कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ल (1/2)

लक्तिका गवि गोधायां वाद्यभेदेऽपि च स्त्रियाम् ॥ ४८०८ ॥
44.4808 · p. 358

लक्षं-लङ्गनी

लक्षं शरव्ये क्लीबं स्याल्लक्षोऽस्त्री व्याज इष्यते ।लक्षः करुणवृक्षे ना दर्शनाङ्कनयोरपि ॥ ४८०९ ॥
44.4809 · p. 359
अनुष्टुप्
अयुते तु दशाभ्यस्ते लक्षं लक्षा च नप्स्त्रियोः ।लक्षणं कार्षिके चिह्ने नाम्नि मुद्राङ्कसम्पदोः ॥ ४८१० ॥
44.4810 · p. 359
अनुष्टुप्
भक्त्यां स्त्री लक्षणा स्यात्तु सारस्यान्दर्शनाङ्कयोः ।लक्ष्मणः सारसे द्वे स्यात्पुमान्रामानुजे मतः ॥ ४८११ ॥
44.4811 · p. 359
अनुष्टुप्
प्रियायां सारसस्य स्याल्लक्ष्मणा लक्ष्मणीति च ।स्त्रियां लतान्तरे पुत्रजननीनाम्नि लक्ष्मणा ॥ ४८१२ ॥
44.4812 · p. 359
अनुष्टुप्
ज्योतिष्मत्योषधौ चापि स्यात्तु लक्ष्मवति त्रिषु ।लक्ष्मचिह्ने प्रधाने च प्रोक्तं नान्तं नपुंसकम् ॥ ४८१३ ॥
44.4813 · p. 359
अनुष्टुप्
लक्ष्मीः श्रीभूतिशोभासु ऋद्धिवृद्ध्यौषधद्वये ।लवङ्गे नवशक्तीनां विष्णोरेकत्र च स्त्रियाम् ॥ ४८१४ ॥
44.4814 · p. 359
अनुष्टुप्
लक्ष्मीपतिर्नृपे चापि विष्णावपि पुमान्मतः ।लक्ष्मीपुत्रो द्वयोरश्वे श्रीसुतेऽथाढ्यके त्रिषु ॥ ४८१५ ॥
44.4815 · p. 359
अनुष्टुप्
लक्ष्मीवाञ्श्रीमति त्रि स्यात्कतकाख्यद्रुमे तु ना ।लक्ष्यं शरव्ये क्ली शब्दे सिद्धे लक्षणतस्तथा ॥ ४८१६ ॥
44.4816 · p. 359
अनुष्टुप्
द्रष्टव्ये त्वङ्कनीये च लक्ष्यः स्यादभिधेयवत् ।लग्नं राश्युदये क्लीबं सक्तलज्जितयोस्त्रिषु ॥ ४८१७ ॥
44.4817 · p. 359
अनुष्टुप्
लघण्मेघे टकारान्तो वायावपि पुमान्मतः ।हिरण्यमाषकस्यापि भेदे स्त्री त्वप्सरस्यसौ ॥ ४८१८ ॥
44.4818 · p. 359
अनुष्टुप्
लघ्वसारेष्टरम्याल्पशीघ्रे प्रतिभटे गुरोः ।एकमात्रस्वरे चैषु स्त्र्यर्थे लघ्वी लघुस्तथा ॥ ४८१९ ॥
44.4819 · p. 359
अनुष्टुप्
अथ क्लीबं लघूशीरेऽप्यगुरावपि कीर्त्तितम् ।गुग्गुलौ तु पुमान्स्त्री तु स्पृक्कायां स्यन्दनान्तरे ॥ ४८२० ॥
44.4820 · p. 359
अनुष्टुप्
लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ।लङ्गः सङ्गे च षिड्गे च पुँल्लिङ्गः परिकीर्त्तितः ॥ ४८२१ ॥
44.4821 · p. 359
अनुष्टुप्
लङ्गनं तु गतौ क्लीबं लङ्गनी तु स्त्रियामियम् ।वस्त्रलम्बनदण्डे स्यात्तिरश्चीने गृहादिषु ॥ ४८२२ ॥
44.4822 · p. 359
अनुष्टुप्

लङ्घकः-ललना

लङ्घकस्त्रिर्लङ्घितरि द्वे तु रङ्गोपजीविनि ।लङ्घनन्तूपवासे स्यात्क्रमणे प्लवनेऽपि च ॥ ४८२३ ॥
44.4823 · p. 360
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ल (wrong syllable)
लज्जालुः स्त्री नमस्कार्याख्येऽनूपलतान्तरे ।शमीफलाख्ये सलिलोद्भूतवल्ल्यन्तरेऽपि च ॥ ४८२४ ॥
44.4824 · p. 360
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लज्जालुर्वाच्यवच्चैष लज्जाशीले प्रकीर्त्तितः ।लट्वः कटाहे लट्वा तु कुसुम्भे पक्षिभिद्यपि ॥ ४८२५ ॥
44.4825 · p. 360
अनुष्टुप्
लट्वा करञ्जभेदे स्यात्फले वाद्ये स्त्रियामियम् ।लडहो ना विलासे त्रिर्विलासवति सुन्दरे ॥ ४८२६ ॥
44.4826 · p. 360
अनुष्टुप्
लता तु वल्ल्यां शाखायां प्रियङ्गुस्पृक्कयोरपि ।लता बृहत्यामपि च ज्योतिष्मत्यतिमुक्तयोः ॥ ४८२७ ॥
44.4827 · p. 360
अनुष्टुप्
तथैव शारिवायां च माधवीदूर्वयोः स्त्रियाम् ।लब्धवर्णः पण्डिते त्रिर्योगार्थे तु यथायथम् ॥ ४८२८ ॥
44.4828 · p. 360
अनुष्टुप्
लभ्यं न्याप्ये च लब्धव्ये वाच्यवत्परिकीर्त्तितम् ।लम्पाको लम्पटे देशे पुँल्लिङ्गः परिकीर्त्तितः ॥ ४८२९ ॥
44.4829 · p. 360
अनुष्टुप्
लम्बस्तु लम्बने पुंसि स्त्रियां चैव प्रकीर्त्तितः ।लम्बकर्णः स्मृतः कोहपादपे छगलेऽपि च ॥ ४८३० ॥
44.4830 · p. 360
अनुष्टुप्
लम्बनः शकुने द्वे स्याल्लम्बनम्भूषणे मतम् ।ललन्तिकासमाख्येपि तथा लम्बनकर्मणि ॥ ४८३१ ॥
44.4831 · p. 360
अनुष्टुप्
लम्बा पद्मालयागौर्योस्तिक्ततुम्ब्यामपि स्त्रियाम् ।लम्बा स्त्रीभूमिभेदेऽपि तथोत्कोचे प्रकीर्त्तिता ॥ ४८३२ ॥
44.4832 · p. 360
अनुष्टुप्
लम्बोदरो विघ्नराजे विशेषे नृपतौ तथा ।लयो विनाशे संश्लेषे साम्ये तौर्यत्रिके मतम् ॥ ४८३३ ॥
44.4833 · p. 360
अनुष्टुप्
लर्जुशब्दो मतः स्त्रीत्वे वणिज्यपि च विद्युति ।ललं तु पल्लवेऽपि स्यादुद्यानेऽपि नपुंसकम् ॥ ४८३४ ॥
44.4834 · p. 360
अनुष्टुप्
ललजिह्वोऽन्यवत् हिंस्रे क्रमेलकशुनोः पुमान् ।ललत् त्रिषु विलासस्य कर्त्तर्येतत्प्रकीर्त्तितम् ॥ ४८३५ ॥
44.4835 · p. 360
अनुष्टुप्
लम्बनाख्ये त्वलङ्कारे ललन्ती स्त्रीत्व इष्यते ।ललना कामिनीजिह्वानाडी [ष्वाचारसर्जयोः] ॥ ४८३६ ॥
44.4836 · p. 360
अनुष्टुप्

ललनं-लाङ्गली

नपुंसकं तु ललनं विलासे परिकीर्त्तितम् ।ललाटिका ललाटस्थपत्राङ्गुल्यां प्रकीर्त्तिता ॥ ४८३७ ॥
44.4837 · p. 361
अनुष्टुप्
तथैव पत्रपाश्यायामपि स्त्रीलिङ्ग इष्यते ।ललामोऽस्त्री ध्वजे चिह्ने प्रभावे पुरुषे नृपे ॥ ४८३८ ॥
44.4838 · p. 361
अनुष्टुप्
छत्रे धाम्नि पशोः शृङ्गे पुण्ड्रे पुच्छे च भूषणे ।वाच्यवल्लिङ्गिनि श्रेष्ठेऽथ ललामो द्वयोर्हये ॥ ४८३९ ॥
44.4839 · p. 361
अनुष्टुप्
ललितं हारभेदे क्ली लसितेऽथ त्रिरीप्सिते ।लवश्छेदे च लेशे च काले नाशे च राघवे ॥ ४८४० ॥
44.4840 · p. 361
अनुष्टुप्
लवणो दैत्यभेदे च पुमान्पटुरसेऽप्यथ ।लवणद्रव्यसंसृष्टे त्रि स्यात्पटुरसान्विते ॥ ४८४१ ॥
44.4841 · p. 361
अनुष्टुप्
लताभेदे तु लवणी क्ली तु स्यात्सैन्धवादिषु ।[ना तु सिन्धौ च लवणी नदीभेदद्विषोः स्त्रियाम] ॥ ४८४२ ॥
44.4842 · p. 361
अनुष्टुप्
लवाणकस्तु कालेऽपि दात्रेऽपि तृणभिद्यपि ।लष्वो (ष्यो) द्वयोरपत्ये स्यादृषिस्थाने तु पुंस्ययम् ॥ ४८४३ ॥
44.4843 · p. 361
अनुष्टुप्
ला स्त्रीलिङ्गं हि दाने स्याद्ग्रहणेपि निगद्यते ।लाक्षा त्वलक्तकेप्याथर्वणोक्तेऽपि लतान्तरे ॥ ४८४४ ॥
44.4844 · p. 361
अनुष्टुप्
लाक्षावृक्षः पलाशे पुम् कोशाम्रेऽपि प्रकीर्त्तितः ।लाक्षिको लाक्षयारक्ते लक्षमूल्ये च भेद्यवत् ॥ ४८४५ ॥
44.4845 · p. 361
अनुष्टुप्
लाङ्गलं तु हले गेहदारुपुष्पविशेषयोः ।ताले मेढ्रे [च पुच्छे च लाङ्गलं] कस्यचिन्मतम् ॥ ४८४६ ॥
44.4846 · p. 361
अनुष्टुप्
लाङ्गल्यग्निशिखातोयपिप्पलीशालिभित्स्वपि ।मञ्जिष्ठानारिकेल्योश्च रास्नायामपि कीर्त्तिता ॥ ४८४७ ॥
44.4847 · p. 361
अनुष्टुप्
नदीभेदेऽथ चरकः शालिभेदेऽवदन्नरम् ।नृभूम्नि लाङ्गलाः शाखाभिन्नृजातिभिदोरपि ॥ ४८४८ ॥
44.4848 · p. 361
अनुष्टुप्
स्याल्लाङ्गले लाङ्गलकमथ लाङ्गलिका स्त्रियाम् ।भवेदग्निशिखायामप्यथ लाङ्गलकी मता ॥ ४८४९ ॥
44.4849 · p. 361
अनुष्टुप्
विषभेदे लाङ्गलिको नृभू सामगशाखिषु ।लाङ्गली बलदेवे नालिकेरे ना त्रियौगिके ॥ ४८५० ॥
44.4850 · p. 361
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ला (wrong syllable)

लाङ्गलिनी-लालास्रावः

अथ लाङ्गलिनी लाङ्गलिक्यां स्त्रीत्वे प्रकीर्त्तिता ।लाङ्गूलवल्लाङ्गुलं क्ली कीर्त्तितं मेढ्रपुच्छयोः ॥ ४८५१ ॥
44.4851 · p. 362
अनुष्टुप्
लाङ्गूली पृश्निपर्ण्यां स्याल्लाङ्गूलं मेढ्रपुच्छयोः ।लाङ्गूली वानरे कन्दभेदे हैमवतेऽपि ना ॥ ४८५२ ॥
44.4852 · p. 362
अनुष्टुप्
लाङ्गूलिनी नदीभेदे लाङ्गुन्यपि च सा मता ।लाजं क्लीबमुशीरेऽथ स्त्रियां पुंभूम्नि चाक्षते ॥ ४८५३ ॥
44.4853 · p. 362
अनुष्टुप्
भृष्टधान्येऽपि च स्त्रीत्वे किंवा पुंभूम्नि कस्यचित् ।लाञ्छनी स्त्री च मुद्रायां क्लीचिह्नाङ्कननामसु ॥ ४८५४ ॥
44.4854 · p. 362
अनुष्टुप्
लाटो देशान्तरे वस्त्रे लाटदेश्येषु भूम्न्ययम् ।लातशब्दस्तु पुँल्लिङ्गो वृत्तिकादानभाजने ॥ ४८५५ ॥
44.4855 · p. 362
अनुष्टुप्
आत्ते तु भेद्यलिङ्गः स आदाने तु नपुंसकम् ।लाबः पक्षिविशेषे द्वे [लाबा रूपं स्त्रियाम्भवेत् ] ॥ ४८५६ ॥
44.4856 · p. 362
अनुष्टुप्
लालिकाऽश्वनसो रज्जौ त्रिस्तु स्याल्ललितर्यपि ।बालानुकृतिशब्दे तु लालकः परिकीर्त्तितः ॥ ४८५७ ॥
44.4857 · p. 362
अनुष्टुप्
लालना लालयत्यर्थे न ना सर्जरसे तु ना ।द्वयोस्तु मूषिकाकारसविषप्राणिभिद्यपि ॥ ४८५८ ॥
44.4858 · p. 362
अनुष्टुप्
लालसा तु न नौत्सुक्ये प्रार्थनायां च दोहदे ।अतिमात्राभिलाषेऽथ स्त्री छन्दोयोगिनीभिदोः ॥ ४८५९ ॥
44.4859 · p. 362
अनुष्टुप्
लाला मुखजले काञ्च्यां कान्त्याञ्च लवलीद्रुमे ।द्वयोस्तु लालो मैत्रेय ब्राह्मणीसम्भवे मतः ॥ ४८६० ॥
44.4860 · p. 362
अनुष्टुप्
विलासे तु पुमांल्लालः स्यादुपक्रन्दने तु नप् ।स्यादुपच्छन्दने लालं गुह्यार्थपरभार्ययोः ॥ ४८६१ ॥
44.4861 · p. 362
अनुष्टुप्
लालाटी तु ललाटे स्त्री ललाटयुजि वाच्यवत् ।लालाटिकः प्रभोर्भावदर्शिन्याश्लेषणान्तरे ॥ ४८६२ ॥
44.4862 · p. 362
अनुष्टुप्
कार्याक्षमे [चैव पुमान्मतोऽयं शब्दवेदिभिः] ।लालास्रावस्तु लूतायां द्वे लालास्रवणे पुमान् ॥ ४८६३ ॥
44.4863 · p. 362
अनुष्टुप्

लावः-लिङ्गुः

लावश्छेत्तर्युत्तरत्र त्रिर्द्वै लाबाख्यपक्षिणि ।लावणी स्त्री नृत्यगीतभिदोर्लवणयोगिनि ॥ ४८६४ ॥
44.4864 · p. 363
अनुष्टुप्
लवणं यस्य पण्यं त्रिस्तत्र लावणिको मतः ।[क्लीबे लावणिकं प्रोक्तम्पात्रे च लवणस्य तु ॥ ४८६५ ॥
44.4865 · p. 363
अनुष्टुप्
लासः स्यान्नर्त्तने पुंसि मांससूपे तथा मतः ।स्त्री लासिका स्यान्नर्त्तक्यां त्रिषु स्याल्लसितर्यपि ॥ ४८६६ ॥
44.4866 · p. 363
अनुष्टुप्
लासको ना शिवे वेष्टे न स्त्री स्यादायुधान्तरे ।द्वे मयूरे दृश्यकाव्यविशेषे लासिका स्त्रियाम् ॥ ४८६७ ॥
44.4867 · p. 363
अनुष्टुप्
लासिका लासकी नर्त्तक्यामट्टे लासकं नपि ।लास्यं तौर्यत्रिके नृत्ये लास्या द्वे नृत्यकारिणि ॥ ४८६८ ॥
44.4868 · p. 363
अनुष्टुप्
लिः क्लमेऽन्ते क्षये साम्ये कङ्कणेऽपि पुमान्मतः ।लिकुचो लकुचे पुंसि लिकुचं फलभक्षणे ॥ ४८६९ ॥
44.4869 · p. 363
अनुष्टुप्
लिक्षं लिक्षोऽपि लिक्षा च यूकाण्डे मानभिद्यपि ।लिखिर्ना लिखनौ द्वे तु शिल्पिनि त्रिस्तु पण्डिते ॥ ४८७० ॥
44.4870 · p. 363
अनुष्टुप्
लिखितं कृतलेखादौ लिखितः स्मृतिकृद्भिदि ।लिगुर्गोत्रान्तरे मन्त्रे द्वारभूमिप्रदेशयोः ॥ ४८७१ ॥
44.4871 · p. 363
अनुष्टुप्
ना द्वयोस्तु मृगे क्ली तु हृदये लिगु कीर्त्तितम् ।लिङ्गं बुद्ध्यादिसंहत्यां सांख्यानां प्रकृतावपि ॥ ४८७२ ॥
44.4872 · p. 363
अनुष्टुप्
स्त्रीपुंसादेश्च संस्थाने शरीरे चिह्नशेफसोः ।प्रव्रज्यायामवयवे वेषे बुद्ध्यनुमानयोः ॥ ४८७३ ॥
44.4873 · p. 363
अनुष्टुप्
शिवमूर्त्तिविशेषेपि पुराणे लिङ्गनामके ।लिङ्गकस्तु कपित्थे स्याल्लिङ्गिकाभेषजान्तरे ॥ ४८७४ ॥
44.4874 · p. 363
अनुष्टुप्
लिङ्गजः स्याच्छिश्नमले लिङ्गजा भेषजान्तरे ।लिङ्गी परशुरामे ना लिङ्ग्यव्यक्ते नपुंसकम् ॥ ४८७५ ॥
44.4875 · p. 363
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छि (wrong syllable)
लिङ्गिनः केपि शैवाः स्युर्लिङ्गिनी भेषजान्तरे ।लिङ्गुर्गोत्रान्तरे मस्तौ चित्तेऽपि च पुमान्मतः ॥ ४८७६ ॥
44.4876 · p. 363
अनुष्टुप्

लिपिकरः-लेखः

चित्रकारे लिपिकरो लेखकेऽपि च वाच्यवत् ।लिप्तं क्ली भोजने लेपे त्रिस्तु दिग्धे विषादिना ॥ ४८७७ ॥
44.4877 · p. 364
अनुष्टुप्
भुक्तेऽपि लिप्ता तु स्त्रीत्वे मता षष्टितमांशके ।लिम्पाको गर्दभे द्वे स्याज्जम्बीरे तु मतः पुमान् ॥ ४८७८ ॥
44.4878 · p. 364
अनुष्टुप्
ली श्लेषणे च चपले स्त्रीत्व एव प्रकीर्त्तिता ।लीलाविलासे क्रीडायां छन्दोभिद्योगिनीभिदोः ॥ ४८७९ ॥
44.4879 · p. 364
अनुष्टुप्
शृङ्गारभावचेष्टायाम् (अपि स्त्रीत्वे प्रकीर्त्तिता) ।लीलाखेलस्त्रिः सलीले क्ली तु छन्दोभिदि स्मृतम् ॥ ४८८० ॥
44.4880 · p. 364
अनुष्टुप्
लीलावान्सविलासे त्रि स्त्रियां लीलावती मता ।दुर्गायाम्भास्कराचार्यपाटीगणितपुस्तके ॥ ४८८१ ॥
44.4881 · p. 364
अनुष्टुप्
लुञ्चको लुश्चनकृति त्रिर्ना धान्यान्तरे मतः ।लुण्टाकस्त्रिषु चोरे स्याद्द्वयोः काके प्रकीर्त्तितः ॥ ४८८२ ॥
44.4882 · p. 364
अनुष्टुप्
लुण्ठनं दस्युकार्ये क्ली लुञ्चने लुठनेऽपि च ।लुण्ठाकस्त्रिषु चोरेऽथ काके स्त्रीपुंसयोर्मतः ॥ ४८८३ ॥
44.4883 · p. 364
अनुष्टुप्
लुण्डी तु लुण्डिकायां च निगमेऽपि स्त्रियाम्मता ।लुप्तु लोपेऽपि लुप्ते तु लुप्स्यादेषोऽभिधेयवत् ॥ ४८८४ ॥
44.4884 · p. 364
अनुष्टुप्
लुब्धो व्याधे पुमांस्त्रिस्तु कदर्येच्छावतोरयम् ।लुब्धकस्तु मतो व्याधे तथार्द्रायामपीष्यते ॥ ४८८५ ॥
44.4885 · p. 364
अनुष्टुप्
लुम्बिका भक्ष्यभेदेप्युलुम्बाख्ये वाद्यभिद्यपि ।स्यास्त्रिषु त्वर्दनाख्यस्य लुब्धनस्य च कर्त्तरि ॥ ४८८६ ॥
44.4886 · p. 364
अनुष्टुप्
लुशभो मत्तकरिणि लुशभं तु वने स्मृतम् ।अथ लूतश्च विच्छिन्ने वाच्यवत्परिकीर्त्तितः ॥ ४८८७ ॥
44.4887 · p. 364
अनुष्टुप्
लूता चर्मगदेऽप्यूर्णनाभे चापि पिपीलके ।लूतो मर्कटके पुत्रीनवमालिकयोः स्त्रियाम् ॥ ४८८८ ॥
44.4888 · p. 364
अनुष्टुप्
लूनश्छिन्ने त्रिषु प्रोक्तो लूनं पुच्छे नपुंसकम् ।लूनको द्वे पशौ प्रोक्तो भेदिते वाच्यवन्मतः ॥ ४८८९ ॥
44.4889 · p. 364
अनुष्टुप्
लूनिश्छेदे स्त्रियामुक्ता तथा शालौ प्रकीर्त्तिता ।लेखो देवे द्वयोर्ना तु लेख्ये चैव विलेखने ॥ ४८९० ॥
44.4890 · p. 364
अनुष्टुप्

लेखा-लेही

लेखा लिपौ कृत्रिमायां संख्याने राजिसीमयोः ।आभोगचूडाग्रशिखाकलास्वपि तथा स्त्रियाम् ॥ ४८९१ ॥
44.4891 · p. 365
अनुष्टुप्
लेखनं लिखतेरर्थे साधने लेखकर्मणः ।लिपिन्यासे छर्दने च भूर्जे चापि नपुंसकम् ॥ ४८९२ ॥
44.4892 · p. 365
अनुष्टुप्
लेखनिकः कथितो लेखहारके पुंस्त्रियोरयम् ।लेखेषु परहस्तेन स्वहस्तस्य च लेखके ॥ ४८९३ ॥
44.4893 · p. 365
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
लेखनी तूलिकायां स्त्री त्रिस्तु लेखनसाधने ।लेख्यं नपुंसकं पत्रे संख्यायां लिखिताक्षरे ॥ ४८९४ ॥
44.4894 · p. 365
अनुष्टुप्
लेख्यो लेखयितव्ये च लेखितव्येऽपि च त्रिषु ।लेख्यपत्रो मतस्ताले लेखपत्रे पुनर्नपि ॥ ४८९५ ॥
44.4895 · p. 365
अनुष्टुप्
लेढा तु मृदुवाते ना लेहके तु त्रिषु स्मृतः ।लेपस्तु भोजने लिप्तिक्रियायां रोगभिद्यपि ॥ ४८९६ ॥
44.4896 · p. 365
अनुष्टुप्
लेपनं चन्दनादौ च मांसेऽपि रुधिरे नपि ।ना तु लिप्तिक्रियायां स्यात् त्रि तु तत्साधने मतम् ॥ ४८९७ ॥
44.4897 · p. 365
अनुष्टुप्
लेप्यं तु लेपनीये त्रिः क्लीबं स्यात्पुस्तकर्मणि ।लेयस्तु सिंहराशौ ना स्यादादेये तु भेद्यवत् ॥ ४८९८ ॥
44.4898 · p. 365
अनुष्टुप्
लेलिहः कृमिभेदेऽपि सर्पे चापि द्वयोर्मतः ।लेलिहा तु स्त्रियामेषाऽङ्गुलिमुद्रान्तरे मता ॥ ४८९९ ॥
44.4899 · p. 365
अनुष्टुप्
लेलिहानस्तु सर्पे द्वे शिवे ना रेरिहाणवत् ।लेलिहाना स्त्रियामेषाऽङ्गुलिमुद्रान्तरे मता ॥ ४९०० ॥
44.4900 · p. 365
अनुष्टुप्
मुहुर्लेढरि तु त्रित्वे लेलिहानः प्रकीर्त्तितः ।लेशः कलाद्वयमिते काले सूक्ष्मांश एव च ॥ ४९०१ ॥
44.4901 · p. 365
अनुष्टुप्
गीतभेदे कणायाञ्च नाट्यालङ्करणान्तरे ।लेहस्तु लेहने [पुंसि तथा लेहनकर्मणि] ॥ ४९०२ ॥
44.4902 · p. 365
अनुष्टुप्
लेहनस्तु शुनि द्वे स्याच्चौर्यग्रासिनि तु त्रिषु ।सौवर्चलद्रवे त्वस्त्री लोहिते जारणाह्वये ॥ ४९०३ ॥
44.4903 · p. 365
अनुष्टुप्
तथा लेहयतेः कर्मभूते स्याल्लेढिकर्त्तरि ।लेही त्वेषा स्त्रियां कर्णशष्कुलीरोगभिद्यपि ॥ ४९०४ ॥
44.4904 · p. 365
अनुष्टुप्

लेह्यं-लोतम्

लेह्यं त्रिर्लेहनीये स्यादमृते तु नपुंसकम् ।लैङ्गं पुराणभेदे क्ली लैङ्गी स्याद्भेषजान्तरे ॥ ४९०५ ॥
44.4905 · p. 366
अनुष्टुप्
लैलिहानो द्वयोः सर्पे मुहुर्लेढरि तु त्रिषु ।लोको जने च स्थाने च विष्टपे सामभिद्यपि ॥ ४९०६ ॥
44.4906 · p. 366
अनुष्टुप्
लोककर्त्ता पुमान्विष्णौ शिवे ब्रह्मणि चेष्यते ।लोककान्तौषधभिदि लोककान्तो जनप्रिये ॥ ४९०७ ॥
44.4907 · p. 366
अनुष्टुप्
लोककृत् स्थानकृल्लोकस्त्वष्टा वा परिकीर्त्तितः ।लोकनाथो ब्रह्मविष्णुशिवबुद्धनृपेष्वपि ॥ ४९०८ ॥
44.4908 · p. 366
अनुष्टुप्
रसान्तरे तथैवावलोकितेश्वर उच्यते ।लोकपालस्तु शुक्रादौ राजन्यपि पुमान्मतः ॥ ४९०९ ॥
44.4909 · p. 366
अनुष्टुप्
लोकबन्धुः शिवे चैव सूर्ये चापि पुमान्मतः ।लोकमाता तु दुर्गायां लक्ष्म्यां चैव प्रकीर्त्तिता ॥ ४९१० ॥
44.4910 · p. 366
अनुष्टुप्
लोकम्पृणो लोकसुखे त्रि स्त्री स्यादिष्टकान्तरे ।अथ लोकविसर्गः स्यात्प्रलये [वाच्यवत्यपि] ॥ ४९११ ॥
44.4911 · p. 366
अनुष्टुप्
लोकेशो ब्रह्मणि तथा पारदेऽपि पुमान्मतः ।लोचको मांसपिण्डेऽक्षितारकायां च कज्जले ॥ ४९१२ ॥
44.4912 · p. 366
अनुष्टुप्
ललाटाभरणे स्त्रीणां कदली नीलवस्त्रयोः ।नीलिन्यां कर्णपूरे च मौर्व्यां भ्रूश्लथचर्मणि ॥ ४९१३ ॥
44.4913 · p. 366
अनुष्टुप्
रक्तांशुके चर्मणि च स्रुचि स्यात्सर्पकञ्चुके ।अथ निर्बुद्धिदुर्बुद्ध्योर्लोचितर्यपि वाच्यवत् ॥ ४९१४ ॥
44.4914 · p. 366
अनुष्टुप्
लोचिका तु स्त्रियामेषा शष्कुल्यां परिकीर्त्तिता ।लोचनं त्वक्षणि क्लीबं पश्यत्यर्थे तु सा न ना ॥ ४९१५ ॥
44.4915 · p. 366
अनुष्टुप्
लोचनं लोचना स्त्री तु विचारोक्तौ च लोचना ।लोचनीति पुनः स्त्रीत्वे भेषजान्तर इष्यते ॥ ४९१६ ॥
44.4916 · p. 366
अनुष्टुप्
लोट उन्मादरोगः स्यात्तथा लोटाम्लवास्तुके ।लोटना स्त्री सानुसारवाचि क्ली तु विलोटने ॥ ४९१७ ॥
44.4917 · p. 366
अनुष्टुप्
लोणिका च बृहल्लोण्यां घोटिकायाम्प्रकीर्त्तिता ।लोतोऽश्रुचिह्नयोर्लोतं लोप्त्राख्ये मुषिते धने ॥ ४९१८ ॥
44.4918 · p. 366
अनुष्टुप्

लोधः-लोहसङ्करः

लोधो लोध्रे द्वे तु जन्तुभेदे लुब्धे त्रिसायणः ।लोपस्तु छेदने पुंसि तथा वर्णाद्यदर्शने ॥ ४९१९ ॥
44.4919 · p. 367
अनुष्टुप्
लोपा शुकान्तरे लोपामुद्रायां च प्रकीर्त्तिता ।लोप्ता त्रिर्लोपके लोप्त्री चोरीते च धने स्मृता ॥ ४९२० ॥
44.4920 · p. 367
अनुष्टुप्
लोभनं तु सुवर्णे च लोभे चापि नपुंसकम् ।अथ लोभयतेरर्थे लोभनं लोभना न ना ॥ ४९२१ ॥
44.4921 · p. 367
अनुष्टुप्
लोभ्यो मुद्गेऽप्यारकूटे लोभ्यं त्रिर्लोभनीयके ।लोम क्लीबं तनुरुहे सामभेदे तथा मतम् ॥ ४९२२ ॥
44.4922 · p. 367
अनुष्टुप्
लोमशो मुनिभेदे ना तथा स्याद्भेषजान्तरे ।लोमशा तु स्त्रियां काकजङ्घामांसीवचासु च ॥ ४९२३ ॥
44.4923 · p. 367
अनुष्टुप्
शूकशिम्बिमहामेदाकाकोलीकर्कटीषु च ।काशीशे शालिनीभेदे लोपाश्यां च प्रकीर्त्तिता ॥ ४९२४ ॥
44.4924 · p. 367
अनुष्टुप्
द्वे तु मेषे त्रिः सलोम्नि क्ली तु छन्दोन्तरे मतम् ।क्ली लोमहर्षणं रोमाञ्चेऽथ सूतमुनौ पुमान् ॥ ४९२५ ॥
44.4925 · p. 367
अनुष्टुप्
रोमाञ्चजनके तु त्रिर्लोमहर्षण उच्यते ।लोलश्चले सतृष्णे त्रिर्लोला जिह्वाश्रियोः स्त्रियाम् ॥ ४९२६ ॥
44.4926 · p. 367
अनुष्टुप्
दाक्षायण्यामुत्पलावर्त्तकस्थायां च विद्युति ।मधुदैत्यजनन्यां च छन्दोभिद्योगिनीभिदोः ॥ ४९२७ ॥
44.4927 · p. 367
अनुष्टुप्