All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ग (2/2)
कृषीबले छद्मवेषस्पशे स्यात्सत्रयाजिनाम् ।प्रधाने यजमाने च गृहस्य त्वधिपे त्रिषु ॥ १९२७ ॥
19.1927 · p. 143
अनुष्टुप्
गृहपूर्वस्तु बलिभुग्वायसे चटकेऽपि ना ।पुमान्गृहमणिर्दीपे न तु क्ली गेहभूषणे ॥ १९२८ ॥
19.1928 · p. 143
अनुष्टुप्
गृहस्थो ना द्वितीयाश्रमस्थे त्रिषु गृहस्थिते ।मेषादौ तु क्लीबमेव लग्नात्तुर्ये विशेषतः ॥ १९२९ ॥
19.1929 · p. 143
अनुष्टुप्
भवेद्गृहे च शैलेयेऽप्यौपासनहुताशने ।गृहिणी गृहकार्याख्ये कीटभेदे द्वयोस्तथा ॥ १९३० ॥
19.1930 · p. 143
अनुष्टुप्
गृहस्थेऽथ गृहपतौ गृही स्यादभिधेयवत् ।गृहोदकं काञ्जिकेऽपि गृहसम्बन्धिवारिणि ॥ १९३१ ॥
19.1931 · p. 143
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
गृह्यं स्मार्त्तग्रन्थभेदे गुदे त्रिस्तु स्वतन्त्रके ।पक्ष्ये च गृहसक्तेषु मृगपक्षिषु वाऽथवा ॥ १९३२ ॥
19.1932 · p. 143
अनुष्टुप्
औपासनाग्नौ गृह्या तु शाखानगरबाह्ययोः ।गेयं गाने क्लीबमथ गातव्ये गातरि त्रिषु ॥ १९३३ ॥
19.1933 · p. 143
अनुष्टुप्
गेष्णः पुमान्साममात्रे चोभयोरङ्गयोस्तनोः ।रङ्गोपजीविनि पुनर्गेष्णः स्यादभिधेयवत् ॥ १९३४ ॥
19.1934 · p. 143
अनुष्टुप्
गेष्णुः पुमान्गायनेऽपि नटेऽपि परिकीर्त्तितः ।गैरिकन्तु भवेत्क्लीबम्पीतधातौ च हेम्नि च ॥ १९३५ ॥
19.1935 · p. 143
अनुष्टुप्
गैरेयं-गोदः
शिलाजतुनि गैरेयन्ना तु पूगेऽद्रिसम्भवे ।गौर्नाऽऽदित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः ॥ १९३६ ॥
19.1936 · p. 144
अनुष्टुप्
स्त्री तु स्याद्दिशि भारत्याम्भूमौ च सुरभावपि ।नृस्त्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ॥ १९३७ ॥
19.1937 · p. 144
अनुष्टुप्
मौर्व्यां रवेः सुषुम्णाख्यरश्मौ च प्रग्रहेऽर्वतः ।द्वयोस्त्वश्वे त्रिषु स्तोत्रे दुग्धस्याऽभिषवेपि च ॥ १९३८ ॥
19.1938 · p. 144
अनुष्टुप्
अथ श्लेष्माख्यविकृतौ चर्मणो गौर्नरस्त्रियोः ।गोकण्टको गोक्षुरके स्थपुटे च गवां खुरे ॥ १९३९ ॥
19.1939 · p. 144
अनुष्टुप्
गोकर्णोऽश्वतरे सर्पे मृगभेदे तथा द्वयोः ।गोकर्ण इति विख्याते पुँल्लिङ्गस्तु गणान्तरे ॥ १९४० ॥
19.1940 · p. 144
अनुष्टुप्
शिवतीर्थविशेषे चाऽनामिकाङ्गुष्ठविस्तृतेः ।माने चाप्यथ गोकर्णी मूषिकौषधिदूर्वयोः ॥ १९४१ ॥
19.1941 · p. 144
अनुष्टुप्
गोकीलकस्तु वलिरे वाच्यवत्परिकीर्त्तितः ।उपेक्षमाणे पङ्कस्थां गां च गोकीलकस्त्रिषु ॥ १९४२ ॥
19.1942 · p. 144
अनुष्टुप्
गोग्रन्थिर्ना करीषे स्याद्गोष्ठे गोजिह्विकौषधौ ।गोजिह्वा रसनायां गोः स्थावरे दार्विकाऽभिधे ॥ १९४३ ॥
19.1943 · p. 144
अनुष्टुप्
मनःशिलायामपि च गवीथुक्षुद्रधान्यके ।गोडुम्बः शीर्णवृन्ते ना गवादिन्यां तु योषिति ॥ १९४४ ॥
19.1944 · p. 144
अनुष्टुप्
गोण्डः पामरभेदे त्रि भारवाहककर्मणि ।गोण्डो नाभौ पुमानेष त्रि तु तद्वति कीर्त्तितः ॥ १९४५ ॥
19.1945 · p. 144
अनुष्टुप्
गोतमञ्चापभेदे क्ली जडे तु त्र्यथ गोतमी ।रोचनीदुर्गयोर्ना तु शाक्यसिंहर्षिभेदयोः ॥ १९४६ ॥
19.1946 · p. 144
अनुष्टुप्
गोत्रा भूगव्ययोर्गोत्रः पुनः शैले वलाहके ।गोत्रं कुले बले नाम्नि काननच्छत्रवर्त्मसु ॥ १९४७ ॥
19.1947 · p. 144
अनुष्टुप्
सम्भावनीयबोधे च लोके याने च कुत्सिते ।अथ गोत्रो गवां त्रातर्यभिधेयवदुच्यते ॥ १९४८ ॥
19.1948 · p. 144
अनुष्टुप्
गोदा गोदावरीनद्यां गोदो गोदातरि त्रिषु ।ना क्रीडायां ह्रदौ गौदाग्रामौ चापि तदन्तिके ॥ १९४९ ॥
19.1949 · p. 144
अनुष्टुप्
गोदारणं-गोरसः
गोदारणं लाङ्गलेऽपि कुद्दालेऽपि नपुंसकम् ।गोधुक् पुंसि सुमेरौ त्रि गोपाले गोश्च दोग्धरि ॥ १९५० ॥
19.1950 · p. 145
अनुष्टुप्
गोधा जन्तौ धन्विनाञ्च हस्ते ज्याघातवारणे ।गोधूमो नागरङ्गे स्यादोषधिव्रीहिभेदयोः ॥ १९५१ ॥
19.1951 · p. 145
अनुष्टुप्
गोनर्दः अक्षिणि मतः सारसाख्ये द्वयोरयम् ।गोनर्दं क्ली वा[न] मुस्ते कैवर्तीमुस्तकेऽपि च ॥ १९५२ ॥
19.1952 · p. 145
अनुष्टुप्
गोनासस्तु तिलित्सारसर्पजातौ द्वयोर्मतः ।गोर्नासिकायां गोनासा स्त्रियामेषा प्रकीर्त्तिता ॥ १९५३ ॥
19.1953 · p. 145
अनुष्टुप्
गोपो गोष्ठाधिपे गुप्तौ बहुग्रामाधिकारिणि ।भूपेऽथ त्रिषु गोपाले मनुष्ये तु द्वयोर्मतः ॥ १९५४ ॥
19.1954 · p. 145
अनुष्टुप्
गोपी तू स्त्री सारिवाख्यभेषजे समुदाहृता ।गोपतिर्ना रवौ षण्डे शिवे भूतपतावपि ॥ १९५५ ॥
19.1955 · p. 145
अनुष्टुप्
गोपालस्तु पुमान्राज्ञि गोःपातर्यभिधेयवत् ।गोपीथो गोनिपाने च तीर्थे कालान्तरेऽपि च ॥ १९५६ ॥
19.1956 · p. 145
अनुष्टुप्
गोपुच्छो हारभेदे च यष्टिके पुंसि कीर्त्तितः ।पुंनपुंसकयोस्त्वेतद्गोलाङ्गूले च कीर्त्तितम् ॥ १९५७ ॥
19.1957 · p. 145
अनुष्टुप्
गोपुरन्द्वारि पूर्द्वारि कैवर्त्तीमुस्तकेऽपि च ।गोमत् गोस्वामिनि त्रि स्यान्नदीभेदे तु गोमती ॥ १९५८ ॥
19.1958 · p. 145
अनुष्टुप्
गोमतन्तु परिज्ञेयं गव्यूतिरिति विश्रुते ।क्रोशद्वयात्मके मार्गपरिमाणे नपुंसकम् ॥ १९५९ ॥
19.1959 · p. 145
अनुष्टुप्
गोमुखं कुटिलागारे त्रि तु वाच्यवदिष्यते ।ना तु मातलिपुत्रेशगणयोर्नक्रके द्वयोः ॥ १९६० ॥
19.1960 · p. 145
अनुष्टुप्
गोमेदकम्पीतमणौ काकोले पत्रकेऽपि च ।गोरक्षो नागरङ्गे ना गवान्तु त्रातरि त्रिषु ॥ १९६१ ॥
19.1961 · p. 145
अनुष्टुप्
गोरक्षजम्बू गोधूमधान्ये नागबलाह्वये ।गोरक्षा तण्डुलान्याख्ये भेषजे तु स्त्रियाम्मता ॥ १९६२ ॥
19.1962 · p. 145
अनुष्टुप्
गोरङ्कुः स्यात्पुमान्पक्षिभेदे नग्नकवन्दिनोः ।गोरसः कालशेयेपि तथा दघ्नि पुमानयम् ॥ १९६३ ॥
19.1963 · p. 145
अनुष्टुप्
गोरुतम्-गौरः
गोरुतन्तु भवेत्क्लीबं गव्यूतौ च गवां रुते ।गोलको जारसम्भूते वैधवेयेऽपि कम्बले ॥ १९६४ ॥
19.1964 · p. 146
अनुष्टुप्
पिण्डे गुडे च गोले च मणिके स्त्री तु गोलिका ।वेष्टनद्रव्यके प्राणिभेदेऽपि परिकीर्त्तिता ॥ १९६५ ॥
19.1965 · p. 146
अनुष्टुप्
गोला गोदावरीसख्योः कुनटीदुर्गयोः स्त्रियाम् ।पत्राञ्जनेऽलिञ्जरे च बालक्रीडनके तथा ॥ १९६६ ॥
19.1966 · p. 146
अनुष्टुप्
क्लीबन्तु काञ्जिके गोलं पिण्डगोलः पुमान्मतः ।गोलाङ्गूलस्तु गोपुच्छे वानरे च पुमान्मतः ॥ १९६७ ॥
19.1967 · p. 146
अनुष्टुप्
गोलोमी सितदूर्वायां स्याद्वचा भूतकेशयोः ।गोवन्दनी फलिन्यां स्त्री योगे गोवन्दना मता ॥ १९६८ ॥
19.1968 · p. 146
अनुष्टुप्
गोविन्दो गोरधिपतौ त्रिर्ना कृष्णे बृहस्पतौ ।गोशीर्षं चन्दनं ताम्रसारे मूर्ध्नि गवामपि ॥ १९६९ ॥
19.1969 · p. 146
अनुष्टुप्
गोष्ठमस्त्री गवां स्थाने गोष्ठः सामान्तरे पुमान् ।गोष्ठी तु स्त्री सभायाञ्च संलापे च प्रकीर्त्तिता ॥ १९७० ॥
19.1970 · p. 146
अनुष्टुप्
गोष्पदं गोखुरे श्वभ्रे गवाञ्च गतिगोचरे ।गोसो बालेऽपि पुँल्लिङ्गस्तथैवोषसि कीर्त्तितः ॥ १९७१ ॥
19.1971 · p. 146
अनुष्टुप्
संख्यायामथ गोयुद्धे गोसंख्यम्पुन्नपुंसकम् ।गोसर्गः स्यात्प्रभातेऽपि पुँल्लिङ्गः सर्जने गवाम् ॥ १९७२ ॥
19.1972 · p. 146
अनुष्टुप्
गोस्तनो ना चतुर्यष्टिहारभेदे स्तने गवाम् ।गोस्तनी तु स्त्रियान्द्राक्षाभेद एषा प्रयुज्यते ॥ १९७३ ॥
19.1973 · p. 146
अनुष्टुप्
गोस्वामी राजपुत्रे स्यान्नाट्योक्तौ त्रि तु गोमति ।गौतमो ना शाक्यमुनावृषिभेदे च कीर्त्तितः ॥ १९७४ ॥
19.1974 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
स्त्रियान्तु दुर्गारोचन्योर्गौदावर्याञ्च गौतमी ।मेदोजे गौतमं क्ली च कुक्कुरे तु द्वयोरयम् ॥ १९७५ ॥
19.1975 · p. 146
अनुष्टुप्
गौरो धवेऽसने शुक्लसर्षपे ब्रह्मचन्द्रयोः ।श्वेतपीतारुणगुणेष्वेतद्युक्तेषु तु त्रिषु ॥ १९७६ ॥
19.1976 · p. 146
अनुष्टुप्
शुद्धे च प्रसवे तु क्ली धवासनमहीरुहोः ।उशीरे चाब्जकिञ्जल्के द्वयोस्तु स्यान्मृगान्तरे ॥ १९७७ ॥
19.1977 · p. 146
अनुष्टुप्
गौरी-ग्राममद्गुरिका
गौरी शिवासरस्वत्योः प्रियायां वरुणस्य च ।असञ्जातरजःकन्या गौरी च सरिदन्तरे ॥ १९७८ ॥
19.1978 · p. 147
अनुष्टुप्
रोचनीरजनीपिङ्गाप्रियङ्गुवसुधासु च ।बुद्धस्य शक्तौ रागिण्यान्तीक्ष्णार्जकहरिद्रयोः ॥ १९७९ ॥
19.1979 · p. 147
अनुष्टुप्
ग्रथितं गुम्फिते क्रान्ते हिंसिते चाभिधेयवत् ।ग्रन्थः शास्त्रे धने चैव ग्रन्थनायान्तथा पुमान् ॥ १९८० ॥
19.1980 · p. 147
अनुष्टुप्
द्वात्रिंशद्वर्णवृन्दे च वचस्यप्ययमिष्यते ।ग्रन्थिः स्यादिक्षुवेण्वादिकाण्डसन्धौ रुगन्तरे ॥ १९८१ ॥
19.1981 · p. 147
अनुष्टुप्
ग्रन्थिवर्णे रज्जुवस्त्रादिग्रन्थनपदे पुमान् ।ग्रन्थिकं पिप्पलीमूले गुग्गुलुग्रन्थिवर्णयोः ॥ १९८२ ॥
19.1982 · p. 147
अनुष्टुप्
वाच्यवत्तु ग्रन्थिनि ना सहदेवाख्यपाण्डवे ।ग्रन्थिलस्तु पुमाञ्ज्ञेयः करीरद्रौ विकङ्कते ॥ १९८३ ॥
19.1983 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग्र (wrong syllable)
अथ ग्रन्थिलमेतत्स्याद्ग्रन्थिमत्यभिधेयवत् ।ग्रस्तं त्रिवेष्टिते भुक्ते लुप्तवर्णपदोदिते ॥ १९८४ ॥
19.1984 · p. 147
अनुष्टुप्
ग्रह आदान निर्बन्धोपरागाऽनुग्रहेषु च ।रणोद्यमे च कथितो राहौ चापि बुधादिषु ॥ १९८५ ॥
19.1985 · p. 147
अनुष्टुप्
उलूखलनिभे सोमपात्रभेदे तथा पुमान् ।द्वयोस्त्वेष पिशाचादौ ग्रहशब्दः प्रकीर्त्तितः ॥ १९८६ ॥
19.1986 · p. 147
अनुष्टुप्
ग्रहणम्प्रत्यये क्लीबलिङ्गं स्याच्चन्द्रसूर्ययोः ।उपरागे चोपलब्धौ बन्धादानादरेषु च ॥ १९८७ ॥
19.1987 · p. 147
अनुष्टुप्
ग्रहणी तूदरव्याधिविशेषे मृत्युमेढ्र्योः ।ग्रहराजस्तु विज्ञेयो भास्करे चन्द्रमस्यपि ॥ १९८८ ॥
19.1988 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ग्रामः संवसथे वृन्दे तथा गीतिस्वरान्तरे ।ग्रामणीर्नापिते पुंसि तथैवाधिकृते मतः ॥ १९८९ ॥
19.1989 · p. 147
अनुष्टुप्
नायकोत्तमयोस्त्वेष ग्रामणीर्वाच्यवन्मतः ।ग्रामणीकुलमित्येतत्क्षुद्राणां भारताम्बुधेः ॥ १९९० ॥
19.1990 · p. 147
अनुष्टुप्
प्राग्दक्षिणस्थद्वीपानामेकस्मिन्परिकीर्त्तितम् ।ग्राममद्गुरिका ग्रामयुद्धे शृङ्गिझषे स्त्रियाम् ॥ १९९१ ॥
19.1991 · p. 147
अनुष्टुप्
ग्रामीणा-घटिकं
ग्रामीणा नीलिकायां स्त्री ग्रामोद्भूतेऽभिधेयवत् ।अथ काके च शुनके द्वयोर्ग्रामीण इष्यते ॥ १९९२ ॥
19.1992 · p. 148
अनुष्टुप्
ग्राम्यं स्त्रीकरणे क्लीबं त्रिरश्लीलेऽपि कीर्त्तितम् ।ग्रामीणेऽथ स्त्रियां ग्राम्या चाषसंज्ञे लतान्तरे ॥ १९९३ ॥
19.1993 · p. 148
अनुष्टुप्
ग्रावा शैलशिलाभ्रेषु नान्तः पुंसि प्रकीर्त्तितः ।ग्राहो द्वे अवहारे स्यान्निर्बन्धे नु पुमान्मतः ॥ १९९४ ॥
19.1994 · p. 148
अनुष्टुप्
ग्राहकस्तु त्रिषु ज्ञेयो ग्रहीतर्यथ पक्षिणि ।पुंसि स्याद्येन गृह्यन्ते पक्षिणोऽन्ये च लुब्धकैः ॥ १९९५ ॥
19.1995 · p. 148
अनुष्टुप्
ग्राहिः पुमान्कपित्थे स्याद्वाच्यवत्तु ग्रहीतरि ॥ १९९५-१/२ ॥
19.190 · p. 148