All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
द (1/2)
दंशो द्वयोर्मक्षिकायां वन्यायामल्पके पुनः ।तज्जातिभेदे दंशी स्त्री वर्मदंशनयोस्तु ना ॥ २५६१ ॥
34.2561 · p. 189
अनुष्टुप्
दंशितं-दण्डाहतं
दंशितं जातदंशे च त्रिषु स्यात्कवचान्विते ।दंष्ट्री ग्राहवाराहाखुव्याघ्राहिषु मतो द्वयोः ॥ २५६२ ॥
34.2562 · p. 190
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
दः पुमानचले दन्ते स्त्रियां शोधनदानयोः ।छेदोपतापरक्षासु पुमान्दो दातरि स्मृतः ॥ २५६३ ॥
34.2563 · p. 190
अनुष्टुप्
दक्षः प्रजापतिभिदि मुनिभेदे बले च ना ।प्राचेतसे हरवृषे कुक्कुटे तु द्वयोर्मतः ॥ २५६४ ॥
34.2564 · p. 190
अनुष्टुप्
अथ त्रिश्चारुणिपटौ दक्षा तूर्वीद्रुभेदयोः ।दक्षकन्या तु पार्वत्यान्तथैव दिशि कीर्त्तिता ॥ २५६५ ॥
34.2565 · p. 190
अनुष्टुप्
दक्षाय्योऽग्नौ च तार्क्ष्ये ना द्वयोर्गृध्रे प्रकीर्त्तितः ।दक्षिणो दक्षिणोद्भूते परच्छन्दानुवर्त्तिनि ॥ २५६६ ॥
34.2566 · p. 190
अनुष्टुप्
विदग्धे कुशले चैव वामस्य प्रतियोगिनि ।उदारे सरले च त्रिर्याम्याशायान्तु दक्षिणा ॥ २५६७ ॥
34.2567 · p. 190
अनुष्टुप्
स्त्रियां दानेऽपि यज्ञादिविधिदत्ते प्रकीर्त्तिता ।स्त्रियामृत्विग्भृतौ चापि प्रतिष्ठायां तथा स्त्रियाम् ॥ २५६८ ॥
34.2568 · p. 190
अनुष्टुप्
दक्षिणस्थः सारथौ ना योगार्थे तु त्रिषु स्मृतः ।दक्षिणाशारतोऽगस्त्यमुनौ पुंसि त्रियौगिके ॥ २५६९ ॥
34.2569 · p. 190
अनुष्टुप्
दग्धं प्लुष्टे न्यलिङ्गं स्यात्स्थितार्कदिशि तु स्त्रियाम् ।दण्डस्तु निग्रहे राजशासने लगुडे नृपे ॥ २५७० ॥
34.2570 · p. 190
अनुष्टुप्
सैन्यमन्थानहिंसाज्ञावृक्षशाखासु चास्त्रियाम् ।कालमानव्यूहभेदेऽभिमाने कोण एव च ॥ २५७१ ॥
34.2571 · p. 190
अनुष्टुप्
यमे तु ना प्रकाण्डेऽश्वे चण्डांशोः पारिपार्श्विके ।दण्डकोऽस्त्री समासाढ्यवाक्ये छन्दःसु चोत्कृतेः ॥ २५७२ ॥
34.2572 · p. 190
अनुष्टुप्
अधिकेष्वथ पुंभूम्नि महाराष्ट्रेषु दण्डकाः ।दण्डको दण्डयितरि वाच्यवत्परिकीर्त्तितः ॥ २५७३ ॥
34.2573 · p. 190
अनुष्टुप्
दण्डयामस्तु कीनाशे दिवसे कुम्भसम्भवे ।दण्डारो वहने मत्तवारणे शरयन्त्रके ॥ २५७४ ॥
34.2574 · p. 190
अनुष्टुप्
कुम्भकारस्य चक्रे च पुँल्लिङ्गः परिकीर्त्तितः ।दण्डाहतं कालशेये दण्डेन त्वाहते त्रिषु ॥ २५७५ ॥
34.2575 · p. 190
अनुष्टुप्
दण्डिकः-दमयन्ती
दण्डिकस्त्र्यंशशल्ये ना नाराचे दण्डिनि त्रिषु ।दण्डिका दण्डरूपे च वादित्रेऽल्पकलस्वने ॥ २५७६ ॥
34.2576 · p. 191
अनुष्टुप्
दण्डी ना द्वाःस्थयमयोर्द्वे शुके त्रि सदण्डके ।दत्तोऽर्चितेऽर्पिते च त्रिर्दत्तन्तु नपि हेमनि ॥ २५७७ ॥
34.2577 · p. 191
अनुष्टुप्
स्याद्दद्रुनाशिनी हस्तिवातिङ्गन इति श्रुते ।वातिङ्गनान्तरे योगार्थै तु लिङ्गं यथायथम् ॥ २५७८ ॥
34.2578 · p. 191
अनुष्टुप्
दधि क्षीरविकारे क्ली विप्रप्रियमिति श्रुते ।दधिस्तु पुंसि श्रीवाससर्जयोः परिकीर्त्तितः ॥ २५७९ ॥
34.2579 · p. 191
अनुष्टुप्
दधिपाय्यस्तु पुंसि स्यात्पृषत्यपि च सर्पिषि ।पुमान्दधिमुखः कप्यन्तरेऽपि च कपिमात्रके ॥ २५८० ॥
34.2580 · p. 191
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्त्रियां दधिमुखीकालरात्र्यामेषा प्रकीर्त्तिता ।दन्तो रदेऽद्रिकटके ना कुञ्चकरिदंष्ट्रयोः ॥ २५८१ ॥
34.2581 · p. 191
अनुष्टुप्
स्त्रियां तु दन्ती कथिता नागदन्त्याख्यभेषजे ।स्याद्दन्तधावनः पुंसि करञ्जे खदिरद्रुमे ॥ २५८२ ॥
34.2582 · p. 191
अनुष्टुप्
अरिभेदेऽथ नब्दन्तकाष्ठे दन्तस्य शोधने ।पुंसि दन्तशठो भव्ये जम्बीरे च कपित्थके ॥ २५८३ ॥
34.2583 · p. 191
अनुष्टुप्
अम्ले चैव रसेऽथाऽम्लरसोपेते त्रिषु स्मृतः ।स्त्रियां दन्तशठा चिञ्चाचाङ्गेर्योः परिकीर्त्तिता ॥ २५८४ ॥
34.2584 · p. 191
अनुष्टुप्
दन्तिको गृहभित्तिस्थे नागदन्तेऽथ दन्तिका ।स्त्रियां निकुम्भसंज्ञे स्यादौषधे दन्तिनि त्रिषु ॥ २५८५ ॥
34.2585 · p. 191
अनुष्टुप्
दन्तुरस्तून्नतरदे त्रिषु स्यादुन्नतानने ।दन्दशूको द्वयोः सर्परक्षसोर्दंशके त्रिषु ॥ २५८६ ॥
34.2586 · p. 191
अनुष्टुप्
दभ्रं त्र्यल्पशिशुह्रस्वकुशले नाऽब्धिचन्द्रयोः ।दमो दण्डे गृहे पङ्के पुमांश्चेन्द्रियनिग्रहे ॥ २५८७ ॥
34.2587 · p. 191
अनुष्टुप्
दमथस्तु पुमान्दण्डे दमे च परिकीर्त्तितः ।दमनः कुसुमस्तम्बान्तरे धीरे तु स त्रिषु ॥ २५८८ ॥
34.2588 · p. 191
अनुष्टुप्
दमयद्दमयित्रर्थे वाच्यवत्परिकीर्त्तितम् ।दमयन्ती ब्रह्मचारिदण्डे भैम्यामपि स्त्रियाम् ॥ २५८९ ॥
34.2589 · p. 191
अनुष्टुप्
दमुनाः-दर्शनम्
दमुनास्तु रवौ वह्नौ पुंसि सान्तः प्रकीर्त्तितः ।दरः शङ्खे भये श्वभ्रे छिद्रमात्रेऽपि न स्त्रियाम् ॥ २५९० ॥
34.2590 · p. 192
अनुष्टुप्
दरी तु कन्दरे स्त्री स्यान्मनागर्थे दराऽव्ययम् ।दरणं क्ली द्विधाभावे शुके तु दरणो द्वयोः ॥ २५९१ ॥
34.2591 · p. 192
अनुष्टुप्
दरत्प्रपातमीविष्ठादृत्सरिद्गिरिषु स्त्रियाम् ।तथा तटे हिमवतो राजभेदे तु पुंस्ययम् ॥ २५९२ ॥
34.2592 · p. 192
अनुष्टुप्
तस्यैव पुमपत्येषु भूम्नि देशस्य भूपतेः ।दरथो विवरे भीत्यां दिक्षु चापि प्रसारणे ॥ २५९३ ॥
34.2593 · p. 192
अनुष्टुप्
दर्दरस्तु पुमाञ्छैलप्रभेदे कलशीमुखः ।इति प्रसिद्धवाद्ये च त्रि त्वीषद्भग्नवस्तुनि ॥ २५९४ ॥
34.2594 · p. 192
अनुष्टुप्
दर्दरीकोऽनिले चन्द्रे वाद्यभेदे च दाडिमे ।दर्दुरस्तु द्वयोर्भेके पुमांस्तु गजपार्श्वयोः ॥ २५९५ ॥
34.2595 · p. 192
अनुष्टुप्
वारिदे चाऽद्रिभेदे च वाद्यभाण्डान्तरेऽप्यथ ।दर्दुरा चण्डिकायां स्त्री ग्रामजाले तु दर्दुरम् ॥ २५९६ ॥
34.2596 · p. 192
अनुष्टुप्
दर्पस्तु पुंसि कस्तूर्यामहङ्कारेऽपि चेष्यते ।दर्पको ना स्मरे दृप्तदर्पयित्रोस्तु वाच्यवत् ॥ २५९७ ॥
34.2597 · p. 192
अनुष्टुप्
पुमान्दर्पण आदर्शे दृप्तौ दर्पणमद्वयोः ।दर्पणन्दर्पणा चेति कृतौ दर्पयतेर्द्वयम् ॥ २५९८ ॥
34.2598 · p. 192
अनुष्टुप्
दर्वो द्वये राक्षसेऽथ देशभेदे नृभूमनि ।दर्वरस्तु पुमान्वज्रे सेनायां दर्वरी स्त्रियाम् ॥ २५९९ ॥
34.2599 · p. 192
अनुष्टुप्
दर्विः खजाकायां सर्पफणे स्त्री प्रतिकीलके ।दर्वीवदिष्यते ना तु दर्विश्चक्रसमुद्रयोः ॥ २६०० ॥
34.2600 · p. 192
अनुष्टुप्
दर्वीकरो द्वयोः सर्पे सर्पजात्यन्तरेऽपि च ।दर्शो दृष्टावमायां च परपक्षान्तकर्मणि ॥ २६०१ ॥
34.2601 · p. 192
अनुष्टुप्
दर्शको दर्शयितरि प्रवीणे द्रष्टरि त्रिषु ।प्रतीहाराऽपराख्ये तु द्वाःस्थे स्याद्दर्शकः पुमान् ॥ २६०२ ॥
34.2602 · p. 192
अनुष्टुप्
दर्शनं स्वप्नवीक्षासु नेत्रे शास्त्रे मते धियि ।ज्ञाने च दर्पणे धर्मे क्रियायां पश्यतेरपि ॥ २६०३ ॥
34.2603 · p. 192
अनुष्टुप्
दर्शनी-दहरः
दर्शनी तूपरथ्यायां स्त्री पुरादेर्गदस्य च ।यन्त्रभेदे दर्शनार्थे दर्शना त्वपि दर्शनम् ॥ २६०४ ॥
34.2604 · p. 193
अनुष्टुप्
स्यातां दर्शयतेरर्थे स्त्रीनपुंसकयोरिमे ।दलमस्त्री भवेद्भागेऽथापद्रव्ये तरुच्छदे ॥ २६०५ ॥
34.2605 · p. 193
अनुष्टुप्
शस्त्रीच्छेदे तथोत्सेधे दलं क्लीबमुदाहृतम् ।दलवो ना प्रहरणे विदले च दलान्तरे ॥ २६०६ ॥
34.2606 · p. 193
अनुष्टुप्
दलाढकः स्वयञ्जाततिले पृश्न्याञ्च गैरिके ।फेनखातकयोर्नागकेसरे च महत्तरे ॥ २६०७ ॥
34.2607 · p. 193
अनुष्टुप्
दलामलं मरुवके दमनेऽपि नपुंसकम् ।दल्भो गोत्रर्षिभेदे ना दल्भं वल्के नपुंसकम् ॥ २६०८ ॥
34.2608 · p. 193
अनुष्टुप्
दवो वने स्मृतोऽग्नौ च वनवह्र्युपतापयोः ।दशनः शिखरे दन्ते क्ली तु दृष्टौ च वर्मणि ॥ २६०९ ॥
34.2609 · p. 193
अनुष्टुप्
दशनं कवचे दंशे नपुंसकमुदीरितम् ।दशनोच्छिष्ट उच्छ्वासे चुम्बने दशनच्छदे ॥ २६१० ॥
34.2610 · p. 193
अनुष्टुप्
क्लीबं दशपुरन्देशभेदेऽपि स्यात्स्रवेऽपि च ।दशमी स्त्री यमतिथौ त्रिर्दशानां च पूरणे ॥ २६११ ॥
34.2611 · p. 193
अनुष्टुप्
दशमीस्थस्त्रिवृद्धेऽपि नष्टबीजे व्रताशने ।दशा कर्मविपाके स्त्री दशमांशे तथाऽऽयुषः ॥ २६१२ ॥
34.2612 · p. 193
अनुष्टुप्
दीपवर्त्तौ परावस्थावस्थामात्रकयोरपि ।दशास्तु वसनस्यान्ते द्वयोर्भूमनि कीर्त्तिताः ॥ २६१३ ॥
34.2613 · p. 193
अनुष्टुप्
दशेरः कुक्कुरे सर्पे द्वयोरथ नृभूमनि ।मरुसंज्ञे जनपदे दशेराः परिकीर्त्तिताः ॥ २६१४ ॥
34.2614 · p. 193
अनुष्टुप्
दस्मोऽग्निवज्रयोः पुंसि दस्युयज्ञकृतोस्त्रिषु ।दस्युः पुंसि रिपौ त्रिस्तु चौरे द्वे तु गजान्तरे ॥ २६१५ ॥
34.2615 · p. 193
अनुष्टुप्
मर्त्त्यजातिचतुः षष्टेरेकस्मिन्गर्ह्यवृत्तिके ।दहनश्चित्रकाऽग्न्युष्णगुणभल्लातकेषु ना ॥ २६१६ ॥
34.2616 · p. 193
अनुष्टुप्
क्ली दाहे त्रि तु सोष्णे च तथा स्याद्दुष्टचेष्टिते ।दहरस्तु द्वयोरल्पमूषिके बालके त्रिषु ॥ २६१७ ॥
34.2617 · p. 193
अनुष्टुप्
दाकः-दारुकः
अल्पेऽथ भ्रातरि पुमान्हृदये तु नपुंसकम् ।दाकस्तु दातरि त्रि स्याद्यजमाने द्वयोर्मतः ॥ २६१८ ॥
34.2618 · p. 194
अनुष्टुप्
दाक्षस्त्रिर्दक्षसम्बन्धिन्यथ दाक्षी स्त्रियां गवि ।कपिलायां जनन्याञ्च कीर्त्तिता पाणिनेर्मुनेः ॥ २६१९ ॥
34.2619 · p. 194
अनुष्टुप्
दाक्षायणी स्त्री पार्वत्यामश्विन्याद्युडुषु क्षितौ ।अदितौ द्वे तु दक्षस्यापत्ये क्लीबं तु हेमनि ॥ २६२० ॥
34.2620 · p. 194
अनुष्टुप्
दाक्षिणात्यो नारिकेले त्रिषु दक्षिणदिग्भवे ।दाडिमं प्रसवे क्लीबं त्रिष्वेलामुचुलिन्दयोः ॥ २६२१ ॥
34.2621 · p. 194
अनुष्टुप्
दाडिम्येलाकरकयोस्त्रिषु तत्प्रसवे तु नप् ।दात्यूहो द्वे कालकण्ठखगचातकपक्षिणोः ॥ २६२२ ॥
34.2622 · p. 194
अनुष्टुप्
दात्व आयुक्तके त्रि स्याद्दाने यज्ञे च पुंस्ययम् ।दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ २६२३ ॥
34.2623 · p. 194
अनुष्टुप्
शोधने रक्षणे चापि क्लीबलिङ्गं प्रकीर्त्तितम् ।दानवं क्ली दमनके दनुजे दानवो द्वयोः ॥ २६२४ ॥
34.2624 · p. 194
अनुष्टुप्
दानुर्दातरि विक्रान्ते त्रिषु द्वे यष्टरि स्मृतः ।समीरणार्कयोर्दानुः पुँल्लिङ्गः परिकीर्त्तितः ॥ २६२५ ॥
34.2625 · p. 194
अनुष्टुप्
दान्तस्त्रिर्दमिते दान्तियुक्ते दन्तविकारके ।स्त्र्यर्थे तु पूर्वयोर्दन्तिवाच्ययोरन्तिमे पुनः ॥ २६२६ ॥
34.2626 · p. 194
अनुष्टुप्
स्त्र्यर्थे दान्त्यथ दान्तं क्ली दान्तौ दमनकेऽपि च ।दायस्तु दातरि त्रि स्यात्पुंसि सोल्लुण्ठभाषिते ॥ २६२७ ॥
34.2627 · p. 194
अनुष्टुप्
रक्षणादौ विभक्तव्यपित्रादिद्रविणेऽपि च ।यौतकादिधने दाने लवने शोधनेऽपि च ॥ २६२८ ॥
34.2628 · p. 194
अनुष्टुप्
दायादो दायभाजि त्रिः सपिण्डसुतयोर्द्वयोः ।दारको द्वे सुते बाले तरुणे त्रि तु भेत्तरि ॥ २६२९ ॥
34.2629 · p. 194
अनुष्टुप्
दारदो ना देशभेदे पारदे हिङ्गुलेऽप्यथ ।दारदो विषभेदेऽयं पुंनपुंसकयोर्मतः ॥ २६३० ॥
34.2630 · p. 194
अनुष्टुप्
दार्वस्त्री पित्तले काष्ठे क्ली पुनर्देवदारुणि ।दारुको दैत्यभेदे च पुमान्स्यात्कृष्णसारथौ ॥ २६३१ ॥
34.2631 · p. 194
अनुष्टुप्
दारुकः-दिव्यं
अस्त्री तु दारुक इति कुदार्वर्थे प्रयुज्यते ।दारुणे रसभेदे ना क्ली व्याधौ भीषणे त्रिषु ॥ २६३२ ॥
34.2632 · p. 195
अनुष्टुप्
द्राक्षायां स्त्री दारुफला योगार्थे त्वभिधेयवत् ।दार्वी दारुहरिद्रायां स्त्रीलिङ्गे परिकीर्त्तिता ॥ २६३३ ॥
34.2633 · p. 195
अनुष्टुप्
दावो दवाग्नावग्नौ च दावन्तु क्ली वने मतम् ।दाशो दाशा द्वयोर्दाने दाशी कैवर्त्तभृत्ययोः ॥ २६३४ ॥
34.2634 · p. 195
अनुष्टुप्
द्वयोरथ दशायोगिन्युक्तो दाशोऽभिधेयवत् ।दासो ज्ञानात्मनि त्रि द्वे भृत्ये शूद्रे च धीवरे ॥ २६३५ ॥
34.2635 · p. 195
अनुष्टुप्
दासी तु स्त्री नीलझिण्टीषडस्रावीरुधोरियम् ।दासेरो दासिकापुत्रे द्वयोः पुंसि क्रमेलके ॥ २६३६ ॥
34.2636 · p. 195
अनुष्टुप्
दासेरकस्तु करभे दासीपुत्रे च धीवरे ।दिक्करीषत्प्रौढयोषित्यथ योगे यथायथम् ॥ २६३७ ॥
34.2637 · p. 195
अनुष्टुप्
दिगम्बरं क्ली ध्वान्ते त्रि नग्ने ना क्षपणे शिवे ।दिग्धः पुंसि विषाक्तेषौ त्रिषु लिप्तप्रवृद्धयोः ॥ २६३८ ॥
34.2638 · p. 195
अनुष्टुप्
नपुंसकन्तु दिग्धं स्यात्स्नेहेऽप्युपचये तथा ।दितिर्दैत्यजनन्याञ्च खण्डनेऽपि स्त्रियाम्मता ॥ २६३९ ॥
34.2639 · p. 195
अनुष्टुप्
दिधिषूः परिविन्नाद्यञ्ज्येष्ठा चेद्भगिनी स्त्रियाम् ।कनिष्ठपत्न्याम्पुनर्भ्वां ना त्वस्या दिधिषुर्धवे ॥ २६४० ॥
34.2640 · p. 195
अनुष्टुप्
दिधिषूपतिरासक्ते पत्न्याम्भ्रातुर्मृतस्य च ।पुनर्भ्वाश्च तथा पत्यौ पुँल्लिङ्गः परिकीर्त्तितः ॥ २६४१ ॥
34.2641 · p. 195
अनुष्टुप्
द्यौर्ना सूर्ये स्त्रियां तु स्वर्वियतोर्द्यौर्दिवन्तु नप् ।दिवाकीर्त्तिर्द्वयोरुक्तश्चण्डाले नापितेऽपि च ॥ २६४२ ॥
34.2642 · p. 195
अनुष्टुप्
दिवाचरस्तु ना शुक्रे त्रिलिङ्गो दिनचारिणि ।दिवाभीत उलूके द्वे पुमांस्तु कुमुदाकरे ॥ २६४३ ॥
34.2643 · p. 195
अनुष्टुप्
त्रिषु चोरे व्यवहितेऽपि दिवाभीत इष्यते ।दिवोकाश्च दिवौकाश्च न क्ली देवे च चातके ॥ २६४४ ॥
34.2644 · p. 195
अनुष्टुप्
दिव्यं लवङ्गे लशुने व्योम्नि तन्त्रीस्वरेऽपि च ।प्रत्ययेऽथ स्त्रियान्धात्र्यां वल्गुद्युभवयोस्त्रिषु ॥ २६४५ ॥
34.2645 · p. 195
अनुष्टुप्
दिव्येलकः-दीर्घपत्रः
दिव्येलको द्वयोर्भेदे वैकरञ्जाख्यभोगिनः ।त्रयोदशां भेदानां राजिलस्य च कुत्रचित् ॥ २६४६ ॥
34.2646 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 शां (syllables merged)
दिष्टः काले कृतान्तेऽथ दैवे संवदने च नप् ।दानभूषणयोः स्नाने तथा स्यान्मृत्तिकाम्भसा ॥ २६४७ ॥
34.2647 · p. 196
अनुष्टुप्
दिष्टन्तु भाषिते दत्ते त्रिलिङ्गं परिकीर्त्तितम् ।दिष्टिर्नाऽष्टाङ्गुले माने स्त्री दानोक्तिसुखेषु च ॥ २६४८ ॥
34.2648 · p. 196
अनुष्टुप्
दिष्ट्याऽव्ययम्मङ्गले च हर्षे च परिकीर्त्तितम् ।दीक्षा स्त्रियां व्रतादेशे मौण्ड्ये चोपनयेऽपि च ॥ २६४९ ॥
34.2649 · p. 196
अनुष्टुप्
नियमे यजने चैव पूजायाञ्च प्रकीर्त्तिता ।दीदिविस्त्वोदने न क्ली ना स्वर्गेऽग्नौ बृहस्पतौ ॥ २६५० ॥
34.2650 · p. 196
अनुष्टुप्
दीधितिस्तु स्त्रियां रश्मावङ्गुलावपि कीर्त्तिता ।दीनः पुन्नागकेतक्योः पुमान्दीना तु मूषिका ॥ २६५१ ॥
34.2651 · p. 196
अनुष्टुप्
दरिद्रकृपणक्षीणेष्वयन्दीनस्त्रिषु स्मृतः ।दीपको जीरके दीपे यवान्यान्ना च पक्षिणि ॥ २६५२ ॥
34.2652 · p. 196
अनुष्टुप्
पक्षिणो येन गृह्यन्तेऽथ क्ली वाचामलङ्कृतौ ।अथ दीपयितर्येष दीपितर्यपि वाच्यवत् ॥ २६५३ ॥
34.2653 · p. 196
अनुष्टुप्
दीपनी त्रिषु दीप्तेः स्यात्साधने क्ली तु दीपनम् ।दीप्तौ दीपयतेस्त्वर्थे दीपनन्दीपना न ना ॥ २६५४ ॥
34.2654 · p. 196
अनुष्टुप्
दीपनः स्यात्पुंसि महाकदम्बाख्ये द्रुमान्तरे ।दीप्ता विद्युति दीप्तं त्रिर्दग्धज्वलितभासिते ॥ २६५५ ॥
34.2655 · p. 196
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्पुं (wrong syllable)
दीप्यो जीरे यवान्यान्ना दीपनीये तु स त्रिषु ।दीप्यकस्त्वजमोदायां यवानीबर्हिचूडयोः ॥ २६५६ ॥
34.2656 · p. 196
अनुष्टुप्
दीर्घं त्रिष्वायते मात्राद्वयोच्चार्यस्वरेऽपि च ।नपुंसकन्तु सीम्नोः स्यात्ससुन्वेवर्गगीतयोः ॥ २६५७ ॥
34.2657 · p. 196
अनुष्टुप्
दीर्घनादः शुनि द्वे स्याद्योगार्थे तु त्रिषु स्मृतः ।दीर्घनिद्रा मृतौ स्त्री स्याद्योगार्थे तु यथायथम् ॥ २६५८ ॥
34.2658 · p. 196
अनुष्टुप्
दीर्घपत्री स्त्रियामेषा कदल्याम्परिकीर्त्तिता ।दीर्घपत्रः पलाण्डौ स्याद्दशानां भेद एकके ॥ २६५९ ॥
34.2659 · p. 196
अनुष्टुप्
दीर्घपादः-दुर्दर्शः
दीर्घपादो द्वयोः कङ्के योगार्थे तु त्रिषु स्मृतः ।दीर्घरोमा तु भल्लूके द्वे योगे तु त्रिषु स्मृतः ॥ २६६० ॥
34.2660 · p. 197
अनुष्टुप्
दीर्घाध्वगो द्वयोरुष्ट्रे लेख्यहारे तु वाच्यवत् ।दीर्घायुः शाल्मलीकक्षे पुमाञ्जीवकपादपे ॥ २६६१ ॥
34.2661 · p. 197
अनुष्टुप्
मार्कण्डेये च काके तु द्वे त्रिः स्याच्चिरजीविनि ।दीर्णो भिन्ने च भीते त्रिर्दीर्णी तु स्याद्दिशि स्त्रियाम् ॥ २६६२ ॥
34.2662 · p. 197
अनुष्टुप्
दुकूलं सूक्ष्मवसने क्षौमे धवलवाससि ।दुःखं व्यथायां क्लीबं स्यात्त्रिलिङ्गं त्वस्य साधने ॥ २६६३ ॥
34.2663 · p. 197
अनुष्टुप्
दुग्धं नपुंसकं क्षीरे कृतदोहे तु स त्रिषु ।क्षीरादौ च गवादौ च दुग्धी तु क्षीरिकौषधौ ॥ २६६४ ॥
34.2664 · p. 197
अनुष्टुप्
दुग्धतालीयन्तु दुग्धफेने दुग्धाम्रकेऽपि च ।दुग्धाशी तु शुके द्वे स्यात्क्षीराशिनि तु भेद्यवत् ॥ २६६५ ॥
34.2665 · p. 197
अनुष्टुप्
दुच्छको गन्धकुट्यां स्याद्विहाराद्यवकाशके ।दुन्दुभिर्दैत्यभेदे च भेर्याञ्च वरुणे पुमान् ॥ २६६६ ॥
34.2666 · p. 197
अनुष्टुप्
स्त्री तु द्यूतशलाकायान्द्वे तु कीटान्तरे भवेत् ।दुरव्ययन्निषेधे च कष्टे च परिकीर्त्तितम् ॥ २६६७ ॥
34.2667 · p. 197
अनुष्टुप्
दुराशः कृकलासे द्वे दुष्टाशे त्वभिधेयवत् ।दुरासदः पुमानग्नौ दुष्प्रापे तु मतस्त्रिषु ॥ २६६८ ॥
34.2668 · p. 197
अनुष्टुप्
दुरितन्दुर्गतौ पापे दुर्गते तु त्रिषु स्मृतम् ।दुरोदरो स्त्रीपणे क्ली द्यूते द्यूतकरे पुमान् ॥ २६६९ ॥
34.2669 · p. 197
अनुष्टुप्
दुर्गं वनेऽपि नरके दुर्गोऽस्त्री दुर्गमे पुरे ।राष्ट्रे तु पुंसि दुर्गः स्त्री दुर्गोमायां त्रि दुर्गमे ॥ २६७० ॥
34.2670 · p. 197
अनुष्टुप्
दुर्गतिः स्त्री दरिद्रत्वे नरके तु द्वयोर्मता ।दुर्गन्धो ना कुगन्धे दुर्गन्धं सौवर्चले नपि ॥ २६७१ ॥
34.2671 · p. 197
अनुष्टुप्
दुर्गमो भूधरे पुंसि दुष्प्रवेशे त्वयं त्रिषु ।दुर्जातं व्यसने क्लीबमसुजाते तु भेद्यवत् ॥ २६७२ ॥
34.2672 · p. 197
अनुष्टुप्
दुर्दर्शा त्वविवाह्यायां कन्यायां कुब्जतावशात् ।वाच्यवत्त्वेष दुष्प्रेक्षे दुर्दर्शः परिकीर्त्तितः ॥ २६७३ ॥
34.2673 · p. 197
अनुष्टुप्
दुर्धरः-दृन्भूः
[दुर्धरस्त्वृषभा]ख्ये ना भेषजे निरयान्तरे ।[पारदे राक्षसभिदि दुःखधार्ये त्रि] दुर्धरम् ॥ २६७४ ॥
34.2674 · p. 198
अनुष्टुप्
दुर्लभो ना यवासे [त्रिर्दुष्प्रापातिप्रशस्तयोः] ।दुर्वर्णं रजते चैलावालुकाख्ये च भेषजे ॥ २६७५ ॥
34.2675 · p. 198
अनुष्टुप्
दुष्टवर्णे तु नृनपोर्बहुव्रीहौ पुनस्त्रिषु ।दुर्वारस्तु यमे पुंसि दूरोधे त्वभिधेयवत् ॥ २६७६ ॥
34.2676 · p. 198
अनुष्टुप्
दुर्विधो वाच्यलिङ्गः स्यान्नीचे दुर्गत एव च ।दुलिः स्त्रियां कमट्यां स्यादथ मुन्यन्तरे पुमान् ॥ २६७७ ॥
34.2677 · p. 198
अनुष्टुप्
दुष्कृतं कुकृते त्रि स्यात्पापे तु क्लीबमिष्यते ।दुरस्थस्त्रिर्दुर्गते मूर्खे तथा दुःखेन तिष्ठति ॥ २६७८ ॥
34.2678 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दुस्स्पर्शो ना यवासे स्याद्दुःखस्पर्शे भवेत्त्रिषु ।दुस्स्पर्शी कण्टकार्याञ्चात्मगुप्तायामपि स्त्रियाम् ॥ २६७९ ॥
34.2679 · p. 198
अनुष्टुप्
दूतः शुक्रे पुमान्द्वे तु मतः सन्देशहारके ।सञ्चारिकायान्तु स्त्रीत्वमात्रे दूती प्रकीर्त्तिता ॥ २६८० ॥
34.2680 · p. 198
अनुष्टुप्