All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
क (5/7)
कुण्ठो मुर्खेऽथ कर्मण्ये चाऽतीक्ष्णेपि त्रिषु स्मृतः ।कुण्डं नपुंसकं स्थाल्यां काञ्जिके वह्निगर्त्तके ॥ १४२३ ॥
17.1423 · p. 107
अनुष्टुप्
जलाशये च देवादेः कुम्भे मानान्तरेऽपि च ।कुण्डी कमण्डलौ स्त्री स्यात्कुण्डा तु जनिते मता ॥ १४२४ ॥
17.1424 · p. 107
अनुष्टुप्
जारेण पतिवत्न्यां द्वे अविवाह्यासुतेपि च ।कुण्डकीटस्तु चार्वाकवचनाऽभिज्ञपूरुषे ॥ १४२५ ॥
17.1425 · p. 107
अनुष्टुप्
पतितब्राह्मणीपुत्रदासीकामुकयोरपि ।कुण्डली चित्रलमृगे मयूरे भुजगे द्वयोः ॥ १४२६ ॥
17.1426 · p. 107
अनुष्टुप्
पुमांस्तु वरुणे प्रोक्तस्त्रि तु कुण्डलवत्यसौ ।कुण्डली स्त्री गुलूच्यां च काञ्चनद्रौ भवेदथ ॥ १४२७ ॥
17.1427 · p. 107
अनुष्टुप्
पाशके वलये क्लीबं कर्णवेष्टे त्रिकुण्डलम् ।कुण्डी त्वश्वे द्वयोस्त्रिस्तु कुण्डवत्ययमिष्यते ॥ १४२८ ॥
17.1428 · p. 107
अनुष्टुप्
कुतनुस्तु कुबेरे ना त्रि तु स्यात्कुत्सिताङ्गके ।कुतपः सूर्यवह्न्योर्ना वृषभेऽप्यतिथावपि ॥ १४२९ ॥
17.1429 · p. 107
अनुष्टुप्
भागिनेयेऽथ विप्रे द्वे पुन्नपुंसकयोः पुनः ।दर्भेऽप्यह्नोऽष्टमे भागे तिलेच्छागजकम्बले ॥ १४३० ॥
17.1430 · p. 107
अनुष्टुप्
वाद्यवादकसामग्र्यां नाट्यस्यास्तरणेऽपि च ।सायमास्तरणे वाद्यविन्यासे देहलावपि ॥ १४३१ ॥
17.1431 · p. 107
अनुष्टुप्
कुतली शाकभेदे स्त्री कुतलोऽस्त्री भुवस्तले ।कुतूहलं कौतुके स्यात्प्रशस्तेऽपि च दृश्यते ॥ १४३२ ॥
17.1432 · p. 107
अनुष्टुप्
कुत्राणं तु भवे कुण्डे शिक्ये चैव नपुंसकम् ।कुत्सा स्त्रियां स्यान्निन्दायां पुंस्यरत्न्यभिधानके ॥ १४३३ ॥
17.1433 · p. 107
अनुष्टुप्
प्रमाणेऽपि च वज्रेऽपि तथा ऋष्यन्तरेऽप्यथ ।तदपत्येषु बहुषु गोत्राख्येषु द्वयोरयम् ॥ १४३४ ॥
17.1434 · p. 107
अनुष्टुप्
कुत्सितं-कुब्री
स्यात्कुत्सितं पर्युषिते निन्दिते चाऽभिधेयवत् ।नपुंसकं त्वृणे कुष्ठभेषजेऽपि च कुत्सितम् ॥ १४३५ ॥
17.1435 · p. 108
अनुष्टुप्
कुथः पुमान्कुशे वर्णकम्बले तु कुथा त्रिषु ।कुद्दालोऽस्त्री मतो गोदारणाख्ये खानसाधने ॥ १४३६ ॥
17.1436 · p. 108
अनुष्टुप्
पुमांस्तु कोविदारद्रौ क्लीबं तत्प्रसवे मतम् ।कुध्रः पुमान्समुद्रे च पर्वते च प्रकीर्त्तितः ॥ १४३७ ॥
17.1437 · p. 108
अनुष्टुप्
मनःशिलायां कुनटी नैपाल्यां द्वे तु दुर्नटे ।कुनालिका पक्षिशाले दुर्नाल्यां च स्त्रियां मता ॥ १४३८ ॥
17.1438 · p. 108
अनुष्टुप्
कुन्तो गवेधुकायां स्यात्तथा प्रासायुधे पुमान् ।कुन्ती तु स्त्री पृथायां स्यात्शालुक्यामपि गुग्गुलौ ॥ १४३९ ॥
17.1439 · p. 108
अनुष्टुप्
कुन्तलश्चषके काले यवे केशे पुमान्मतः ।कुन्तला तु नृभूम्नि स्युर्दक्षिणापथवर्त्तिनि ॥ १४४० ॥
17.1440 · p. 108
अनुष्टुप्
नीवृद्भेदे तथा मध्यदेशस्थे कुन्तलस्तु ना ।तद्राजे तदपत्येषु कुन्तलाः स्युर्नृभूमनि ॥ १४४१ ॥
17.1441 · p. 108
अनुष्टुप्
बहुष्वथ स्त्र्यपत्ये तु कुन्तली स्त्री प्रकीर्त्तिता ।कुन्तिर्ना नृपभेदे तन्नीवृद्भेदे नृभूमनि ॥ १४४२ ॥
17.1442 · p. 108
अनुष्टुप्
राज्ञस्त्वस्य स्त्र्यपत्ये स्त्री कुन्ती कुन्तिरिति द्वयम् ।कुनूसंज्ञे स्नेहपात्र एलायां च प्रकीर्त्तिता ॥ १४४३ ॥
17.1443 · p. 108
अनुष्टुप्
कुन्दः पुमान्मुकुन्दे स्यान्निधिभेदे भ्रमाभिधे ।शस्त्रमार्जकयन्त्रे च शुक्लपुष्पाख्यपादपे ॥ १४४४ ॥
17.1444 · p. 108
अनुष्टुप्
माध्यान्यनाम्नि पुष्पे तु फले चास्य नपुंसकम् ।कुन्दरस्तु भवेद्विष्णौ ना तृणे कण्डुराभिधे ॥ १४४५ ॥
17.1445 · p. 108
अनुष्टुप्
कुन्युः पालङ्क्याख्यशाके पुंस्यथो मूषिके द्वयोः ।कुन्दुमस्तु पुमान्मुञ्जे मार्जारे तु द्वयोर्मतः ॥ १४४६ ॥
17.1446 · p. 108
अनुष्टुप्
कुफाकुर्द्वे कपौ नाम्नि ख्योस्त्रि परतापिनि ।कुबेरः पुंसि यक्षेशे नान्दीवृक्षे च कीर्त्तितः ॥ १४४७ ॥
17.1447 · p. 108
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुब्जो निखर्वे गडुले त्रिर्ना वृक्षान्तरे गडौ ।कुब्रं गृहे कर्मणि क्ली कुब्रः कुब्री गजे द्वयोः ॥ १४४८ ॥
17.1448 · p. 108
अनुष्टुप्
कुब्रः-कुम्भिकः
फल्गुसङ्कटयोः कुब्रस्त्रिलिङ्गः परिकीर्त्तितः ।कुमारो युवराजेऽश्वचारके वरुणद्रुमे ॥ १४४९ ॥
17.1449 · p. 109
अनुष्टुप्
कुत्सितायां मृतौ चाथ द्वयोर्बाले शुकेऽपि च ।जम्बूद्वीपेऽथ तत्क्लीबं कुमारं जात्यकाञ्चने ॥ १४५० ॥
17.1450 · p. 109
अनुष्टुप्
कुमारी शैलतनया नवमाल्योर्नदीभिदि ।सहापराजिताकुस्तुम्बुरीकन्यासु च स्त्रियाम् ॥ १४५१ ॥
17.1451 · p. 109
अनुष्टुप्
हिमाभे मृगभेदे च नीवृत्तन्नृपभेदयोः ।मारस्तु कुत्सितो यस्य कुमारस्तत्र वाच्यवत् ॥ १४५२ ॥
17.1452 · p. 109
अनुष्टुप्
कुमुखः कुत्सिताऽस्ये त्रिः सूकरे तु द्वयोर्मतः ।कुमुत् क्ली कैरवे स्त्री तु कुमोदे कृपणे त्रिषु ॥ १४५३ ॥
17.1453 · p. 109
अनुष्टुप्
कुमुदोऽस्त्री रक्तपद्मे कैरवे च प्रकीर्त्तितः ।ना दिग्गजान्तरे नागान्तरेऽपि कपिभिद्यथ ॥ १४५४ ॥
17.1454 · p. 109
अनुष्टुप्
कुमुदा कटफले स्त्री स्याद्गम्भार्यां कुम्भिकौषधौ ।कुमुद्वान्कुमुदप्राये देशे स्यादभिधेयवत् ॥ १४५५ ॥
17.1455 · p. 109
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुशपत्न्यां तु कुमुदस्तम्बेऽपि स्त्री कुमुद्वती ।कुमुलं पुष्पहेम्नोः क्ली कान्ते त्रिषु शिशौ द्वयोः ॥ १४५६ ॥
17.1456 · p. 109
अनुष्टुप्
कुम्बा तु गहनायां स्त्री वृतौ स्याद्विदले तु नप् ।कुम्भः पुंसि घटे हस्तिमूर्धपिण्डे महत्तरे ॥ १४५७ ॥
17.1457 · p. 109
अनुष्टुप्
वेश्यापतौ सोमदत्ते राशौ च शनिदैवते ।रक्षोभित्काभिलव्याध्योर्द्रोणाख्यपरिमाणके ॥ १४५८ ॥
17.1458 · p. 109
अनुष्टुप्
तस्य द्वये विंशतौ च खारीणं पञ्चविंशतौ ।स्त्री तु स्थाल्यन्तरे कुम्भी वारिपर्ण्यां च कट्फले ॥ १४५९ ॥
17.1459 · p. 109
अनुष्टुप्
दधिमन्थनगर्गर्यां पृश्निकायां च पाटलौ ।कुम्भा तु स्त्री त्रिवृद्वल्लौ कुम्भं तु नपि गुग्गुलौ ॥ १४६० ॥
17.1460 · p. 109
अनुष्टुप्
कट्फलादेश्च मूलेऽपि प्रसवे च नपुंसकम् ।कुलत्थिकौषधौ कुम्भकारी द्वे तु कुलालके ॥ १४६१ ॥
17.1461 · p. 109
अनुष्टुप्
कुम्भयोनिरगस्त्ये स्याद्वसिष्ठद्रोणयोः पुमान् ।कुम्भिकः शालमीने च चौरश्लोकार्थचौरयोः ॥ १४६२ ॥
17.1462 · p. 109
अनुष्टुप्
कुम्भी-कुरुविन्दः
कुम्भी तु कुम्भवत्येष वाच्यवत्परिकीर्त्तितः ।कुम्भिनी वसुधायां स्त्री द्वयोस्तु गजनक्रयोः ॥ १४६३ ॥
17.1463 · p. 110
अनुष्टुप्
कुम्भीकः पुंसि पुन्नागवृक्षे तत्प्रसवे पुनः ।प्रसवे कुमुदस्यापि कुम्भीकं स्यान्नपुंसकम् ॥ १४६४ ॥
17.1464 · p. 110
अनुष्टुप्
कुम्भीनसः सर्पमात्रे द्वयोर्दर्वीकरान्तरे ।कुम्भीनसी स्त्रियामेषा लवणासुरमातरि ॥ १४६५ ॥
17.1465 · p. 110
अनुष्टुप्
कुम्भीरस्तु द्वयोर्मत्स्ये चौरे तु त्रिषु कीर्त्तितः ।कुम्भीलस्त्रिषु चौरे च श्लोकच्छायादिहारिणि ॥ १४६६ ॥
17.1466 · p. 110
अनुष्टुप्
पुमांस्त्वयं स्यात्कुम्भीलो मत्स्ये स्यालाभिधानके ।कुरङ्गो वानरेऽपि स्याद्द्वे महाहरिणेऽपि च ॥ १४६७ ॥
17.1467 · p. 110
अनुष्टुप्
कुरङ्गको द्वे हरिणे मुद्गपर्ण्यां कुरङ्गिका ।कुरङ्गी तु स्त्रियां भोजतनयायाम्प्रकीर्त्तिता ॥ १४६८ ॥
17.1468 · p. 110
अनुष्टुप्
कुरण्टकः पीतपुष्पाम्लानझिण्टोकयोर्मतः ।कुरण्डो मुष्टिवृद्ध्याख्ये रोगभेदे पुमान्मतः ॥ १४६९ ॥
17.1469 · p. 110
अनुष्टुप्
स्तम्बे च किङ्किराताख्ये मत्स्ये त्वेष द्वयोर्मतः ।कुररी स्त्री भवेन्मेष्यामुत्क्रोशे कुररो द्वयोः ॥ १४७० ॥
17.1470 · p. 110
अनुष्टुप्
गोजिह्वायां तु कुरसा स्त्रियां स्याद्विरसे त्रिषु ।कुरीरस्तु पुमान्मालाविशेषे कम्बलेऽप्यथ ॥ १४७१ ॥
17.1471 · p. 110
अनुष्टुप्
कुरीरं मैथुने पद्मे जालेऽपि स्यान्नपुंसकम् ।कुरुस्तु प्रोच्यते पुंसि ऋत्विग्राजर्षिभेदयोः ॥ १४७२ ॥
17.1472 · p. 110
अनुष्टुप्
नीवृद्भेदे तु पुंभूम्नि वर्षे चाप्युत्तराभिधे ।कुरुण्टो दाहपुत्र्यान्ना झिण्टीम्लानप्रभेदयोः ॥ १४७३ ॥
17.1473 · p. 110
अनुष्टुप्
भवेत्कुरुबकः शोणम्लाने कुरवकेऽपि च ।भिण्ट्योश्च पीतारुणयोः क्ली त्वेषा प्रसवे भवेत् ॥ १४७४ ॥
17.1474 · p. 110
अनुष्टुप्
कुरुमस्तु द्वयोः कारौ भाजने तु पुमानयम् ।कुरुली धन्विनां लक्षवेधे स्यात्कुरुलोलके ॥ १४७५ ॥
17.1475 · p. 110
अनुष्टुप्
कुरुविन्दो रत्नभेदे मुस्तके हिङ्गुलेऽपि च ।अरण्यक्षुद्रधान्यानां सप्तानामेकधान्यके ॥ १४७६ ॥
17.1476 · p. 110
अनुष्टुप्
कुरूः-कुल्या
कुरूस्तु कुरुराजस्य स्त्र्यपत्ये स्त्री प्रकीर्त्तिता ।कुर्वाणस्त्रिषु भृत्येऽपि कारकेऽपि प्रकीर्त्तितः ॥ १४७७ ॥
17.1477 · p. 111
अनुष्टुप्
कुली स्याद्बदरीकण्टकार्योर्ज्येष्ठस्वसर्यपि ।भार्यायां स्त्रीकुलं त्वेतदृषीणाञ्जलतर्पणे ॥ १४७८ ॥
17.1478 · p. 111
अनुष्टुप्
निकेतने सजातीयगणे जनपदेऽन्वये ।शैवसङ्घान्तरे द्वे तु मार्जारे स्यात्कुला कुली ॥ १४७९ ॥
17.1479 · p. 111
अनुष्टुप्
कुलको ना कुरवके वल्मीके काकतिन्दुके ।सर्पभेदे कुलाग्र्येऽथ पञ्चादिश्लोकसंहतौ ॥ १४८० ॥
17.1480 · p. 111
अनुष्टुप्
पटोलवल्ल्यां कुलकं संयुक्ते तु त्रिषु स्मृतम् ।कुलक्षया शूकशिम्ब्यां कुलनाशे कुलक्षयः ॥ १४८१ ॥
17.1481 · p. 111
अनुष्टुप्
कुलत्थिका कुलाल्याख्ये भेषजे नृस्त्रियोः पुनः ।कुलत्थधान्ये द्वे तु स्यादेष दर्वीकरान्तरे ॥ १४८२ ॥
17.1482 · p. 111
अनुष्टुप्
कुलायः पक्षिनीडे च गृहे चापि पुमान्मतः ।एकाहक्रतुभेदेऽथ त्रिः कुलस्यायके भवेत् ॥ १४८३ ॥
17.1483 · p. 111
अनुष्टुप्
कुलालः कुम्भकारेऽपि कुङ्कुमेपि द्वयोर्मतः ।चक्षुष्याख्यौषधौ तु स्त्री कुलाली परिकीर्त्तिता ॥ १४८४ ॥
17.1484 · p. 111
अनुष्टुप्
कुलिको नागभेदे स्याद्द्रुभेदे कुलसत्तमे ।कुलिशन्त्वस्त्रियां वज्रे मत्स्यभेदे तु स द्वयोः ॥ १४८५ ॥
17.1485 · p. 111
अनुष्टुप्
कुल्माषं काञ्चिके क्लीबं कुरुविन्दमणौ पुमान् ।ब्रीह्यन्तरे सूपभक्ते विदले च यवान्तरे ॥ १४८६ ॥
17.1486 · p. 111
अनुष्टुप्
यवपिष्टे यावकाख्ये पक्वमुद्गादिपिण्डके ।वर्णे च शबले कुल्माषस्त्वेष त्रिषु तद्वति ॥ १४८७ ॥
17.1487 · p. 111
अनुष्टुप्
कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च ।रसे तु ना कटोश्चापि कषायस्य च मिश्रणात् ॥ १४८८ ॥
17.1488 · p. 111
अनुष्टुप्
गाढे तद्वति तु त्रि स्यात्कुलीने च नृभूम्नि तु ।नीवृद्भेदेषु मध्योदग्दाक्षिणात्येषु कीर्त्तितः ॥ १४८९ ॥
17.1489 · p. 111
अनुष्टुप्
कुल्या स्त्रियां स्यात्सरिति कृत्रिमाऽल्पसरित्यपि ।जीवन्तिकाकण्टकारीकुलस्त्र्यम्बुप्रणालिषु ॥ १४९० ॥
17.1490 · p. 111
अनुष्टुप्
कुवं-कुसुम्भी
कुवं स्यादुत्पले क्लीबं कुवः स्त्रीपुंसयोः पशौ ।अथोत्पले कुवलयं यौगिकेऽर्थे तु लोकवत् ॥ १४९१ ॥
17.1491 · p. 112
अनुष्टुप्
कुवली स्त्री बदर्यां स्यात्तत्फलोत्पलयोस्तु नप् ।कुवेलमुत्पले क्लीबं त्रिस्तु कुत्सितवेलके ॥ १४९२ ॥
17.1492 · p. 112
अनुष्टुप्
कुशं ह्रीवेरजलयोः क्ली दर्भे तु कुशोऽस्त्रियाम् ।कुशस्तु रामपुत्रेऽपि योक्त्रे द्वीपान्तरे च ना ॥ १४९३ ॥
17.1493 · p. 112
अनुष्टुप्
कुशा विष्टुतिकाष्ठे स्त्री वल्गारज्जौ च वाजिनः ।अयोविकारे तु कुशी फालाख्ये च हलाग्रके ॥ १४९४ ॥
17.1494 · p. 112
अनुष्टुप्
पापिष्ठमत्तयोस्त्वेष कुशो वाच्यवदिष्यते ।कुशलं त्रि क्षमे क्षमे निपुणे मङ्गलान्विते ॥ १४९५ ॥
17.1495 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्ष (wrong syllable)
दीक्षितेऽप्यथ तत् क्लीबं पर्णपर्याप्तिमङ्गले ।कुशस्थलं कान्यकुब्जमन्त्रवेदी कुशस्थली ॥ १४९६ ॥
17.1496 · p. 112
अनुष्टुप्
कुशिको ना मुनौ सर्पे द्वयोस्तु क्रोष्टुघूकयोः ।कुशीलवो द्वे वैदेहाल्लङ्घनप्लवनादिना ॥ १४९७ ॥
17.1497 · p. 112
अनुष्टुप्
वर्त्तमाने सुतेऽम्बष्ठ्या नटानामपि विश्रुते ।चारणे च कुशीसंज्ञाऽयोविकारलवे तु ना ॥ १४९८ ॥
17.1498 · p. 112
अनुष्टुप्
वाल्मीकौ च द्विवचने तूक्तौ रामस्य पुत्रयोः ।कुशेशयन्तु कमले विष्णौ तु स्यात्कुशेशयः ॥ १४९९ ॥
17.1499 · p. 112
अनुष्टुप्
कुषा कुः कपिवह्न्यर्के ना परोत्तापिनि त्रिषु ।कुषितं क्ली भवेत्पापे निष्कृष्टे त्वभिधेयवत् ॥ १५०० ॥
17.1500 · p. 112
अनुष्टुप्
कुष्ठोऽस्त्री परिभाव्याख्यगन्धद्रव्यौषधान्तरे ।व्याधिभेदेऽप्यभूमिष्ठे कुष्ठः स्यादभिधेयवत् ॥ १५०१ ॥
17.1501 · p. 112
अनुष्टुप्
कुसीदमृणवृद्धौ क्ली ऋणवृद्ध्या च जीवने ।भेद्यवत्त्वलसे वृद्धिजीविन्यपि च कीर्त्तितः ॥ १५०२ ॥
17.1502 · p. 112
अनुष्टुप्
पुंयोगाच्च स्त्रियां वृत्तौ कुसीदायी प्रकीर्त्तिता ।कुसुमोऽस्त्री फले नेत्ररोगे स्त्रीपुष्पपुष्पयोः ॥ १५०३ ॥
17.1503 · p. 112
अनुष्टुप्
कुसुम्भं कुङ्कुमे हेम्नि क्ली महारजनेऽपि च ।स्त्रियां कुसुम्भी तत्स्तम्बे वरधान्ये कमण्डलौ ॥ १५०४ ॥
17.1504 · p. 112
अनुष्टुप्
कुसृतिः-कूष्माण्डः
कुसृतिस्तु कुमार्गे स्यात्कुगतौ शाट्य एव च ।कुहनः पुंसि वल्मीके त्रिरीर्ष्यालौ च मायिनि ॥ १५०५ ॥
17.1505 · p. 113
अनुष्टुप्
कुहना स्त्री दम्भचर्यादम्भशीलत्वयोर्मता ।मायायां त्विन्द्रजाले च कुहनं द्वे तु मूषिके ॥ १५०६ ॥
17.1506 · p. 113
अनुष्टुप्
कूच्युदश्विद्विकारे स्त्री नार्यां कूचस्त्विमे द्वयोः ।कूचिका सूचिकायां च तूलिकायां च कुड्मले ॥ १५०७ ॥
17.1507 · p. 113
अनुष्टुप्
कपाटाङ्कुरके क्षीरविकृतावपि योषिति ।कूटोऽस्त्री पुञ्जमायाद्येष्वद्रिशृङ्गे शरान्तरे ॥ १५०८ ॥
17.1508 · p. 113
अनुष्टुप्
अयः शलाकाख्ये तुच्छे सीराङ्गे फालसंज्ञके ।अयोधने नृते दम्भे व्योम्नि निश्चलयन्त्रयोः ॥ १५०९ ॥
17.1509 · p. 113
अनुष्टुप्
कूपो भूषितकन्यायां ना तु गर्त्तोदपानयोः ।गुणवृक्षेऽल्पकूपे तु स्त्रियां कूपी प्रयुज्यते ॥ १५१० ॥
17.1510 · p. 113
अनुष्टुप्
कूप्यं क्ली पांशुलवणे कूपसाधौ तु भेद्यवत् ।कूबरस्त्वस्त्रियां गन्त्रीसमाख्ये स्याद्रथान्तरे ॥ १५११ ॥
17.1511 · p. 113
अनुष्टुप्
त्रिषु चारौ द्वयोः कुब्जे नृलिङ्गः स्याद्युगन्धरे ।कूर्चः पशौ भग्नशृङ्गे त्रिरस्त्रीश्मश्रुपीठयोः ॥ १५१२ ॥
17.1512 · p. 113
अनुष्टुप्
भ्रूमध्ये कत्थने दर्भे तन्तुवायपरिच्छदे ।तथा यतिपवित्रे च पादाङ्गुष्ठान्तरेऽपि च ॥ १५१३ ॥
17.1513 · p. 113
अनुष्टुप्
स्त्री तु चित्रकराणां स्यात्कूर्ची लेखनसाधने ।कूर्चिका मस्तुपिण्डे च सूचितूलिकयोरपि ॥ १५१४ ॥
17.1514 · p. 113
अनुष्टुप्
कवाटस्याङ्कुरे चापि स्त्रियामेषा प्रकीर्त्तिता ।कूर्परस्तु कफोणौ च जानुन्यपि पुमान्मतः ॥ १५१५ ॥
17.1515 · p. 113
अनुष्टुप्
कूर्मः कूर्मी कच्छपे स्त्रीपुंसयोः परिकीर्त्त्यते ।गजाङ्घ्रिदेशे तु नखात्परे कूर्मः पुमान्मतः ॥ १५१६ ॥
17.1516 · p. 113
अनुष्टुप्
कूलन्तीरे चमूकट्यां तटाके स्तूप एव च ।कूलकं न स्त्रियां स्तूपे पुंसि स्यात्कृमिपर्वते ॥ १५१७ ॥
17.1517 · p. 113
अनुष्टुप्
कूलङ्कषा स्त्रियां नद्यां त्रि तु कूलस्य काषके ।कूष्माण्डस्तु पुमान्विघ्नराजस्य प्रियभृत्यके ॥ १५१८ ॥
17.1518 · p. 113
अनुष्टुप्
कूष्माण्डी-कृत्यम्
गणभेदे शालिजातिभेदे भ्रूष्वान्तरेऽप्यथ ।फलवल्ल्यन्तरे तु द्वे कूष्माण्डी क्ली तु तत्फले ॥ १५१९ ॥
17.1519 · p. 114
अनुष्टुप्
अवतेहेड इत्यादिष्वृग्विशेषेषु नप्स्त्रियोः ।कूष्मा तु पुंसि शल्ये च वाताभावे च कीर्त्तितः ॥ १५२० ॥
17.1520 · p. 114
अनुष्टुप्
कृकस्तु मृगभेदे स्याद्द्वयोरङ्घ्रौ त्वयं पुमान् ।कृकरस्तु पुमांश्चव्ये वाते च परिकीर्त्तितः ॥ १५२१ ॥
17.1521 · p. 114
अनुष्टुप्
कृकवाकुर्द्वे सरटकेकिकुक्कुटखञ्जने ।कृच्छ्रं कष्टेऽप्यधर्मे क्ली तद्वति त्रिष्वथाऽस्त्रियाम् ॥ १५२२ ॥
17.1522 · p. 114
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्द्वे (wrong syllable)
तपोमात्रे तथा प्राजापत्यसान्तपनादिषु ।कृणकोऽयं कृणयितर्यभिधेयवदिष्यते ॥ १५२३ ॥
17.1523 · p. 114
अनुष्टुप्
वीणावंशशलाकायां कृणिका स्यात्स्त्रियामियम् ।कृतं हते निर्मिते त्रिर्भक्ताऽवस्थितकिङ्करे ॥ १५२४ ॥
17.1524 · p. 114
अनुष्टुप्
क्लीबं त्वादियुगेऽन्नादि पक्वहव्येऽक्षदेविनाम् ।अक्षवातप्रभेदे च स्तोमच्छन्दःप्रभेदयोः ॥ १५२५ ॥
17.1525 · p. 114
अनुष्टुप्
अलमर्थे क्रियायाञ्च कृतमेतत्प्रयुज्यते ।कृतज्ञः कुक्कुरे द्वे स्यादुपकारविदि त्रिषु ॥ १५२६ ॥
17.1526 · p. 114
अनुष्टुप्
कृतमालः पुमान्गन्धद्रव्ये तक्कोलनाम्नि च ।आरग्वधेऽथ द्वे कृष्णमृगभिद्धूकभेदयोः ॥ १५२७ ॥
17.1527 · p. 114
अनुष्टुप्
कृतबेधन इत्येष कोशातक्यन्तरे पुमान् ।भवेत्पृथुफले स्वल्पफले जात्यन्तरेऽस्य च ॥ १५२८ ॥
17.1528 · p. 114
अनुष्टुप्
कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु ।कृतिः स्त्रियां स्यात्करणे हिंसनेऽपि कृतेऽपि च ॥ १५२९ ॥
17.1529 · p. 114
अनुष्टुप्
चतुरक्षरकच्छन्दोभेदेऽशीत्यक्षरेऽप्यथ ।धात्वोः कृणति कृन्तत्योः पुँल्लिङ्गः कृतिरीरितः ॥ १५३० ॥
17.1530 · p. 114
अनुष्टुप्
कृती स्यात्पण्डिते योग्ये कुशले चाभिधेयवत् ।कृत्तं तु वेष्टिते छिन्नेऽप्यभिधेयवदिष्यते ॥ १५३१ ॥
17.1531 · p. 114
अनुष्टुप्
कृत्यन्तु भेद्यवत्क्रुद्धे लुब्धे भीतेऽवमानिते ।विद्विष्टेपि च संरब्धे कर्त्तव्यव्रश्चितव्ययोः ॥ १५३२ ॥
17.1532 · p. 114
अनुष्टुप्
कृत्यं-कृष्टं
कर्त्तनीये कृतिकृतकृत्यसाधौ च कीर्त्तितम् ।प्रयोजने तु क्ली कृत्यं स्यात्कृत्या त्वभिचारजे ॥ १५३३ ॥
17.1533 · p. 115
अनुष्टुप्
दैवते च क्रियायां च स्त्रियामेषा प्रकीर्त्तिता ।कृत्रिमं कृतिनिर्वृत्ते त्रिः क्ली कांस्याख्यलोहके ॥ १५३४ ॥
17.1534 · p. 115
अनुष्टुप्
कृत्रिमो वृकधूपाख्यनिर्यासे पुंसि कीर्त्तितः ।तुरुष्काख्ये च निर्यासे लवणे च विडाह्वये ॥ १५३५ ॥
17.1535 · p. 115
अनुष्टुप्
कृत्स्नं स्यात्क्लीबमुदके निखिले तु त्रिलिङ्गकम् ।कृदरस्त्रिषु हिंस्रे स्यात्पुमांस्तु खदिरे सिते ॥ १५३६ ॥
17.1536 · p. 115
अनुष्टुप्
कृन्तत्रो नाऽन्तरिक्षे च लाङ्गलाऽग्रे च लाङ्गले ।द्वे तु स्वर्णाभिघातार्थसाधने मशकेऽपि च ॥ १५३७ ॥
17.1537 · p. 115
अनुष्टुप्
कृन्तरो वृक्षभेदे ना मक्षिके कार्य एव च ।आलोचने तु त्रिष्वेष कृन्तरः परिकीर्त्तितः ॥ १५३८ ॥
17.1538 · p. 115
अनुष्टुप्
कृपस्तु पुंसि द्रोणस्य स्यालके परिकीर्त्तितः ।कृपणस्तु कृमौ द्वे स्यान्मन्दकुत्सितयोस्त्रिषु ॥ १५३९ ॥
17.1539 · p. 115
अनुष्टुप्
कृपा दयायां पत्न्यां तु कृपी द्रोणस्य कीर्त्तिता ।कृपाणी छुरिकायां स्त्री कर्त्तन्यां सैनिकस्य च ॥ १५४० ॥
17.1540 · p. 115
अनुष्टुप्
अथ खड्गे कृपाणोऽसौ पुँल्लिङ्गः परिकीर्त्तितः ।कृपीटमुदरेऽपि स्यात्तोयेऽपि च नपुंसकम् ॥ १५४१ ॥
17.1541 · p. 115
अनुष्टुप्
कृपीटपाल उद्दिष्टः केनिपातसमुद्रयोः ।कृमिर्ना कृमिवत्कीटे लाक्षायां कृमिले खरे ॥ १५४२ ॥
17.1542 · p. 115
अनुष्टुप्