कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (7/8)

वेध्यं-वेषः

वेध्यं शरव्ये क्लीबं स्याद्वेध्या वाद्यान्तरे मता ।वेनो द्वयोर्जनेऽम्बष्ठीवैदेहकसमुद्भवे ॥ ५६६७ ॥
45.5667 · p. 421
अनुष्टुप्
स्यात्पारधैनुके चापि वैदेह्याम्बष्ठजेऽपि च ।ना तु यज्ञप्रजापत्योर्ध्यानिमेधाविनोरयम् ॥ ५६६८ ॥
45.5668 · p. 421
अनुष्टुप्
[पुंसीन्द्रे च पृथुपितर्यथ स्त्री पाण्डुरोगके] ।वेरं न स्त्री शरीरे क्ली वार्त्ताकौ कुङ्कुमे मुखे ॥ ५६६९ ॥
45.5669 · p. 421
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 च (wrong syllable)
वेरटं चूचुके क्लीबं त्रिर्मिश्रीकृतनीचयोः ।(वेलश्चूते) पुमानेतत्फले तु स्यान्नपुंसकम् ॥ ५६७० ॥
45.5670 · p. 421
अनुष्टुप्metre not read in every line
उद्यानेऽपि च बौद्धानां महासंख्यान्तरे तथा ।वेला कूले समुद्रस्य तदम्बुविकृतावपि ॥ ५६७१ ॥
45.5671 · p. 421
अनुष्टुप्
तरङ्गे वत्सरे काले व्यवस्थायामपि स्त्रियाम् ।अक्लिष्टमरणे रागे ईश्वरस्य च भोजने ॥ ५६७२ ॥
45.5672 · p. 421
अनुष्टुप्
वेगे रागेऽपि केषाञ्चित्स्वाध्याये दन्तमांसके ।बुधपत्न्यां मेरुपुत्र्यां समुद्रस्य च योषिति ॥ ५६७३ ॥
45.5673 · p. 421
अनुष्टुप्
वेल्लनं स्याद्विलुठने दूर्वाभेदे स्त्रियाम्मता ।वेल्ला तु वेल्लने नृस्त्री विडङ्गे तु नपुंसकम् ॥ ५६७४ ॥
45.5674 · p. 421
अनुष्टुप्
वेल्लितं गमने क्लीबं कुटिले विधुते त्रिषु ।वेशः प्रवेशे नेपथ्ये वेश्यावासे गृहेऽपि च ॥ ५६७५ ॥
45.5675 · p. 421
अनुष्टुप्
पटगेहे तथा वेश्याकर्मण्यपि पुमान्मतः ।अथोग्रीवैश्यजे द्वे स्याद्वेशके तु त्रिषु स्मृतः ॥ ५६७६ ॥
45.5676 · p. 421
अनुष्टुप्
वेशन्तः पल्वले चापि तथाकाशे प्रकीर्त्तितः ।वेशवारः पिष्टमांसविशेषे चाप्युपस्करे ॥ ५६७७ ॥
45.5677 · p. 421
अनुष्टुप्
वेश्मको वेश्मसम्बद्धे त्रिर्नृभूम्नि नृजातिषु ।वेश्म स्यान्मन्दिरे राशौ तुर्यराशौ च लग्नतः ॥ ५६७८ ॥
45.5678 · p. 421
अनुष्टुप्
वेश्या मल्लीगणिकयोः पाठाच्छन्दोभिदोरथ ।क्ली वेश्यागेहमल्लीभेदयोस्त्रिर्वेशयोगिनि ॥ ५६७९ ॥
45.5679 · p. 421
अनुष्टुप्
वेषः क्रियायामाकल्पे पुँल्लिङ्गेऽपि प्रकीर्त्तितः ।वेषस्त्रिविष्टपे रूपे क्लीबं तु व्योम्नि वारिणि ॥ ५६८० ॥
45.5680 · p. 421
अनुष्टुप्

वेष्टः-वैणवम्

वेष्टः श्रीवेष्टनिर्यासे वेष्टा स्याद्वेष्टने द्वयोः ।वेष्टकं तु शिरोवेष्टनिर्यासेऽपि नपुंसकम् ॥ ५६८१ ॥
45.5681 · p. 422
अनुष्टुप्
कूष्माण्डे तु पुमाञ्शब्दद्वित्वे स्यादितियोगतः ।वेष्टनं मुकुटे वाट उष्णीषे कर्णशष्कुलौ ॥ ५६८२ ॥
45.5682 · p. 422
अनुष्टुप्
तथा परिवृते चापि गुग्गुलौ च नपुंसकम् ।वेष्टितं त्रिषु रुद्धे क्ली लासके करणान्तरे ॥ ५६८३ ॥
45.5683 · p. 422
अनुष्टुप्
वेसरोऽश्वतरे स्त्रीपुंसयोः क्लीबं तु वासरे ।वेसवारः पिष्टमांसविशेषे चाप्युपस्करे ॥ ५६८४ ॥
45.5684 · p. 422
अनुष्टुप्
वै स्यात्सम्बोधने पादपूरणेऽनुनयेऽपि च ।वैकङ्कतस्त्रिषु विकङ्कताज्जाते द्रुमे न ना ॥ ५६८५ ॥
45.5685 · p. 422
अनुष्टुप्
वैकक्ष्यं पुष्पमाल्येऽपि तिर्यग्वक्षसि धारिते ।तथा प्रावरणे चापि वैकक्षं कस्यचिन्मते ॥ ५६८६ ॥
45.5686 · p. 422
अनुष्टुप्
वैकर्त्तनो यमे कर्णे सुग्रीवेऽपि शनैश्चरे ।वैकुण्ठः केशवे शक्रे पुँल्लिङ्गस्तुलसीद्रुमे ॥ ५६८७ ॥
45.5687 · p. 422
अनुष्टुप्
तालभेदे चतुर्विंशब्रह्ममासदिनेऽपि च ।अस्त्री तु विष्णुलोके वैकुण्ठा शक्त्यन्तरे हरेः ॥ ५६८८ ॥
45.5688 · p. 422
अनुष्टुप्
वैखानसो द्वयोर्वानप्रस्थेप्यृषिषु केषुचित् ।वम्रेऽपि तारकाभेदे ना नृभूऋषिभित्सु च ॥ ५६८९ ॥
45.5689 · p. 422
अनुष्टुप्
वैष्णवानां प्रभेदेषु क्वचिद्वैखानसा मताः ।क्ली सामभेदे त्रिर्वैखानससम्बन्धिनि स्मृतः ॥ ५६९० ॥
45.5690 · p. 422
अनुष्टुप्
वैडूर्यो रत्नभेदेऽस्त्री पुमान्स्यात्पर्वतान्तरे ।वैजयन्ती पताकायां तर्कार्यां स्त्री हरिस्रजि ॥ ५६९१ ॥
45.5691 · p. 422
अनुष्टुप्
वैणं सामान्तरे द्वे तु वेणुकृत्सङ्करान्तरे ।वैणवो वेणुबीजेऽपि वंशीवाद्ये पुमान्मतः ॥ ५६९२ ॥
45.5692 · p. 422
अनुष्टुप्
वैणवी तु स्त्रियां वीणातुगाक्षीर्योः प्रकीर्त्तिता ।वैणवं स्याद्वेणुफले स्वर्णे वेणुतटोद्भवे ॥ ५६९३ ॥
45.5693 · p. 422
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)
वर्षान्तरे कुशद्वीपे तथा स्यात्सामभेदयोः ।द्वयोस्तु ब्राह्मणीमाहिष्यजे स्यात्सङ्करान्तरे ॥ ५६९४ ॥
45.5694 · p. 422
अनुष्टुप्

वैणवः-वैधात्री

अथ वेणुविकारेऽयं वैणवो वाच्यवन्मतः ।वैणुको वेणुसाधौ च वेणुकीयायुजि त्रिषु ॥ ५६९५ ॥
45.5695 · p. 423
अनुष्टुप्
वेणोश्च वादके क्ली तु तोत्रे वैणुकमिष्यते ।प्रेतनद्यां वैतरणी या विप्राय मुमूर्षुणा ॥ ५६९६ ॥
45.5696 · p. 423
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
गौर्दीयते तदुत्तारहेतवे तत्र च स्त्रियाम् ।स्यात्कलिङ्गसरिद्भेदे रक्षसामपि मातरि ॥ ५६९७ ॥
45.5697 · p. 423
अनुष्टुप्
वैतसः पुंसि मेढ्रे त्रिर्विकारे वेतसस्य च ।अस्त्री वेतसपेटायां पुमान्स्यादम्लवेतसे ॥ ५६९८ ॥
45.5698 · p. 423
अनुष्टुप्
वैतालः पुंसि वेताले तत्सम्बन्धिनि तु त्रिषु ।वैताली सुन्दरीच्छन्दस्येषा स्त्रीत्वे प्रकीर्त्तिता ॥ ५६९९ ॥
45.5699 · p. 423
अनुष्टुप्
वैतालिकः पुमान् खेट्टिताले बोधकरे त्रिषु ।वैतालीयं त्रिवेतालयुजि छन्दोऽन्तरे त्रिषु ॥ ५७०० ॥
45.5700 · p. 423
अनुष्टुप्
वैदर्भी दमयन्तीन्दुमत्योः स्त्री परिकीर्त्तिता ।रुक्मिण्यां काव्यरीतेश्च भेदे स्तम्बान्तरेऽपि च ॥ ५७०१ ॥
45.5701 · p. 423
अनुष्टुप्
दुरालभाख्ये क्लीबं तु वाक्यवक्रिम्णि कुण्डिने ।वैदर्भं वाच्यवत्त्वे तद्योगार्थेऽपि प्रकीर्त्तितम् ॥ ५७०२ ॥
45.5702 · p. 423
अनुष्टुप्
वैदलं पेटिकायां स्याच्छिम्बीधान्ये तु वैदलः ।पुमान्पक्वान्नभेदेऽथ द्वे कीटे सविषे क्वचित् ॥ ५७०३ ॥
45.5703 · p. 423
अनुष्टुप्
अथो विदलसम्बद्धे वाच्यवद्वैदलं मतम् ।वैदिकस्तु पुमान्ब्रह्मचारिण्येष प्रकीर्त्तितः ॥ ५७०४ ॥
45.5704 · p. 423
अनुष्टुप्
अधीतवेदे तु तथा भवेद्वेदभवे त्रिषु ।विदेहराजे वैदेहः पुँल्लिङ्गः परिकीर्त्तितः ॥ ५७०५ ॥
45.5705 · p. 423
अनुष्टुप्
ब्राह्मणी वैश्यजे तु द्वे स्याद्वैश्याशूद्रजेऽपि च ।विदेहादागतादौ त्रि पुंसि स्यात्पर्वतान्तरे ॥ ५७०६ ॥
45.5706 · p. 423
अनुष्टुप्
वैदेही रोचनासीतावणिक्स्त्रीपिप्पलीषु च ।वैद्यो नृजातिभेदे द्वे नाऽटरूषे चिकित्सके ॥ ५७०७ ॥
45.5707 · p. 423
अनुष्टुप्
वैद्यी तु वैद्यपत्न्यां स्याद्वैद्या स्यादोषधीभिदि ।सनत्कुमारो वैधात्रो वैधात्री ब्राह्म्यु दीरिता ॥ ५७०८ ॥
45.5708 · p. 423
अनुष्टुप्

वैधृतः-वैशाली

वैधृतो योगभेदे स्यादिन्द्रे चैकादशान्तरे ।वासिष्ठसामभेदे तु वैधृतं स्यान्नपुंसकम् ॥ ५७०९ ॥
45.5709 · p. 424
अनुष्टुप्
वैधेयस्त्रिषु मूर्खे नृभूयजुःशाखिभित्सु च ।वैनतेयस्तु गरुडे ना प्रभाकरसारथौ ॥ ५७१० ॥
45.5710 · p. 424
अनुष्टुप्
वैनाशिकस्तु बौद्धेऽपि ज्योतिर्विल्लूतयोरपि ।वैनाशिकं तु लग्नात्क्ली त्रयोविंशगृहे मतम् ॥ ५७११ ॥
45.5711 · p. 424
अनुष्टुप्
वैभ्राजो लोकभेदेऽपि विष्वक्सेनेऽद्रिभिद्यपि ।देवोद्यानविशेषे तु तत्सरोभिदि चापि नप् ॥ ५७१२ ॥
45.5712 · p. 424
अनुष्टुप्
वैमत्यो विमतापत्ये विमतत्वे पुनर्नपि ।वैयश्वो विश्वमनसि वैयश्वं सामभिद्यपि ॥ ५७१३ ॥
45.5713 · p. 424
अनुष्टुप्
वैयाघ्रस्तु रथे व्याघ्रचर्माच्छन्ने त्रियौगिके ।व्याघ्रचर्मणि तु क्लीबं वैयाघ्रं परिकीर्त्तितम् ॥ ५७१४ ॥
45.5714 · p. 424
अनुष्टुप्
वैराजं सामभेदे क्ली कल्पलोकभिदोस्तु ना ।वैराटः शक्रगोपे द्वे वैराटं रत्नभिद्यपि ॥ ५७१५ ॥
45.5715 · p. 424
अनुष्टुप्
वैराटस्तु विराटस्यापत्यादौ वाच्यवन्मतः ।वैरिणं त्रिर्वीरणेन सम्बद्धे परिकीर्त्तितम् ॥ ५७१६ ॥
45.5716 · p. 424
अनुष्टुप्
वैरी शत्रौ तथैव स्याद्वैरवत्यभिधेयवत् ।वैरोचनिस्तु सुगते वलिदैत्यार्कपत्रयोः ॥ ५७१७ ॥
45.5717 · p. 424
अनुष्टुप्
वैवस्वतः शनियमरुद्रभिन्मनुभित्स्वपि ।वैवस्वती दक्षिणस्यां यमुनायामपि स्मृता ॥ ५७१८ ॥
45.5718 · p. 424
अनुष्टुप्
वैशन्तापि च वैशन्ता पल्वले स्त्रीत्व इष्यते ।वैशन्तयोगिनि पुनर्वैशन्तं वाच्यवन्मतम् ॥ ५७१९ ॥
45.5719 · p. 424
अनुष्टुप्
शौकनासे व्यासशिष्ये वैशम्पायन इष्यते ।वैशसं वैकृतविपन्नरके नरकान्तरे ॥ ५७२० ॥
45.5720 · p. 424
अनुष्टुप्
वैशाखो मन्थदण्डेऽपि पुमान्माधवमासि च ।वर्षाणां द्वादशानाञ्च सप्तमे स्याद्बृहस्पतेः ॥ ५७२१ ॥
45.5721 · p. 424
अनुष्टुप्
अस्त्री तु धन्विनां यत्र त्रिवितस्त्यन्तरौ पदौ ।तत्र स्यात्स्थितिभेदे च वैशाली तु स्त्रियां मता ॥ ५७२२ ॥
45.5722 · p. 424
अनुष्टुप्

वैशिकः-वैष्णवी

पूर्णिमायां विशाखर्क्षयुक्तायां करिणो नखात् ।ऊर्ध्वङ्कृतस्य पूर्वाङ्घ्रेरूर्ध्वभागे च कीर्त्तिता ॥ ५७२३ ॥
45.5723 · p. 425
अनुष्टुप्
पुनर्नवायां रक्तायां वसुदेवस्त्रियामपि ।वैशिको वेशसम्बद्धे त्रिर्विटत्वे नपुंसकम् ॥ ५७२४ ॥
45.5724 · p. 425
अनुष्टुप्
वैशेषिकं विशेषत्वे शास्त्रे काणभुजेऽपि च ।वैशेषिकस्त्रिस्तज्ज्ञेऽपि विशेषस्य च योगिनि ॥ ५७२५ ॥
45.5725 · p. 425
अनुष्टुप्
पुमान्वैश्रवणस्तूर्यमुहूर्त्ते धनदेऽपि च ।वैश्वदेवो ग्रहैकाहभिदोः पुंसि प्रकीर्त्तितः ॥ ५७२६ ॥
45.5726 · p. 425
अनुष्टुप्
वैश्वदेवीष्टकाभेदे माघशुक्लाष्टकोत्सवे ।छन्दोभेदेऽथ तत्क्लीबं स्याच्छस्त्रश्राद्धभेदयोः ॥ ५७२७ ॥
45.5727 · p. 425
अनुष्टुप्
सामान्तरेऽपि प्रथमे चातुर्मास्यस्य पर्वणि ।वैश्वदेवं मन्त्रभेदोत्तराषाढर्क्षयोर्मतम् ॥ ५७२८ ॥
45.5728 · p. 425
अनुष्टुप्
वैश्वानरोऽग्नावप्यग्निभेदे सूर्येऽपि तत्करे ।आत्मन्यप्यवैश्वानर्युच्यते ऋक्षपद्धतौ ॥ ५७२९ ॥
45.5729 · p. 425
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 आ (syllables merged)
पूर्वभाद्रपदादौ रेवत्यन्तायामथो नपि ।वैश्वानरं सामभेदे तथा [स्यात्क्लीबलिङ्गकम्] ॥ ५७३० ॥
45.5730 · p. 425
अनुष्टुप्
वैश्वामित्री तु गायत्र्यां सामभेदे नपुंसकम् ।स्त्रियां वैषयिकी या स्त्री गता वेश्यात्वमात्मनः ॥ ५७३१ ॥
45.5731 · p. 425
अनुष्टुप्
भोगाय तत्र विषयभवादौ तु त्रिषु स्मृता ।मध्यबिन्दौ वैषुवतं विषुवत्संक्रमेऽपि च ॥ ५७३२ ॥
45.5732 · p. 425
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
तथा ब्राह्मणभेदेऽपि नपुंसकमुदीरितम् ।वैष्ट्रं तु यकृति स्वर्गे रोहेऽपि परमात्मनि ॥ ५७३३ ॥
45.5733 · p. 425
अनुष्टुप्
विष्टपे द्यवि वायौ च विष्णौ स्यात्कस्यचिन्मते ।वैष्णवो विष्णुभक्ते विष्णुदेवे विष्णुयोगिनि ॥ ५७३४ ॥
45.5734 · p. 425
अनुष्टुप्
त्र्यथ सप्तदशारत्नेर्यूपस्यारभ्य मूलतः ।ज्ञेयस्त्रयोदशेऽरत्नौ वैष्णवी तु स्त्रियामियम् ॥ ५७३५ ॥
45.5735 · p. 425
अनुष्टुप्
सप्तानामपि मातृणामेकस्यां स्यात्तथैव सा ।नवानां विष्णुशक्तीनामेकस्यामपि नप्पुनः ॥ ५७३६ ॥
45.5736 · p. 425
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)

वैहायसं-व्यत्यस्तः

नवाहं सोमवगस्य साम्नोराकरजान्तरे ।शतावर्यां तुलस्यां च तथा स्यान्मूर्च्छनान्तरे ॥ ५७३७ ॥
45.5737 · p. 426
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
तथाऽपराजितायां च श्रवणर्क्षे तु वैष्णवम् ।वैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् ॥ ५७३८ ॥
45.5738 · p. 426
अनुष्टुप्
प्रत्यालीढाह्वये त्रिस्तु सम्बन्धिनि विहायसः ।वैहायसी नदीभेदे क्ली व्योम्न्युड्डयनेऽपि च ॥ ५७३९ ॥
45.5739 · p. 426
अनुष्टुप्
वोड्री स्त्री पणतुर्ये द्वे वोड्रो मत्स्यादिभेदयोः ।वोढा स्याद्वृषभे पुंसि तथा स्यादृषभौषधौ ॥ ५७४० ॥
45.5740 · p. 426
अनुष्टुप्
परिणेतरि मूढे तु त्रिर्भाराश्वे द्वयोर्मतः ।वोडी स्त्री पणपादे ना गोनसाहौ झषान्तरे ॥ ५७४१ ॥
45.5741 · p. 426
अनुष्टुप्
व्यक्तं त्रिर्निश्चिते स्पष्टे व्यङ्ग्येऽपि च मनीषिणि ।व्यक्तं तु व्यञ्जनाख्ये स्यात्कार्येऽङ्कगणिते तथा ॥ ५७४२ ॥
45.5742 · p. 426
अनुष्टुप्
व्यक्तगन्धा मल्लिकायां पिप्पलीमूर्वयोरपि ।व्यक्तिस्त्री पृथगात्मत्वे लिङ्गव्यञ्जनयोरपि ॥ ५७४३ ॥
45.5743 · p. 426
अनुष्टुप्
व्यग्रस्तु विगताग्रे च व्यापृताकुलयोस्त्रिषु ।व्यङ्गो भेके द्वयोस्त्रिस्तु विरूपाङ्गगताङ्गयोः ॥ ५७४४ ॥
45.5744 · p. 426
अनुष्टुप्
पुमान्नीलपृषद्रूपवक्त्रव्याधौ तथायसि ।व्यजनं वीजने तालवृन्तादौ वायुसाधने ॥ ५७४५ ॥
45.5745 · p. 426
अनुष्टुप्
व्यञ्जनं स्यादवयवे श्मश्रुनिष्ठानलक्ष्मसु ।व्यनक्त्यर्थे न ना यज्ञपशुसंस्कारकर्मणि ॥ ५७४६ ॥
45.5746 · p. 426
अनुष्टुप्
अस्त्री तु हल्समाख्येषु वर्णेषु व्यञ्जनं मतम् ।वृत्तिभेदे व्यञ्जना स्त्री क्लीबे चापि प्रयुज्यते ॥ ५७४७ ॥
45.5747 · p. 426
अनुष्टुप्
अथ व्यक्तिकरो व्याजे व्यसनव्यतिषङ्गयोः ।प्रस्तावेऽपि च सम्पर्के पुँल्लिङ्गः परिकीर्त्तितः ॥ ५७४८ ॥
45.5748 · p. 426
अनुष्टुप्
व्यतिक्षेपस्तु युद्धेऽतिक्षेपणेऽपि पुमान्मतः ।व्यतिरेको निषेधेऽतिरेकेऽलङ्कारभिद्यपि ॥ ५७४९ ॥
45.5749 · p. 426
अनुष्टुप्
व्यतीपातो महोत्पाते योगभेदापमानयोः ।व्यत्यस्तस्त्रिर्विपर्यस्ते महासंख्यान्तरे तु नप् ॥ ५७५० ॥
45.5750 · p. 426
अनुष्टुप्

व्यथिः-व्याघ्रः

व्यथिः क्ली वर्त्मनि क्रोधे सान्तं त्रिस्तु व्यथावति ।व्यध्यः पुंसि धनुर्ज्यायां वेधनीयेऽभिधेयवत् ॥ ५७५१ ॥
45.5751 · p. 427
अनुष्टुप्
व्यध्वो दुरध्वे पुंसि स्यात्त्रिस्तादृक्षाध्वयोगिनि ।व्यन्तरे द्वे पिशाचादौ व्यन्तरं… ॥ ५७५२ ॥
45.5752 · p. 427
अनुष्टुप्metre not read in every line
महोरगः किम्पुरुषो भूतगन्धर्वकिन्नराः ।यक्षरक्षःपिशाचाश्च जैनानां व्यन्तरा मताः ॥ ५७५३ ॥
45.5753 · p. 427
अनुष्टुप्
व्यपदेशोपदेशव्यवहाराभिजनेष्वपि ।व्ययो वित्तसमुत्सर्गे निगमे पक्षिणो गतौ ॥ ५७५४ ॥
45.5754 · p. 427
अनुष्टुप्
लग्नाच्च द्वादशे राशौ विंशे वर्षे बृहस्पतेः ।व्यर्थोऽभिधेयशून्येऽपि त्रिषु स्यान्निष्प्रयोजने ॥ ५७५५ ॥
45.5755 · p. 427
अनुष्टुप्
व्यलीकमप्रियाकार्यवैलक्ष्यव्यङ्ग्यपीडने ।विपर्ययेऽपराधे च रोगे दोषेऽपि कामजे ॥ ५७५६ ॥
45.5756 · p. 427
अनुष्टुप्
अनिष्टे तु व्यलीकस्त्रिर्नागरे तु पुमान्मतः ।व्यवच्छेदस्तु व्यावृत्तौ चापाच्च शरमोक्षणे ॥ ५७५७ ॥
45.5757 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तु (wrong syllable)
व्यवहारो वाक्प्रयोगे सम्बन्धे द्यूतदण्डयोः ।शासने वित्रसंवादे विवादेऽसिवणिज्ययोः ॥ ५७५८ ॥
45.5758 · p. 427
अनुष्टुप्
व्यवहारो द्रुभेदे स्यान्न्यायेऽपि च पणे स्थितौ ।व्यवहारिका स्याल्लोकयात्रासम्मार्जनीङ्गुदे ॥ ५७५९ ॥
45.5759 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
व्यवायः सुरतेऽन्तर्धौ पुंसि क्लीबं तु तेजसि ।व्यसनं सक्तिविपदोर्दैवानिष्टफलेंऽहसि ॥ ५७६० ॥
45.5760 · p. 427
अनुष्टुप्
पैशुन्यादौ च कोपोत्थे मृगयादौ च कामजे ।निक्षेपे निष्फलोद्योगेऽप्यशुभे च नपुंसकम् ॥ ५७६१ ॥
45.5761 · p. 427
अनुष्टुप्
व्यस्तं तु व्याकुले व्याप्ते विभक्तेऽप्यभिधेयवत् ।शब्दशास्त्रे व्याकरणं ज्याटङ्कारे स्फुटीकृतौ ॥ ५७६२ ॥
45.5762 · p. 427
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व्या (wrong syllable)
व्याघातो व्याहतावारग्वधे योगान्तरेऽपि च ।विघ्ने प्रहारेऽलङ्कारभेदे व्याघात इष्यते ॥ ५७६३ ॥
45.5763 · p. 427
अनुष्टुप्
व्याघ्रः स्यात्पुंसि शार्दूले रक्तैरण्डकरञ्जयोः ।श्रेष्ठे नराद्युत्तरस्थः कण्टकार्यां तु योषिति ॥ ५७६४ ॥
45.5764 · p. 427
अनुष्टुप्

व्याघ्रनखम्-व्युष्टं

अस्त्री व्याघ्रनखं द्वीपिनखे व्यालायुधे तु नप् ।भवेद्व्याघ्रनखं कन्दगन्धद्रव्यविशेषयोः ॥ ५७६५ ॥
45.5765 · p. 428
अनुष्टुप्
नखक्षतान्तरे क्लीबं तथा स्यादायुधान्तरे ।व्याघ्रपादृषिभेदेऽपि पुंसि च स्याद्विकङ्कते ॥ ५७६६ ॥
45.5766 · p. 428
अनुष्टुप्
एरण्डे व्याघ्रपुच्छो ना द्वीपिपुच्छे तु पुंनपोः ।व्याजः शाट्येऽपदेशे च स्याद्व्याजमपि न स्त्रियाम् ॥ ५७६७ ॥
45.5767 · p. 428
अनुष्टुप्
व्याडो नेन्द्रे द्वयोः सर्पे शृगाले स्वापदेऽपि च ।व्यादीर्णास्यो द्वयोः सिंहे योगार्थे तु यथायथम् ॥ ५७६८ ॥
45.5768 · p. 428
अनुष्टुप्
व्याधो दुष्टे त्रिषु द्वे तु मृगयौ सङ्करान्तरे ।व्याधिः कुष्ठे च रोगे ना कर्कशायां स्त्रियान्तथा ॥ ५७६९ ॥
45.5769 · p. 428
अनुष्टुप्
व्याधिघातः पुमानारग्वधवेतसयोर्मतः ।व्याधी रोगिण्युत्तरस्थो वेधकारिणि वाच्यवत् ॥ ५७७० ॥
45.5770 · p. 428
अनुष्टुप्
व्यापारस्तु कृतौ पुंसि दशमे भवनेऽपि च ।व्याप्तं ख्याते समाक्रान्ते [त्रिलिङ्गं परिकीर्त्तितम्] ॥ ५७७१ ॥
45.5771 · p. 428
अनुष्टुप्
व्याप्यं त्रिर्व्यापनीये क्ली साधने कुष्ठभेषजे ।व्यायतं व्यापृते दीर्घे दृढे चातिशयेऽन्यवत् ॥ ५७७२ ॥
45.5772 · p. 428
अनुष्टुप्
व्यायामः पौरुषे व्यामे स्पर्धायां दुर्गसञ्चरे ।वस्त्राद्याकर्षणे दीर्धीकरणे विषमे श्रमे ॥ ५७७३ ॥
45.5773 · p. 428
अनुष्टुप्
व्यालो दुष्टगजे भूपे द्रेष्काणभिदि चित्रके ।बहुप्रदे त्वपि शठे खले व्यालस्त्रिषु स्मृतः ॥ ५७७४ ॥
45.5774 · p. 428
अनुष्टुप्
व्यालदंष्ट्रः कोकिलाक्षे गोक्षुरेऽपि मतः पुमान् ।द्वयोर्व्यालमृगो हिंस्रमृगे चापि मृगान्तरे ॥ ५७७५ ॥
45.5775 · p. 428
अनुष्टुप्
व्यालम्बो लम्बिनि त्रि स्यादेरण्डे तु पुमान्मतः ।व्यावर्त्तकस्त्रिर्व्यावृत्तिकृति ना चक्रमर्दके ॥ ५७७६ ॥
45.5776 · p. 428
अनुष्टुप्
व्यासो वृत्तार्द्धसीम्नि स्याद्विस्तारे बादरायणे ।व्यासं धनुर्विशेषे क्ली योगार्थे तु यथायथम् ॥ ५७७७ ॥
45.5777 · p. 428
अनुष्टुप्
व्युत्थानं प्रतिकूलत्वे स्वातन्त्र्यकरणेऽपि च ।व्युष्टं तु व्युषिते त्रि स्यात्क्ली प्रभातविवासयोः ॥ ५७७८ ॥
45.5778 · p. 428
अनुष्टुप्

व्युष्टिः-व्रती

व्युष्टिः प्रयोजनाभिख्यफले स्त्रीलिङ्ग इष्यते ।अग्निचित्येष्टकानां च भेदेष्वृद्धिविवासयोः ॥ ५७७९ ॥
45.5779 · p. 429
अनुष्टुप्
कालेऽष्टमेऽष्टमे भुङ्क्ते यस्तत्र व्युष्टिरिष्यते ।व्यूढः संहतविन्यस्तपृथुलेष्वभिधेयवत् ॥ ५७८० ॥
45.5780 · p. 429
अनुष्टुप्
व्यूहो व्रजेऽपि विन्यासे विन्यस्तेऽपि पुमान्मतः ।व्योम स्थाने दिशि जले चाकाशेऽपि नपुंसकम् ॥ ५७८१ ॥
45.5781 · p. 429
अनुष्टुप्
अभ्रके कामवायौ च दशमे भवने तथा ।सूर्यस्यायतने त्राणेऽवकाशेऽपि प्रकीर्त्तितम् ॥ ५७८२ ॥
45.5782 · p. 429
अनुष्टुप्
तथैवाक्षितसंख्यायाः यंख्याया दशकात्मनि ।वृन्दादिषु तु षट्स्वन्ये निखर्वं बद्धमक्षितम् ॥ ५७८३ ॥
45.5783 · p. 429
अनुष्टुप्
व्योमा त्वेकाहभेदे ना वाच्यवत्स्यादरक्षिते ।व्योमचारी द्वयोर्देवे खगे त्रिश्चिरजीविनि ॥ ५७८४ ॥
45.5784 · p. 429
अनुष्टुप्
व्योषं स्यात्त्रिकटुद्रव्ये करिभेदे पुमानयम् ।मरिचं पिप्पली चैवार्द्रकं त्रिकटु कीर्त्तितम् ॥ ५७८५ ॥
45.5785 · p. 429
अनुष्टुप्
व्रजोऽस्त्रियामश्वगोष्ठे गोष्ठे मार्गसमूहयोः ।व्रजस्तु मेघे शैले च पुँल्लिङ्गः परिकीर्त्तितः ॥ ५७८६ ॥
45.5786 · p. 429
अनुष्टुप्