All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
प (1/7)
पो ना वाताण्डपूतेषु पाने पातरि कीर्त्तितः ॥ ३०६७ ॥
37.3067 · p. 227
स्त्रियां तु रक्षणे पाने द्यूते पूरितके च सः ।पक्तिस्त्रियां गौरवे च पाने च परिकीर्त्तिता ॥ ३०६८ ॥
37.3068 · p. 227
अनुष्टुप्
पक्त्रन्तु गार्हपत्येऽपि पिठरे स्यान्नपुंसकम् ।पक्वं त्रि कथितो नाशोन्मुखे परिणते खले ॥ ३०६९ ॥
37.3069 · p. 227
अनुष्टुप्
क्लीबन्तु पचने प्रोक्तं शृतक्षीरजदध्नि च ।पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु ॥ ३०७० ॥
37.3070 · p. 227
अनुष्टुप्
पार्श्वद्वारे विरोधेऽर्द्धमासे चुल्लीबिलेऽन्तिके ।हस्तिपार्श्वे परिज्ञाने केशशब्दात्परश्चये ॥ ३०७१ ॥
37.3071 · p. 227
अनुष्टुप्
चन्द्रे पक्षचरो ना त्रिर्यूथभ्रष्टैकचारिणोः ।पक्षतिः पक्षमूलेऽपि स्त्रियां च प्रतिपत्तिथौ ॥ ३०७२ ॥
37.3072 · p. 227
अनुष्टुप्
पक्षी द्वयोः खगे स्त्री तु पूर्णिमाशाकिनीभिदोः ।आगामिवर्त्तमानाहर्युक्तरात्रौ च पक्षिणी ॥ ३०७३ ॥
37.3073 · p. 227
अनुष्टुप्
पक्ष्मपुष्पच्छदे पक्षिपक्षे नयनलोमसु ।किञ्जल्के तत्तु तूलादेः सूक्ष्मांऽशे च नपुंसकम् ॥ ३०७४ ॥
37.3074 · p. 227
अनुष्टुप्
पङ्कोऽस्त्री कदर्मे पापे तथैव परिकीर्त्तितः ।पुमान्पङ्करसः शीधौ पङ्कस्यापि रसे स्मृतः ॥ ३०७५ ॥
37.3075 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
पङ्कारः शैवले सेतौ सोपाने जलकुब्जके ।पङ्क्तिश्छन्दोविशेषेषु चत्वारिंशत्स्वरादिषु ॥ ३०७६ ॥
37.3076 · p. 227
अनुष्टुप्
आवलौ दशसंख्यायां त्वेकत्वे तन्मितेषु तु ।स्याद्वस्तुषु द्वित्वत्रित्वादौ सर्वत्र स्त्रियामियम् ॥ ३०७७ ॥
37.3077 · p. 227
अनुष्टुप्
पचत्रं-पटच्चराः
पचत्रं रन्धनस्थाल्यां पचत्रोऽपूपकारके ।पचम्पचा तु स्त्री दार्व्यां चम्पके ना पचम्पचः ॥ ३०७८ ॥
37.3078 · p. 228
अनुष्टुप्
पचिर्ना पचतौ धातावग्नौ च क्षुधि तु स्त्रियाम् ।पचेलिमस्तु ना वह्नौ माषे च द्वे तु घोटके ॥ ३०७९ ॥
37.3079 · p. 228
अनुष्टुप्
पच्छः शिलायां ना त्रिस्तु पादपीठेन गन्तरि ।पाणिसंज्ञे तु पच्छी स्त्री भवेद्वारुटकान्तरे ॥ ३०८० ॥
37.3080 · p. 228
अनुष्टुप्
पञ्चगुप्तो द्वयोः कूर्मे ना तु चार्वाकदर्शने ।पञ्चत्वम्पञ्चभावे च मरणे पञ्चता तथा ॥ ३०८१ ॥
37.3081 · p. 228
अनुष्टुप्
स्त्री पञ्चदश्यमावास्यापौर्णमास्योऽस्त्रि पूरणे ।पञ्चमो रागभेदेपि षडजादीनां स्वरे क्वचित् ॥ ३०८२ ॥
37.3082 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 षड (syllable split)
स्त्री तु पाण्डवपत्न्यां स्यात् पञ्चमी श्रीतिथावपि ।स्यात्पच्चमविभक्तौ च पञ्चानान्तु त्रि पूरणे ॥ ३०८३ ॥
37.3083 · p. 228
अनुष्टुप्
त्रिषु पञ्चसुगन्धः स्यादन्याऽर्थे क्लीसमाहृतौ ।पूगकर्पूरतक्कोलजातीफललवङ्गके ॥ ३०८४ ॥
37.3084 · p. 228
अनुष्टुप्
पञ्चाङ्गी तु खलीने च स्त्री पञ्चाङ्गसमाहृतौ ।अङ्गैस्तु पञ्चभिर्युक्ते स्यात्पञ्चाङ्गोऽभिधेयवत् ॥ ३०८५ ॥
37.3085 · p. 228
अनुष्टुप्
पञ्चाङ्गुलस्त्वेरण्डे ना पञ्चाङ्गुलिमिते त्रिषु ।पञ्चाननः शिवे पुंसि सिंहे त्वेष द्वयोर्मतः ॥ ३०८६ ॥
37.3086 · p. 228
अनुष्टुप्
पञ्चालस्त्वृषिभेदे ना देशभेदे नृभूमनि ।तद्राजे सर्ववचनः पाञ्चालास्यस्त्र्यपत्यके ॥ ३०८७ ॥
37.3087 · p. 228
अनुष्टुप्
पञ्चाली तु स्त्रियां गीतौ पुत्रिकायाञ्च कीर्त्तिता ।पच्चालिका तु स्त्रीवस्त्रपुत्रिकागीतिभेदयोः ॥ ३०८८ ॥
37.3088 · p. 228
अनुष्टुप्
पञ्चिका द्यूतभेदे स्याद्व्याख्या ग्रन्थान्तरेऽपि च ।त्रि तु विस्तारके पश्चकश्च पञ्चाङ्गसंहतौ ॥ ३०८९ ॥
37.3089 · p. 228
अनुष्टुप्
पटस्तु वस्त्रे केचितु सुवस्त्रे पुंनपुंसकम् ।पटी तु स्त्री विशिष्टे स्यात्पटे प्रावरणात्मके ॥ ३०९० ॥
37.3090 · p. 228
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 के (wrong syllable)
पटः प्रियालवृक्षे ना फले त्वस्य नपुंसकम् ।पटच्चरं जीर्णवस्त्रे पुम्भूम्नि तु पटच्चराः ॥ ३०९१ ॥
37.3091 · p. 228
अनुष्टुप्
पटलः-पणः
मध्यदेशगते नीवृद्विशेषे परिकीर्त्तिताः ।पटलोऽस्त्र्यक्षिरुग्भेदेऽध्याये गेहच्छदिष्वपि ॥ ३०९२ ॥
37.3092 · p. 229
अनुष्टुप्
क्ली स्त्रियोस्तु समूहेऽथ पटली पिटकान्तरे ।पटहस्तु समारम्भे निर्घोषे युद्धवाद्यजे ॥ ३०९३ ॥
37.3093 · p. 229
अनुष्टुप्
आनकेऽपि समाख्यातः पुन्नपुंसकलिङ्गकः ।पटिः स्त्री पटभेदे स्याद्वागुलौ कुम्भिकाद्रुमे ॥ ३०९४ ॥
37.3094 · p. 229
अनुष्टुप्
पटीरः पुंसि कन्दर्पे कन्दरे चन्दनेऽपि च ।पटीरो मूलकेदारवेणुसारेषु वारिदे ॥ ३०९५ ॥
37.3095 · p. 229
अनुष्टुप्
तितउन्यपि रङ्गे च वातिके पुंसि कीर्त्तितः ।पटुस्त्रिशूरनिर्व्याधिदक्षाऽमन्दाऽच्छ्बुद्धिषु ॥ ३०९६ ॥
37.3096 · p. 229
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विस्पष्टे निस्त्वरे तीक्ष्णे लवणाख्यरसान्विते ।एष्वर्थेषु स्त्रियां पट्वी पटुरित्युभयम्भवेत् ॥ ३०९७ ॥
37.3097 · p. 229
अनुष्टुप्
पटुः पुंसि पटोल्यां च लवणाख्यरसान्तरे ।ऊषसैन्धवनाम्नोस्तु क्ली स्याल्लवणयोः पटु ॥ ३०९८ ॥
37.3098 · p. 229
अनुष्टुप्
पटुलन्तु बले क्लीबं त्रि तु स्याद्वाग्मिकल्ययोः ।पटोलस्तु पुमान्वल्लिजातौ तिक्तकनामनि ॥ ३०९९ ॥
37.3099 · p. 229
अनुष्टुप्
पटोली तु स्त्रियां कोशातक्यां क्ली वसनान्तरे ।पट्टः प्रशस्तकौशेयक्षौमादौ व्रणबन्धने ॥ ३१०० ॥
37.3100 · p. 229
अनुष्टुप्
शाणस्य नेत्रे स्वर्णादिकृतदीर्घाच्छपत्रके ।गुवाकनालिकेरादिपत्रमूलस्थवेष्टने ॥ ३१०१ ॥
37.3101 · p. 229
अनुष्टुप्
पट्टनं शकटैर्गम्ये घोटकैर्नौभिरेव च ।पुटभेदनसंज्ञे च क्षुद्रग्रामे पुरेऽपि च ॥ ३१०२ ॥
37.3102 · p. 229
अनुष्टुप्
पट्टबन्धः क्षत्रियायाञ्जारेण क्षत्रियेण यः ।जनितः स्याद्द्वयोस्तत्र नाम्ना क्षत्रियकुण्डके ॥ ३१०३ ॥
37.3103 · p. 229
अनुष्टुप्
अभिधेयवदेष स्यात्पदृबन्धनकर्त्तरि ।पढिस्तु विदुषि त्रि स्यान्ना तु वेदस्य पाठके ॥ ३१०४ ॥
37.3104 · p. 229
अनुष्टुप्
स्त्रियाम्फलकिकायां स्यादल्पायां युद्धकारिणाम् ।पणो विक्रय्यशाकादिबद्धमुष्टौ ग्लहे धने ॥ ३१०५ ॥
37.3105 · p. 229
अनुष्टुप्
पणवः-पत्तनत्तौ
द्यूते शीतौ वराटानां कार्षिकव्यवहारयोः ।मूल्ये भृतौ व्यवस्थायां विक्रये च प्रकीर्त्तितः ॥ ३१०६ ॥
37.3106 · p. 230
अनुष्टुप्
पणवो डिण्डिमे चापि गजस्कन्धे प्रकीर्त्तितः ।पणिर्ना पणतौ धातौ वणिजि त्रिषु कीर्त्तितः ॥ ३१०७ ॥
37.3107 · p. 230
अनुष्टुप्
पणिकस्तु वणिग्गेहे याज्ञिकानान्तु विश्रुते ।पुरोडाशस्य प्रथने पणिकं स्यान्नपुंसकम् ॥ ३१०८ ॥
37.3108 · p. 230
अनुष्टुप्
पण्डा स्त्री तत्त्वबुद्धौ द्वे गतौ ना तु नपुंसके ।पण्डा वेदोज्ज्वला बुद्धिस्तद्योगात्पण्डितो मतः ॥ ३१०९ ॥
37.3109 · p. 230
अनुष्टुप्
पण्डितः सूकराकारे मृगे स्त्रीपुंसयोर्मतः ।नासिह्लकाख्यनिर्यासे विदुषि त्वभिधेयवत् ॥ ३११० ॥
37.3110 · p. 230
अनुष्टुप्
पतङ्गो द्वे बिडालेऽश्वे शलभे पक्षिमात्रके ।ना त्वर्के शालिभेदेऽथ पुत्रिकायां पतङ्ग्यपि ॥ ३१११ ॥
37.3111 · p. 230
अनुष्टुप्
पतन्द्वयोः पक्षिणि स्यात्त्रिः स्यात्पतनकर्त्तरि ।क्लीबम्पतत्रमाकाशे पक्षे पक्ष्यादिकस्य च ॥ ३११२ ॥
37.3112 · p. 230
अनुष्टुप्
पतनन्तरुपत्रेऽपि पाते हानौ च कर्मणः ।पताका वैजयन्त्याञ्च सौभाग्ये नाटकाङ्गके ॥ ३११३ ॥
37.3113 · p. 230
अनुष्टुप्
पताकिनी चम्वां त्रिस्तु पताकी वैजयन्तिके ।पतिर्धवे गतौ मूले धातौ च पततौ पुमान् ॥ ३११४ ॥
37.3114 · p. 230
अनुष्टुप्
स्त्रियान्तु पत्नी भार्यायां पतिः स्वामिनि वाच्यवत् ।(ग्रामस्य तु प्रभौ ग्रामपत्नी ग्रामपतिः स्त्रियाम् ॥ ३११५ ॥
37.3115 · p. 230
अनुष्टुप्
वृद्धो यस्याः पतिर्वृद्धपत्नी वृद्धपतिश्च सा ।एवं प्रयोगा अन्येपि तर्कणीया यथायथम् ) ॥ ३११६ ॥
37.3116 · p. 230
अनुष्टुप्
पतिघ्नो वाच्यवत्पत्युर्घातके परिकीर्त्तितः ।वैधव्यलक्षणोपेते पतिघ्नी कन्यकान्तरे ॥ ३११७ ॥
37.3117 · p. 230
अनुष्टुप्
पतितस्त्रिषु कर्मभ्यो हीने प्रस्कन्न एव च ।पतेरस्तु पुमाञ्ज्ञेयः पवने द्वे तु पक्षिणि ॥ ३११८ ॥
37.3118 · p. 230
अनुष्टुप्
पत्तनत्तौ मात्रगम्ये पुटभेदननामनि ।क्षुद्रग्रामे पुरे चापि क्रयविक्रयभुव्यपि ॥ ३११९ ॥
37.3119 · p. 230
अनुष्टुप्
पत्तिः-पदकः
पत्तिस्तु पतनेऽपि स्त्री पदनेऽपि प्रकीर्त्तिता ।एकैकेभरथत्र्यश्वपञ्चपद्गबलेऽपि च ॥ ३१२० ॥
37.3120 · p. 231
अनुष्टुप्
लेपेन कृतलेखायां बाह्वादौ पदिके तु ना ।पत्रोऽस्त्री छुरिकायातपर्णेष्विषुखगच्छदे ॥ ३१२१ ॥
37.3121 · p. 231
अनुष्टुप्
पत्रको यावशूकाख्ये यवक्षारान्तरे पुमान् ।व्यवहारगतानान्तु लेख्ये स्यात्पत्तिसंज्ञके ॥ ३१२२ ॥
37.3122 · p. 231
अनुष्टुप्
अनुलेपनविन्यासभेदेऽपि नपि पत्रकम् ।पत्रलो जातपत्रे त्रिस्तालीवृक्षे तु पत्रला ॥ ३१२३ ॥
37.3123 · p. 231
अनुष्टुप्
पत्रलन्त्वघने क्लीबन्दधिभेदे प्रकीर्त्तितम् ।पत्राङ्गं न द्वयोर्भूर्जे पद्मके रक्तचन्दने ॥ ३१२४ ॥
37.3124 · p. 231
अनुष्टुप्
पत्री शराद्र्योः काण्डद्रौ रथिके ना द्वयोः खगे ।श्येनेऽथ पत्रिणी पत्न्याः कनिष्ठस्वसरि स्त्रियाम् ॥ ३१२५ ॥
37.3125 · p. 231
अनुष्टुप्
पत्रन्तु यत्र यस्याऽपि तत्र स्याद्भेद्यलिङ्गकम् ।पत्रोर्णन्धौतकौशेये ना तु डुण्डुक-पादपे ॥ ३१२६ ॥
37.3126 · p. 231
अनुष्टुप्
पत्सलस्तु प्रहारेऽपि प्रहासे च प्रकीर्त्तितः ।पथिकृद्वर्त्महोमाग्नौ त्रिस्तु मार्गस्य कर्त्तरि ॥ ३१२७ ॥
37.3127 · p. 231
अनुष्टुप्
पथ्यम्पथोऽनपेते त्रिर्हिते नित्येषु च क्रतोः ।स्याद्विष्टुत्यादिकाङ्गेषु ऋक्सामे दाशरात्रिके ॥ ३१२८ ॥
37.3128 · p. 231
अनुष्टुप्
पथ्या तु स्त्री हरीतक्यां तथार्याच्छन्दसोऽन्तरे ।गणेषु त्रिषु यस्यादावर्धयोर्दृश्यते यतिः ॥ ३१२९ ॥
37.3129 · p. 231
अनुष्टुप्
बृहतीच्छन्दसो भेदे यस्य स्याद्द्वादशाक्षरम् ।उपोत्तमम्पदम्पादास्त्रयोऽन्येऽष्टाक्षराः स्मृताः ॥ ३१३० ॥
37.3130 · p. 231
अनुष्टुप्
क्लीबन्तु पथ्यं गायत्र्यादिकच्छन्दःसु सप्तसु ।पदमङ्घ्रौ शरे त्राणे व्यवसायाऽपदेशयोः ॥ ३१३१ ॥
37.3131 · p. 231
अनुष्टुप्
चिह्नेऽङ्घ्रिचिह्नेऽङ्घ्रिन्यासे पद्यभागेंऽशुवस्तुनोः ।स्थाने वाक्ये सुप्तिङन्ते माने पञ्चदशाङ्गुलौ ॥ ३१३२ ॥
37.3132 · p. 231
अनुष्टुप्
इन्द्रपुच्छेऽतिवर्गस्याऽप्यादितस्त्रिषु सामसु ।पदको ना मध्यमणौ पदाऽध्येतर्यपि स्मृतः ॥ ३१३३ ॥
37.3133 · p. 231
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
पदाजिः-पपीः
उपाधिभूषणादौ तु पदत्रे च नपुंसकम् ।पदाजिर्युधि मार्गे ना पदगे तु त्रिषु स्मृतः ॥ ३१३४ ॥
37.3134 · p. 232
अनुष्टुप्
पदातिः पदिके पुंसि भवेत्स्थानवति त्रिषु ।पदारस्तु पुमान्वास्तुदेवभेदेऽङ्घ्रिधूलिषु ॥ ३१३५ ॥
37.3135 · p. 232
अनुष्टुप्
पदारन्तु पदालिन्दे नपुंसकमुदीरितम् ।पद्धतिस्तु स्त्रियां पङ्क्तौ मार्गे च परिकीर्त्तिता ॥ ३१३६ ॥
37.3136 · p. 232
अनुष्टुप्
पद्मोऽस्त्री पङ्कजे क्लीबं संख्याभेदे तथेन्द्रिये ।गजबिन्दुष्वष्टकायान्नागराजान्तरे तु ना ॥ ३१३७ ॥
37.3137 · p. 232
अनुष्टुप्
निधिभेदे व्यूहभेदे वर्णपीतसितासिते ।त्रि तु तद्वति पद्मा तु लक्ष्मीभार्ग्योः स्त्रियामियम् ॥ ३१३८ ॥
37.3138 · p. 232
अनुष्टुप्
स्यात्पद्मनालिकायां पद्मचारिण्याख्यभेषजे ।पद्मकं स्यात्पद्मकाष्ठे कुसुम्भे बिन्दुजालके ॥ ३१३९ ॥
37.3139 · p. 232
अनुष्टुप्
स्यात्पद्मलाञ्छनो लोकेश्वरे ब्रह्मणि भास्करे ।धनदेऽथ श्रियान्तारावाग्देव्योः पद्मलाञ्छना ॥ ३१४० ॥
37.3140 · p. 232
अनुष्टुप्
पद्मासनन्त्वासनस्य भेदे क्ली पुंसि धातरि ।पद्मी द्वयोर्हस्तिनि स्यात्त्रि तु पद्मवति स्मृतः ॥ ३१४१ ॥
37.3141 · p. 232
अनुष्टुप्
पद्मिनी सरसीलक्ष्म्योर्नलिन्यां योषिदन्तरे ।पद्यं क्लीबं मतं श्लोके त्रिषु स्यात्पदसाधुनि ॥ ३१४२ ॥
37.3142 · p. 232
अनुष्टुप्
द्वयोस्तु पद्यो वृषले पद्या तु स्यात्स्त्रियां पथि ।पद्रो ग्रामनिवेशे ना त्रिषु शून्ये प्रकीर्त्तितः ॥ ३१४३ ॥
37.3143 · p. 232
अनुष्टुप्
पद्वा वत्से द्वयोः पुंसि तूक्तो गत्यवसानयोः ।पनसः कण्टकिफले कण्टकेऽपि पुमान्मतः ॥ ३१४४ ॥
37.3144 · p. 232
अनुष्टुप्
पनसं स्वफले क्लीबं पनसी तु रुजान्तरे ।पन्नः स्कन्ने त्रिषु क्ली तु जिह्वायां पन्नमिष्यते ॥ ३१४५ ॥
37.3145 · p. 232
अनुष्टुप्
पन्नगस्त्वोषधेर्भेदे पुमान्सर्पे तु सद्वयोः ।पपीर्ना किरणे सूर्ये द्वे तु हस्तिनि कीर्त्तितः ॥ ३१४६ ॥
37.3146 · p. 232
अनुष्टुप्
पयः-परा
पयः सामान्तरे दुग्धे रजन्यामन्नतोययोः ।पयस्या क्षीरकाकोल्यामिक्षयोर्दुधिकौषधे ॥ ३१४७ ॥
37.3147 · p. 233
अनुष्टुप्
स्वर्णक्षीर्याम्पयःसाधुभवादौ तु त्रिषु स्मृता ।पयस्वती निशानद्योः पयस्विनि पुनस्त्रिषु ॥ ३१४८ ॥
37.3148 · p. 233
अनुष्टुप्
पयस्विनी नदीधेनुनिप्सु स्त्री क्षीरिणि त्रिषु ।पयोगर्भः पुमान्मेघे जलगर्भे यथायथम् ॥ ३१४९ ॥
37.3149 · p. 233
अनुष्टुप्
पयोधरः कोषकारे नारिकेले स्तने स्त्रियाः ।कशेरुमेघयोः पुंसि वाच्यवत्तु पयोभृति ॥ ३१५० ॥
37.3150 · p. 233
अनुष्टुप्
परम्प्रकृष्टे द्विषति पूर्वार्वाक्प्रतियोगिनोः ।अन्यस्मिन्केवले दूरे त्रिषु ना परमात्मनि ॥ ३१५१ ॥
37.3151 · p. 233
अनुष्टुप्
क्लीबम्परार्धसंज्ञायाः संख्याया द्विगुणात्मनि ।संख्यायामथवा त्रिष्वेतत्संख्येयेषु वस्तुषु ॥ ३१५२ ॥
37.3152 · p. 233
अनुष्टुप्
परः श्रेष्ठादिदूरान्योत्तरे क्लीबन्तु केवले ।द्वयोस्तूद्रे परकुलो योगार्थे तु यथायथम् ॥ ३१५३ ॥
37.3153 · p. 233
अनुष्टुप्
परजातो द्वयोर्दासे स्यात्त्रिषु त्वन्यजन्मनि ।परञ्जस्तैलयन्त्रे स्याच्छुरिकाफलफेनयोः ॥ ३१५४ ॥
37.3154 · p. 233
अनुष्टुप्
परपुष्टा तु वेश्यायाम्परपुष्टो द्वयोः पिके ।परभृद्वायसे त्रिस्तु परभर्त्तरि कीर्त्तितः ॥ ३१५५ ॥
37.3155 · p. 233
अनुष्टुप्
परमस्मादनुज्ञायामव्ययम्परमेश्वरे ।पुँल्लिङ्ग उक्तः परमरसस्तक्रे रसोत्तमे ॥ ३१५६ ॥
37.3156 · p. 233
अनुष्टुप्
परमेष्ठी विधौ विष्णौ शिवेऽथ परमेष्ठिनी ।पार्वत्याम्परमेष्ठी तु निर्वृते चोत्तमे त्रिषु ॥ ३१५७ ॥
37.3157 · p. 233
अनुष्टुप्
परम्परा स्त्री सन्ताने परिपाट्याञ्च हिंसने ।द्वयोस्तु गृहिणः पुत्रपौत्रादेः पञ्चमेऽपि च ॥ ३१५८ ॥
37.3158 · p. 233
अनुष्टुप्
षष्ठे च मृगभेदे च गोकर्ण इति विश्रुते ।परशुः पुंसि वज्रे च टङ्कणे च परश्वधे ॥ ३१५९ ॥
37.3159 · p. 233
अनुष्टुप्
पुमान्परशुभिद्विघ्नराजे त्रिस्तु कुठारिणि ।पराऽव्ययं विमोक्षाभिमुख्यप्राधान्यधर्षणे ॥ ३१६० ॥
37.3160 · p. 233
अनुष्टुप्
पराकः-परिच्छदः
प्रातिलोम्ये भृशाऽर्थे च विक्रमे च गतौ वधे ।पराको द्वादशाहोपवासात्मव्रतखड्गयोः ॥ ३१६१ ॥
37.3161 · p. 234
अनुष्टुप्
दूरेऽहीनक्रतूनाञ्च त्रिरात्राणां क्वचिन्मतः ।पराक्रमो विक्रमे स्यात्सामर्थ्योद्योगयोरपि ॥ ३१६२ ॥
37.3162 · p. 234
अनुष्टुप्
परागः पुष्परेणौ च स्नानीयादौ रजस्यपि ।उपरागेऽद्रिभेदे च विख्यातौ चन्दनेऽपि च ॥ ३१६३ ॥
37.3163 · p. 234
अनुष्टुप्
पराभवस्तिरस्कारे विनाशे च पुमान्मतः ।परायणञ्चतुर्मासोपवासेऽपि नपुंसकम् ॥ ३१६४ ॥
37.3164 · p. 234
अनुष्टुप्
आसङ्गेऽपि च साकल्ये तथैव परिकीर्त्तितम् ।पराशरस्तु शक्रेऽपि व्यासस्य जनकेऽपि च ॥ ३१६५ ॥
37.3165 · p. 234
अनुष्टुप्
परासनन्निरसने वधे चापि नपुंसकम् ।परि स्यात्सर्वतोभावे वर्जने व्याधिशेषयोः ॥ ३१६६ ॥
37.3166 · p. 234
अनुष्टुप्
इत्थम्भूताख्यानभागवीप्साऽऽलिङ्गनलक्षणे ।दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे ॥ ३१६७ ॥
37.3167 · p. 234
अनुष्टुप्
परिकम्पो भये कम्पे पुँल्लिङ्गः परिकीर्त्तितः ।पुमान्परिकरः सङ्घे पर्यङ्कपरिवारयोः ॥ ३१६८ ॥
37.3168 · p. 234
अनुष्टुप्
प्रगाढगात्रिकाबन्धे सभारम्भविवेकयोः ।परिखाऽम्बुनिधौ खेये तथा भूभृत्यपि स्त्रियाम् ॥ ३१६९ ॥
37.3169 · p. 234
अनुष्टुप्
त्रि स्यात्परिगतं व्याप्ते विज्ञाने परिवेष्टिते ।परिग्रहस्तु शपथे मूले परिजने तथा ॥ ३१७० ॥
37.3170 · p. 234
अनुष्टुप्
आदानपत्न्योरर्केन्द्वोः स्याग्द्ग्रहग्रस्तयोरपि ।परिघस्त्वर्गले दण्डे परिघाताऽस्त्रयोरपि ॥ ३१७१ ॥
37.3171 · p. 234
अनुष्टुप्
कालयोगविशेषे च मूढगर्भे च मुद्गरे ।परिघोषो निनादे स्यादवाच्ये जलदध्वनौ ॥ ३१७२ ॥
37.3172 · p. 234
अनुष्टुप्
परिचारक उक्तो द्वे दासे शुश्रूषकेऽप्यथ ।सग्भूषणादिष्वर्थेषु नियुक्तायान्नृपस्त्रियाम् ॥ ३१७३ ॥
37.3173 · p. 234
अनुष्टुप्
स्त्रीलिङ्गमात्रे कथिता कविभिः परिचारिका ।परिच्छदो जातिभेदे शबरी विप्रजे द्वयोः ॥ ३१७४ ॥
37.3174 · p. 234
अनुष्टुप्
परिज्वा-परिवेषः
पुँल्लिङ्गस्तूपकरणे परिच्छद उदीरितः ।परिज्वाऽग्नौ च वायौ च चन्द्रे चाऽपि पुमान्मतः ॥ ३१७५ ॥
37.3175 · p. 235
अनुष्टुप्
परिणाहो विशालत्वे परितो बन्धनेऽपि च ।परितापस्तु पुंसि स्याद्दुःखे च नरकान्तरे ॥ ३१७६ ॥
37.3176 · p. 235
अनुष्टुप्
परिधानमधोवस्त्रे तदाच्छादनकर्मणि ।परिधायो जनस्थाने परिच्छेदनितम्बयोः ॥ ३१७७ ॥
37.3177 · p. 235
अनुष्टुप्
परिधिर्यज्ञियतरोः शाखायामुपसूर्यके ।प्राकारे परिधाने च षट्सु शुक्रियसामसु ॥ ३१७८ ॥
37.3178 · p. 235
अनुष्टुप्
परिप्लवा दण्डहीनस्रुचि स्त्री त्रिषु चञ्चले ।परिबर्हो राजयोग्यद्रव्ये चापि परिच्छदे ॥ ३१७९ ॥
37.3179 · p. 235
अनुष्टुप्
परिभाषणमालापेऽप्युपालम्भे नपुंसकम् ।अतिमर्दे परिमलो गन्धे चातिमनोहरे ॥ ३१८० ॥
37.3180 · p. 235
अनुष्टुप्
रतोपमर्दविकसत्कायरागादिसौरभे ।परिवत्सर उक्तः संवत्सरेऽपि च तद्भिदि ॥ ३१८१ ॥
37.3181 · p. 235
अनुष्टुप्
परित्यागे वधे च स्त्रीनपोः स्यात्परिवर्जना ।परिवर्त्तो विनिमये कूर्मराजे प्रवर्त्तने ॥ ३१८२ ॥
37.3182 · p. 235
अनुष्टुप्
परिवादस्तु निर्वादे वीणावादनसाधने ।परिवादी तु परिवादवति त्र्यपवादिनि ॥ ३१८३ ॥
37.3183 · p. 235
अनुष्टुप्
वीणायान्तु स्त्रियामेषा कीर्त्तिता परिवादिनी ।परिवापः परीवापो लाजेषु च परिच्छदे ॥ ३१८४ ॥
37.3184 · p. 235
अनुष्टुप्
पर्युप्तौ स्थाप्यबीजालवालारोहेषु कीर्त्तितः ।परिवारः परिजने प्रावारे खड्गकोशके ॥ ३१८५ ॥
37.3185 · p. 235
अनुष्टुप्
परिवित्तिस्तु परिवेदने स्त्रीत्वेऽथ नाऽग्रजे ।यस्याकृतविवाहस्य कनीयान्दारसंग्रही ॥ ३१८६ ॥
37.3186 · p. 235
अनुष्टुप्