कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

द (2/2)

दूत्यन्दूतस्य भागे च भावे कर्मण्यपि स्मृतम् ।दूरदर्शी द्वयोर्गृध्रे त्रिर्दूरेऽक्षिमनीषिणोः ॥ २६८१ ॥
34.2681 · p. 198
अनुष्टुप्
दूषिका स्त्री क्रोधवशकन्यायां यौगिके त्रिषु ।दूषिकं दूषिका चाऽक्षिमले क्लीबे स्त्रियामपि ॥ २६८२ ॥
34.2682 · p. 198
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्रो (wrong syllable)
दूषिका तु स्त्रियां वीणान्तरलूतालतासु च ।दूष्यं पूये स्थले वस्त्रे दूषणीये तु तत्त्रिषु ॥ २६८३ ॥
34.2683 · p. 198
अनुष्टुप्
दृग्भूः स्त्री स्यात्तरौ सर्पे बिले च द्रोहकैः कृते ।[दृढन्]त्वयस्युशीरे च श्लेष्मणि त्वस्त्रियां दृढः ॥ २६८४ ॥
34.2684 · p. 198
अनुष्टुप्
तथा दृढा त्वामलक्यां तालमूल्यां दृढा स्त्रियाम् ।[वाच्यवत्त्रि दृढं] स्थूले बलवत्यधिके भृशे ॥ २६८५ ॥
34.2685 · p. 198
अनुष्टुप्
स्त्रियां दृढदला ताली पादपे बल्वजेषु च ।दृतिर्भस्त्रा चर्मखण्डजिह्वामेघर्षिभिद्झषे ॥ २६८६ ॥
34.2686 · p. 198
अनुष्टुप्
दृतिर्ना [चर्म्मपुटके मेघेऽथ गलकम्बले] ।दृन्भूः स्त्रियां भुजङ्गे च चक्रे च परिकीर्त्तिता ॥ २६८७ ॥
34.2687 · p. 198
अनुष्टुप्

दृक्-देवभिन्नः

दृक् स्त्री ज्ञानाक्षिधीदृष्टिष्वथ त्रिर्ज्ञातृवीक्षिणोः ।दृशा नो ना रवौ क्ली ज्योतिषि द्रष्टरि तु त्रिषु ॥ २६८८ ॥
34.2688 · p. 199
अनुष्टुप्
दृशीकं नयने क्ली त्रिर्दृशीकः स्याद्वपुष्मति ।दृश्या स्त्री सेवने त्रिस्तु द्रष्टव्ये क्ली तु भूषणे ॥ २६८९ ॥
34.2689 · p. 199
अनुष्टुप्
दृषन्निष्पेषणशिलापट्टप्रस्तरयोः पुमान् ।दृषद्वती नदीभेदे पार्वत्याञ्च स्त्रियाम्मता ॥ २६९० ॥
34.2690 · p. 199
अनुष्टुप्
दृष्टं त्रि वीक्षिते ज्ञाने क्लीबन्त्वैहिकवस्तुनि ।उक्तं तथैव भूपानाम्भये स्वपरचक्रजे ॥ २६९१ ॥
34.2691 · p. 199
अनुष्टुप्
दृष्टान्तः पुंसि शास्त्रे च तथोदाहरणे मतः ।दृष्टिशब्दोऽक्ष्णि बुद्धौ च ज्ञाने दर्शे तथा स्त्रियाम् ॥ २६९२ ॥
34.2692 · p. 199
अनुष्टुप्
देवः खड्गे नृपे मेघे नृपे नाट्योक्तिगेऽपि ना ।चक्षुरादीन्द्रियेष्वस्त्री देवी स्त्री मघमूर्वयोः ॥ २६९३ ॥
34.2693 · p. 199
अनुष्टुप्
महिष्यान्नृपतेर्नाट्ये राजवंश्यनृपस्त्रियाम् ।गुडूचीस्पृक्कयोर्देवस्तु द्वयोर्दैवते मतः ॥ २६९४ ॥
34.2694 · p. 199
अनुष्टुप्
देवताडः सैंहिकेये जीमूते च हुताशने ।देवदण्डस्तु नृनपोर्दण्डाकारायुधान्तरे ॥ २६९५ ॥
34.2695 · p. 199
अनुष्टुप्
अरन्तिमात्रे योगे तु लिङ्गाद्यूह्यं यथायथम् ।देवदुन्दुभिरिन्द्रेऽयम्पुँल्लिङ्गः परिकीर्त्तितः ॥ २६९६ ॥
34.2696 · p. 199
अनुष्टुप्
स्त्री तु कृष्णार्जके कृष्णवचायां देवदुन्दुभिः ।देवधान्यं यावनाले देवानान्धान्यकेऽपि च ॥ २६९७ ॥
34.2697 · p. 199
अनुष्टुप्
देवधूपस्तु देवानान्धूपे स्याद्गुग्गुलावपि ।देवनं विजिगीषायां गतिकान्त्योर्द्युतौ स्तुतौ ॥ २६९८ ॥
34.2698 · p. 199
अनुष्टुप्
क्रीडायां व्यवहारेऽथ देवना-परिदेवने ।अना देवयतेश्चार्थेऽथ नाऽक्षे देवनो मतः ॥ २६९९ ॥
34.2699 · p. 199
अनुष्टुप्
देवभिन्नो मण्डलाख्यसर्पाणां विंशतिश्च षट् ।ये भेदा एकके तेषां द्वे योगार्थे त्वयं त्रिषु ॥ २७०० ॥
34.2700 · p. 199
अनुष्टुप्

देवमणिः-दैत्यारिः

पुमान्देवमणिर्घोटगलदेशसमुद्भवे ।रोमावर्त्ते महादेवे कौस्तुभे च प्रकीर्त्तितः ॥ २७०१ ॥
34.2701 · p. 200
अनुष्टुप्
देवयुस्त्वृत्विजि तथा होमेऽपि च पुमानथ ।वाच्यवद्देवयुः प्रोक्तो धार्मिके लोकयात्रिके ॥ २७०२ ॥
34.2702 · p. 200
अनुष्टुप्
नटे देवरथो रामभूमिके देवयानकः ।देवलस्त्वृषिभेदे ना देवाजीवे तथा पुमान् ॥ २७०३ ॥
34.2703 · p. 200
अनुष्टुप्
स्त्रियां देववधूर्देवपत्न्यान्दिशि च कीर्त्तिता ।देववृक्षः सप्तपर्णे मन्दारादिषु गुग्गुलौ ॥ २७०४ ॥
34.2704 · p. 200
अनुष्टुप्
स्त्री देवसिन्धुर्गङ्गायां योगार्थे तु यथायथम् ।देवसेना देवचम्बां स्कन्दपत्नीन्द्रकन्ययोः ॥ २७०५ ॥
34.2705 · p. 200
अनुष्टुप्
नागाञ्जनेभसुन्दर्यान्नागयष्टौ तथा स्त्रियाम् ।देवार्हं रसविद्धे क्ली हेम्नि देवोचिते त्रिषु ॥ २७०६ ॥
34.2706 · p. 200
अनुष्टुप्
देवाग्नौ देवरे पुंसि स्त्री पितृव्यस्त्रियां मता ।देशरूपोऽस्त्रियां न्याये योगार्थे तु यथायथम् ॥ २७०७ ॥
34.2707 · p. 200
अनुष्टुप्
देशी गुरौ पुमान्मार्गोपदेष्टरि तु वाच्यवत् ।स्त्री तु प्रदेशिनीनाम्न्यामङ्गुल्यान्देशिनी मता ॥ २७०८ ॥
34.2708 · p. 200
अनुष्टुप्
देष्णो बाहौ पुमान्द्वे तु यजमाने मतोऽथ च ।सुरूपे दानशीले च भेद्यवद्देष्ण इष्यते ॥ २७०९ ॥
34.2709 · p. 200
अनुष्टुप्
देष्णुस्तु दुर्गमेऽपि स्याद्दातर्यप्यभिधेयवत् ।ना देहमर्दनो व्याधौ क्ली तु देहस्य मर्दने ॥ २७१० ॥
34.2710 · p. 200
अनुष्टुप्
देहयात्रा तु मरणे भोजनेऽपि स्त्रियाम्मता ।दैतिकी स्याद्दिनभृतौ क्लीबन्तु दिनयोगिनि ॥ २७११ ॥
34.2711 · p. 200
अनुष्टुप्
दैत्यो विभीतके दैत्यमुशीरे दितिजे द्वयोः ।अथ दैत्या मुरा चण्डौषधमद्यान्तरेष्वपि ॥ २७१२ ॥
34.2712 · p. 200
अनुष्टुप्
दैत्यदेवस्तु वरुणो पवनेऽपि पुमान्मतः ।दैत्यारिर्देवमात्रेऽपि पुमांश्च गरुडध्वजे ॥ २७१३ ॥
34.2713 · p. 200
अनुष्टुप्

दैनम्-दौन्दुभी

दैनन्त्रिर्दिनसम्बद्धे दैन्ये तु स्यान्नपुंसकम् ।दैन्यं तु दीनतायाञ्च शोके च क्लीबमिष्यते ॥ २७१४ ॥
34.2714 · p. 201
अनुष्टुप्
दैवो विवाहभेदे स्याद्दैवी तेन विवाहिता ।दैवन्तु दैवते भाग्ये नपुंसकमुदीरितम् ॥ २७१५ ॥
34.2715 · p. 201
अनुष्टुप्
दैवज्ञस्त्रिर्दैवविदि दैवज्ञा गृहगोलिका ।दैशिकन्नृत्यभेदे क्ली देशयोगिनि तु त्रिषु ॥ २७१६ ॥
34.2716 · p. 201
अनुष्टुप्
आहुर्दैशिकवत्केचिद्दैशिकञ्चोपदेशकम् ।दैष्टं क्ली याज्ञिकानां स्यात्प्रोक्षण्यासादने तथा ॥ २७१७ ॥
34.2717 · p. 201
अनुष्टुप्
सम्बन्धिनि स्याद्दिष्टस्य दिष्टेरपि च वाच्यवत् ।दोग्धा दोहनकारे त्रिर्लोभात्कवयितर्यपि ॥ २७१८ ॥
34.2718 · p. 201
अनुष्टुप्
दोग्ध्री तु स्तनपायिन्यान्धात्र्यां धेनावपि स्त्रियाम् ।दोधकं वृत्तभेदे क्ली त्रिः स्वाम्यर्थापहारके ॥ २७१९ ॥
34.2719 · p. 201
अनुष्टुप्
दोरकन्नपि रज्जौ स्याद्दीणारुन्त्र्यान्तु दोरिका ।दोलः फाल्गुनशुक्लस्य चतुर्दश्युत्सवे मतः ॥ २७२० ॥
34.2720 · p. 201
अनुष्टुप्
दोलकस्त्र्युत्क्षेप्तरि स्यादथ दोलकमम्बुजे ।दोला प्रेङ्खे यानभेदेऽपि स्त्री स्यान्नीलिकौषधौ ॥ २७२१ ॥
34.2721 · p. 201
अनुष्टुप्
दोलितो महिषे द्वे स्यात्कम्पिते दोलितस्त्रिषु ।दोषो वातादिके दुष्टे गुणस्य प्रतियोगिनि ॥ २७२२ ॥
34.2722 · p. 201
अनुष्टुप्
दोषज्ञः पण्डिते वैद्ये त्रिषु दोषस्य बोधके ।स्याद्दोषा तु भुजायां स्त्री तथा रात्रौ च तन्मुखे ॥ २७२३ ॥
34.2723 · p. 201
अनुष्टुप्
रात्र्यर्थे तु निशीत्यर्थे दोषेत्यादन्तमव्ययम् ।दोषाकरस्तु चन्द्रे स्याद्दोषाणामाकरेऽपि च ॥ २७२४ ॥
34.2724 · p. 201
अनुष्टुप्
दोषिको दोषसम्बद्धे त्रिर्व्याधौ पुंसि कस्यचित् ।वयः सन्धौ च गर्भे च क्लीबन्दोहदलक्षणम् ॥ २७२५ ॥
34.2725 · p. 201
अनुष्टुप्
दोहलोऽस्त्री गर्भिणीच्छाभेदे श्रद्धाभिधे मतः ।देये वृक्षादिपुष्ट्यर्थं करीषादावपि स्मृतः ॥ २७२६ ॥
34.2726 · p. 201
अनुष्टुप्
दौन्दुभी वरयात्रायान्दम्भे चैव स्त्रियाम्मता ।क्लीत्वे कलेख्यकेष्टानां लेख्यानां व्यवहारिणाम् ॥ २७२७ ॥
34.2727 · p. 201
अनुष्टुप्

दौर्वीणं-द्रावकः

दौर्वीणं म्लिष्टपर्णे च दूर्वायाश्च रसे मतम् ।दौष्यन्तः स्याद्द्वयोरुग्रे मत्स्यघातनजीविनि ॥ २७२८ ॥
34.2728 · p. 202
अनुष्टुप्
कक्ष्याजीविनि चाऽम्बष्ठे पुंल्लिङ्गस्तु नृपान्तरे ।दौहृदं तु दुहृत्त्वेऽपि तथा दोहलनामनि ॥ २७२९ ॥
34.2729 · p. 202
अनुष्टुप्
इच्छाविशेषे गर्भिण्यान्नपुंसकमुदीरितम् ।द्युरस्त्री गगने चाह्नि पावके तु पुमान्मतः ॥ २७३० ॥
34.2730 · p. 202
अनुष्टुप्
द्युतिः पुमान्द्योततौ स्त्री प्रभाभिगमकान्तिषु ।द्युम्नं धने यशस्यन्ने बलेऽपि क्लीबमिष्यते ॥ २७३१ ॥
34.2731 · p. 202
अनुष्टुप्
द्युवाऽभिगन्तरि त्रि स्यान्ना तु स्वर्गार्कराजसु ।द्योशब्दस्तु स्त्रियामुक्तः स्वर्गे चैव विहायसि ॥ २७३२ ॥
34.2732 · p. 202
अनुष्टुप्
द्योतस्तु द्योतनायाञ्च दीप्तौ द्योता त्वियं स्त्रियाम् ।ज्ञेया पिङ्गलकेश्यादिकन्यायां सुरभावपि ॥ २७३३ ॥
34.2733 · p. 202
अनुष्टुप्
द्योतना तूषसि स्त्री स्याद्द्योतनं क्ली धनेऽक्ष्णि च ।द्योतकार्थे स्त्रीनपोस्तु द्योतना स्यात्प्रकाशने ॥ २७३४ ॥
34.2734 · p. 202
अनुष्टुप्
द्यौत्रं क्लीबं प्रमाणेऽह्नि प्रतोदज्योतिषोरपि ।द्रमिलस्तु द्वयोर्मर्त्ये त्रिराज्यप्रभवे मतः ॥ २७३५ ॥
34.2735 · p. 202
अनुष्टुप्
वैश्यपूर्वक्षत्रियायां व्रात्याज्जातेऽपि कीर्त्तितः ।द्रवो नर्मणि निर्यासे द्रवणे ना पलायने ॥ २७३६ ॥
34.2736 · p. 202
अनुष्टुप्
नद्यान्तु स्त्री द्रवा त्रिस्तु भिन्नेऽपि तरले घने ।द्रवत्पलायके चैव द्रावकेपि त्रिषु स्मृतः ॥ २७३७ ॥
34.2737 · p. 202
अनुष्टुप्
द्रवन्ती तु स्त्रियामेषा न्यग्रोधीस्तम्ब इष्यते ।द्रविणं न द्वयोर्वित्ते काञ्चने च पराक्रमे ॥ २७३८ ॥
34.2738 · p. 202
अनुष्टुप्
द्रव्यं स्यात्पित्तले वित्ते पृथिव्यादौ विलेयने ।योग्ये च भेषजे क्लीबमृक्सामेष्विष्टिगामिषु ॥ २७३९ ॥
34.2739 · p. 202
अनुष्टुप्
द्रुविकारे पुनर्द्रव्यमभिधेयवदिष्यते ।द्राङ्गस्तु सत्वरे प्रांशावपि वाच्यवदिष्यते ॥ २७४० ॥
34.2740 · p. 202
अनुष्टुप्
द्रावकस्त्रि द्रावयितृद्रोत्रोर्ना घोषकाश्मनोः ।द्रावको ग्रावभेदे स्याद्विदग्धे मोषकेऽपि च ॥ २७४१ ॥
34.2741 · p. 202
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रा (wrong syllable)

द्रावणः-द्विजः

क्ली तु तत्प्रसवे द्रावयत्यर्थे तु न ना भवेत् ।द्रावणस्तु विडाख्ये स्याल्लवणे कतकद्रुमे ॥ २७४२ ॥
34.2742 · p. 203
अनुष्टुप्
द्रुधणो मुग्दरेऽपि स्याद्द्रुहिणे च परश्वधे ।द्रुणो द्वयोर्वृश्चिके स्यात्क्लीबं तु धनुषि द्रुणम् ॥ २७४३ ॥
34.2743 · p. 203
अनुष्टुप्
स्त्रियां द्रुणा स्यात्कच्छप्यां मौर्व्यां तु स्याद्द्रुणी स्त्रियाम् ।द्रुतं विलीने शीघ्रे च विद्राणे चापि वाच्यवत् ॥ २७४४ ॥
34.2744 · p. 203
अनुष्टुप्
द्रुमो ना वृक्षमात्रेऽपि नान्दीवृक्षे तथा स्मृतः ।पारिजातद्रुमे राजभेदे किम्पुरुषेश्वरे ॥ २७४५ ॥
34.2745 · p. 203
अनुष्टुप्
द्रुमामयस्तु लाक्षायां स्याद्द्रुमस्यामयेऽपि च ।द्रुमार्दनः स्याच्छिशिर ऋतौ ना त्रि तु यौगिके ॥ २७४६ ॥
34.2746 · p. 203
अनुष्टुप्
द्रुहिणो ब्रह्मविष्ण्वोर्ना त्रिक्षुद्रे क्ली तु पद्मनि ।द्रोणो द्वयोर्दग्धकाके पुमांस्तु स्यात्कृपीपतौ ॥ २७४७ ॥
34.2747 · p. 203
अनुष्टुप्
शाकस्तम्बान्तरे चैव द्रोणा तु चतुराढके ।दारुपात्रविशेषे स्याद्द्रोणी तु द्रवभाजने ॥ २७४८ ॥
34.2748 · p. 203
अनुष्टुप्
तथा काष्ठाम्बुवाहिन्यां द्रोणपुष्प्यां गिरिप्लवे ।शैलस्य शिलयोः सन्धावपि द्रोणी प्रकीर्त्तिता ॥ २७४९ ॥
34.2749 · p. 203
अनुष्टुप्
द्रोहो द्वेषे पुमान्द्वे तु भवेद्विग्रखषीसुते ।द्रोहकस्त्रिषु वैडालवृत्तौ गाथाऽन्तरे तु ना ॥ २७५० ॥
34.2750 · p. 203
अनुष्टुप्
द्रोहाटः कथितो गाथाप्रभेदे मृगलुब्धके ।द्वन्द्वोऽस्त्री युधि युग्ये तु रहस्ये मिथुनेऽपि नप् ॥ २७५१ ॥
34.2751 · p. 203
अनुष्टुप्
पुँल्लिङ्गस्तु भवेद्द्वन्द्वः समासे चार्थचोदिते ।द्वन्द्वन्तु भेद्यलिङ्गं स्याद्युग्मावयववस्तुषु ॥ २७५२ ॥
34.2752 · p. 203
अनुष्टुप्
द्वादशोऽस्त्री विष्णुतिथौ संख्यायाः पूरणे त्रिषु ।द्वापरः संशयेऽपि स्यात्तृतीयेऽपि युगे पुमान् ॥ २७५३ ॥
34.2753 · p. 203
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
द्वार्द्वारे चाप्युपाये च स्त्रियां द्वारन्तु नप्तयोः ।द्विकमात्ममनोयुग्मे क्लीबं द्वे काककोकयोः ॥ २७५४ ॥
34.2754 · p. 203
अनुष्टुप्
त्रिषु तु द्वितयेऽपि स्याद्द्वाभ्यां क्रीतादिकेष्वपि ।द्विजो द्वे ब्राह्मणक्षत्रवैश्येष्वण्डोद्भवेषु च ॥ २७५५ ॥
34.2755 · p. 203
अनुष्टुप्

द्विजा-धत्रं

दन्तेषु पुंसि भार्ग्यान्तु हरेणौ च द्विजा स्त्रियाम् ।द्विजन्मा पुंसि दन्तेऽथ द्वे ब्रह्मक्षत्रविट्खगे ॥ २७५६ ॥
34.2756 · p. 204
अनुष्टुप्
द्विजपोतो द्वयोः शूद्रे तथा स्यात्पक्षिणः शिशौ ।द्विजराजस्त्वनन्तेऽपि चन्द्रे च गरुडे पुमान् ॥ २७५७ ॥
34.2757 · p. 204
अनुष्टुप्
द्विजातिः पक्षिणि ब्रह्मक्षत्रविट्सु तथा पुमान् ।द्विजिह्वस्तु द्वयोः सर्पे सूचके तु त्रिषु स्मृतः ॥ २७५८ ॥
34.2758 · p. 204
अनुष्टुप्
द्वितीया स्त्री द्वितीयस्यां विभक्तौ ब्रह्मणस्तिथौ ।भार्यायाञ्च द्वितीयस्तु द्वयोः स्यात्पूरणे त्रिषु ॥ २७५९ ॥
34.2759 · p. 204
अनुष्टुप्
द्विपाद्द्वे विहगे मर्त्ये द्व्यङ्घ्रिके तु त्रिषु स्मृतः ।द्विषस्तु पुंसि शत्रौ स्यात्त्रिलिङ्गो द्वेष्टरि स्मृतः ॥ २७६० ॥
34.2760 · p. 204
अनुष्टुप्
द्वीपी जलाशयभिदि स्त्री द्वीपोऽस्त्र्यन्तरीपके ।द्वीपवान्सिन्धुनदयोर्द्वीपवत्यापगाभुवोः ॥ २७६१ ॥
34.2761 · p. 204
अनुष्टुप्
द्वीपिस्तु श्वापदे कालेऽपि च न क्लीबमिष्यते ।द्वैपं रथे द्वीपिचर्मच्छन्नेऽङ्गे द्वीपिनस्तथा ॥ २७६२ ॥
34.2762 · p. 204
अनुष्टुप्
विकारेऽप्यासमुद्रान्तद्वीपसम्बन्धिवस्तुनि ।अन्यत्र मानुषात्तत्स्थादभिधेयवदिष्यते ॥ २७६३ ॥
34.2763 · p. 204
अनुष्टुप्