कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

म (3/4)

अस्त्री व्रते स्यान्महति त्रि तु स्याद्विपुलव्रते ।स्यान्महाशकुनो घूके द्वयोरपि महाखगे ॥ ४३१६ ॥
41.4316 · p. 322
अनुष्टुप्
महाशङ्खो मानुषास्थिसंख्याभेदालिकेषु च ।महाशल्को द्वयोर्मत्स्यभेद एत्थालनामनि ॥ ४३१७ ॥
41.4317 · p. 322
अनुष्टुप्
देविकाख्ये महाशल्का मातुलुङ्गान्तरे स्त्रियाम् ।महाशिला महाग्राव्णि शस्त्रभेदे यदीदृशम् ॥ ४३१८ ॥
41.4318 · p. 322
अनुष्टुप्
शतघ्नी तु चतुस्ताला लोहकण्टकसञ्चिता ।अयःकण्टकसंछ्न्ना शतघ्न्येकमहाशिला ॥ ४३१९ ॥
41.4319 · p. 322
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महाश्वेता नीलगिरिकर्ण्यां स्त्रीत्वे प्रकीर्त्तिता ।तथा क्षीरविदार्यां च कण्टकिव्रततीभिदि ॥ ४३२० ॥
41.4320 · p. 322
अनुष्टुप्
पुण्डरीकप्रियायां च योगार्थे तु यथायथम् ।महासर्पो द्वयोः षड्विंशतिर्दर्वीकरोरगाः ॥ ४३२१ ॥
41.4321 · p. 322
अनुष्टुप्
ये तेषामेकभेदेऽथ क्ली संसर्पाख्यसामसु ।महासहा माषपर्ण्यां स्तम्बे चाम्लानसंज्ञके ॥ ४३२२ ॥
41.4322 · p. 322
अनुष्टुप्
महासेनः कार्त्तिकेये महासैन्यपतावपि ।महिस्तु धरणौ स्त्रीत्वे महति त्वेष भेद्यवत् ॥ ४३२३ ॥
41.4323 · p. 322
अनुष्टुप्
महिनं तु भवेद्राज्ये शय्यायाञ्च नपुंसकम् ।महिला तु फलिन्यां च स्त्रीत्वे योषित्यपीष्यते ॥ ४३२४ ॥
41.4324 · p. 322
अनुष्टुप्
महिषी त्वोषधीभेदेऽभिषिक्तायां नृपस्त्रियाम् ।सैरिभे तु द्वयोरेष महिषः परिकीर्त्तितः ॥ ४३२५ ॥
41.4325 · p. 322
अनुष्टुप्
मही भूमावपि स्त्रीत्वे तथा नद्यन्तरे मता ।महीपतिस्तु नृपतौ पुंसि भव्यतरावपि ॥ ४३२६ ॥
41.4326 · p. 322
अनुष्टुप्
महेन्द्रस्तु भवेच्छैलविशेषेऽपि पुरन्दरे ।महेश्वरो महादेवे पुंसि स्याद्गुल्गुलावपि ॥ ४३२७ ॥
41.4327 · p. 322
अनुष्टुप्
महेश्वरी तु स्त्री ब्रह्मरीतिसंज्ञकलोहके ।पार्वत्याञ्च श्रियां चाथाऽधीश्वरे तु त्रिषु स्मृतः ॥ ४३२८ ॥
41.4328 · p. 322
अनुष्टुप्

महोग्रा-माणवकः

महोग्रा तु त्रयोदश्यां तिथावत्युग्रके त्रिषु ।महोदया नना कान्यकुब्जाख्यनगरे मता ॥ ४३२९ ॥
41.4329 · p. 323
अनुष्टुप्
स्त्रीत्वे किञ्चित्प्रौढायां कन्यायां परिकीर्त्तिता ।महोदरी नादेयीनाम्नि स्यान्मुस्तकान्तरे ॥ ४३३० ॥
41.4330 · p. 323
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 ञ्चि (syllables merged); pāda 3, syllable 4 री (syllables merged)
रावणस्य त्वमात्ये ना क्ली तूदररुजान्तरे ।महौषधन्तु लशुनातिविषाशुण्ठिषु स्मृतम् ॥ ४३३१ ॥
41.4331 · p. 323
अनुष्टुप्
महति त्वौषधे न स्त्री महौषध उदीरितः ।अन्यस्मिंश्चैव लशुनाद्दशस्वपि पलाण्डुषु ॥ ४३३२ ॥
41.4332 · p. 323
अनुष्टुप्
मांसं स्यादामिषे मांसी कक्लोलीजटयोर्मता ।मा स्त्री शिवाश्रियोरव्ययं विकल्पे निवारणे ॥ ४३३३ ॥
41.4333 · p. 323
अनुष्टुप्
माकन्दोऽस्त्री रसाले स्त्री धात्रीनगरभेदयोः ।माक्षिकं चक्रसंज्ञे स्याच्छैलधात्वन्तरे तथा ॥ ४३३४ ॥
41.4334 · p. 323
अनुष्टुप्
सारघे मधुनि क्लीबं मक्षिकायोगिनि त्रिषु ।मागधी तु स्त्रियां यूथीपिप्पल्योः परिकीर्त्तिता ॥ ४३३५ ॥
41.4335 · p. 323
अनुष्टुप्
द्वयोस्तु वैश्याद्विप्रायां जाते मर्त्त्यान्तरेऽपि च ।वैश्यात्क्षत्रियकन्यायां जाते च स्याच्च वन्दिनि ॥ ४३३६ ॥
41.4336 · p. 323
अनुष्टुप्
पुमांस्तु मगधानां स्याद्राज्ञि जीरकजीवके ।माघी स्त्री पूर्णिमायां स्यान्मघायुज्यथ तद्वति ॥ ४३३७ ॥
41.4337 · p. 323
अनुष्टुप्
मासे माघस्त्रिस्तु मघानक्षत्रयुतकालजे ।माघ्यस्तु कुन्दवृक्षे स्यान्माघ्यं तत्प्रसवे मतम् ॥ ४३३८ ॥
41.4338 · p. 323
अनुष्टुप्
माघसाधौ तु माध्योऽसावभिधेयवदिष्यते ।माचलो वन्दिचौरे च तथा स्याद्ग्राहरोगयोः ॥ ४३३९ ॥
41.4339 · p. 323
अनुष्टुप्
माठरस्तु पुमान्व्यासे रवेः स्यात्पारिपार्श्विके ।माठिः स्त्रियां स्यात् कवचे तरुपत्रसिरास्वपि ॥ ४३४० ॥
41.4340 · p. 323
अनुष्टुप्
माढिः स्त्री पत्रपंक्तौ च दैन्यस्यापि प्रकाशने ।माणवस्तु पुमान्हारभेदे षोडशयष्टिके ॥ ४३४१ ॥
41.4341 · p. 323
अनुष्टुप्
द्वयोस्तु माणवो बाले तथा कुपुरुषेऽपि च ।भवेन्माणवकः पुंसि हारे षोडशयष्टिके ॥ ४३४२ ॥
41.4342 · p. 323
अनुष्टुप्

माणविका-माधवी

द्वयोस्तु गर्ह्यपुरुषे बाले माणविका मता ।माणिक्या गृहगोधायां माणिक्यं रत्नसत्तमे ॥ ४३४३ ॥
41.4343 · p. 324
अनुष्टुप्
मातङ्गस्तु द्वयोरुक्तो हस्तिनि श्वपचेऽपि च ।मातामहस्तु पित्रोः स्यान्मातुर्मातामहीत्यपि ॥ ४३४४ ॥
41.4344 · p. 324
अनुष्टुप्
मातामहास्तु मातुः स्युः पूर्वजेषु नृभूमनि ।मातिः स्त्रियामवच्छेदे तथा मानेऽपि कीर्त्तिता ॥ ४३४५ ॥
41.4345 · p. 324
अनुष्टुप्
मातुलः पुंसि धुर्धूरे मातुलाख्यद्रुमेऽपि च ।मातुर्भ्रातरि च स्त्री तु भार्यायां तस्य मातुली ॥ ४३४६ ॥
41.4346 · p. 324
अनुष्टुप्
द्वयोस्तु मालुधानाख्यसर्पभेदेऽपि मातुलः ।मातुलानी कलाये स्याद्भङ्गायां मातुलस्त्रियाम् ॥ ४३४७ ॥
41.4347 · p. 324
अनुष्टुप्
मातुलुङ्गस्तु रुचकगुल्मेऽत्यम्लफले पुनः ।भेदेऽस्य मातुलुङ्गी स्यादथ क्लीबं फलेऽनयोः ॥ ४३४८ ॥
41.4348 · p. 324
अनुष्टुप्
मातोमाजननीगोषु वेषणीसरितोर्भुवि ।अकारादिकवर्णानामाम्नाये तारकासु च ॥ ४३४९ ॥
41.4349 · p. 324
अनुष्टुप्
आश्विन्यादिषु पौष्याख्यपूर्णिमायामपि स्त्रियाम् ।ब्राह्म्यादिदेवीषु त्रिस्तु मात्री स्यान्मानकारिणि ॥ ४३५० ॥
41.4350 · p. 324
अनुष्टुप्
स्यान्मातरि स्त्रियां नित्यं धातृकाकारणे स्वरे ।मान्तु यस्त्रायते तत्र मात्रः स्यादभिधेयवत् ॥ ४३५१ ॥
41.4351 · p. 324
अनुष्टुप्
मात्रा कर्णविभूषायां वित्ते माने परिच्छदे ।अक्षरावयवे स्वल्पे क्लीबं कार्त्स्न्येऽवधारणे ॥ ४३५२ ॥
41.4352 · p. 324
अनुष्टुप्
माथस्तु मथने चापि मार्गे चापि पुमान्मतः ।माधवो ना वसन्ते वैशाखमासे हरावपि ॥ ४३५३ ॥
41.4353 · p. 324
अनुष्टुप्
मध्वासवसमाख्ये तु मद्यभेदे नृशण्डयोः ।अतिमुक्तलतायां तु सुरायामपि माधवी ॥ ४३५४ ॥
41.4354 · p. 324
अनुष्टुप्

माधवः-मारीचः

जयन्त्यामपि कोशातक्यां दीर्घफलनामनि ।शतपुष्प्यामपि मधुशर्करायां तथा स्त्रियाम् ॥ ४३५५ ॥
41.4355 · p. 325
अनुष्टुप्
मधुपुत्रादिषु पुनर्माधवस्त्रिषु कीर्त्तितः ।माधुकं मधुनि क्लीबं पुराणे यौगिके त्रिषु ॥ ४३५६ ॥
41.4356 · p. 325
अनुष्टुप्
माधुरः षोडशेऽरत्नौ यूपस्यारभ्य मूलतः ।भवेत्सप्तदशारत्नेर्योगार्थे तु त्रिषु स्मृतः ॥ ४३५७ ॥
41.4357 · p. 325
अनुष्टुप्
मानं क्लीबं परिच्छेदे हस्तादौ चापि हिंसने ।लग्नाद्दशमराशौ च प्रक्षेपप्रणिदानयोः ॥ ४३५८ ॥
41.4358 · p. 325
अनुष्टुप्
आधारानतिरिक्तत्वं यदाधेयस्य सम्भवः ।तत्राथ मानः पूजायां ज्ञाने चित्तोन्नतौ च ना ॥ ४३५९ ॥
41.4359 · p. 325
अनुष्टुप्
स्त्रियां तु मानी कुडुबपरिमाणद्वये मता ।मानवस्तु मनुष्ये द्वे मनुसम्बन्धिनि त्रिषु ॥ ४३६० ॥
41.4360 · p. 325
अनुष्टुप्
मानसन्तु मतं चित्ते हिमवत्सरसामपि ।एकस्मिन्स्तोत्रभेदेऽपि यज्वनां त्रि तु यौगिके ॥ ४३६१ ॥
41.4361 · p. 325
अनुष्टुप्
मानिनी तु स्त्रियां फल्यां मानी मानवति त्रिषु ।मामकं स्यान्मदीयार्थे त्रिषु पुंसि तु मातुले ॥ ४३६२ ॥
41.4362 · p. 325
अनुष्टुप्
माया स्त्री शाम्बरीबुद्ध्योर्विष्णोर्नवसु शक्तिषु ।एकस्यां सांख्यतत्त्वे च प्रधानाख्येऽथ स त्रिषु ॥ ४३६३ ॥
41.4363 · p. 325
अनुष्टुप्
मायके यश्च मां याति तत्रापि परिकीर्त्तिता ।मारस्तु मरणे कामे मृतावपि पुमान्मतः ॥ ४३६४ ॥
41.4364 · p. 325
अनुष्टुप्
मारिर्मारी स्त्रियामुक्ते मसूरीसंज्ञके गदे ।[कालरात्रौ] सर्वलोकतते मृत्यौ [सुरान्तरे] ॥ ४३६५ ॥
41.4365 · p. 325
अनुष्टुप्
मारिर्मारयतौ धातौ पुँल्लिङ्गः परिकीर्त्तितः ।मारिषो जीवशाकेऽपि चार्ये नाट्योक्तिगोचरे ॥ ४३६६ ॥
41.4366 · p. 325
अनुष्टुप्
दक्षमातरि तु स्त्रीत्वे मारिषा परिकीर्त्तिता ।मारीचो रक्षसो भेदे कक्कोले याजकद्विजे ॥ ४३६७ ॥
41.4367 · p. 325
अनुष्टुप्

मारीची-मालः

कश्यपेऽथ स्त्रियामुक्ता मारीची देवतान्तरे ।मारुण्डोऽण्डे भुजङ्गानां मार्गे गोमयमण्डले ॥ ४३६८ ॥
41.4368 · p. 326
अनुष्टुप्
मारुतो हनुमद्भीमसेनवायुष्वयं पुमान् ।पुराम्भिन्दुर्युवेत्यस्यामृचि गीते तु साम्नि नप् ॥ ४३६९ ॥
41.4369 · p. 326
अनुष्टुप्
मार्गो मृगमदे मार्ष्टौ मार्गशीर्षाऽध्वनोश्च ना ।सौम्यगेऽथ द्वयोर्मार्गा प्रोक्ता मार्गणकर्मणि ॥ ४३७० ॥
41.4370 · p. 326
अनुष्टुप्
मार्गणो याचके बाणेऽपि च पुंसि प्रकीर्त्तितः ।मार्गणा तु न ना याच्ञाद्वेषयोरियमिष्यते ॥ ४३७१ ॥
41.4371 · p. 326
अनुष्टुप्
मार्गरस्तु द्वयोरायोगव्यां जाते निषादतः ।कैवर्त्तेऽप्यथ मार्गस्य दातरि त्रिषु मार्गरः ॥ ४३७२ ॥
41.4372 · p. 326
अनुष्टुप्
मार्गशीर्षी पूर्णिमायां मृगशीर्षयुजि स्त्रियाम् ।पुमांस्तु मासे तद्युक्ते मार्गशीर्षः प्रकीर्त्तितः ॥ ४३७३ ॥
41.4373 · p. 326
अनुष्टुप्
मार्जनोऽस्त्री स्नेहगुणे पुंसि स्याल्लोध्रशाखिनि ।मार्जनं मार्जना चेति मार्ष्टौ स्त्रीक्लीबयोर्भवेत् ॥ ४३७४ ॥
41.4374 · p. 326
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्ने (wrong syllable)
मार्जारो द्वे विडालेगस्त्येङ्गुदद्रुमयोस्तु ना ।मार्जारी चमराकारे कोद्रङ्गाख्ये मृगान्तरे ॥ ४३७५ ॥
41.4375 · p. 326
अनुष्टुप्
कस्तूरिकामृगाण्डेऽपि मार्जारी स्त्रीत्व इष्यते ।मार्जारीयः स्मृतः शूद्रे बिडाले कायशोधने ॥ ४३७६ ॥
41.4376 · p. 326
अनुष्टुप्
मार्जालीयः पुमानङ्गशोधने धौतिदेशके ।मार्जालीयस्तु मार्जारे मतः स्त्रीपुंसयोरयम् ॥ ४३७७ ॥
41.4377 · p. 326
अनुष्टुप्
मार्जितं शोधिते त्रि स्याद्रसालायां तु मार्जिता ।अपक्वतक्रं सव्योषचतुर्जातगुडार्द्रकम् ॥ ४३७८ ॥
41.4378 · p. 326
अनुष्टुप्
सजीरकं रसाला स्यादिति तल्लक्षणं विदुः ।मार्त्ताण्डस्तु खगे चापि द्वयोर्दंष्ट्रिणि च स्मृतः ॥ ४३७९ ॥
41.4379 · p. 326
अनुष्टुप्
रवौ तु पुंसि मार्त्तण्डमार्त्ताण्डौ परिकीर्त्तितौ ।मालस्तु प्रहतक्षेत्रभूतले त्रिषु कीर्त्तितः ॥ ४३८० ॥
41.4380 · p. 326
अनुष्टुप्

माला-मासिकं

माला पृक्कास्रजोर्मालः सूतीशूद्रोद्भवे द्वयोः ।तत्र माली जातिङीषि मालस्तु स्यात्कठिञ्जरे ॥ ४३८१ ॥
41.4381 · p. 327
अनुष्टुप्
पुँल्लिङ्गः कालपर्ण्याख्यतुलस्यां धारणेऽप्यथ ।क्ली दक्षिणान्तरद्वीपे मालमस्माच्च भारतात् ॥ ४३८२ ॥
41.4382 · p. 327
अनुष्टुप्
मालको धारके विज्ञैरभिधेयवदिष्यते ।वनदुर्गनिवासे तु मालकं खेटकाभिधे ॥ ४३८३ ॥
41.4383 · p. 327
अनुष्टुप्
मालिका तु स्त्रियां पङ्क्तावाढ्यानां च गृहान्तरे ।सप्तलासंज्ञके पुष्पवल्लिभेदेऽपि मालिका ॥ ४३८४ ॥
41.4384 · p. 327
अनुष्टुप्
ग्रैवेयके पुष्पमाल्ये पुत्रिकाहस्तिमल्लयोः ।मालकी तु स्त्रियां पुष्पवल्लीषु सकलास्वपि ॥ ४३८५ ॥
41.4385 · p. 327
अनुष्टुप्
मालवाः स्युर्जनपदेऽवन्तिनाम्नि नृभूमनि ।तन्निवासिव्रते तु द्वे मर्त्त्यजात्यन्तरेऽपि च ॥ ४३८६ ॥
41.4386 · p. 327
अनुष्टुप्
मालिको द्वे भवेन्मालाकारे मालावति त्रिषु ।मालिनी मातृकावृत्तभिदोर्मालिकयोषिति ॥ ४३८७ ॥
41.4387 · p. 327
अनुष्टुप्
गौरीचम्पानगर्योश्च मन्दाकिन्यां नदीभिदि ।मालुः पत्रलतायां च नार्यां च स्त्रीत्व इष्यते ॥ ४३८८ ॥
41.4388 · p. 327
अनुष्टुप्
मालुधानो मातुलाहौ मालुधानी लतान्तरे ।माल्यं क्ली कुसुमे पुष्पस्रजि धार्ये तु भेद्यवत् ॥ ४३८९ ॥
41.4389 · p. 327
अनुष्टुप्
माषस्तु धान्ये वृष्याख्ये पुंनपुंसकयोर्मतः ।पञ्चगुञ्जात्मके माने तण्डुलोन्मितवस्तुनि ॥ ४३९० ॥
41.4390 · p. 327
अनुष्टुप्
कार्षापणप्रभेदेऽपि हिंसार्थमषणे तु ना ।माषो व्रीह्यन्तरे मूर्खे मानत्वग्दोषभेदयोः ॥ ४३९१ ॥
41.4391 · p. 327
अनुष्टुप्
माषाशी तु तुरङ्गे द्वे माषस्य त्वाशके त्रिषु ।माष्यन्तु हिंस्यमाषीणमाषसाध्वादिषु त्रिषु ॥ ४३९२ ॥
41.4392 · p. 327
अनुष्टुप्
मास्तु मासेऽपि चन्द्रेऽपि सान्तः पुँल्लिङ्ग इष्यते ।मासरो भक्तमण्डे वल्कसाख्ये भक्तसाधने ॥ ४३९३ ॥
41.4393 · p. 327
अनुष्टुप्
मासिकं स्यात्स्त्रीरजसि मासश्राद्धे तु न स्त्रियाम् ।मासिकं तु त्रिषु ज्ञेयं मासम्भूतभृतादिषु ॥ ४३९४ ॥
41.4394 · p. 327
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्स्त्री (wrong syllable)

माहिरः-मीनी

माहिरस्तु पुमानिन्द्रे क्लीबं शयनबालयोः ।माहूरः पर्वते पुंसि पूजके तु त्रिषु स्मृतः ॥ ४३९५ ॥
41.4395 · p. 328
अनुष्टुप्
माहेन्द्री सप्तमातृणामेकस्यां कदलीभिदि ।पृथुदीर्घफलायां स्यादथ त्रियोगिके भवेत् ॥ ४३९६ ॥
41.4396 · p. 328
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable); pāda 4, syllable 3 त्रि (wrong syllable)
मित्रं क्ली सुहृदि स्थौणेयौषधे लग्नतस्तथा ।चतुर्थराशावथ ना मित्रेऽर्केऽर्कान्तरेऽपि च ॥ ४३९७ ॥
41.4397 · p. 328
अनुष्टुप्
मित्रबिन्दः पुमानुक्तः कोहलस्य मुनेः सुते ।मित्रबिन्दा स्त्रियामिष्टिविशेषे यज्वनि श्रुते ॥ ४३९८ ॥
41.4398 · p. 328
अनुष्टुप्
कृष्णप्रधानपत्नीनां सप्तानामपि कुत्रचित् ।मिथोऽन्योन्येऽव्ययं प्रोक्तं रहस्यपि तथा स्मृतम् ॥ ४३९९ ॥
41.4399 · p. 328
अनुष्टुप्
मिथुनन्तु क्लीबलिङ्गं स्त्रीपुंसयुगले तथा ।मधुसर्पिर्द्वये राशौ तृतीये च द्वयोर्गणे ॥ ४४०० ॥
41.4400 · p. 328
अनुष्टुप्
युग्माख्ये तद्वति त्रि स्याद्दम्पत्योर्मिथुनः पुमान् ।मिथुनत्वं रते भावकर्मणोर्मिथुनस्य च ॥ ४४०१ ॥
41.4401 · p. 328
अनुष्टुप्
मिथुनी तु द्वयोः खञ्जरीटे त्रिषु तु यौगिके ।मिद्धं चित्ताभिसंक्षेपे क्लीबमालस्यनिद्रयोः ॥ ४४०२ ॥
41.4402 · p. 328
अनुष्टुप्
मिशिस्तु तुत्थनीलिन्यां सूक्ष्मैलायां च कीर्त्तिता ।मिश्रकं यजमानस्य क्लीबमुक्तं घृताञ्जने ॥ ४४०३ ॥
41.4403 · p. 328
अनुष्टुप्
मिश्रकस्त्रिषु संकीर्णे तथा मिश्रयितर्यपि ।मिषं तु क्ली छलेऽथ द्वे घर्घरीक्षत्रियोद्भवे ॥ ४४०४ ॥
41.4404 · p. 328
अनुष्टुप्
मिषं व्याजे मतं क्लीबं स्पर्धनेऽपि प्रकीर्त्तितम् ।मिसिः स्त्री मधुरामांस्योः शतपुष्पाजमोदयोः ॥ ४४०५ ॥
41.4405 · p. 328
अनुष्टुप्
मिहिरोऽर्केऽनिले मेघे बद्धे नप् सलिले स्मृतम् ।मीढो मेषे द्वयोः क्लीबं मूत्रणे मूत्रितेऽन्यवत् ॥ ४४०६ ॥
41.4406 · p. 328
अनुष्टुप्
मीढा तु देवरे याऽन्यं नियुक्तेत्यभिसारिका ।मीनो ना द्वादशे राशौ द्वे तु मत्स्ये त्रि हिंसिते ॥ ४४०७ ॥
41.4407 · p. 328
अनुष्टुप्
यष्टौ तु मीना स्त्री क्ली तु हिंसने मीनमिष्यते ।मीनी म्रीणस्तु पुँल्लिङ्गो दर्दुराम्रे च खञ्जने ॥ ४४०८ ॥
41.4408 · p. 328
अनुष्टुप्

मीमांसा-मुण्डी

मीमांसा श्रौतवाक्यार्थशास्त्रेऽपि च विचारणे ।मीरं क्लीबमुखायां मांस्पचन्यां ना तु वारिधौ ॥ ४४०९ ॥
41.4409 · p. 329
अनुष्टुप्
मीलितो मुद्रिते चापि योजिते चाभिधेयवत् ।मुकुन्दो निधिभिद्विष्णुरत्नभेदे च कुन्दुरौ ॥ ४४१० ॥
41.4410 · p. 329
अनुष्टुप्
मुकुरो बकुले दण्डे कुलाले स्याच्च दर्पणे ।स्त्री मुक्तबन्धना मल्लिकायां त्रिषु तु यौगिके ॥ ४४११ ॥
41.4411 · p. 329
अनुष्टुप्
मुक्ता स्त्री मौक्तिके त्रिस्तु विसृष्टे मुक्तिभाजि च ।मुक्ताफलं तु कर्पूरमौक्तिके लवलीफले ॥ ४४१२ ॥
41.4412 · p. 329
अनुष्टुप्
मुक्तिः स्त्रियां स्यात्स्वर्गे चाप्यपवर्गे च मोक्षणे ।मुखं वक्त्रेऽभ्युपाये च मुख्ये ताम्रे च सैन्धवे ॥ ४४१३ ॥
41.4413 · p. 329
अनुष्टुप्
आदौ निःसरणे गेहपुरादेर्द्वार एव च ।संध्यन्तरे नाटकादेः शब्देऽपि च नपुंसकम् ॥ ४४१४ ॥
41.4414 · p. 329
अनुष्टुप्
मुखभूषणमास्यालङ्कृतौ वङ्गाख्यलेखके ।मुखमण्डन इत्युक्तस्तिलकाख्यद्रुमे पुमान् ॥ ४४१५ ॥
41.4415 · p. 329
अनुष्टुप्
मुखस्य भूषणे क्लीबं वर्ण्यते येन वस्तुना ।मुखं वाच्यवदत्रैतन्मुखमण्डन उच्यते ॥ ४४१६ ॥
41.4416 · p. 329
अनुष्टुप्
मुखरा शारिकायां स्त्री मुखरो दुर्मुखे त्रिषु ।मुखशोभा वेदशालिमुखे कान्तौ मुखस्य च ॥ ४४१७ ॥
41.4417 · p. 329
अनुष्टुप्
मुख्यं वक्त्रेऽप्युपाये च नपुंसकमुदीरितम् ।त्रिषु तु स्यान्मुखभवे प्रधाने प्रथमेऽपि च ॥ ४४१८ ॥
41.4418 · p. 329
अनुष्टुप्
मुग्धं मूढे च सौम्ये च नूतनेऽप्यभिधेयवत् ।मुचिरोऽर्केऽम्बुदे घर्मे पुमान्दातरि तु त्रिषु ॥ ४४१९ ॥
41.4419 · p. 329
अनुष्टुप्
मुचुकुन्दः पुष्पवृक्षभेदमान्धातृपुत्रयोः ।क्लीबं तु मुचुकुन्दस्य प्रसवे परिकीर्त्तितम् ॥ ४४२० ॥
41.4420 · p. 329
अनुष्टुप्
मुण्डः स्यान्मस्तके त्रिस्तु परिवापितकेशके ।स्त्री तु मुण्डा च मुण्डी च स्तम्बे श्रमणिकाह्वये ॥ ४४२१ ॥
41.4421 · p. 329
अनुष्टुप्

मुण्डा-मुष्टिः

सा तु मुण्डैव भिक्षुक्यां मण्डने तु नरस्त्रियोः ।मुण्डो दैत्यान्तरे राहुग्रहे ना मुण्डिते त्रिषु ॥ ४४२२ ॥
41.4422 · p. 330
अनुष्टुप्
मुण्डनं वपने चापि त्राणेऽपि च नपुंसकम् ।मण्डितस्तूप्तकेशे त्रिर्मुण्ड्याख्ये भेषजे स्त्रियाम् ॥ ४४२३ ॥
41.4423 · p. 330
अनुष्टुप्
मुदिरोऽर्के च मेघे ना भेके द्वे कामुके त्रिषु ।मुद्गरो द्रुघणे पुंसि तथा वेण्वादिभेदने ॥ ४४२४ ॥
41.4424 · p. 330
अनुष्टुप्
मल्लिकायाम्मुद्गदे त्रि क्लीबं स्यान्मल्लिकान्तरे ।मुद्राऽङ्गुलीये लिखिताक्षरे चिह्नेऽप्सरोऽन्तरे ॥ ४४२५ ॥
41.4425 · p. 330
अनुष्टुप्
हस्तविन्यासभेदेषु स्थापनीनिष्ठुरादिषु ।अथाऽभिधेयवन्मुद्रशब्दो मोदस्य दातरि ॥ ४४२६ ॥
41.4426 · p. 330
अनुष्टुप्
मुनिर्ऋषावगस्त्यर्षौ बुद्धे दमनके कुशे ।अगस्त्यद्रौ द्वयोस्तु स्याद्भेके वाचंयमे त्रिषु ॥ ४४२७ ॥
41.4427 · p. 330
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र्ऋ (wrong syllable)
मुनिप्रियो ना श्यामाके योगार्थे तु यथायथम् ।मुनिभेषजमागस्त्यहरीतक्यां च लङ्घने ॥ ४४२८ ॥
41.4428 · p. 330
अनुष्टुप्
मुनिसेवित उक्तो ना नीवारे त्रि तु यौगिके ।मुमुचानो मोक्तृमुमुक्षित्रोस्त्रिर्ना तु वारिदे ॥ ४४२९ ॥
41.4429 · p. 330
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मो (wrong syllable)
मुरली वंशवाद्ये पुण्डिकाख्ये काहलान्तरे ।मुरवो वाद्यभेदे च खण्डिकाद्वयमानके ॥ ४४३० ॥
41.4430 · p. 330
अनुष्टुप्
मुरा तु गन्धकुट्यां च चण्द्रगुप्तस्य मातरि ।अथ दैत्यान्तरे विष्णुनिहते स्यान्मुरः पुमान् ॥ ४४३१ ॥
41.4431 · p. 330
अनुष्टुप्
मुर्मुरस्तुषवह्नौ स्यान्मन्मथे रविवाजिनि ।मुषलं स्यादयोग्रे च पुंनपुंसकयोः स्त्रियाम् ॥ ४४३२ ॥
41.4432 · p. 330
अनुष्टुप्
तालमूल्यामाखुपर्णीगृहगोधिकयोरपि ।मुषितं तु हृतेऽपि स्यात्खण्डितेऽप्यभिधेयवत् ॥ ४४३३ ॥
41.4433 · p. 330
अनुष्टुप्
मुष्को मोक्षकवृक्षे स्यात्संहते वृषणेऽपि च ।मुष्टिः फलकखड्गादेः पलाख्ये ग्रहणाश्रये ॥ ४४३४ ॥
41.4434 · p. 330
अनुष्टुप्

मुष्टि-मूलः

उन्मानभेदे सुदृढपिण्डिताङ्गुलिसंहतौ ।धानुष्कहस्तविन्यासभेदे ग्राह्ये च मुष्टि नप् ॥ ४४३५ ॥
41.4435 · p. 331
अनुष्टुप्