कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (8/8)

व्रजभूर्व्रजभूमौ स्त्री स्यात्कदम्बान्तरे पुमान् ।अथ व्रजोद्भवे त्वेष वाच्यवद्व्रजभूर्मतः ॥ ५७८७ ॥
45.5787 · p. 429
अनुष्टुप्
व्रज्या वर्गे गतौ चापि तथा पर्यटने स्त्रियाम् ।व्रणः क्षतेऽपि दोषेऽपि ना स्त्रियां परिकीर्त्तितः ॥ ५७८८ ॥
45.5788 · p. 429
अनुष्टुप्
व्रणकृत्त्रिषु योगार्थे पुमान्भल्लातकद्रुमे ।व्रणहः पुंसि चैरण्डे गुडूच्यां व्रणहा स्त्रियाम् ॥ ५७८९ ॥
45.5789 · p. 429
अनुष्टुप्
व्रणहृद्गगणिकार्यां ना व्रणहारिणि तु त्रिषु ।व्रणारिः पुंस्यगस्त्येऽपि [त्रिषु वाच्यवदिष्यते] ॥ ५७९० ॥
45.5790 · p. 429
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
व्रतोऽस्त्री नियमे क्ली तु व्रतं मासर्तुवत्सरे ।विष्णावग्नौ धनेऽन्ने च विधाने भुक्तिकर्मणोः ॥ ५७९१ ॥
45.5791 · p. 429
अनुष्टुप्
महाव्रतसमाख्येऽपि क्रतुभेदे व्रतं मतम् ।व्रती व्रतवति त्रि स्याद्द्वयोरश्वे प्रकीर्त्तितः ॥ ५७९२ ॥
45.5792 · p. 429
अनुष्टुप्

व्रश्चनः-शकलः

व्रश्चनः पत्रपरशौ पुँल्लिङ्गः परिकीर्त्तितः ।छेदने व्रश्चनं क्लीबं त्रि तु छेदनसाधने ॥ ५७९३ ॥
45.5793 · p. 430
अनुष्टुप्
व्राजिवाक् सूत्रसार्थेऽश्वे कुक्कुटे तु द्वयोरयम् ।व्रातस्तु ना समूहे स्यात्सङ्घे वा यस्य लक्षणम् ॥ ५७९४ ॥
45.5794 · p. 430
अनुष्टुप्
प्राहुरुत्सेधजीवाश्च नानाजातीयका अपि ।अव्यवस्थितवृत्ताश्च सङ्घा व्राता इतीदृशम् ॥ ५७९५ ॥
45.5795 · p. 430
अनुष्टुप्
मनुष्ये तु द्वयोर्प्रातो व्रात्ये यस्य च लक्षणम् ।व्रात्यस्त्वनुपनीतो यो विवाहं ब्राह्मणादिकः ॥ ५७९६ ॥
45.5796 · p. 430
अनुष्टुप्
करोति तस्मिन्संस्कारहीनमात्रेऽपि ना मतः ।द्वयोस्तु प्रतिलोमानां प्रतिलोमजमानुषे ॥ ५७९७ ॥
45.5797 · p. 430
अनुष्टुप्
व्रात्या तु व्रातचर्यायां स्त्री त्रिस्तु व्रतसाधुनि ।व्रीहिः सामान्यधान्ये स्यादाशुधान्ये तु पुंस्ययम् ॥ ५७९८ ॥
45.5798 · p. 430
अनुष्टुप्
स्याद्व्रीहिराजिकः कङ्गुधान्यचीनकधान्ययोः ॥ ५७९८-१/२ ॥
45.853 · p. 430