All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
प (2/7)
परिवेशो वेष्टने स्यात्परिधावपि पुंस्ययम् ।परिवेषस्तु पुँल्लिङ्गः परिधौ परिवेषणे ॥ ३१८७ ॥
37.3187 · p. 235
अनुष्टुप्
परिवेषणम्-पर्पटी
परिवेषणमुक्तं क्ली भोजनायाञ्च वेष्टने ।परिशुष्कन्तु भूयोऽद्भिः सिक्त्वा घृतविपाचिते ॥ ३१८८ ॥
37.3188 · p. 236
अनुष्टुप्
मांसे मृदुनि मरिचाद्युपेतेऽथ त्रि शुष्कके ।भवेत्परिसरो मृत्यौ विधावपि च पुंस्ययम् ॥ ३१८९ ॥
37.3189 · p. 236
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दु (wrong syllable)
परिस्पन्दः परिजने स्पन्देऽपि च पुमान्मतः ।परिस्रुता स्त्री वारुण्यां स्यन्ने त्रिषु परिस्रुतः ॥ ३१९० ॥
37.3190 · p. 236
अनुष्टुप्
परीरन्तु हले ज्ञेयं तथा हलमुखेऽपि च ।परीरणो द्वे कमठे ना दण्डे पट्टशाटके ॥ ३१९१ ॥
37.3191 · p. 236
अनुष्टुप्
परीवारो जङ्गमे स्यात्खड्गकोशे परिच्छदे ।परीवारो जलोच्छ्वासे महीभृद्योग्यवस्तुनि ॥ ३१९२ ॥
37.3192 · p. 236
अनुष्टुप्
परीष्टिस्तु परीप्सायामभितो यजनेऽपि च ।मार्गणे परिचर्यायाम्प्राकारेऽपि स्त्रियाम्मता ॥ ३१९३ ॥
37.3193 · p. 236
अनुष्टुप्
परुलस्तु द्वयोरश्वे पार्वत्याम्परुला स्त्रियाम् ।परुरिक्ष्वादिकग्रन्थौ धर्मेऽपि च नपुंसकम् ॥ ३१९४ ॥
37.3194 · p. 236
अनुष्टुप्
परुषं निष्ठुरोक्ते त्र्यस्निग्धे मिश्रे च कर्बुरे ।परूषः पुंसि खर्जूरे क्ली तु तत्प्रसवे मतम् ॥ ३१९५ ॥
37.3195 · p. 236
अनुष्टुप्
परेतस्तु मृते त्रि स्याद्भूतजात्यन्तरे द्वयोः ।परेधितस्तु द्वे दासे त्रि तु स्यात्परवर्द्धिते ॥ ३१९६ ॥
37.3196 · p. 236
अनुष्टुप्
पर्कटी तु स्त्रियाम्प्लक्षे पूगादेश्च नवे फले ।क्ली पर्कटम्पूगफले द्वे तु कङ्काख्यपक्षिणि ॥ ३१९७ ॥
37.3197 · p. 236
अनुष्टुप्
पर्जन्यस्तु पुमानिन्द्रे चास्त्रयन्त्रान्तरे मतः ।गर्जदभ्रभ्रनिनदे वास्तुदेवान्तरेऽपि च ॥ ३१९८ ॥
37.3198 · p. 236
अनुष्टुप्
पर्णः पलाशवृक्षे ना क्ली तत्सत्ये तरुच्छदे ।पर्णसि स्याज्जले क्लीबं शाकादौ तु नृभूमनि ॥ ३१९९ ॥
37.3199 · p. 236
अनुष्टुप्
उलूखले तु पुँल्लिङ्गः पर्णसिः परिकीर्त्तितः ।पर्पः शङ्खेऽम्बुधौ वस्त्रे पुँल्लिङ्गः-परिकीर्त्तितः ॥ ३२०० ॥
37.3200 · p. 236
अनुष्टुप्
पर्पटो भेषजस्तम्बान्तरेऽपूपान्तरे पुमान् ।पर्पटी त्वाढकीसंज्ञमृत्स्नादारुहरिद्रयोः ॥ ३२०१ ॥
37.3201 · p. 236
अनुष्टुप्
पर्परीकः-पलली
पर्परीकस्तु ना वह्नौ भक्षे च द्वे तु कुक्कुरे ।कुररे पर्परीकस्तु पुंस्यपामाकरे त्रि तु ॥ ३२०२ ॥
37.3202 · p. 237
अनुष्टुप्
पर्परीणश्च पर्णस्य सिरायान्द्यूतकम्बले ।पर्णचूर्णरसेऽपि स्यात्पर्परीणान्तु पर्वणि ॥ ३२०३ ॥
37.3203 · p. 237
अनुष्टुप्
पर्यङ्कः पुंसि खट्वायाम्पर्यस्त्यामासनेषु च ।पद्मार्धपद्मपादोपवेशगूढपदात्मसु ॥ ३२०४ ॥
37.3204 · p. 237
अनुष्टुप्
पुंसि पर्यनुयोगोऽनुयोगोपालम्भयोर्मतः ।स्यात्पर्यवसितं लब्धे विरतिप्राप्तवत्यपि ॥ ३२०५ ॥
37.3205 · p. 237
अनुष्टुप्
पर्यस्तस्तु हते चापि पातिते चाभिधेयवत् ।पर्याप्तं वारणे तृप्तौ यथेष्टे त्रि तु शक्तके ॥ ३२०६ ॥
37.3206 · p. 237
अनुष्टुप्
पर्याप्तिस्तु स्त्रियामुक्ता प्रकामप्राप्तिरक्षणे ।पर्यायोऽवसरे पुंसि प्रकारक्रमयोरपि ॥ ३२०७ ॥
37.3207 · p. 237
अनुष्टुप्
सामस्तोत्रगतस्तोमतृतीयांशेऽपि च स्मृतः ।पर्वमिक्ष्वादिकाण्डस्थग्रन्थौ क्लीबं शिवे पुमान् ॥ ३२०८ ॥
37.3208 · p. 237
अनुष्टुप्
पर्वतः पादपे पुंसि शाकमत्स्यप्रभेदयोः ।देवमुन्यन्तरे शैले मेघे च परिकीर्त्तितः ॥ ३२०९ ॥
37.3209 · p. 237
अनुष्टुप्
पर्वाऽस्त्री विषुवादौ च पञ्चदश्यान्तथोत्सवे ।प्रतिपत्पञ्चदश्योश्च सन्धौ ग्रन्थिद्वयान्तरे ॥ ३२१० ॥
37.3210 · p. 237
अनुष्टुप्
इक्षुवेण्वादिकग्रन्थौ प्रस्तावे लक्षणान्तरे ।पर्विः काके द्वयोरेष हिंस्रे स्यादभिधेयवत् ॥ ३२११ ॥
37.3211 · p. 237
अनुष्टुप्
पलोऽस्त्रियां भवेन्मांसे मानेऽप्यक्षचतुष्टये ।पलगण्डो द्वयोर्मर्त्त्ये किरातकरणीभवे ॥ ३२१२ ॥
37.3212 · p. 237
अनुष्टुप्
तथा स्याल्लेपके चैव भित्त्यादेः सुधया द्वयोः ।पलङ्कषा गोक्षुरके रास्नागुग्गुलुकिंशुके ॥ ३२१३ ॥
37.3213 · p. 237
अनुष्टुप्
मुण्डीरीलाक्षयोश्च स्त्री राक्षसे ना पलङ्कषः ।पललन्तिलचूर्णे क्ली मांसकर्दमभेदयोः ॥ ३२१४ ॥
37.3214 · p. 237
अनुष्टुप्
ब्रीहिस्तम्बे तु लूनान्तफले स्यात्पललोऽस्त्र्यथ ।महापलाले क्षोदे च पलालस्य पलल्यसौ ॥ ३२१५ ॥
37.3215 · p. 237
अनुष्टुप्
पलाण्डुः-पवित्रः
पलाण्डुर्दशजातीनां सुकन्दस्य क्वचिन्मतः ।सुकन्दकन्दमात्रे च पुँल्लिङ्गः परिकीर्त्तितः ॥ ३२१६ ॥
37.3216 · p. 238
अनुष्टुप्
पलाशः किंशुके शट्यौषधे वर्णे हरित्यपि ।त्रि तु तद्वर्णसंयुक्ते क्लीबं पत्रे तरोर्मतम् ॥ ३२१७ ॥
37.3217 · p. 238
अनुष्टुप्
किंशुकप्रसवे चाथ पलाशो राक्षसे द्वयोः ।पलाशिका तु सत्यां स्त्री लाक्षायां च प्रकीर्त्तिता ॥ ३२१८ ॥
37.3218 · p. 238
अनुष्टुप्
पलाशी राक्षसे द्वे ना वृक्षे मांसादिनि त्रिषु ।पलिघः काचकलशघटप्राकारगोपुरे ॥ ३२१९ ॥
37.3219 · p. 238
अनुष्टुप्
पलितोऽस्त्री राजशौक्ल्ये तद्वद्बलवतोस्त्रिषु ।क्ली तु शैलेयमरिचतापाङ्के कर्दमे तु ना ॥ ३२२० ॥
37.3220 · p. 238
अनुष्टुप्
पल्यङ्को मञ्चपर्यङ्कवृषीपर्यस्तिकासु च ।क्लीबं पल्ययनं पर्याणेऽश्वादेर्द्वे तु पञ्चमे ॥ ३२२१ ॥
37.3221 · p. 238
अनुष्टुप्
परम्पराख्ये पुत्रस्यापत्ये पल्ययनो मतः ।पल्लवोऽस्त्री किसलयेऽलक्तरागप्रकोष्ठयोः ॥ ३२२२ ॥
37.3222 · p. 238
अनुष्टुप्
बलविस्तारविटपे पत्रमात्रेऽथ ना विटे ।त्रिषु पल्लवितं लाक्षारक्ते सत्पल्लवे तते ॥ ३२२३ ॥
37.3223 · p. 238
अनुष्टुप्
पल्लिः कुटीराल्पग्रामाऽऽश्रमव्याधालयेष्वपि ।क्ली मुसल्याञ्च पल्लीवत्पल्लिः स्थूलकुसूलके ॥ ३२२४ ॥
37.3224 · p. 238
अनुष्टुप्
पवनो वायुनिष्पावांशुषुष्वर्थे तु नप्तथा ।पाकस्थाने कुलालस्य त्रिस्तु स्यात्पवसाधने ॥ ३२२५ ॥
37.3225 · p. 238
अनुष्टुप्
पवमानो मरुत्यग्नौ गार्हपत्ये विशेषतः ।यज्ञस्तोत्रविशेषेषु त्रिषु चैव पुमान्मतः ॥ ३२२६ ॥
37.3226 · p. 238
अनुष्टुप्
पवनाख्यक्रियायास्तु मतः कर्त्तरि भेद्यवत् ।पविर्वज्रे शस्त्रमुखे वायावपि पुमान्मतः ॥ ३२२७ ॥
37.3227 · p. 238
अनुष्टुप्
पवित्रः पवने सोमे यवरश्म्यग्निभानुषु ।विष्णौ शक्रे क्ली तु वृष्टौ कुशे मन्त्रेऽप्सु गोमये ॥ ३२२८ ॥
37.3228 · p. 238
अनुष्टुप्
दध्नि ताम्रे ब्रह्मसूत्रे हेम्न्यर्थे कलशेऽम्बुजे ।क्षीरे दर्भाङ्गलीये त्वस्त्री मेध्ये त्वभिधेयवत् ॥ ३२२९ ॥
37.3229 · p. 238
अनुष्टुप्
पवीरम्-पाटकः
पवीरन्तु हले चापि रङ्गस्थाने नपुंसकम् ।पशुस्त्वमुक्तात्मनि नाच्छगले च गवादिके ॥ ३२३० ॥
37.3230 · p. 239
अनुष्टुप्
ग्राम्ये मृगादौ वन्ये च दृश्यर्थे त्वव्ययम्पशु ।पश्चात्प्रतीच्याञ्चरमेऽप्यधिकारेऽपि दृश्यते ॥ ३२३१ ॥
37.3231 · p. 239
अनुष्टुप्
पश्याऽव्ययम्प्रशंसायां विस्मयेऽपि निगद्यते ।पश्यत्तु स्यात्प्रशंसायां विस्मयेऽपि तथा भवेत् ॥ ३२३२ ॥
37.3232 · p. 239
अनुष्टुप्
पांशुर्धूलौ च शस्यार्थचिरसंचितगोमये ।पांशुचामर उक्तो ना दूर्वाञ्चितटीभुवि ॥ ३२३३ ॥
37.3233 · p. 239
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वर्द्धापके प्रशंसायां पुरोटौ धूलिगुच्छके ।पांसुजम्पांसुजाते त्रि लवणे तूषजे नपि ॥ ३२३४ ॥
37.3234 · p. 239
अनुष्टुप्
पांसुला कुलटोदक्याभूषु स्त्री त्रिषु पांसुके ।पांसुलः पुंश्चले शम्भोः खट्वाङ्गेऽपि पुमान्मतः ॥ ३२३५ ॥
37.3235 · p. 239
अनुष्टुप्
पाकः परिणतौ पक्तौ सूर्ये दैत्यान्तरे गिरा ।पाकः शिशौ जरानिष्ठापचनक्लेदनेषु च ॥ ३२३६ ॥
37.3236 · p. 239
अनुष्टुप्
स्थाल्यादौ चाथ पाकं क्ली करमर्दफले मतम् ।पाकलं कुष्ठभैषज्ये पाकलः कुञ्जरज्वरे ॥ ३२३७ ॥
37.3237 · p. 239
अनुष्टुप्
पाक्यं विडाख्यलवणे स्याद्भूमिलवणे तथा ।यवक्षारेऽपि च क्लीबम्पक्तव्ये त्वभिधेयवत् ॥ ३२३८ ॥
37.3238 · p. 239
अनुष्टुप्
पाचनन्दशमूलादौ प्रायश्चित्ते नले तु ना ।वाच्यवत्पाचयितरि हरीतक्यान्तु पाचनी ॥ ३२३९ ॥
37.3239 · p. 239
अनुष्टुप्
पाचलम्पाचने नाऽग्नौ राधनद्रव्यवातयोः ।पाञ्चजन्यो विष्णुशङ्खे शङ्खमात्रे हुताशने ॥ ३२४० ॥
37.3240 · p. 239
अनुष्टुप्
पाजो बले तथाऽन्ने च सकारान्तं नपुंसकम् ।पाटकं याज्ञिकानां स्यात्सोमोन्माने नपुंसकम् ॥ ३२४१ ॥
37.3241 · p. 239
अनुष्टुप्
ग्रामार्धे त्वस्त्रियां त्रिस्तु पटेः पाटयतेस्तृतः ।पाटकः स्यान्महाकिष्कौ कटकान्तरवाद्ययोः ॥ ३२४२ ॥
37.3242 · p. 239
अनुष्टुप्
पाटलः-पात्रः
अक्षादिचालने मूलद्रव्यापचयरोधसोः ।पाटलस्तु पुमानाशुसंज्ञब्रीह्यन्तरे तथा ॥ ३२४३ ॥
37.3243 · p. 240
अनुष्टुप्
श्वेतलोहितसम्मिश्रवर्णभेदेऽथ तद्वति ।त्रि स्त्री तु तद्वर्णाख्यायां पाटला पाटलिद्रुमे ॥ ३२४४ ॥
37.3244 · p. 240
अनुष्टुप्
पुष्पे तु तस्य नप्स्त्री स्यात्पाटलं पाटलेति च ।पाटलिः पाटलासंज्ञपुष्पवृक्षे द्वयोर्भवेत् ॥ ३२४५ ॥
37.3245 · p. 240
अनुष्टुप्
विवाहार्थे पुनः शङ्खपात्रे स्यात्पाटली स्त्रियाम् ।पाटीरो मूलके वङ्गे तितऔ वार्त्तिकेऽम्बुदे ॥ ३२४६ ॥
37.3246 · p. 240
अनुष्टुप्
केदारे वेणुसारे च पुँल्लिङ्गः स्यात्पटीरवत् ।पाठा स्त्री विडकर्ण्यां स्यात्ख्याते तु पठने च ना ॥ ३२४७ ॥
37.3247 · p. 240
अनुष्टुप्
पाठीनः पाठके गुग्गुलौ मत्स्यभिदि तु द्वयोः ।पाणिः पलचतुर्भागे हस्तेऽपि च पुमान्मतः ॥ ३२४८ ॥
37.3248 · p. 240
अनुष्टुप्
रक्तोत्पले पाणिकं ना पणेऽशीतिकपर्दके ।पाणिग्रहो विवाहे स्यात्पाणेश्च ग्रहणे पुमान् ॥ ३२४९ ॥
37.3249 · p. 240
अनुष्टुप्
पाण्डुः कुन्तीपतौ पाण्ड्यदेशराजाऽन्तरेऽपि ना ।शालिजात्यन्तरे रोगभेदे खर्जूरपादपे ॥ ३२५० ॥
37.3250 · p. 240
अनुष्टुप्
वर्णान्तरे तद्वति तु त्रि खर्जूरफले तु नप् ।स्यात्पाण्डुकम्बलः श्वेतप्रावारग्रावभेदयोः ॥ ३२५१ ॥
37.3251 · p. 240
अनुष्टुप्
पाण्डुरं क्ली मरुवके शुक्ले ना त्रि तु तद्वति ।पातो ना पतने राहौ पातं त्राणे च शोषणे ॥ ३२५२ ॥
37.3252 · p. 240
अनुष्टुप्
पातन्तु शुष्के त्राते च वाच्यवत्परिकीर्त्तितम् ।पापे तु पातकोऽस्त्री त्रिः पतेः पातयतेर्ण्वुलि ॥ ३२५३ ॥
37.3253 · p. 240
अनुष्टुप्
पातालन्नागलोके स्याद्विवरे वडवानले ।पाताली वागुरायाञ्च स्थाल्याञ्चैव स्त्रियाम्मता ॥ ३२५४ ॥
37.3254 · p. 240
अनुष्टुप्
पातिली वागुरायां स्यान्नारीपात्रप्रभेदयोः ।पातुकः पतयालौ त्रिर्ना प्रपातेऽबिभे द्वयोः ॥ ३२५५ ॥
37.3255 · p. 240
अनुष्टुप्
पात्रम्पात्री च पात्रश्च पिबेस्त्रातरि शोष्टरि ।तथैव भाजनेऽपि स्यादथ योग्ये स्रुगादिके ॥ ३२५६ ॥
37.3256 · p. 240
अनुष्टुप्
पात्रम्-पानीयसम्भवम्
आढके मण्डिते वित्ते नद्याः कूलद्वयान्तरे ।प्रधानाङ्गे च सुगुणे पर्णे पात्रन्नपुंसकम् ॥ ३२५७ ॥
37.3257 · p. 241
अनुष्टुप्
पात्रटस्तु कृशे त्रि स्यात्कर्पटे तु पुमानययम् ।पात्रटीरः कांस्यलोहरौप्यपात्रेऽपि पावके ॥ ३२५८ ॥
37.3258 · p. 241
metre not recognisednearly अनुष्टुप्
सिंहाणेऽपि पुमांस्तद्वद्युक्तव्यापारमन्त्रिणि ।पाथः स्थाने जलेऽन्ने च व्योम्न्यर्केऽग्नौ नपुंसकम् ॥ ३२५९ ॥
37.3259 · p. 241
अनुष्टुप्
पाथिरस्त्री रवौ चन्द्रस्वर्गज्योतिर्नदीषु नप् ।पादोंऽशौ चरणे वृक्षेमूलेऽद्रेः प्रान्तपर्वते ॥ ३२६० ॥
37.3260 · p. 241
अनुष्टुप्
तुर्यभागे पद्यभागे परिमाणान्तरेऽपि च ।पादचत्वर इत्युक्तश्छागसैकतपिप्पले ॥ ३२६१ ॥
37.3261 · p. 241
अनुष्टुप्
करके परदोषैकप्रवक्तृपुरुषेऽपि च ।पादपस्तु पुमान्वृक्षे पादपीठेऽप्यथ स्त्रियाम् ॥ ३२६२ ॥
37.3262 · p. 241
अनुष्टुप्
पादपा पादुकायां स्यात्पादरक्षे तु भेद्यवत् ।पादपाशी खड्डुकायां शृङ्खलायामपि स्त्रियाम् ॥ ३२६३ ॥
37.3263 · p. 241
अनुष्टुप्
पादबन्धनमित्युक्तं क्लीबं चरणबन्धने ।तथा जीवधनाभिख्ये गोमहिष्यादिवस्तुनि ॥ ३२६४ ॥
37.3264 · p. 241
अनुष्टुप्
उपानहि स्त्रियां पादरक्षणी क्ल्यङ्घ्रिरक्षणे ।पादातन्तु पदातीनां सङ्घे क्लीबम्प्रकीर्त्तितम् ॥ ३२६५ ॥
37.3265 · p. 241
अनुष्टुप्
पदातिसम्बन्धिनि तु पदातौ च त्रिषु स्मृतम् ।पादावर्त्तः पुमान्पादस्यावर्त्तेप्यरघट्टके ॥ ३२६६ ॥
37.3266 · p. 241
अनुष्टुप्
पादिका मन्दिरस्याल्पस्थूणायामप्युपानहि ।रसतुर्येण हेमादेर्वेधे चापि स्त्रियाम्मता ॥ ३२६७ ॥
37.3267 · p. 241
अनुष्टुप्
क्रीताद्यर्थे पादिकस्त्रिः स्यात्पत्तरि तु पादकः ।पादुः पादूरपि स्त्री स्यात्पादुकायामुपानहि ॥ ३२६८ ॥
37.3268 · p. 241
अनुष्टुप्
पानन्तु पीतौ त्राणे च पानपात्रे च शोषणे ।दर्शने क्वाप्यथो पानः पुमान्निःश्वासमारुते ॥ ३२६९ ॥
37.3269 · p. 241
अनुष्टुप्
पानीयन्तु जले क्लीबं पातव्ये तु मतं त्रिषु ।पानीयसम्भवं तु क्ली कूप्याख्यलवणान्तरे ॥ ३२७० ॥
37.3270 · p. 241
अनुष्टुप्
पापः-पारलौकिकं
त्रि तु यत्किञ्चिदन्यत्स्याद्वारिजन्तत्र कीर्त्तितम् ।पापस्तु कुत्सिते क्रूरे त्रिषु क्लीबन्तु दुष्कृते ॥ ३२७१ ॥
37.3271 · p. 242
अनुष्टुप्
बिभीतकफले चाथ बिभीतकतरौ पुमान् ।पापर्द्धिर्मृगयायां स्त्री पापऋद्धौ यथायथम् ॥ ३२७२ ॥
37.3272 · p. 242
अनुष्टुप्
पाप्मा रोगे च पापे च नान्तः पुंसि प्रकीर्त्तितः ।पामरो वाच्यवत्खण्डे नीचे चाज्ञे च कीर्त्तितः ॥ ३२७३ ॥
37.3273 · p. 242
अनुष्टुप्
पायसोऽस्त्री दुग्धसिद्ध ओदने पुंसि तु स्मृतः ।श्रीवेष्टाह्वयनिर्यासे पयोयोगिनि तु त्रिषु ॥ ३२७४ ॥
37.3274 · p. 242
अनुष्टुप्
पायुर्भगे गुदे चापि पुँल्लिङ्गः परिकीर्त्तितः ।पारोऽस्त्र्यन्यतटे प्रान्ते सांख्यतुष्ट्यन्तरे च ना ॥ ३२७५ ॥
37.3275 · p. 242
अनुष्टुप्
पारी पूरे दोहपात्रे पादरज्जौ च दन्तिनः ।पुष्पधूलौ च खण्डेऽथ पारा स्त्री सरिदन्तरे ॥ ३२७६ ॥
37.3276 · p. 242
अनुष्टुप्
मध्यदेशस्थिते पारस्तु त्रिस्तारकपालके ।क्वचित्खण्डे परागे च पारस्तु त्रिषु तारके ॥ ३२७७ ॥
37.3277 · p. 242
अनुष्टुप्
पारः पुमान्स्यात्तरणपारतर्षिनृपान्तरे ।पारकस्तारयितरि तर्पके पूरके त्रिषु ॥ ३२७८ ॥
37.3278 · p. 242
अनुष्टुप्
पारके पारकास्तु स्युर्नृजातिभिदि भूम्नि पुम् ।पारणस्तारके त्रिर्ना मेघे क्ली तु समापने ॥ ३२७९ ॥
37.3279 · p. 242
अनुष्टुप्
व्रतान्तभोजने क्ली स्त्री पारणम्पारणापि च ।कार्त्स्न्ये समस्तपाठेऽपि पारणं केचिदूचिरे ॥ ३२८० ॥
37.3280 · p. 242
अनुष्टुप्
पारतः पारदे पुंसि पारतस्तसि चाव्ययम् ।पारदः पारते पुंसि त्रिस्तु पारस्य दातरि ॥ ३२८१ ॥
37.3281 · p. 242
अनुष्टुप्
उदीच्यनीवृद्भेदे तु पारदाः स्युर्नृभूमनि ।पारपारः पुमान् विष्णौ साख्यतुष्ट्यन्तरे तु नप् ॥ ३२८२ ॥
37.3282 · p. 242
अनुष्टुप्
पारगे त्रिः पारमितो भावे पारमितास्य च ।पारलौकिकमन्यस्य लोकस्य त्रिषु योगिनि ॥ ३२८३ ॥
37.3283 · p. 242
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
मौक्तिकाकरभेदे तु पुंसि तन्मौक्तिकेऽपि च ।द्वे तु पारशवो विप्रस्योढशुद्रासुते तथा ॥ ३२८४ ॥
37.3284 · p. 242
अनुष्टुप्
पारापारम्-पारिप्लवः
परस्त्रीतनये चापि मौक्तिके तु पुमान्मतः ।अथास्त्रियां स्यात् शस्त्रेऽपि लोहे कालायसाह्वये ॥ ३२८५ ॥
37.3285 · p. 243
अनुष्टुप्
मध्यदेशनृजातीनां भेदे तु स्युर्नृभूमनि ।पारापारन्तीरयुगे पारापारस्तु वारिधौ ॥ ३२८६ ॥
37.3286 · p. 243
अनुष्टुप्
अथ पारायणन्ध्याने तत्परेऽधीष्ट आश्रये ।साकल्यासङ्गयोश्च स्यादङ्कशस्य च बन्धने ॥ ३२८७ ॥
37.3287 · p. 243
अनुष्टुप्
जलेन चतुरो मासान्वर्त्तनात्मनि च व्रते ।कार्त्स्न्ये समस्तपाठ्ये च पाठे पारायणस्तु ना ॥ ३२८८ ॥
37.3288 · p. 243
अनुष्टुप्
कथकेऽपि च शिष्टेऽपि कथितः कस्यचिन्मते ।पारायणी सरस्वत्यां कर्मध्यानप्रभासु च ॥ ३२८९ ॥
37.3289 · p. 243
अनुष्टुप्
पारावतो व्रीहिभेदे तरुभेदेन्द्रनीलयोः ।अतस्यां वर्णभेदे चेषत्पाण्डौ त्रि तु तद्वति ॥ ३२९० ॥
37.3290 · p. 243
अनुष्टुप्
नीचेऽप्यथ द्रुमस्यात्रोक्तस्य पारावते फले ।वर्मण्यप्यथ पारावतो द्वे गृहकपोतके ॥ ३२९१ ॥
37.3291 · p. 243
अनुष्टुप्
पारावती गोपगीते नदीभिल्लवलीफले ।पारावतपदी स्त्री स्याज्जीवन्तीसंज्ञभेषजे ॥ ३२९२ ॥
37.3292 · p. 243
अनुष्टुप्
यथासमासं योगार्थे लिङ्गाद्यस्य प्रकीर्त्तितम् ।पारावारोऽम्बुधौ पारावारन्तु स्यात्समाहृतौ ॥ ३२९३ ॥
37.3293 · p. 243
अनुष्टुप्
पारावारे परार्वाचोः कूलयोरसमाहृतौ ।पारिः सृणिगुणे घण्ट्यां स्त्रियामेषा प्रकीर्त्तिता ॥ ३२९४ ॥
37.3294 · p. 243
अनुष्टुप्
पारिजातः सुरद्रूणां पञ्चानां क्वचिदिष्यते ।वृक्षभेदे च मन्दारपारिभद्रादिनामनि ॥ ३२९५ ॥
37.3295 · p. 243
अनुष्टुप्
पारिन्दस्तु पुमान्वृक्षे गाथके त्वभिधेयवत् ।पारिप्लवस्त्वाकुलेऽपि चञ्चले चाभिधेयवत् ॥ ३२९६ ॥
37.3296 · p. 243
अनुष्टुप्
पारिभद्रः-पालिः
कथान्तरेऽश्वमेधादिकीर्त्तनीये पुमान्मतः ।पारिभद्रस्तु मन्दारे निम्बद्रौ देवदारुणि ॥ ३२९७ ॥
37.3297 · p. 244
अनुष्टुप्
पारिव्याधस्तु पुंसि स्याद्वेतसे च द्रुमोत्पले ।पारुष्यं परुषत्वे च दुर्वाक्ये चेन्द्रकानने ॥ ३२९८ ॥
37.3298 · p. 244
अनुष्टुप्
बृहस्पतौ तु पारुष्यः पुँल्लिङ्गः परिकीर्त्तितः ।पार्थिवः पुंसि भूपेऽथ पृथिव्यां विदिते त्रिषु ॥ ३२९९ ॥
37.3299 · p. 244
अनुष्टुप्
पृथिव्याश्च विकारे स्यादिदमर्थादिके तथा ।तत्र स्त्र्यर्थे भवेद्वृत्तौ पार्थिवा पार्थिवीति च ॥ ३३०० ॥
37.3300 · p. 244
अनुष्टुप्
पार्थिवी तु स्त्रियामेव जानक्याम्परिकीर्त्तिता ।पार्परो भक्तसिक्थे स्यात्कीनाशे राजयक्ष्मणि ॥ ३३०१ ॥
37.3301 · p. 244
अनुष्टुप्
जराटेऽपि कदम्बस्य केसरे च गदान्तरे ।पार्यः पारहितेऽन्त्ये त्रिः पार्यन्त्वन्ते नपुंसकम् ॥ ३३०२ ॥
37.3302 · p. 244
अनुष्टुप्
पार्वतस्तु पुमान्निम्बे त्रि पर्वतभवादिके ।पार्वती तु भवान्यामप्याढकीसंज्ञमृद्यपि ॥ ३३०३ ॥
37.3303 · p. 244
अनुष्टुप्
गोपाल-पत्रिकायाञ्च गजभक्ष्याख्यभूरुहे ।पार्श्वन्तु कक्षाऽधोभागे पर्शुवृन्दात्मके तनोः ॥ ३३०४ ॥
37.3304 · p. 244
अनुष्टुप्
चक्रोपान्तेऽन्तिके ना तु जैनतीर्थकरान्तरे ।पार्श्व्यौ पुनः स्त्रियौ द्यावापृथिव्योः परिकीर्त्तितौ ॥ ३३०५ ॥
37.3305 · p. 244
अनुष्टुप्
पार्ष्णिरुन्मत्तनार्यां स्त्री पादग्रन्थ्यधरे तु सा ।सैन्यस्य पृष्ठभागे च स्त्रियां पुंसि च कीर्त्तिता ॥ ३३०६ ॥
37.3306 · p. 244
अनुष्टुप्