All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
छ
छो निर्मलेऽन्यवच्छा तु स्त्रियां छादन इष्यते ॥ २१७३ ॥
23.2173 · p. 161
छगणं पशुविष्ठायां नपुंसकमुदीरितम् ।छगनुस्तु पुमानुक्तो जन्तौ वैश्वानरेऽपि च ॥ २१७४ ॥
23.2174 · p. 161
अनुष्टुप्
छगलं नीलवस्त्रे क्ली छगली वृद्धदारके ।द्वयोस्त्वजे स्याच्छगलो मुनिभेदे तु ना मतः ॥ २१७५ ॥
23.2175 · p. 161
अनुष्टुप्
छत्रो द्वेऽसावतिच्छत्रे कुस्तुम्बुरु शिलीन्ध्रयोः ।आतपत्रे त्वयं छत्रः पुंनपुंसकयोर्मतः ॥ २१७६ ॥
23.2176 · p. 161
अनुष्टुप्
छत्रभङ्गस्तु वैधव्ये स्वातन्त्र्यनृपनाशयोः ।छत्राकं स्यादहिच्छत्रं रास्ना छत्राक्युदीरिता ॥ २१७७ ॥
23.2177 · p. 161
अनुष्टुप्
छत्वरो ना निकुञ्जेऽथ क्लीबं निष्कुड्यमन्दिरे ।शय्योत्तरच्छदे चाऽथ कुत्सके भर्त्सके त्रिषु ॥ २१७८ ॥
23.2178 · p. 161
अनुष्टुप्
छदः स्यात्पक्षिपक्षेऽपि वृक्षपत्रेऽपवारणे ।ग्रन्थिपर्णे तमालेऽपि पुमानेष प्रकीर्त्तितः ॥ २१७९ ॥
23.2179 · p. 161
अनुष्टुप्
छदनं तरुपत्रेऽपि पिधाने पक्षिपक्षके ।छदिस्तु पटले गेहे सान्तं क्लीबं प्रकीर्त्तितम् ॥ २१८० ॥
23.2180 · p. 161
अनुष्टुप्
छद्म (न) प्रोक्तं कैतवे च सद्मन्यपि नपुंसकम् ।छन्दो वशेऽप्यभिप्राये वाञ्छायामपि पुंस्ययम् ॥ २१८१ ॥
23.2181 · p. 161
अनुष्टुप्
छन्दः श्रुतीच्छापद्येषु सामगानां विशेषतः ।अनूहसामग्रन्थे च स्वैराचारे नपुंसकम् ॥ २१८२ ॥
23.2182 · p. 161
अनुष्टुप्
छन्नं तु रहसि क्लीबं छादिते वाच्यलिङ्गकम् ।छर्दनो मदनद्रौ ना निम्बवृक्षेप्यलम्बुषे ॥ २१८३ ॥
23.2183 · p. 161
अनुष्टुप्
छर्दनी-छेदना
शुनामपि ज्वेरऽथ स्याच्छर्दनी त्रपुसे स्त्रियाम् ।छर्दनं तु छर्दना च ननोद्वान्तौ पदद्वयम् ॥ २१८४ ॥
23.2184 · p. 162
अनुष्टुप्
छलं स्यात्स्खलिते चैव छद्मन्यपि नपुंसकम् ।छल्ली वीरुधि सन्ताने वल्कले कुसुमान्तरे ॥ २१८५ ॥
23.2185 · p. 162
अनुष्टुप्
छविश्चर्मणि शोभायां दीप्तौ यज्वद्विजन्मनाम् ।वेद्यामास्तरणे तद्वच्चित्रप्रतिकृतौ स्त्रियाम् ॥ २१८६ ॥
23.2186 · p. 162
अनुष्टुप्
छागो ना करुणाभिख्यपादपे छगले द्वयोः ।छागणो ना करीषाग्नौ त्रि तु छगणयोगिनि ॥ २१८७ ॥
23.2187 · p. 162
अनुष्टुप्
छात्रः शिष्ये पुमांश्छात्रं मधुभेदे नपुंसकम् ।छान्दसः श्रोत्रिये पुंसि छन्दःसम्बन्धिनि त्रिषु ॥ २१८८ ॥
23.2188 · p. 162
अनुष्टुप्
छाया प्रोक्ताऽऽतपाभावे प्रतिबिम्बार्कयोषितोः ।पालनोत्कोचयोर्दीप्तिसच्छोभागेहपङ्क्तिषु ॥ २१८९ ॥
23.2189 · p. 162
अनुष्टुप्
छायाकरश्छत्रधारे योगार्थे त्वर्थवन्मतः ।छिगुरस्तु द्वयोः…गृहबभ्रौ च कीर्त्तितः ॥ २१९० ॥
23.2190 · p. 162
metre not recognisednearly अनुष्टुप्
छिदुक्ता छेदने स्त्रीत्वे छेत्तरि त्वभिधेयवत् ।छित्वरः स्याच्छरे पुंसि शठे तु त्रिषु कीर्त्तितः ॥ २१९१ ॥
23.2191 · p. 162
अनुष्टुप्
छिदिरस्त्र्यायुधे ना तु रज्ज्वग्न्योर्मूषिके द्वयोः ।छिदुरश्छेदके धूर्ते भङ्गुरे वैरिणि त्रिषु ॥ २१९२ ॥
23.2192 · p. 162
अनुष्टुप्
छिद्रं त्रिच्छिद्रिणि क्ली तु रन्ध्रे दोषे तथाऽऽगसि ।छिन्ना गुलूच्यां वृक्ये तु त्रि क्ली दधनि निःशरे ॥ २१९३ ॥
23.2193 · p. 162
अनुष्टुप्
छुपः क्षुपे स्पर्शने च पुँल्लिङ्गः परिकीर्त्तितः ।छुरितं सोत्प्रासहासे त्रि तु छिन्ने प्रयुज्यते ॥ २१९४ ॥
23.2194 · p. 162
अनुष्टुप्
छेको गृहाश्रितमृगपक्षिणोस्त्रि तु नागरे ।छेदनं व्रश्चने क्लीबं कनकस्य फलेऽपि च ॥ २१९५ ॥
23.2195 · p. 162
अनुष्टुप्
साधने तु त्रिषु छित्ते रथच्छेदयतेः कृतौ ।छेदनं छेदना चेति क्लीबेऽपि स्यात्स्त्रियां तथा ॥ २१९६ ॥
23.2196 · p. 162
अनुष्टुप्