.4484 · p. 334
अनुष्टुप्
मेनो ना पृषदश्वाख्ये कीर्त्तितः पूर्वपार्थिवे ।मेनाऽस्य पुत्र्यां स्त्रीमात्रे वा गुप्तामातृषु स्मृता ॥ ४४८५ ॥
41.4485 · p. 334
अनुष्टुप्
मेनादस्तु द्वयोश्छागे स्यान्मार्जारमयूरयोः ।मेनिस्तु वाचि च स्त्रीत्वे सङ्कल्पे च प्रकीर्त्तिता ॥ ४४८६ ॥
41.4486 · p. 334
अनुष्टुप्
मेरुकः शल्लकीवृक्षे देशभेदे तु मेरुकाः ।मेला पत्राञ्जने मस्यां मेलस्तु नारिसङ्गमे ॥ ४४८७ ॥
41.4487 · p. 334
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
मेषो ना प्रथमे राशावुरभ्रे तु द्वयोरयम् ।मेषको जीवशाके स्यान्मेष्यां स्त्री मेषिका मता ॥ ४४८८ ॥
41.4488 · p. 334
अनुष्टुप्
मेषशृङ्गी-मोचा
मेषशृङ्ग्यौषधभिदि न तु स्त्री विषभिद्यपि ।अथ मेष्यो हिमोत्सर्गक्षमा ये रविरश्मयः ॥ ४४८९ ॥
41.4489 · p. 335
अनुष्टुप्
शतत्रयमितास्तेषामेकस्मिञ्छत ईरिताः ।मेहा भुवि स्यान्मेहस्तु मूत्रणे मूत्ररुग्भिदि ॥ ४४९० ॥
41.4490 · p. 335
अनुष्टुप्
मेहघ्नी स्त्री हरिद्रायां त्रिर्मेहारावमानने ।मेहनं मूत्रणे क्लीबमस्त्री मेढ्रे प्रकीर्त्तितम् ॥ ४४९१ ॥
41.4491 · p. 335
अनुष्टुप्
मेही मेहवति त्रि स्याद्व्याघ्रे द्वीप्यभिधे द्वयोः ।मैत्रो विप्रे वैश्यपूर्ववैश्यायां व्रात्यजे द्वयोः ॥ ४४९२ ॥
41.4492 · p. 335
अनुष्टुप्
मित्रे त्वपाने ना सन्धियोगाऽऽदित्यान्तरेष्वथ ।मैत्रं पुरीषोत्सर्गे क्ली मित्रसङ्घे तथा मतम् ॥ ४४९३ ॥
41.4493 · p. 335
अनुष्टुप्
मृगान्त्यचित्रामित्रर्क्षं मृदु मैत्रं भृगुस्तथा ।उपस्थानेऽपि सूर्यस्य सूत्रभेदे तथा भवेत् ॥ ४४९४ ॥
41.4494 · p. 335
अनुष्टुप्
मैत्री मुनेर्वृत्तिभेदेऽनुराधासख्ययोः स्त्रियाम् ।वसिष्ठागस्त्यवाल्मीक्यर्थे मैत्रावरुणिः पुमान् ॥ ४४९५ ॥
41.4495 · p. 335
अनुष्टुप्
स्यान्मैथिली स्त्री सीतायां ना वैदेहप्रदोषयोः ।मैथुनं सुरते क्लीबं सङ्गतावपि कीर्त्तितम् ॥ ४४९६ ॥
41.4496 · p. 335
अनुष्टुप्
त्रिर्मैथुनोद्वाहयुक्ते मिथुनाङ्गे तथा मतः ।द्वे तु मैथुनिकः त्रि तु मैथुनवत्यसौ ॥ ४४९७ ॥
41.4497 · p. 335
metre not recognisednearly अनुष्टुप्
स्त्री तु मैथुनिका पाणिग्रहणे परिकीर्त्तिता ।मैथुनी सारसे द्वे स्यात्त्रि तु मैथुनवत्यसौ ॥ ४४९८ ॥
41.4498 · p. 335
अनुष्टुप्
मोको ना मोचने शिष्ये मोकी रात्रौ स्त्रियां मता ।स्त्रीपुंसयोस्तु मोकी च मोकश्च स्याच्चतुष्पदे ॥ ४४९९ ॥
41.4499 · p. 335
अनुष्टुप्
मोकं तु पशुवृत्तौ तत् क्लीबलिङ्गं प्रकीर्त्तितम् ।मोक्षो मुष्करवृक्षे च मृतौ मुक्तो विमोचने ॥ ४५०० ॥
41.4500 · p. 335
अनुष्टुप्
मोचा तु कदलीमात्रे सुगन्ध्यल्पफलेऽपि च ।स्यात्कदल्यन्तरे किं च शाल्मलौ ना तु शिग्रुके ॥ ४५०१ ॥
41.4501 · p. 335
अनुष्टुप्
मोचः-म्लेच्छास्या
वृक्षस्य च रसे मोचः पाटल्यां तु द्वयोर्भवेत् ।मोचकः कदले शिग्रुनिर्मोचकविरागिषु ॥ ४५०२ ॥
41.4502 · p. 336
अनुष्टुप्
मोचाटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे ।मोणः शुष्कफले तक्रमक्षिकाहिकरण्डयोः ॥ ४५०३ ॥
41.4503 · p. 336
अनुष्टुप्
मोदकः पूपभेदे स्यात्पुँल्लिङ्गे च नपुंसके ।वाच्यवन्मोदयितरि मोदितर्यपि मोदकः ॥ ४५०४ ॥
41.4504 · p. 336
अनुष्टुप्
मोरटः कृष्णजीरे च रम्भास्थ्नि मलयोद्भवे ।मोरटं तु प्रसूत्यादिसप्ताहात्क्षीर ऊर्ध्वजे ॥ ४५०५ ॥
41.4505 · p. 336
अनुष्टुप्
मोरकाख्ये गवादीनामिक्षुमूले च गोरसे ।मोरटा तु स्त्रियां मूर्वासंज्ञके भेषजान्तरे ॥ ४५०६ ॥
41.4506 · p. 336
अनुष्टुप्
सूर्यावर्त्ते पर्णिकाख्यस्तम्बे च परिकीर्त्तिता ।मोहः क्रोधे च मूर्च्छायां तथैवाज्ञानतन्द्रयोः ॥ ४५०७ ॥
41.4507 · p. 336
अनुष्टुप्
मोहनं क्ली रते मोहेऽथार्थे मोहयतेरना ।मोहना विष्णुशक्तौ तु कस्याञ्चिन्मोहनी मता ॥ ४५०८ ॥
41.4508 · p. 336
अनुष्टुप्
मौढी यक्षे मर्मराख्ये मूढयोगिनि तु त्रिषु ।मौलिस्तु नृस्त्रियोर्मूर्घ्नि चूडामुकुटयोरपि ॥ ४५०९ ॥
41.4509 · p. 336
अनुष्टुप्
धम्मिल्लेऽशोकवृक्षे तु ना भूमौ तु स्त्रियां भवेत् ।मौष्टिको ना स्वर्णकारे त्रि तु मुष्टिप्रहारिणि ॥ ४५१० ॥
41.4510 · p. 336
अनुष्टुप्
म्लानं म्लानवति त्रि स्यात्क्लीबं म्लानौ प्रकीर्त्तितम् ।मण्डूकभेदे गृहजे म्लानः स्त्रीपुंसयोर्मतः ॥ ४५११ ॥
41.4511 · p. 336
अनुष्टुप्
म्लिष्टं म्लानेऽप्यविस्पष्टवाक्ये स्यादभिधेयवत् ।म्लेच्छास्तु द्वे म्लेच्छवाक्षु स्युः प्रत्यन्तनिवासिषु ॥ ४५१२ ॥
41.4512 · p. 336
अनुष्टुप्
म्लेच्छ्ने तु द्वयोर्म्लेच्छा ताम्रे तु म्लेच्छमिष्यते ।म्लेच्छभोजास्तु गोधूमे योगार्थे तु यथायथम् ॥ ४५१३ ॥
41.4513 · p. 336
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 म्ले (syllables merged)
म्लेच्छास्यं ताम्रसंज्ञे स्याल्लोहे म्लेच्छमुखेऽपि नप् ।म्लेच्छानां त्वसने स्त्रीत्वे म्लेच्छास्या परिकीर्त्तिता ॥ ४५१४ ॥
41.4514 · p. 336
अनुष्टुप्