कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ए

ए स्मृतावप्यसूयानुकम्पामन्त्रणहूतिषु ॥ ८९७ ॥
13.897 · p. 69
एकं त्रि मुख्यप्रथमसमानान्याऽल्पके बले ।नित्यैकवचनस्त्वाद्यसंख्यासंख्येययोरयम् ॥ ८९८ ॥
13.898 · p. 69
अनुष्टुप्
पुंस्येककुण्डलः प्रोक्तो बलभद्रे धनाधिपे ।प्रयोगमनुसृत्यास्य लिङ्गयोगार्थ इष्यते ॥ ८९९ ॥
13.899 · p. 69
अनुष्टुप्
एकदृङ् ना यमे काके तु द्वयोस्त्रिस्तु काणके ।एकदेशस्त्ववयवे यौगिके तु स लोकवत् ॥ ९०० ॥
13.900 · p. 69
अनुष्टुप्
स्त्रियामेकपदी मार्गे यौगिकाऽर्थे तु लोकवत् ।एदन्तं त्वव्ययं सद्योऽर्थे स्यादेकपदे इति ॥ ९०१ ॥
13.901 · p. 69
अनुष्टुप्
एकाक्षो वाच्यवत्काणे वायसे तु द्वयोर्मतः ।एकाक्षीला तु पाठायां शिवमल्ल्यां तु पुंस्ययम् ॥ ९०२ ॥
13.902 · p. 69
अनुष्टुप्
एकाग्रमेकताने ना कुले स्वार्थे च वाच्यवत् ।एकाङ्ग एकावयवे त्रि पुंसि तु बुधग्रहे ॥ ९०३ ॥
13.903 · p. 69
अनुष्टुप्
एकादशः पूरणे त्र्येकादशी तु हरेस्तिथौ ।तथैकादशतन्त्रीके वीणाभेदेऽपि कीर्त्तिता ॥ ९०४ ॥
13.904 · p. 69
अनुष्टुप्
एकायनं त्रिष्वेकाग्रेऽथ स्यादेतन्नपुंसकम् ।शास्त्रे भागवतानां यत्कश्मीरेष्वेव विश्रुतम् ॥ ९०५ ॥
13.905 · p. 69
अनुष्टुप्
एकायनगतस्तु स्यादेकाग्रेऽप्येकमार्गके ।एकाहमेकदिवसे क्लीबं पुंस्यध्वरेऽव्ययम् ॥ ९०६ ॥
13.906 · p. 69
अनुष्टुप्

एडका-ऐन्द्री

ज्योतिष्टोमादिकेष्वेकदिनसाध्येषु कीर्त्तितः ।त्रिः कुत्सितादिवधिरे स्यान्मेषे त्वेडकाद्वयोः ॥ ९०७ ॥
13.907 · p. 70
अनुष्टुप्
एडमूकोऽन्यलिङ्गः स्याच्छठे वाक्श्रुतिवर्जिते ।एणीकृतो वर्णदोषे पुंसि तद्वति तु त्रिषु ॥ ९०८ ॥
13.908 · p. 70
अनुष्टुप्
आपादितैणभावे च क्ली त्वेणीकरणे स्मृतम् ।एतः स्यात्कर्बुरे पुंसि त्रि त्वेनी तद्वति स्मृता ॥ ९०९ ॥
13.909 · p. 70
अनुष्टुप्
आगते तु त्रिलिङ्गैता क्लीबं स्यादेतमागते ।एतशः पुंसि चन्द्रेन्द्रर्त्विक्षु द्वे तु तुरङ्गमे ॥ ९१० ॥
13.910 · p. 70
अनुष्टुप्
एतशास्त्वश्मनि द्वे ना त्वग्नौ ब्रह्मणि होतरि ।एधतुस्तु स्त्रियां लक्ष्म्यां ना त्वग्नौ पुरुषेऽपि च ॥ ९११ ॥
13.911 · p. 70
अनुष्टुप्
एधितो ना गिरिसरिद्वाहे क्लीबं वने भवेत् ।एधितुः पावके शैले सागरेऽपि पुमान्मतः ॥ ९१२ ॥
13.912 · p. 70
अनुष्टुप्
एनः पापेऽपराधे च सान्तं क्लीबमुदाहृतम् ।एलकस्त्र्येलितर्युक्तः पुमान्नारङ्गपादपे ॥ ९१३ ॥
13.913 · p. 70
अनुष्टुप्
एवौपम्ये नियोगे चावधारे वाक्यपूरणे ।भवेदव्ययमाचारनियोगे च विनिग्रहे ॥ ९१४ ॥
13.914 · p. 70
अनुष्टुप्
एवंप्रकारे निर्लिङ्गमङ्गीकारेऽवधारणे ।अनुप्रश्ने परकृतावुपमापृच्छयोरपि ॥ ९१५ ॥
13.915 · p. 70
अनुष्टुप्
एषणः पुंसि नाराचे नाराच्यां त्वेषणी स्त्रियाम् ।व्रणमार्गानुसारिण्यां विशेषात्परिकीर्त्तिता ॥ ९१६ ॥
13.916 · p. 70
अनुष्टुप्
कुस्तुम्बुर्यामेषणाऽथैषणमप्येषणेच्छतेः ।ण्यन्तादेकं त्वेषणं तदिच्छायां परिकीर्त्तितम् ॥ ९१७ ॥
13.917 · p. 70
अनुष्टुप्