All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
श (3/4)
शिफा मातरि शाखायामवरोहे नदीभिदि ।नद्यां कशायां कुमुदमूले मांसीहरिद्रयोः ॥ ६०३९ ॥
46.6039 · p. 447
अनुष्टुप्
शिबिरौशीनरे क्रव्यात्पक्षिभिद्भूर्जवृक्षयोः ।शिबिका तु कुबेरीयगदाशिबिकयोर्मता ॥ ६०४० ॥
46.6040 · p. 447
अनुष्टुप्
शिबिरं तु मतं स्कन्धावारे धान्यान्तरेऽपि च ।शिमिः शिमीवत्कार्येऽपि शिम्ब्यां च स्त्रीत्व इष्यते ॥ ६०४१ ॥
46.6041 · p. 447
अनुष्टुप्
शिम्बो द्वे मृगजातौ स्त्री शिम्बी निष्पावनामनि ।वल्ल्यां शिम्बा तु मुद्गादिसस्यानां [बीजकोशके] ॥ ६०४२ ॥
46.6042 · p. 447
अनुष्टुप्
शिम्बस्तु चक्रमर्देऽपि पुमान्कैश्चित्प्रकीर्त्तितः ।शिम्बलः क्षुद्रशिम्बेऽपि पुमांश्चैव द्रुमान्तरे ॥ ६०४३ ॥
46.6043 · p. 447
अनुष्टुप्
शिम्बलं-शिलाजं
शिम्बलं शाल्मलेः पुष्पे ऋग्भाष्ये सायणोऽब्रवीत् ।शिम्बिः शिम्ब्यां तथा स्त्रीत्वे वल्ल्यां निष्पावनामनि ॥ ६०४४ ॥
46.6044 · p. 448
अनुष्टुप्
शिम्बिकः कृष्णमुद्गे ना शिम्ब्यां स्त्री शिम्बिका मता ।शिम्बी शिम्ब्यां च निष्पावे कपिकच्छ्वां[स्त्रियां मता] ॥ ६०४५ ॥
46.6045 · p. 448
अनुष्टुप्
शिम्युः समर्थे त्रिः पुंभू नृजातिभिदि शिम्यवः ।शिरोऽन्नपिप्पलीमूले भूर्जेऽपि शयनीयके ॥ ६०४६ ॥
46.6046 · p. 448
अनुष्टुप्
स्त्रीपुंसयोस्त्वजगरे शिर एव प्रकीर्त्तितः ।शिरस्तु मस्तके श्रेष्ठे क्लीबं स्यात्पर्वतान्तरे ॥ ६०४७ ॥
46.6047 · p. 448
अनुष्टुप्
आरम्भेऽग्रे सामभिद्यापोज्योतिर्मन्त्र इष्यते ।शिरस्का शिबिकायां स्याच्छिरस्कं तु शिरस्त्रके ॥ ६०४८ ॥
46.6048 · p. 448
अनुष्टुप्
शिरस्त्रं तु कपालेऽपि शिरोरक्षणवस्तुनि ।शिरस्थो व्यवहारस्थेऽभियोक्तर्यपि नायके ॥ ६०४९ ॥
46.6049 · p. 448
अनुष्टुप्
शिरस्यो ना शिरःकेशे शिरःसम्बन्धिनि त्रिषु ।वाच्यवद्धातुकेऽथ स्यान्ना शिरिर्बाणखड्गयोः ॥ ६०५० ॥
46.6050 · p. 448
अनुष्टुप्
शिरिर्व्यालमृगेऽपि द्वे शलभेऽपि प्रकीर्त्तितः ।शिलम्बस्तु कुविन्देऽपि मुनावपि पुमान्मतः ॥ ६०५१ ॥
46.6051 · p. 448
अनुष्टुप्
शिरिणा तु स्त्रियां रात्रौ गुहायां कस्यचिन्मते ।शिरिम्बिठः पुमान्मद्ये [ऋग्वेदे परिकीर्त्तितः] ॥ ६०५२ ॥
46.6052 · p. 448
अनुष्टुप्
शिरीषो वृक्षभेदेऽथ नृभूग्रामान्तरे मतः ।शिरीषकः शिरीषेऽपि तथा नागान्तरे मतः ॥ ६०५३ ॥
46.6053 · p. 448
अनुष्टुप्
शिरीषिका त्वयं स्त्रीत्वे वृक्षभेदे प्रकीर्त्तिता ।शिरोरुजा शिरोव्याधौ सप्तपर्णद्रुमेऽपि च ॥ ६०५४ ॥
46.6054 · p. 448
अनुष्टुप्
शिरोरुहः कचे शृङ्गे काकनासा शिरोरुहा ।शिलजौषधिभेदे स्त्री शैलेये शिलजं मतम् ॥ ६०५५ ॥
46.6055 · p. 448
अनुष्टुप्
शिलोऽस्त्री कणिशाऽऽदाने पारियात्रसुते तु ना ।शिलाऽश्मनि च कर्पूरे द्वाराऽधः स्थितदारुणि ॥ ६०५६ ॥
46.6056 · p. 448
अनुष्टुप्
शिलाकुदृस्तु टङ्केऽथ पुमान्पाषाणशिल्पिनि ।शिलाजं त्वयसि क्लीबं शिलाजतुनि च स्मृतम् ॥ ६०५७ ॥
46.6057 · p. 448
अनुष्टुप्
शिलाटकः-शिवः
स्याच्छिलाकुसुमे पारसीकतैले तथा मतम् ।शिलाटकः स्यादट्टेऽपि विलेऽपि च तिले वृतौ ॥ ६०५८ ॥
46.6058 · p. 449
अनुष्टुप्
शिलाधातुस्तु खटिकाहरितालकगैरिके ।शिलापेषस्तु पेषण्यां तथा धान्यादिपेषके ॥ ६०५९ ॥
46.6059 · p. 449
अनुष्टुप्
शिलावहा नदीभेदे स्त्री नृभूम्नि जनान्तरे ।शिलासनं तु शैलेये क्ली शिलाकुसुमेऽपि च ॥ ६०६० ॥
46.6060 · p. 449
अनुष्टुप्
शिलिर्ना भूर्जवृक्षे स्त्री द्वाराधस्थितदारुणि ।शिली गण्डूपदीभेक्योर्द्वाराधस्थितदारुणि ॥ ६०६१ ॥
46.6061 · p. 449
अनुष्टुप्
स्तम्भशीर्षे तथा बाणे शल्येऽपि स्त्रीत्व इष्यते ।शिलीमुखः शरे पुंसि भ्रमरे तु द्वयोर्मतः ॥ ६०६२ ॥
46.6062 · p. 449
अनुष्टुप्
शिलोत्थं नपि शैलेये क्ली शिलाकुसुमेऽपि च ।शिलोद्भवं क्ली शैलेये स्याच्छिलाकुसुमेऽपि च ॥ ६०६३ ॥
46.6063 · p. 449
अनुष्टुप्
तथा चन्दनभेदेऽपि सुवर्णेऽपि प्रकीर्त्तितम् ।शिल्पं नपुंसकं प्रोक्तं कारुकर्मणि कर्मणि ॥ ६०६४ ॥
46.6064 · p. 449
अनुष्टुप्
कर्मान्तराणां निर्माणविज्ञानेऽपि तथा मतम् ।शिल्पाचार्या तु वपनशालायां यौगिकेऽपि च ॥ ६०६५ ॥
46.6065 · p. 449
अनुष्टुप्
शिवः शम्भौ पद्मरागे गोरसे शीधुकीलयोः ।रुद्रभेदेऽपि शैवेऽपि तथा लिङ्गे शिवस्य च ॥ ६०६६ ॥
46.6066 · p. 449
अनुष्टुप्
देवे वेदे षष्ठमासे वालके गुग्गुलावपि ।पारते कृष्णधत्तूरे योगभित्पुण्डरीकयोः ॥ ६०६७ ॥
46.6067 · p. 449
अनुष्टुप्
शुक्रे काले वसौ शाके सुनिषण्णाभिधे पुमान् ।द्वे तु वातमृगे स्त्री तु शम्भोर्नवसु शक्तिषु ॥ ६०६८ ॥
46.6068 · p. 449
अनुष्टुप्
एकस्याञ्च गवीथ्वाख्यक्षुद्रधान्ये नदीषु च ।हरीतक्यामामलक्यां तामलक्यां शमीद्रुमे ॥ ६०६९ ॥
46.6069 · p. 449
अनुष्टुप्
श्यामाहरिद्रादूर्वासु पीतधात्वन्तरेऽपि च ।छन्दोभित्पिप्पलीमूलनेमिमातृनदीभिदोः ॥ ६०७० ॥
46.6070 · p. 449
अनुष्टुप्
तुलस्यां क्रोष्टुभेदे च दीप्तजिह्वाह्वये स्मृता ।क्ली तु वारिणि कल्याणे स्थौणेये मूलकान्तरे ॥ ६०७१ ॥
46.6071 · p. 449
अनुष्टुप्
शिवङ्करः-शीतला
चाणक्यमूलकाभिख्ये सुखे व्योम्नि च सैन्धवे ।सामुद्रलवणे श्वेतटङ्कणे चन्दनेऽपि च ॥ ६०७२ ॥
46.6072 · p. 450
अनुष्टुप्
तारेऽप्यामलके लोहे तगरे वर्षभिद्यपि ।जम्बूप्लक्षद्वीपगते पुराणे शैवनामनि ॥ ६०७३ ॥
46.6073 · p. 450
अनुष्टुप्
मोक्षे तु नस्त्री गौर्यां तु द्वयमेतच्छिवी शिवा ।त्रि तु स्याच्छुभयुक्तेऽस्य सदा वाऽन्ताद्युदात्तता ॥ ६०७४ ॥
46.6074 · p. 450
अनुष्टुप्
शिवङ्करो ना खड्गे स्यादथ त्रिः शिवकारिणि ।शिवप्रियः पुष्पवृक्षे वसुभट्ट इति श्रुते ॥ ६०७५ ॥
46.6075 · p. 450
अनुष्टुप्
शिशिम्बष्ठस्तु मेघेऽपि भरद्वाजेऽपि चोच्यते ।विशेषर्तौ च शिशिरो शीते ना त्रि तु तद्वति ॥ ६०७६ ॥
46.6076 · p. 450
अनुष्टुप्
शिशुः पुंस्यृषिभेदे च स्कन्दे च द्वे तु बालके ।शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ ६०७७ ॥
46.6077 · p. 450
अनुष्टुप्
उलूपीसंज्ञके यादोऽन्तरे ना तु द्रुमान्तरे ।शिशुप्रियं क्ली कल्हारे सौगन्धिकमिति श्रुते ॥ ६०७८ ॥
46.6078 · p. 450
अनुष्टुप्
शिंशुमारस्तु पुँल्लिङ्ग उक्तस्तारामयाऽच्युते ।शिंशुमारो द्वयोर्यादोऽन्तरे जलकपावपि ॥ ६०७९ ॥
46.6079 · p. 450
अनुष्टुप्
शिश्विदानो द्वे कृकलासे त्रिः स्यात्कृष्णकर्मणि ।शीकरस्तु पुमान्वाताहते स्नेहकणे मतः ॥ ६०८० ॥
46.6080 · p. 450
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)
हस्तिहस्तोद्भूतदानजले च शबले गुणे ।तथा शीतगुणे त्रिस्तु तद्गुणान्यतरान्विते ॥ ६०८१ ॥
46.6081 · p. 450
अनुष्टुप्
शीघ्रं क्लीबमसत्त्वे ना वायौ क्षिप्रे तु तत्त्रिषु ।शीतं जले च शैत्ये क्ली त्रिषु शैत्यगुणान्विते ॥ ६०८२ ॥
46.6082 · p. 450
अनुष्टुप्
शीतस्तु वेतसे पुंसि तथा श्लेष्मातके मतः ।शीतकस्त्वलसे त्रि स्त्री तु ज्वालाभिदि शीतिका ॥ ६०८३ ॥
46.6083 · p. 450
अनुष्टुप्
करवीरे पुमाञ्शीतकुम्भस्तत्प्रसवे तु नप् ।शीतपङ्कस्तु ना शीथौ योगार्थे तु यथायथम् ॥ ६०८४ ॥
46.6084 · p. 450
अनुष्टुप्
शीतलश्चम्पकतरौ तथा शीतगुणे पुमान् ।त्रि तद्वति स्त्री तु रक्तवर्णायां गवि शीतला ॥ ६०८५ ॥
46.6085 · p. 450
अनुष्टुप्
शीतशिवम्-शुक्लः
सैन्धवे क्ली शीतशिवं ना तु शालेयभेषजे ।शीथुरस्त्री मद्यमात्रे पक्वेक्षुरसजेऽत्र च ॥ ६०८६ ॥
46.6086 · p. 451
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
शीरा कार्पासिकायां स्त्री शीरस्त्वजगरे द्वयोः ।लताकुशे तु शीरीति स्त्रीलिङ्गे परिकीर्त्तिता ॥ ६०८७ ॥
46.6087 · p. 451
अनुष्टुप्
शीर्णिस्त्वङ्गे विशरणे तथा रोगे भवेत्स्त्रियाम् ।शीर्वी स्त्री पुंसयोर्न्यङ्कौ कृमौ च परिकीर्त्तितः ॥ ६०८८ ॥
46.6088 · p. 451
अनुष्टुप्
शीर्षण्यं क्ली शिरस्त्राणे योधानां शीर्षकाह्वये ।केशे ना विशदे तु त्रिर्मुख्ये मूर्धभवेऽपि च ॥ ६०८९ ॥
46.6089 · p. 451
अनुष्टुप्
शीलमस्त्री स्वभावेऽपि सद्वृत्तेऽपि प्रकीर्त्तितम् ।शीवा द्वयोः शृगाले चाऽजगरे सर्प एव च ॥ ६०९० ॥
46.6090 · p. 451
अनुष्टुप्
शुको व्याससुते कीरे रावणस्य च मन्त्रिणि ।ग्रन्थिपर्णे शिरीषे च शुकं स्याच्छोणके क्वचित् ॥ ६०९१ ॥
46.6091 · p. 451
अनुष्टुप्
शुकनासष्टुण्टुवृक्षे पुमांश्चागस्त्यपादपे ।शुकपत्रो निर्विषा ये सर्पा द्वादशकीर्त्तिताः ॥ ६०९२ ॥
46.6092 · p. 451
अनुष्टुप्
तेषामेकत्र योगे तु लिङ्गादि स्याद्यथायथम् ।शुक्तस्तु पूतितां प्राप्ते परुषेऽम्लेऽपि वाच्यवत् ॥ ६०९३ ॥
46.6093 · p. 451
अनुष्टुप्
शुक्तं तु काञ्जिके कल्कजातावपि नपुंसकम् ।यन्मस्त्वादिशुचौ भाण्डे सक्षौद्रगुडकाञ्जिके ॥ ६०९४ ॥
46.6094 · p. 451
अनुष्टुप्
त्रिरात्रं धान्यराशिस्थं तत्र चापि प्रकीर्त्तितम् ।शुक्तिस्तु मुक्तास्फोटे स्त्री स्यादङ्कोलदलौषधे ॥ ६०९५ ॥
46.6095 · p. 451
अनुष्टुप्
तिन्तिड्यां तिन्तिडीकायाः फले दुर्नामिकाह्वये ।जलजन्तौ च घोटानां रोमावर्त्तान्तरेऽपि च ॥ ६०९६ ॥
46.6096 · p. 451
अनुष्टुप्
कर्षोन्माने तथा कर्षे द्विगुणोन्मानकेऽपि च ।अक्षिरोगविशेषे च पुमांस्त्वृष्यन्तरे स्मृतः ॥ ६०९७ ॥
46.6097 · p. 451
अनुष्टुप्
शुक्रस्तु श्वेतवर्णे च शुक्लपक्षे पुमान्मतः ।श्वेतवर्णान्विते तु त्रिः शुक्रं त्वप्सु नपुंसकम् ॥ ६०९८ ॥
46.6098 · p. 451
अनुष्टुप्
शुक्लोऽर्के सितवर्णे च चन्द्रेऽग्नौ भार्गवेऽध्वरे ।दक्षिणाग्नौ क्रतावंशौ यज्ञपात्रगृहान्तरे ॥ ६०९९ ॥
46.6099 · p. 451
अनुष्टुप्
शुक्लम्-शूद्रः
ज्येष्ठमासेऽपि शुक्लं तु हेम्नि पुण्ये धने जने ।रेतोऽक्षिरुग्भिदोः सामान्तरे द्वे तु शिशौ द्विजे ॥ ६१०० ॥
46.6100 · p. 452
अनुष्टुप्
त्रि तु मेध्ये सिते चाथ घर्मसर्जनरश्मिषु ।शतत्रये रवेः शुक्रा इति स्त्रीत्वे प्रकीर्त्तिताः ॥ ६१०१ ॥
46.6101 · p. 452
अनुष्टुप्
शुण्ठोऽल्पे त्रिषु ना तु स्यात्पशौ पेश्यां तृणान्तरे ।शुण्ठिर्ना शुण्ठतौ धातौ स्त्री तु स्यान्नागरौषधे ॥ ६१०२ ॥
46.6102 · p. 452
अनुष्टुप्
शुण्डा सलीलहस्तिन्यां मदिराहस्तिहस्तयोः ।शुद्धोऽस्त्रियां जलेऽर्के तु ना त्रिः केवलपूतयोः ॥ ६१०३ ॥
46.6103 · p. 452
अनुष्टुप्
शुद्धान्तोऽन्तःपुरे कक्ष्यान्तरे गुह्ये तथा पुमान् ।शुनो वायौ सुखे तु क्ली शुनके तु द्वयोर्मतः ॥ ६१०४ ॥
46.6104 · p. 452
अनुष्टुप्
शुनकस्त्वृषिभेदे ना शुनि स्त्रीपुंसयोर्मतः ।शुन्ध्यवोऽप्सु स्त्रियोः शुन्ध्युर्नाऽहोऽग्न्यर्के द्वयोः खगे ॥ ६१०५ ॥
46.6105 · p. 452
अनुष्टुप्
शुभं लग्नाच्च नवमे राशावप्सु च मङ्गले ।मञ्जुप्रशस्तयोस्तु त्रिर्मङ्गलेन तथान्विते ॥ ६१०६ ॥
46.6106 · p. 452
अनुष्टुप्
अर्घ्यायां तु शुभेत्येषा स्त्रीलिङ्गे परिकीर्त्तिता ।शुभिस्त्रि रम्ये विप्रे द्वे नाऽवनौ च ऋषौ रवौ ॥ ६१०७ ॥
46.6107 · p. 452
अनुष्टुप्
शुभ्रः शौक्ल्ये पुमांस्त्रिस्तु शुक्ले स्याद्दीप्तिमत्यपि ।शुल्कोऽस्त्री स्यात्प्रदेयेऽर्थे मार्गादिषु महीपतेः ॥ ६१०८ ॥
46.6108 · p. 452
अनुष्टुप्
विवाहाय वराद्ग्राह्ये धनेऽपि परिकीर्त्तिता ।शुश्रूषा श्रोतुमिच्छायामुपास्तौ च कथानके ॥ ६१०९ ॥
46.6109 · p. 452
अनुष्टुप्
शुषिर्ना शुष्यतौ धातौ स्त्री तु रन्ध्रे च शोषणे ।शुषिरो विवरे न स्त्री वाद्यभेदे नखौषधे ॥ ६११० ॥
46.6110 · p. 452
अनुष्टुप्
पाशादौ तु छिद्रयुक्ते शुषिरस्त्रिषु कीर्त्तितः ।एतच्चासाम्प्रतं यस्माद्दन्त्यादिः सुषिरो मतः ॥ ६१११ ॥
46.6111 · p. 452
अनुष्टुप्
शुष्णो ग्रीष्मांशुकुक्ष्यर्के ना द्वे शोषे बले तु नप् ।शुष्मं बलेऽप्सुसंयोगे शुष्मः कालेऽनिले रवौ ॥ ६११२ ॥
46.6112 · p. 452
अनुष्टुप्
शूकोऽस्त्री धान्यसूक्ष्माग्रे शुङ्गाऽनुक्रोशयोरपि ।शूद्रश्चतुर्थवर्णे च तथा संकरजे द्वयोः ॥ ६११३ ॥
46.6113 · p. 452
अनुष्टुप्
शूद्रा-शृङ्गिबेरम्
स्त्र्यर्थे शूद्राऽत्र पुंयोगे तु शूद्री भूम्नि तु स्मृताः ।शूद्रा घर्मार्थरश्मीनां त्रिशत्याः प्रथमे शते ॥ ६११४ ॥
46.6114 · p. 453
अनुष्टुप्
नपुंसकं तु रजते शूद्रमेतत्प्रकीर्त्तितम् ।शून्यं रिक्ते मोहवतो वचस्यपि च वाच्यवत् ॥ ६११५ ॥
46.6115 · p. 453
अनुष्टुप्
शूरो वीरे त्रिषु श्वेतशालौ ना कुक्कुटे द्वयोः ।शूर्पोऽस्त्री परिमाणेऽपि द्रोणयुग्मात्मके मतः ॥ ६११६ ॥
46.6116 · p. 453
अनुष्टुप्
अर्द्धप्रस्थात्मके मानेऽपि च द्रोणचतुर्गुणे ।प्रस्फोटनक्रियायां च साधनेऽपि प्रकीर्त्तितः ॥ ६११७ ॥
46.6117 · p. 453
अनुष्टुप्
शूर्पकर्णो हस्तिनि द्वे यौगिके तु यथायथम् ।शूलोऽस्त्री शस्त्रभेदे च तथा रोगान्तरे मतः ॥ ६११८ ॥
46.6118 · p. 453
अनुष्टुप्
स्याच्छूलनाशकं सौवर्चलाख्ये लवणे नपि ।शूलिकस्त्रिः शूलवति द्वे विप्राशूद्रसंभवे ॥ ६११९ ॥
46.6119 · p. 453
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शू (wrong syllable)
शूली तु शूलयुक्ते त्रिः शङ्करे तु पुमान्मतः ।शृङ्खलः कटिसूत्रे त्रिर्दन्तिनां पादबन्धने ॥ ६१२० ॥
46.6120 · p. 453
अनुष्टुप्
शृङ्गोऽस्त्री शैलशिखरे सानौ क्रीडाऽम्बुयन्त्रके ।विषाणे च प्रभुत्वे च स्यात्प्राधान्यप्रधानयोः ॥ ६१२१ ॥
46.6121 · p. 453
अनुष्टुप्
क्लीबं तु ज्वलिनि स्त्री तु शृङ्गी मत्स्यान्तरे मता ।मद्गुरस्य स्त्रियां कर्कटशृङ्ग्यां च विषौषधे ॥ ६१२२ ॥
46.6122 · p. 453
अनुष्टुप्
अथ शृङ्गस्तु पुँल्लिङ्गो जीवकाह्वयभेषजे ।शृङ्गारस्तु पुमान्दन्तबीजस्तम्बेऽम्बुसंभवे ॥ ६१२३ ॥
46.6123 · p. 453
अनुष्टुप्
शृङ्गाटं तत्फले युद्धयन्त्रभेदे चतुष्पथे ।शृङ्गारो लम्पटे पुंसि नस्त्री तु रस उज्ज्वले ॥ ६१२४ ॥
46.6124 · p. 453
अनुष्टुप्
तथा सिन्दूरचूर्णे च करिणां मण्डनान्तरे ।शृङ्गारी पूगवृक्षे ना सुवेषे त्वभिधेयवत् ॥ ६१२५ ॥
46.6125 · p. 453
अनुष्टुप्
शृङ्गी तु वृषभेऽश्वे च यस्य शृङ्गः पदे भवेत् ।मांसबुद्बुद उक्तोऽयं पुमांश्च वृषभौषधे ॥ ६१२६ ॥
46.6126 · p. 453
अनुष्टुप्
शृङ्गिणी तु गवि स्त्रीत्वे महिषे तु द्वयोर्भवेत् ।शृङ्गिबेरं तु शुण्ठ्यामप्यार्द्रकेऽपि नपुंसकम् ॥ ६१२७ ॥
46.6127 · p. 453
अनुष्टुप्
शेवा-शोधनः
शेवा स्त्री प्रचलासंज्ञनिद्रायां क्ली सुखे धने ।शेषोऽप्रधानेऽनन्ताख्यसर्पराजे च शार्ङ्गिणः ॥ ६१२८ ॥
46.6128 · p. 454
अनुष्टुप्
अवतारान्तरेऽपत्ये त्रिस्त्वन्यत्रोपयुक्ततः ।माल्याक्षतादिदाने तु स्त्री शेषा परिकीर्त्तिता ॥ ६१२९ ॥
46.6129 · p. 454
अनुष्टुप्
शैखस्त्वनन्यपूर्वायां विप्रायां व्रात्यविप्रजे ।द्वयोरथ शिखा योगिन्येष शैखस्त्रिषु स्मृतः ॥ ६१३० ॥
46.6130 · p. 454
अनुष्टुप्
शैत्यं शीतलतायां च नैशित्ये शौक्ल्यकार्ष्ण्ययोः ।शैलस्तु भूधरे पुंसि शिलासम्बन्धिनि त्रिषु ॥ ६१३१ ॥
46.6131 · p. 454
अनुष्टुप्
वृत्तौ शीलभवायां स्त्री शैलीति परिकीर्त्तिता ।शैलाटः शुक्लकाचे च देवले च पुमान्मतः ॥ ६१३२ ॥
46.6132 · p. 454
अनुष्टुप्
शैलाटस्तु द्वयोः सिंहे किराते च प्रकीर्त्तितः ।शैलूषो ना बिल्वशण्डजात्योर्द्वे कितवे नटे ॥ ६१३३ ॥
46.6133 · p. 454
अनुष्टुप्
शैलेयं सिन्धुलवणे क्लीबं स्यात्तार्क्ष्यशैलके ।कालानुसार्यधातौ च मधुपे तु द्वयोरयम् ॥ ६१३४ ॥
46.6134 · p. 454
अनुष्टुप्
स्त्रियां शैवलिनी नद्यां वाच्यवत्तु सशैवले ।शैशवं तु द्वयोः साम्नोरुच्चतागीतयोस्तथा ॥ ६१३५ ॥
46.6135 · p. 454
अनुष्टुप्
नपुंसकं शिशुत्वेऽथ शिशुसम्बन्धिनि त्रिषु ।शोकः शुचि पुमान्स्त्री तु शोकी रात्रौ प्रकीर्त्तिता ॥ ६१३६ ॥
46.6136 · p. 454
अनुष्टुप्
शोचिर्ज्वलति शुद्धत्वे पैङ्ग्येंशौ शुग्विशुद्धयोः ।शोठो धूर्त्तेऽलसे मूर्खे नीचे पापरते त्रिषु ॥ ६१३७ ॥
46.6137 · p. 454
अनुष्टुप्
शोणो हिरण्यबाह्वाख्यनदभेदे प्रकीर्त्तितः ।टुण्डुवृक्षे रक्तवर्णे त्रि तु तद्वति तत्र च ॥ ६१३८ ॥
46.6138 · p. 454
अनुष्टुप्
स्त्र्यर्थे शोणा शोण्यथाश्वे द्वे कोकनदवर्णके ।शोणितं रुधिरे वृक्षनिर्यासे कुङ्कुमेऽपि नप् ॥ ६१३९ ॥
46.6139 · p. 454
अनुष्टुप्
रक्तवर्णयुते त्वेतदभिधेयवदिष्यते ।शोधना शोधयत्यर्थे न ना शुद्धौ तु नप्स्मृतम् ॥ ६१४० ॥
46.6140 · p. 454
अनुष्टुप्
शोधनोऽङ्कोलवृक्षे ना सम्मार्जन्यां तु शोधनी ।अथ शोधन एष स्याद्वाच्यवच्छुद्धिसाधने ॥ ६१४१ ॥
46.6141 · p. 454
अनुष्टुप्
शोभनं-श्येन्यः
शोभनं क्ली सुवर्णेऽर्थे शोभिते त्रि तु सुन्दरे ।शोषकः पश्चिमे कोष्ठश्रेणावारभ्य दक्षिणात् ॥ ६१४२ ॥
46.6142 · p. 455
अनुष्टुप्
कोष्ठे यः सप्तमे वास्तुदेवस्तत्र पुमान्मतः ।अथ त्रिः शोषयितरि शोष्टर्यपि च शोषकः ॥ ६१४३ ॥
46.6143 · p. 455
अनुष्टुप्
शौकं शुकसमूहे च स्त्रीणां च करणान्तरे ।शौण्डो द्वे कुक्कुटे शौण्डी पिप्पल्यां जलदावलौ ॥ ६१४४ ॥
46.6144 · p. 455
अनुष्टुप्
शौण्डो तु मत्ते शुण्डासम्बन्धिन्यप्यभिधेयवत् ।औत्थिताशनिके शौन्यादनिकस्तस्करेऽपि च ॥ ६१४५ ॥
46.6145 · p. 455
अनुष्टुप्
शौर्यं शक्त्याह्वयबले लग्नाद्राशौ तृतीयके ।शूरस्य भावक्रिययोस्तथैव स्यान्नपुंसकम् ॥ ६१४६ ॥
46.6146 · p. 455
अनुष्टुप्
श्यामो ना हरिते वर्णे वर्णे कृष्णे तथाऽम्बुदे ।पीलुद्रुमे च श्यामा तु निशीथित्यां स्त्रियामियम् ॥ ६१४७ ॥
46.6147 · p. 455
अनुष्टुप्
पिप्पलीफलिनीविद्युत्पालिनीशारिवासु च ।स्त्री व्यञ्जनकृतायां च कन्यायां पोतकीखगे ॥ ६१४८ ॥
46.6148 · p. 455
अनुष्टुप्
क्लीबं व्योम्नि मरीचेऽथोक्तवर्णान्वितयोस्त्रिषु ।श्यामकः श्यामाकधान्ये हेम्नस्तु श्यामिका मले ॥ ६१४९ ॥
46.6149 · p. 455
अनुष्टुप्
श्यामलोऽश्वत्थवृक्षे ना कार्ष्ण्ये च त्रिषु तद्वति ।श्यामला स्त्री मृगीभेदे प्रोक्तं यस्य च लक्षणम् ॥ ६१५० ॥
46.6150 · p. 455
अनुष्टुप्
श्यामवल्ली लतायां च श्यामे च मरिचे स्त्रियाम् ।श्यावोऽर्काश्वे च कपिशे वर्णे त्रिषु तु तद्वति ॥ ६१५१ ॥
46.6151 · p. 455
अनुष्टुप्
श्येनस्तु श्वेतवर्णे ना त्रि तु तद्वति तत्र च ।स्त्र्यर्थे श्येना तथा श्येनी मृगे द्वे त्वपि पक्षिणि ॥ ६१५२ ॥
46.6152 · p. 455
अनुष्टुप्
श्येनः सामान्तरे क्रत्वन्तरे चाप्याभिचारिके ।श्येनसंज्ञतृणप्राणिजात्योः स्यादेतयोर्यदा ॥ ६१५३ ॥
46.6153 · p. 455
अनुष्टुप्
स्त्र्यर्थे वृत्तिस्तदारूपं श्येनीत्येव प्रकीर्त्तितम् ।द्वे त्वश्वे पत्रिसंज्ञे च श्येनः पक्ष्यन्तरे स्मृतः ॥ ६१५४ ॥
46.6154 · p. 455
अनुष्टुप्
श्येना तु प्राचिकासंज्ञपक्षिजातो स्त्रियां मता ।श्येन्यो द्वयोरजगरे शकुनावपि कीर्त्तितः ॥ ६१५५ ॥
46.6155 · p. 455
अनुष्टुप्
श्रद्धा-श्रीपर्णी
श्रद्धास्तिक्ये स्पृहायां च गर्भिण्यास्तु विशेषतः ।श्रद्धालुर्दोहदिन्यां स्त्री श्रद्धाशीले तु वाच्यवत् ॥ ६१५६ ॥
46.6156 · p. 456
अनुष्टुप्
श्रपणा श्रपयत्यर्थे ननाऽथ श्रपणी स्त्रियाम् ।स्यादग्निहोत्रहवणीनामधेये स्रुगन्तरे ॥ ६१५७ ॥
46.6157 · p. 456
अनुष्टुप्
श्रमणं तु मतं शान्तौ श्रमणी मुण्डिकौषधे ।दध्याल्याख्यलतायां च क्षपणे तु द्वयोर्भवेत् ॥ ६१५८ ॥
46.6158 · p. 456
अनुष्टुप्