All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
स (4/4)
शत्रौ तथैव रुधिरे पुँल्लिङ्गः परिकीर्त्तितः ।स्तूपः समुच्छ्रये वायौ मूर्धमध्यगुडे पशोः ॥ ६५७० ॥
48.6570 · p. 485
अनुष्टुप्
स्तेनश्चोरे तथा चोरनाम्नि स्याद्गन्धवस्तुनि ।स्तेयी चौरे पुमान्द्वे तु स्वर्णकारेऽपि मूषिके ॥ ६५७१ ॥
48.6571 · p. 485
अनुष्टुप्
स्तैन्यं क्लीबे भवेच्चौर्ये स्तैन्यश्चारे पुमान्मतः ।स्तोमः स्यादध्वमाने च दशधन्वन्तराह्वये ॥ ६५७२ ॥
48.6572 · p. 485
अनुष्टुप्
स्त्येनः-स्थानम्
देयभेदे च पुँल्लिङ्गस्तथा स्यात्स्तोतृवृन्दयोः ।संख्यायां यज्ञगस्तोत्रस्तोत्रियाणां क्रतावपि ॥ ६५७३ ॥
48.6573 · p. 486
अनुष्टुप्
स्त्येनस्तु चोरेऽप्यमृते पुँल्लिङ्गः परिकीर्त्तितः ।स्त्री प्रियङ्गाह्वये वृक्षे वम्रीवनितयोरपि ॥ ६५७४ ॥
48.6574 · p. 486
अनुष्टुप्
लग्नाच्च सप्तमे राशौ लिङ्गछन्दोविशेषयोः ।स्त्रीकृतं करणे स्त्रीणां वाच्यवत्तु स्त्रिया कृते ॥ ६५७५ ॥
48.6575 · p. 486
अनुष्टुप्
स्त्रीधर्मो मैथुनेऽपि स्यादार्त्तवे यौगिकेऽपि च ।स्त्रीप्तिः स्तनौ शोणिते च स्त्रीनभःपयसोर्मता ॥ ६५७६ ॥
48.6576 · p. 486
अनुष्टुप्
स्त्रीपुंसयोस्त्वियं स्त्रीप्तिरजे सम्परिकीर्त्तिता ।स्त्रीप्रियोऽशोकवृक्षे चाम्रवृक्षे च पुमान्मतः ॥ ६५७७ ॥
48.6577 · p. 486
अनुष्टुप्
तयोस्तु प्रसवे क्लीबं योगार्थे तु यथायथम् ।स्त्रीवासः पुंसि वल्मीके स्त्रीणां वासे तथा पुमान् ॥ ६५७८ ॥
48.6578 · p. 486
अनुष्टुप्
स्त्रीस्वभावस्तु योगार्थे तथैव स्यान्नपुंसके ।स्थपतिः सौविदल्लेऽपि बृहस्पतिसवेष्टिनि ॥ ६५७९ ॥
48.6579 · p. 486
अनुष्टुप्
तक्षण्यधिपतौ शिल्प्यन्तरे जीवकुबेरयोः ।स्थलजा यष्टिमधुके वाच्यवत्तु स्थलोद्भवे ॥ ६५८० ॥
48.6580 · p. 486
अनुष्टुप्
स्थली ननोन्नतभुवि स्थला कृत्रिममृण्मये ।स्त्रियां क्षेत्रादिनिम्नस्थसलिलस्य निवारणे ॥ ६५८१ ॥
48.6581 · p. 486
अनुष्टुप्
स्थलेरुहा गृहकुमार्यां दग्धायां च तथेष्यते ।स्त्रियां स्थविः फले चैव कुष्ठीमांसे प्रकीर्त्तिता ॥ ६५८२ ॥
48.6582 · p. 486
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वयोः स्थविस्तुन्नवाये कुष्ठिनि त्वभिधेयवत् ।जङ्गमेऽपि तथैव स्यात्पुमांसस्वर्ग इष्यते ॥ ६५८३ ॥
48.6583 · p. 486
अनुष्टुप्
स्थाणुर्ना कुरुदेशे च गन्धद्रव्यान्तरे शिवे ।नागरक्षोरुद्रभित्सु प्रजापत्यन्तरेऽपि च ॥ ६५८४ ॥
48.6584 · p. 486
अनुष्टुप्
श्वेतोपदीकावल्मीके क्ली तु स्यादासनान्तरे ।अथ कीलोद्भिदोरस्त्री वाच्यवत्तु स्थिरे मतः ॥ ६५८५ ॥
48.6585 · p. 486
अनुष्टुप्
स्थानं क्लीबं नरेऽप्यन्ये प्राहुर्गेहावकाशयोः ।सम्बन्धभेदे जन्तूनां स्यान्निवृत्तिप्रसङ्गयोः ॥ ६५८६ ॥
48.6586 · p. 486
अनुष्टुप्
स्थानः-स्थूणा
अपकर्षे च सादृश्ये क्लीबं तु स्थितिकर्मणि ।स्थानः शवेऽपि पुंसि स्यात्तथैव प्रमथान्तरे ॥ ६५८७ ॥
48.6587 · p. 487
अनुष्टुप्
स्थानकं त्वालवालेऽपि सिंहादीनां क्रमाह्वये ।लङ्घनं कर्त्तुकामानां स्यादवस्थान्तरेऽपि च ॥ ६५८८ ॥
48.6588 · p. 487
अनुष्टुप्
स्थानीयं तु महाग्रामे स्थातव्येऽपि पुरेऽपि च ।अथ स्थानेऽव्ययं कारणार्थे युक्तार्थ एव च ॥ ६५८९ ॥
48.6589 · p. 487
अनुष्टुप्
स्थापना स्थापयत्यर्थे नना तत्साधने त्रिषु ।स्थापनी तु स्त्रियां पाठानाम्नि वल्ल्यां प्रकीर्त्तिता ॥ ६५९० ॥
48.6590 · p. 487
अनुष्टुप्
स्थाप्यं त्रिः स्थापनीये निक्षेपे ना नपि ह्रीबेरे ।स्थाया भुवि स्त्रियां स्थायः स्थाने स्थातरि तु त्रिषु ॥ ६५९१ ॥
48.6591 · p. 487
अनुष्टुप्metre not read in every line
स्थायुकस्तु त्रिषु स्थास्नौ स्याद्ग्रामाधिकृतेऽपि च ।स्थालं भोजनपात्रे क्ली स्थाल्युखायां स्त्रियां मता ॥ ६५९२ ॥
48.6592 · p. 487
अनुष्टुप्
स्थालस्तु ना महादेवे स्थितिकर्मणि च स्मृतः ।स्थालीबिल्वस्तण्डुले ना त्रि तु स्थालीबिलार्हके ॥ ६५९३ ॥
48.6593 · p. 487
अनुष्टुप्
स्थासकः पुंसि चर्चिक्ये बुद्बुदेऽपि प्रकीर्त्तितः ।तथा नक्षत्रमालाख्ये करिणां भूषणान्तरे ॥ ६५९४ ॥
48.6594 · p. 487
अनुष्टुप्
स्थितं स्थितौ मतं क्लीबं सप्रतिज्ञे पुनः स्थितः ।तथागतेर्निवृत्ते च त्रिषु स्यादूर्ध्वतां गते ॥ ६५९५ ॥
48.6595 · p. 487
अनुष्टुप्
अवस्थायां व्यवस्थायां स्थितिः स्त्री तिष्ठतेः कृतौ ।स्थिरः प्रोक्तः शनौ पुंसि निश्चले तु त्रिषु स्मृतः ॥ ६५९६ ॥
48.6596 · p. 487
अनुष्टुप्
सालपर्णीभेषजे तु भूमौ च स्यात्स्थिरा स्त्रियाम् ।स्थिरजिह्वस्तु मत्स्ये द्वे योगार्थे तु यथायथम् ॥ ६५९७ ॥
48.6597 · p. 487
अनुष्टुप्
स्थिरदंष्ट्रो द्वयोः सर्पे ना वराहाकृतौ हरौ ।मयूरे द्वे स्थिरमदो योगार्थे तु यथायथम् ॥ ६५९८ ॥
48.6598 · p. 487
अनुष्टुप्
स्थिरायुः शाल्मलौ पुंसि योगार्थे तु यथायथम् ।स्थुलं नपुंसकं दूष्ये स्थुल्गे गुल्फे पुमान्मतः ॥ ६५९९ ॥
48.6599 · p. 487
अनुष्टुप्
स्थूणा तु गेहस्तम्भेऽपि तथा वातादिषु त्रिषु ।लोहप्रतिकृतौ तन्त्रधारिण्यामपि च स्त्रियाम् ॥ ६६०० ॥
48.6600 · p. 487
अनुष्टुप्
स्थूरम्-स्पशा
स्थूरं तु पीवरे त्रि स्यात्स्थूरा तु स्यात्स्त्रियामियम् ।पश्चाद्भागे च जङ्घाया गोधूमादितुषेषु च ॥ ६६०१ ॥
48.6601 · p. 488
अनुष्टुप्
स्थूलं क्ली दध्न्यथ त्रि स्याज्जडे बृहति पीवरे ।स्थूलनासो वराहे द्वे योगार्थे तु यथायथम् ॥ ६६०२ ॥
48.6602 · p. 488
अनुष्टुप्
स्थूलाङ्गस्तु द्वयोर्मत्स्ये शालिभेदे पुनः पुमान् ।स्थूलोच्चयस्त्वसौ कल्ये नागानां मध्यमे गते ॥ ६६०३ ॥
48.6603 · p. 488
अनुष्टुप्
स्थेयं क्लीबं च स्थातव्ये सह्ये च परिकीर्त्तितः ।विवादपदनिर्णेतर्यपि स्थेयोऽभिधेयवत् ॥ ६६०४ ॥
48.6604 · p. 488
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
स्नातकस्तु गृहस्थेऽपि समावृत्ते तथा पुमान् ।स्नानं स्यादाप्लवे क्लीबं स्नानीयेऽपि प्रकीर्त्तितम् ॥ ६६०५ ॥
48.6605 · p. 488
अनुष्टुप्
स्नावः कदल्यां घूर्णायां स्नायुन्यप्यस्त्रियां मतः ।नप शाकटायन आह स्म हर्षनन्दी च पुंस्यमुम् ॥ ६६०६ ॥
48.6606 · p. 488
अनुष्टुप्
स्निग्धो मतः स्नेहने त्रिः ससौहार्दवयस्ययोः ।पुमांस्तु गुग्गुलौ मन्त्रिजने च स्नेहने तु नप् ॥ ६६०७ ॥
48.6607 · p. 488
अनुष्टुप्
स्नुषा तु पुत्रपत्न्यां च स्नुह्यां चैव स्त्रियां मता ।स्नेहो ना प्रेम्णि सौहार्दे तैलाज्यादौ जले तु नप् ॥ ६६०८ ॥
48.6608 · p. 488
अनुष्टुप्
स्नेहवान्स्नेहयुक्ते त्रि स्त्री तु स्याद्भेषजान्तरे ।स्नेहपूरः क्षमायां स्यात्स्नेहस्यापि च पूरणे ॥ ६६०९ ॥
48.6609 · p. 488
अनुष्टुप्
स्नेहा नान्तः पुमांश्चन्द्रे सख्यौ रोगान्तरेऽपि च ।स्नेही स्नेहवति त्रि स्यात्तैलकारे द्वयोर्मतः ॥ ६६१० ॥
48.6610 · p. 488
अनुष्टुप्
स्नेहुः पित्ते तथा रोगविशेषे सान्निपातिके ।स्पन्दनं चलने किञ्चित्तिमिशाख्यद्रुमे तु ना ॥ ६६११ ॥
48.6611 · p. 488
अनुष्टुप्
स्पर्शो ना स्पर्शने तद्वदुपतापप्रदानयोः ।जारे चकादिमान्तेषु वर्णेषु द्वे तु किङ्करे ॥ ६६१२ ॥
48.6612 · p. 488
अनुष्टुप्
स्पर्शस्तु स्रष्टरि तथोपतप्तर्यभिधेयवत् ।स्पर्शनं तु नपि स्पृष्टौ दाने च पवने तु ना ॥ ६६१३ ॥
48.6613 · p. 488
अनुष्टुप्
स्पशस्तु संयुगे चारे चापि पुँल्लिङ्ग इष्यते ।योक्त्रेण यजमानस्य पत्न्याः संनहने स्पशा ॥ ६६१४ ॥
48.6614 · p. 488
अनुष्टुप्
स्पृहायामं-स्यूमः
स्पृहायामं पुनः क्लीबे स्यादहःसु तृणेषु च ।स्फारं तु मौर्व्या चापस्य सहस्फुरण इष्यते ॥ ६६१५ ॥
48.6615 · p. 489
अनुष्टुप्
स्फारं त्रिषु प्रभूते स्याल्लाञ्छने स्यान्नपुंसकम् ।स्फिगुर्गुदे ना स्त्री त्वेषा शरीरावयवान्तरे ॥ ६६१६ ॥
48.6616 · p. 489
अनुष्टुप्
स्फीतं वृद्धे प्रभूते च वाच्यवत्परिकीर्त्तितम् ।स्फुटं विकसिते व्याप्ते शुक्तविस्पष्टयोरपि ॥ ६६१७ ॥
48.6617 · p. 489
अनुष्टुप्
स्फुटनं स्याद्विकसने भङ्गेऽपि च नपुंसकम् ।स्फोटिका पक्षिभेदे स्त्री विस्फोटे तु तद्वयोर्भवेत् ॥ ६६१८ ॥
48.6618 · p. 489
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्मरध्वजो वाद्यभेदे मेढ्रे चापि तथा पुमान् ।स्मरध्वजा तु ज्योत्स्न्यां स्याद्भगे तु क्ली स्मरध्वजम् ॥ ६६१९ ॥
48.6619 · p. 489
अनुष्टुप्
वसन्तेऽपि तथा चन्द्रे पुंसि स्मरसखो मतः ।स्मारस्तु स्मरणे पुंसि स्मरसम्बन्धिनि त्रिषु ॥ ६६२० ॥
48.6620 · p. 489
अनुष्टुप्
स्मारिणी तु स्त्रियां ब्राह्म्यां नना स्यात्स्मारकर्मणि ।स्मितस्तु त्रिषु फुल्ले स्यात्स्मितवत्यप्यथ स्मितम् ॥ ६६२१ ॥
48.6621 · p. 489
अनुष्टुप्
अदृष्टदन्तहासे क्ली विकासे कुमुदस्य च ।स्मृतिः स्त्री धर्मशास्त्रे स्यादुत्कण्ठाचिन्तयोरपि ॥ ६६२२ ॥
48.6622 · p. 489
अनुष्टुप्
स्यः स्यात्तदर्थे प्रथमैकत्वे त्रिः पुंसि शूर्पके ।स्यन्दनं स्रवणे चाप्सु स्यन्दनस्तु पुमान्रथे ॥ ६६२३ ॥
48.6623 · p. 489
अनुष्टुप्
स्यन्दनी तु स्त्रियामेषा ग्रहभ्रम उदीरिता ।स्यात्स्यन्दिनी स्त्री लालायां गोभेदे च क्षरत्स्तने ॥ ६६२४ ॥
48.6624 · p. 489
अनुष्टुप्
स्यमीको वृक्षवल्मीकनृपगोत्रान्तरेषु ना ।काले मेघे स्यमिकवत्स्यमीका नीलिका मता ॥ ६६२५ ॥
48.6625 · p. 489
अनुष्टुप्
स्यालः पत्नीभ्रातरि ना स्याली पत्न्याः स्वसर्यसौ ।वैजयत्न्यां तु निर्मूलं पत्न्या अनुजयोर्द्वयोः ॥ ६६२६ ॥
48.6626 · p. 489
अनुष्टुप्
स्यालकस्त्वनुजे पत्न्याः स्यालिकाऽस्या यवीयसी ।स्यूतस्तु प्रसवे पुंसि स्यूतमूते त्रिषु स्मृतम् ॥ ६६२७ ॥
48.6627 · p. 489
अनुष्टुप्
स्यूता तु मेखलायां च तथा रश्मौ स्त्रियां मता ।स्यूमोऽप्सु द्वे पुमांस्तन्तौ रश्मौ चन्द्रे च मङ्गले ॥ ६६२८ ॥
48.6628 · p. 489
अनुष्टुप्
स्योनम्-स्वजः
अथाभिधेयवद्दीर्घे स्यूमोऽयं परिकीर्त्तितः ।स्योनं सुखे क्ली त्रिस्तत्साधनेथाऽर्केऽर्कदीधितौ ॥ ६६२९ ॥
48.6629 · p. 490
अनुष्टुप्
समुद्रे तन्तुसन्ताने तन्तुवायस्य चापि ना ।स्रज्या तु मालाकारेऽपि मत्स्यघाते तथा त्रिषु ॥ ६६३० ॥
48.6630 · p. 490
अनुष्टुप्
स्रज्या तु पदसङ्घाते पुँल्लिङ्गः परिकीर्त्तितः ।स्रज्वा रज्जौ तन्तुपटसङ्घाते स्त्री प्रजापतौ ॥ ६६३१ ॥
48.6631 · p. 490
अनुष्टुप्
स्रवणं तु स्रुतौ क्लीबं स्रवणः कतकद्रुमे ।स्रवन्ती तु स्त्रियां नद्यां स्रवत्तु स्रावके त्रिषु ॥ ६६३२ ॥
48.6632 · p. 490
अनुष्टुप्
स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ।स्रावकः स्रावणाया वा स्रवणस्य च कर्त्तरि ॥ ६६३३ ॥
48.6633 · p. 490
अनुष्टुप्
वाच्यवत्स्रावकन्त्वेतन्मरिचे क्लीबमिष्यते ।स्रुक् स्रुवे शोषणे गत्याम् [स्त्रीलिङ्गे परिकीर्त्तिता] ॥ ६६३४ ॥
48.6634 · p. 490
अनुष्टुप्
स्रुतस्त्रिषु च्युते स्त्री तु हिङ्गुपत्र्यां स्रुता मता ।स्रुव आचरणाख्ये स्याद्यज्ञपात्रान्तरे पुमान् ॥ ६६३५ ॥
48.6635 · p. 490
अनुष्टुप्
अथ स्रुवा स्यात्सल्लक्यां मूर्वायामपि च स्त्रियाम् ।स्रोतः प्रवाहे सरितां जलेऽपि स्यान्नपुंसकम् ॥ ६६३६ ॥
48.6636 · p. 490
अनुष्टुप्
स्रोतस्विनी स्त्रियां नद्यां स्रोतस्वति पुनस्त्रिषु ।स्रोतस्यश्चोरशिवयोः स्रोतोयोगिनि तु त्रिषु ॥ ६६३७ ॥
48.6637 · p. 490
अनुष्टुप्
जलस्य निर्गमद्वार इन्द्रियेऽपि तथा मतम् ।स्वं धने स्वः पुमाञ्ज्ञातौ त्रि त्वात्मात्मीययोरयम् ॥ ६६३८ ॥
48.6638 · p. 490
अनुष्टुप्
स्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा ।तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वेऽपरत्र तु ॥ ६६३९ ॥
48.6639 · p. 490
अनुष्टुप्
स्वक्षी स्याच्छोभने त्वक्षे परवल्लिङ्गतेष्यते ।स्वगुप्ता कपिकच्छ्वां च गुल्मे लज्जालुनामनि ॥ ६६४० ॥
48.6640 · p. 490
अनुष्टुप्
स्वगृहः पक्षिभेदे द्वे यौगिके तु यथायथम् ।स्वजस्तु शोभने छागे द्वयोरौरसपुत्रयोः ॥ ६६४१ ॥
48.6641 · p. 490
अनुष्टुप्
प्राणिजात्यन्तरे त्रिस्तु स्वशब्दार्थसमुद्भवे ।प्रशस्ताऽजार्थयुक्ते च स्यात्प्रशस्ते त्वजे त्रिषु ॥ ६६४२ ॥
48.6642 · p. 490
अनुष्टुप्
स्वदनम्-स्वस्त्यनम्
आस्वादने च स्वदनं शोभनेऽप्यदने मतम् ।स्वधितिस्तु पुमान्वज्रे कुठारेऽपि प्रकीर्त्तितः ॥ ६६४३ ॥
48.6643 · p. 491
अनुष्टुप्
स्वन्नं पुनर्बहुव्रीहौ सुजग्धे रुचिते त्रिषु ।शोभनत्वादिसंयुक्ते त्वन्ने तत्स्यान्नपुंसकम् ॥ ६६४४ ॥
48.6644 · p. 491
अनुष्टुप्
स्वप्नः सुप्तस्य विज्ञाने स्वापे चापि पुमान्मतः ।स्वभूर्ब्रह्मणि विष्णौ च पुँल्लिङ्गः परिकीर्त्तितः ॥ ६६४५ ॥
48.6645 · p. 491
अनुष्टुप्
स्वयंवरः पुमानुक्तः स्वयंवरणकर्मणि ।पतिंवरायां तु स्त्रीत्वे कीर्त्तितैषा स्वयंवरा ॥ ६६४६ ॥
48.6646 · p. 491
अनुष्टुप्
स्वयम्भूस्तु विरिञ्चे ना क्ली स्वयम्भुविहायसि ।स्वरः षड्जाद्युदात्ताद्योरज्वर्णे कण्ठजस्वने ॥ ६६४७ ॥
48.6647 · p. 491
अनुष्टुप्
अरे च शोभने पुंसि त्रि तु स्याच्छोभनारके ।अतिशीघ्रेऽप्यथो सामस्वे यज्जादिषु षट्सु नप् ॥ ६६४८ ॥
48.6648 · p. 491
अनुष्टुप्
स्वरसं तु दिने तद्वद्गेहे च क्लीबमिष्यते ।स्वराडैश्वर्यवद्भेदे स्वस्य राज्ञि त्रि ना हरौ ॥ ६६४९ ॥
48.6649 · p. 491
अनुष्टुप्
चतुस्त्रिंशत्स्वरेऽन्तस्था छन्दोभेदे स्त्रियां स्वराट् ।स्वरितः स्वरभेदेऽनुदात्तोदात्तद्वयात्मके ॥ ६६५० ॥
48.6650 · p. 491
अनुष्टुप्
अथ तत्स्वरयुक्ते च स्वर्गतेऽप्यभिधेयवत् ।स्वरुर्वज्रे तथा यूपशकलेऽपि पुमान्मतः ॥ ६६५१ ॥
48.6651 · p. 491
अनुष्टुप्
स्वर्णस्तु स्याद्रक्तनालिकेरे स्वर्णं तु हेमनि ।स्ववासिनी चिरण्ट्यां च नववध्वामपि स्त्रियाम् ॥ ६६५२ ॥
48.6652 · p. 491
अनुष्टुप्
स्वसरो भ्रातरि क्ली तु स्वसरं दिवसे गृहे ।स्वसृशब्दः स्त्रियामुक्तो भगिन्यामङ्गुलावपि ॥ ६६५३ ॥
48.6653 · p. 491
अनुष्टुप्
स्वस्तिरस्ति स्तुतौ स्वस्य विक्षिप्ततृणसञ्चये ।स्वस्तिकस्तु पुमान् गेहवास्तुविन्यसनान्तरे ॥ ६६५४ ॥
48.6654 · p. 491
अनुष्टुप्
त्रिकोणसंज्ञके चापि स्त्रीणां स्याद्भूषणान्तरे ।सुनिषण्णाह्वये शाकस्तम्बे पङ्कसमुद्भवे ॥ ६६५५ ॥
48.6655 · p. 491
अनुष्टुप्
द्वयोस्तु स्वस्तिकश्चाषनाम्नि पक्ष्यन्तरे मतः ।उलूलौ स्यात्स्वस्त्ययनं क्षेमेण गमनेऽपि च ॥ ६६५६ ॥
48.6656 · p. 491
अनुष्टुप्
स्वादुः-हंसः
स्वादुर्मधुरनाम्नि स्याद्रसे त्रिस्तु तदन्विते ।प्रिये मृष्टे मनोज्ञे च क्ली तु स्वादुजले मतम् ॥ ६६५७ ॥
48.6657 · p. 492
अनुष्टुप्
अथ स्याद्वी स्त्रियामेषा द्राक्षायां परिकीर्त्तिता ।स्वादुकण्टक उक्तो गोक्षुरे कोल्यां विकङ्कते ॥ ६६५८ ॥
48.6658 · p. 492
अनुष्टुप्
स्वादुगन्धा मता स्त्रीत्वे मधुशिग्रौ च यौगिके ।स्त्री तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६५९ ॥
48.6659 · p. 492
अनुष्टुप्
स्वादौ तु स्याद्रसे पुंसि बहुव्रीहौ तु भेद्यवत् ।स्वाध्यायस्तु भवेद्वेदे वेदस्य च जपे तथा ॥ ६६६० ॥
48.6660 · p. 492
अनुष्टुप्
स्वामी पुमान्स्कन्ददेवे त्रिषु नाथे प्रकीर्त्तितः ।स्वामिन्यनृपवंश्यायां नाट्योक्तौ च नृपस्त्रियाम् ॥ ६६६१ ॥
48.6661 · p. 492
अनुष्टुप्
स्वाहाऽऽग्नेय्यां च वाचि स्त्री हविर्दाने तदव्ययम् ।स्वेदः स्वेदजले स्वित्तिक्रियास्वेदनयोरपि ॥ ६६६२ ॥
48.6662 · p. 492
अनुष्टुप्
स्वेदनी कन्दुभाण्डे स्त्री स्वित्तौ क्ली स्वेदनं मतम् ।स्वेदना तु नना स्वेदयत्यर्थे परिकीर्त्तिता ॥ ६६६३ ॥
48.6663 · p. 492
अनुष्टुप्
स्वैरस्तु मन्दे स्वच्छन्देऽप्यभिधेयवदिष्यते ।स्वैरी स्वतन्त्रे बन्धक्यां पुनः स्यात्स्वैरिणी स्त्रियाम् ॥ ६६६४ ॥
48.6664 · p. 492
अनुष्टुप्