कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ऋ

ऋशब्दः स्त्र्यादितौ स्वर्गेऽथाव्ययं वाक्यगर्हयोः ।ऋक् स्त्रियां पद्यमात्रेऽपि भारत्यामपि कीर्त्तिता ॥ ८७६ ॥
9.876 · p. 67
अनुष्टुप्
ऋक्षो द्वयोरच्छभल्ले ना गुडद्रौ च शोणके ।इन्द्रिये तु मतं क्लीबं नक्षत्रे पुंनपुंसकम् ॥ ८७७ ॥
9.877 · p. 67
अनुष्टुप्
निलाम्नि तु त्रिर्ऋक्षः स्यात्तथैव कृतवेधने ।ऋक्षगन्धा तु शुक्लायां विदार्यां वृद्धदारके ॥ ८७८ ॥
9.878 · p. 67
अनुष्टुप्
ऋक्षरः कण्टकेऽपि स्याज्जलस्थाने तथर्त्विजि ।ऋक्षरं वारिधारायां नपुंसकमुदाहृतम् ॥ ८७९ ॥
9.879 · p. 67
अनुष्टुप्
ऋच्छरा त्वङ्गुलौ ज्ञेया वेश्यायामपि च स्त्रियाम् ।ऋजीकं क्ली भवेद्वज्रे ऋजीकऋषिभे पुमान् ॥ ८८० ॥
9.880 · p. 67
अनुष्टुप्
ऋजीषं पिष्टपचनसाधनेऽग्नौ च वैद्युते ।ऋजुस्त्रिरव्युत्पन्ने त्रिगुणे वक्रेतरे बुधे ॥ ८८१ ॥
9.881 · p. 67
अनुष्टुप्
अंशौ ऋजुः पुमानेष कैश्चिदेव प्रयुज्यते ।ऋज्जसानः श्मशाने च वारिवाहमहेन्द्रयोः ॥ ८८२ ॥
9.882 · p. 67
अनुष्टुप्

ऋतं-ऋ

ऋतं नपुंसकं तोये शिलोञ्छे प्राप्तियज्ञयोः ।गतौ सत्ये तद्वति तु त्रिषु प्राप्ते तथा ऋषौ ॥ ८८३ ॥
9.883 · p. 68
अनुष्टुप्
ऋतुर्वसन्तादिषट्के पुमान्मासि च कीर्त्तितः ।गर्भग्रहणयोग्ये च काले स्त्रीणां रजस्यपि ॥ ८८४ ॥
9.884 · p. 68
अनुष्टुप्
ऋद्धमावसिते धान्ये समृद्धे क्ली समर्धने ।ऋद्धिः स्वनाम्नि वृद्ध्याख्ये चौषधे स्त्री च संपदि ॥ ८८५ ॥
9.885 · p. 68
अनुष्टुप्
ऋभुर्द्वयोः सुरेऽथैष विदुषि स्यात्त्रिलिङ्गकः ।पुमांस्तु ब्रह्मपुत्राणां सनकादिकयोगिनाम् ॥ ८८६ ॥
9.886 · p. 68
अनुष्टुप्
ज्येष्ठे नारायणे चैव किरणे जलदेऽपि च ।ऋश्यः पुंस्यृषिभेदे स्यान्मृगजात्यन्तरे द्वयोः ॥ ८८७ ॥
9.887 · p. 68
अनुष्टुप्
ऋश्यजिह्वं तु कुष्ठाख्यव्याधिभेदे नपुंसकम् ।समासे त्वस्य लिङ्गादि समुन्नेयं प्रयोगतः ॥ ८८८ ॥
9.888 · p. 68
अनुष्टुप्
ऋषभो वृषभे कर्णरन्ध्रे षड्जादिमध्यगे ।संगीतस्वरभेदे च मत्तेभे च जिनान्तरे ॥ ८८९ ॥
9.889 · p. 68
अनुष्टुप्
एकाहक्रतुभेदे च सामभेदेषु केषुचित् ।सूकरस्य च नक्रस्य पुच्छे शृङ्गाख्यभेषजे ॥ ८९० ॥
9.890 · p. 68
अनुष्टुप्
ऋषभध्वज एष स्याच्छङ्करे चाहदन्तरे ।श्रेष्ठे च ऋषभा तु स्त्री स्यान्नराकारयोषिति ॥ ८९१ ॥
9.891 · p. 68
अनुष्टुप्
शूकशिम्ब्या शिरालायां विधवायां तथा मता ।ऋषिर्वेदे वसिष्ठादौ चक्षुरादीन्द्रियेषु च ॥ ८९२ ॥
9.892 · p. 68
अनुष्टुप्
ज्ञानवृद्धे क्षपणके दीधितौ च पुमानयम् ।ऋषिसृष्टा ऋद्धिनाम्नि भेषजे त्रि तु यौगिके ॥ ८९३ ॥
9.893 · p. 68
अनुष्टुप्
ऋष्यप्रोक्ता शतावर्यामृद्धिसंज्ञे च भेषजे ।आत्मगुप्तातिबलयोरोषध्योश्च स्त्रियामियम् ॥ ८९४ ॥
9.894 · p. 68
अनुष्टुप्
ऋष्वो महति हिंस्रे च त्रिररातौ तु पुंस्ययम् ॥ ८९४-१/२ ॥
9.20 · p. 68