कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

श (1/4)

शंसा स्तुतौ तथेच्छायामुक्तौ स्त्रियां मता ॥ ५७९९ ॥
46.5799 · p. 430
इच्छायां वाऽजयः प्राह तदसत्स्मर्यते यतः ।आङ्पूर्वस्यैष शब्दज्ञैः शंसेरिच्छार्थवाचिता ॥ ५८०० ॥
46.5800 · p. 430
अनुष्टुप्
शंस्य आहवनीयाऽग्नौ शंसनीये तु वाच्यवत् ।शमव्ययं वा क्लीबं वा कल्याणेऽथ पुमान्मतः ॥ ५८०१ ॥
46.5801 · p. 430
अनुष्टुप्
शस्त्रे शिवेऽप्युत्तरस्थस्त्वयं शयितरि त्रिषु ।शको ना पशुविष्ठायां देशभेदे जले तु नप् ॥ ५८०२ ॥
46.5802 · p. 430
अनुष्टुप्
शका तु गवयाभिख्यपशुजातौ स्त्रियामियम् ।स्याद्वत्सरेऽपि पार्थादेः शको जात्यन्तरे नृपे ॥ ५८०३ ॥
46.5803 · p. 430
अनुष्टुप्
शकन्धुर्देवताभेदे तथैव स्थाद्वनस्पतौ ।शकलस्त्वृषिभेदे ना खण्डे तु नरशण्डयोः ॥ ५८०४ ॥
46.5804 · p. 430
अनुष्टुप्
रागद्रव्यविशेषे च वल्कलेऽप्यथ भेद्यवत् ।शकलो मूर्खधनिनोर्नीवृद्भेदे नृभूमनि ॥ ५८०५ ॥
46.5805 · p. 430
अनुष्टुप्

शकली-शङ्कुः

शकली तु द्वयोर्मत्स्ये शकलेन युते त्रिषु ।शकलूर्देवताभेदे स्त्रीलिङ्गे परिकीर्त्तिता ॥ ५८०६ ॥
46.5806 · p. 431
अनुष्टुप्
वनस्पतिविशेषे तु शकलूः पुंसि कीर्त्तितः ।शकुटा पश्चिमं भागं विभज्य दशधोर्ध्वतः ॥ ५८०७ ॥
46.5807 · p. 431
अनुष्टुप्
हस्तिनः पञ्चमे भागे शाकस्तम्बान्तरे तु ना ।शकुनः पक्षिणि द्वे ना मित्रे क्ली भाविसूचके ॥ ५८०८ ॥
46.5808 · p. 431
अनुष्टुप्
शकुनिः पक्षिमात्रेऽपि चिल्लपक्षिणि च द्वयोः ।शकुनिस्तु पुमानेष स्याद्दुर्योधनमातुले ॥ ५८०९ ॥
46.5809 · p. 431
अनुष्टुप्
शकुन्तस्तु द्वयोः पक्षिमात्रे भासाख्यपक्षिणि ।स्त्रीपुंसयोस्तु शकुलो मत्स्यभेदे प्रकीर्त्तितः ॥ ५८१० ॥
46.5810 · p. 431
अनुष्टुप्
अथ कूष्माण्डवल्ल्यां स्त्री शकुला परिकीर्त्तिता ।रोहिणीतोयपिप्पल्योः शकुलादन्युदीरिता ॥ ५८११ ॥
46.5811 · p. 431
अनुष्टुप्
शकृत्क्लीबे जले प्रोक्तं तथा गोमयविष्ठयोः ।स्याच्छकोटस्तु बाहौ ना शक्ते तु त्रिषु कीर्त्तितः ॥ ५८१२ ॥
46.5812 · p. 431
अनुष्टुप्
शक्तिर्वसिष्ठपुत्रे ना स्त्री सांख्यप्रकृतौ श्रियाम् ।सामर्थ्ये च प्रभावादिजातासु च तिसृष्वपि ॥ ५८१३ ॥
46.5813 · p. 431
अनुष्टुप्
कर्मण्यप्यायुधे कासूनाम्नि शक्तीतिशक्तिवत् ।शक्रः कुटजवृक्षे च महेन्द्रे च पुमान्मतः ॥ ५८१४ ॥
46.5814 · p. 431
अनुष्टुप्
शक्लः प्रियंवदे शक्ते वाच्यवत्परिकीर्त्तितः ।शक्वा तु हस्ते ग्रन्थादौ पुंस्यथो शक्वरी स्त्रियाम् ॥ ५८१५ ॥
46.5815 · p. 431
अनुष्टुप्
नद्यां विद्युति काञ्च्यां च तथा बाहावपीष्यते ।षट्पञ्चाशत्स्वरे चापि छन्दोभेदे तथा मता ॥ ५८१६ ॥
46.5816 · p. 431
अनुष्टुप्
शङ्कुः शम्भौ चतुर्वक्त्रे पुमान्संख्यान्तरेऽपि च ।कोटिलक्षात्मकेऽथास्त्री कीलमेढ्रायुधान्तरे ॥ ५८१७ ॥
46.5817 · p. 431
अनुष्टुप्
वृक्षपत्रसिराजाले शङ्कुर्गोत्रेऽपि कीर्त्तिता ।द्वयोर्विडाले हंसे च यादोभेदे च राक्षसे ॥ ५८१८ ॥
46.5818 · p. 431
अनुष्टुप्
एवमुत्पादिवर्गस्य तृतीये साम्नि च स्मृतः ।पुन्नपुंसकयोरेनमविशेषेण मन्यते ॥ ५८१९ ॥
46.5819 · p. 431
अनुष्टुप्

शङ्कुकर्णः-शतमूर्धा

अप्राण्यर्थं तथा प्राह शङ्कुरप्राणिगोचरः ।इत्यर्धर्चादिवर्गस्य वैजयन्त्यां प्रपञ्चने ॥ ५८२० ॥
46.5820 · p. 432
अनुष्टुप्
शङ्कुकर्णस्तु ना मुन्यन्तरे द्वे तु खरोष्ट्रयोः ।शङ्कुकर्णी प्रतोल्यां स्यात्परिघे लोहकीलिनि ॥ ५८२१ ॥
46.5821 · p. 432
अनुष्टुप्
शङ्खोऽस्त्री वलये कम्बौ ललाटास्थिगमर्मयोः ।संख्याभेदे निखर्वाख्यसंख्याया दशकात्मके ॥ ५८२२ ॥
46.5822 · p. 432
अनुष्टुप्
विधिभेदे त्वमावास्यातिथौ नागर्षिभेदयोः ।मणिभेदे च शुक्त्याख्यभेषजे शङ्ख एष ना ॥ ५८२३ ॥
46.5823 · p. 432
अनुष्टुप्
शङ्खपालो द्वयोर्दर्वीकराणां षट् च विंशतिः ।ये भेदास्तेषु चैकस्मिन्योगार्थे तु यथायथम् ॥ ५८२४ ॥
46.5824 · p. 432
अनुष्टुप्
शङ्खिनी चौरपुष्प्यां स्यात् शङ्खी शङ्खवति त्रिषु ।शठो ना मातुलुङ्गे च भव्यधुर्धूरयोरपि ॥ ५८२५ ॥
46.5825 · p. 432
अनुष्टुप्
सिते च सर्षपे तस्य फले चाथ नपुंसकम् ।पाये वङ्गाख्यलोहे च प्रसवेऽत्रोक्तशाखिनाम् ॥ ५८२६ ॥
46.5826 · p. 432
अनुष्टुप्
त्रिस्तु धूर्त्ते च शत्रौ च मार्जारे तु द्वयोरयम् ।शणीरं पुलिने शोणाम्बुमध्यस्थेऽपि गङ्गया ॥ ५८२७ ॥
46.5827 · p. 432
अनुष्टुप्
सरय्वाः सङ्गमेनावृतेऽपि स्याद्दर्दरी तटे ।पुमाञ्शतधृतिर्ब्रह्मण्यथ योगे यथायथम् ॥ ५८२८ ॥
46.5828 · p. 432
अनुष्टुप्
शतपत्रं तु कमले शतपत्रस्त्वयं द्वयोः ।मयूरे सारसे चापि स्यार्द्दावाघाटपक्षिणि ॥ ५८२९ ॥
46.5829 · p. 432
अनुष्टुप्
शतपर्वा तु ना वेणौ स्त्री दूर्वावचयोरपि ।कलम्ब्यां च विसे तु क्ली स्थौणेयाख्ये च भेषजे ॥ ५८३० ॥
46.5830 · p. 432
अनुष्टुप्
शतपात्तु शताङ्घ्रावप्यभिधेयवदिष्यते ।अथो शतपदीकर्णजलौकायां स्त्रियां मता ॥ ५८३१ ॥
46.5831 · p. 432
अनुष्टुप्
शतमानं भवेत्कर्षद्वये व्रीहेस्तथाढके ।शतोन्मिते तण्डुलानामपि स्यात्पुन्नपुंसकम् ॥ ५८३२ ॥
46.5832 · p. 432
अनुष्टुप्
स्त्रियां शतमुखी पार्वत्यां योगे तु यथायथम् ।शतमूर्धा तु वल्मीके योगार्थे तु यथायथम् ॥ ५८३३ ॥
46.5833 · p. 432
अनुष्टुप्

शतवीर्या-शमिता

शतवीर्या श्वेतदूर्वा योगार्थे तु यथायथम् ।शतह्रदा तु तडिति तडिद्भेदे त्रि यौगिके ॥ ५८३४ ॥
46.5834 · p. 433
अनुष्टुप्
शताङ्गस्तु रथे पुंसि योगार्थे तु यथायथम् ।शतानन्दस्तु ना विष्णौ विरिञ्चे गौतमेऽपि च ॥ ५८३५ ॥
46.5835 · p. 433
अनुष्टुप्
शतावर्त्ता तु तडिति शतावर्त्तस्तु ना हरौ ।शत्रिस्तु कुञ्जरे क्रौञ्चनाम्नि पक्षिणि च द्वयोः ॥ ५८३६ ॥
46.5836 · p. 433
अनुष्टुप्
शत्रुस्तु पुंस्यमित्रे स्याल्लग्नात्षष्ठे च राशिके ।शत्रुघ्नः पुंसि भरतानुजे त्रिः शत्रुहन्तरि ॥ ५८३७ ॥
46.5837 · p. 433
अनुष्टुप्
शद्रिस्तु पर्वते पुंसि द्वयोस्तु गजमेषयोः ।शपथः कार आक्रोशे शपने च सुतादिभिः ॥ ५८३८ ॥
46.5838 · p. 433
अनुष्टुप्
शफः पुंसि च शण्डे च लाङ्गलाङ्गान्तरे खुरे ।महावीराख्यपात्रस्य परिग्रहणकाष्ठयोः ॥ ५८३९ ॥
46.5839 · p. 433
अनुष्टुप्
वृथश्च यस्येत्यृचि च गीतयोः सामभेदयोः ।शफरो मत्स्यभेदे स्यात्प्रोष्ठीसंज्ञे द्वयोरयम् ॥ ५८४० ॥
46.5840 · p. 433
अनुष्टुप्
शफरी वृक्षभेदे स्यादश्मन्तक इति श्रुते ।शबरस्तु द्वयोः शूद्रभिल्लीसम्भव इष्यते ॥ ५८४१ ॥
46.5841 · p. 433
अनुष्टुप्
शबरी तापसीभेदे रामायणकथाश्रुते ।शबरस्तु शिवे पुंसि शबरं क्ली जले मतम् ॥ ५८४२ ॥
46.5842 · p. 433
अनुष्टुप्
शबलश्चित्रवर्णे ना चित्रवर्णवृषेऽपि च ।शबली गवि चित्रायां चित्रवर्णयुते त्रिषु ॥ ५८४३ ॥
46.5843 · p. 433
अनुष्टुप्
शब्दोऽक्षरे यशोगीत्योर्वाक्ये खे श्रवणे ध्वनौ ।शब्दप्राट् तु द्वयोः शिष्ये त्रि तु शाब्दे प्रकीर्त्तितः ॥ ५८४४ ॥
46.5844 · p. 433
अनुष्टुप्
शमस्तु शान्तौ पुँल्लिङ्गे माने च चतुरङ्गुले ।शमथस्तु जले शान्तावप्याश्रमपदे पुमान् ॥ ५८४५ ॥
46.5845 · p. 433
अनुष्टुप्
शमनो ना यमे शान्तौ क्ली नना शमने नना ।तथैव शमयत्यर्थे त्रि तु स्याच्छान्तिसाधने ॥ ५८४६ ॥
46.5846 · p. 433
अनुष्टुप्
शमलं तु मतं पापे विष्ठायां च नपुंसकम् ।अथ स्त्री शमिता चूर्णे गोधूमस्येति यादवः ॥ ५८४७ ॥
46.5847 · p. 433
अनुष्टुप्

शमी-शय्या

असाध्विव तदाभाति शब्दज्ञानां यदाग्रणीः ।गोधूमचूर्णसमिधं धान्तं पुँल्लिङ्गमुक्तवान् ॥ ५८४८ ॥
46.5848 · p. 434
अनुष्टुप्
शाकटायन आचार्यस्तस्यापभ्रंश इत्ययम् ।भासते चापि साध्वी चेदीप्स्ये शमयतेस्त्रिषु ॥ ५८४९ ॥
46.5849 · p. 434
अनुष्टुप्
शमी तु स्यात्सक्तुफलासंज्ञवृक्षान्तरे स्त्रियाम् ।मुद्गमाषादिसस्यानां बीजकोश्यां च चर्मणि ॥ ५८५० ॥
46.5850 · p. 434
अनुष्टुप्
शम्बो वज्रे लोहमये वलये मुसलाग्रगे ।अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात्कृषाविति ॥ ५८५१ ॥
46.5851 · p. 434
अनुष्टुप्
शम्बरो मेघगिर्योर्दैत्यान्तरेऽप्युरसा स्त्रियाम् ।दधाने द्वे तु मत्स्येऽल्पहरिणेऽपि मृगान्तरे ॥ ५८५२ ॥
46.5852 · p. 434
अनुष्टुप्
क्लीबं तु सलिले बौद्धव्रतभेदे बलेऽपि च ।शम्बूको जलशुक्तौ द्वे शम्बूका तु भवेत्स्त्रियाम् ॥ ५८५३ ॥
46.5853 · p. 434
अनुष्टुप्
गजस्य मुखमध्यस्य पार्श्वाधोदेशयोरथ ।ना सूक्ष्मे तण्डुलकणे तण्डुलस्थमलेऽपि च ॥ ५८५४ ॥
46.5854 · p. 434
अनुष्टुप्
शम्भुर्ब्रह्मणि विष्णौ च शिवेऽर्हति च पुंस्ययम् ।शम्या तु युगकीलेऽस्त्री माने षट्त्रिंशदङ्गुले ॥ ५८५५ ॥
46.5855 · p. 434
अनुष्टुप्
अथो शमयितव्ये त्रिः शमितव्ये तु तन्नपि ।शयो ना शयने पाणौ कृकलासे तु स द्वयोः ॥ ५८५६ ॥
46.5856 · p. 434
अनुष्टुप्
शयथस्तु प्रदोषेऽपि मृत्यौ पुंसि प्रकीर्त्तितः ।द्वयोस्त्वजगरे मत्स्ये निद्रालौ त्वेष वाच्यवत् ॥ ५८५७ ॥
46.5857 · p. 434
अनुष्टुप्
शय्यायां शयनं क्लीबं भावे च शेरतेर्मतम् ।शयानको गिरौ द्वे त्वजगरे कृकलासके ॥ ५८५८ ॥
46.5858 · p. 434
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
शयालुस्तु शृगाले द्वे निद्रालावभिधेयवत् ।उदुम्बरद्रुमे पुंसि स्याद्वृक्षावयवान्तरे ॥ ५८५९ ॥
46.5859 · p. 434
अनुष्टुप्
क्लीबं तू दुम्बरफले गन्धद्रव्यान्तरेऽपि च ।शयुस्तु नाऽर्के स्वप्ने च द्वयोस्त्वजगरे मतः ॥ ५८६० ॥
46.5860 · p. 434
अनुष्टुप्
शयुनोऽजगरे द्वे स्याच्छशाङ्कस्वप्नयोस्तु ना ।शय्या स्त्री शयनीये च ग्रन्थगुम्फे च सा त्रि तु ॥ ५८६१ ॥
46.5861 · p. 434
अनुष्टुप्

शरः-शल्यम्‌

शयसाधौ पाणिभवे मन्दिरे तु नपुंसकम् ।शरः पुंसि शरद्वायौ क्षीरादेर्मुखबन्धने ॥ ५८६२ ॥
46.5862 · p. 435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
इन्द्रसंज्ञतृणस्तम्बे हिंसामार्गणयोरपि ।अथ ह्रीबेरजलयोः शरमुक्तं नपुंसकम् ॥ ५८६३ ॥
46.5863 · p. 435
अनुष्टुप्
शरठं त्वायुधे चापे क्रीडाशीले तु भेद्यवत् ।शरत् संवत्सरे मेघाऽत्यये चापि स्त्रियां मता ॥ ५८६४ ॥
46.5864 · p. 435
अनुष्टुप्
शरभः सिंहशत्रौ स्यादष्टपात्संज्ञके मृगे ।द्वयोर्मृगान्तरे चापि करभे च प्रकीर्त्तितः ॥ ५८६५ ॥
46.5865 · p. 435
अनुष्टुप्
अविवाह्यविशीर्णाङ्गकन्यायां शरभा स्त्रियाम् ।शरवारिः शरास्ये ना पातक्यशरजीवयोः ॥ ५८६६ ॥
46.5866 · p. 435
अनुष्टुप्
शरुः स्यादायुधे क्रोधे द्वयोस्तु स्यात्कपिञ्जले ।शर्करा च सितायां च रोगभेदे शिलान्तरे ॥ ५८६७ ॥
46.5867 · p. 435
अनुष्टुप्
शर्करावत्प्रदेशे च शकलेऽल्पकपालके ।गुडे च खण्डे विकृतौ स्त्रीलिङ्गे परिकीर्त्तिता ॥ ५८६८ ॥
46.5868 · p. 435
अनुष्टुप्
शर्म गेहे सुखेऽप्युक्तं नकारान्तं नपुंसकम् ।शर्वः शिवे ना शर्वाणी स्यान्मृडान्यां स्त्रियामियम् ॥ ५८६९ ॥
46.5869 · p. 435
अनुष्टुप्
शर्वरं तमसि क्लीबं शर्वरः शिवचन्द्रयोः ।शर्वरी तु स्त्रियां रात्रौ सन्ध्यायामपि कीर्त्तिता ॥ ५८७० ॥
46.5870 · p. 435
अनुष्टुप्
शलं तु शलले क्लीबं तल्लोम्नि परिकीर्त्तिम् ।शलस्तु गन्तरि त्रि स्याद्द्वयोरुष्ट्रे च गर्दभे ॥ ५८७१ ॥
46.5871 · p. 435
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शलली नप्स्त्रियोः श्वाविल्लोम्नि श्वाविधि तु द्वयोः ।शलाका तु भवेत्सूच्यां द्यूतोपकरणेऽपि च ॥ ५८७२ ॥
46.5872 · p. 435
अनुष्टुप्
अस्थूलदीर्घकाष्ठादिमये वस्तुनि च स्त्रियाम् ।शल्कं तु शकले चात्तरसेऽपि शकले मतम् ॥ ५८७३ ॥
46.5873 · p. 435
अनुष्टुप्
वल्कले मुद्गरे चाथ त्रिषु भीतौ च पातरि ।शल्यमस्त्री शलाकायां शङ्कुसंज्ञायुधान्तरे ॥ ५८७४ ॥
46.5874 · p. 435
अनुष्टुप्
विद्ध्वा शरीरं लीनेऽन्तःकाण्डेऽथ मदनद्रुमे ।मद्रराजान्तरे चाथ श्वाविट्संज्ञमृगे द्वयोः ॥ ५८७५ ॥
46.5875 · p. 435
अनुष्टुप्

शल्यकः-शाकटी

शल्यकस्तु पुमाञ्श्वेतखदिरे कदराह्वये ।शल्यकी तु द्वयोरेषा मृगभेदे प्रकीर्त्तिता ॥ ५८७६ ॥
46.5876 · p. 436
अनुष्टुप्
शवस्तु कुणपे न स्त्री जले तु क्ली गतौ तु ना ।शशो बोलौषधे द्वे तु रोगकर्णमृगे मतः ॥ ५८७७ ॥
46.5877 · p. 436
अनुष्टुप्
शश्शरीकस्तु पुष्पाख्ये द्वयोर्लावाख्यपक्षिणि ।क्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु ॥ ५८७८ ॥
46.5878 · p. 436
अनुष्टुप्
शष्कुल्यपूपभेदेऽपि स्यात्कर्णावयवान्तरे ।शष्पं बालतृणे रूपे रोमभेदे च न स्त्रियाम् ॥ ५८७९ ॥
46.5879 · p. 436
अनुष्टुप्
शस्ता मित्रावरुणयोर्ना ब्रह्मणि पितर्यपि ।चण्डाले तु द्वयोः शस्ता त्रिषु स्तोतरि कीर्त्तितः ॥ ५८८० ॥
46.5880 · p. 436
अनुष्टुप्
शस्त्री तु छुरिकायां स्त्री शस्त्रं तु क्लीबमायुधे ।अयस्पृङ्मन्त्रभेदेषु शंसायाः साधनेषु च ॥ ५८८१ ॥
46.5881 · p. 436
अनुष्टुप्
शस्त्रकष्टङ्कणक्षारे शस्त्रकं त्वयसि स्मृतम् ।शाको हरितके पत्रपुष्पादिदशके तरोः ॥ ५८८२ ॥
46.5882 · p. 436
अनुष्टुप्
मूलपत्रकरीराग्रफलकाण्डाधिरूढकम् ।त्वक्पुष्पं कवकं चेति शाकं दशविधं स्मृतम् ॥ ५८८३ ॥
46.5883 · p. 436
अनुष्टुप्
इत्युक्ते नस्त्रियां ना तु पृथुच्छदतरौ मतः ।शक्तौ सहाये सुहृदि साधनेऽपि शकेर्घञि ॥ ५८८४ ॥
46.5884 · p. 436
अनुष्टुप्
भारताऽनन्तरे द्वीपभेदेऽपि शकटेऽपि च ।शिरीषेऽप्यथ शाका तु हरीतक्यां प्रकीर्त्तिता ॥ ५८८५ ॥
46.5885 · p. 436
अनुष्टुप्
शाकी तु स्त्री महाशाके नानाशाकसमाहृतौ ।शाककोष्ठा तु जीवन्तीडोडीसंज्ञकशाकयोः ॥ ५८८६ ॥
46.5886 · p. 436
अनुष्टुप्
शाकम्भरी तु दुर्गायां लवणह्रदभिद्यपि ।शाकाख्यः शाकवृक्षे ना शाके तु स्यान्नपुंसकम् ॥ ५८८७ ॥
46.5887 · p. 436
अनुष्टुप्
अथ शाकट इत्येष पुमान्पलशतात्मनः ।तुलासंज्ञस्य मानस्य विंशत्यात्मकभारके ॥ ५८८८ ॥
46.5888 · p. 436
अनुष्टुप्
शाकटी ना पराभिख्ये यत्तु मानं व्यवस्थितम् ।उक्तात्तु यद्दशगुणं ततो दशगुणं च यत् ॥ ५८८९ ॥
46.5889 · p. 436
अनुष्टुप्

शाकटीनः-शाक्त्यं

तस्माच्च यद्दशगुणं तस्मिन् क्ली भेद्यवत्पुनः ।शकटेः शकटस्यापि सम्बन्धिनि च वाहके ॥ ५८९० ॥
46.5890 · p. 437
अनुष्टुप्
शकटस्याथ शाकट्यर्थे निदानकृतोदिते ।शाकटीनस्तुलानां स्याद्विंशत्यात्मकमानके ॥ ५८९१ ॥
46.5891 · p. 437
अनुष्टुप्
शकटस्य तु सम्बन्धिन्ययं वाच्यवदिष्यते ।शाकलं शकलाख्येन रक्ते द्रव्येण वाच्यवत् ॥ ५८९२ ॥
46.5892 · p. 437
अनुष्टुप्
शाकलानां च शकलस्यापि सम्बन्धिनि स्मृतम् ।अस्त्रियां शकले पुंसि काष्ठखण्डकृताङ्गदे ॥ ५८९३ ॥
46.5893 · p. 437
अनुष्टुप्
ऋषिभेदे सर्पभेदे शाकलं तु पुरान्तरे ।मद्राणां सामभेदेऽपि शाकल्यश्रुतियागयोः ॥ ५८९४ ॥
46.5894 · p. 437
अनुष्टुप्
बाह्लीकग्रामभेदेऽपि नपुंसकमुदीरितम् ।शाकी त्रिषु सहायेऽथ शाकिनी डाकिनीभिदि ॥ ५८९५ ॥
46.5895 · p. 437
अनुष्टुप्
तथैव शाकक्षेत्रेऽपि स्त्रीत्व एव प्रकीर्त्तिता ।शाकुनः स्याच्छाकुनिके निमित्तेऽप्यथ वाच्यवत् ॥ ५८९६ ॥
46.5896 · p. 437
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छा (wrong syllable)
शकुनेः शकुनस्यापि सम्बन्धिनि तथा मतः ।परोत्तापिन्यपि भवेत्पश्चात्तापिनि कस्यचित् ॥ ५८९७ ॥
46.5897 · p. 437
अनुष्टुप्
वैतंसिकः शाकुनिको निमित्तज्ञे तथा त्रिषु ।केषाञ्चिन्मत्स्यबन्धेऽपि तथा शकुनयोगिनि ॥ ५८९८ ॥
46.5898 · p. 437
अनुष्टुप्
शाकुनी मत्स्यबन्धे त्रिः पुमान्स्यादसुरान्तरे ।शाकुनेयो लघूलूके द्वे त्रिः शकुनियोगिनि ॥ ५८९९ ॥
46.5899 · p. 437
अनुष्टुप्
पुँल्लिङ्गः शाकुनेयोऽयं वृकनाम्न्यसुरे मतः ।शाकुन्तलो ना भरते क्लीबं स्यान्नाटकान्तरे ॥ ५९०० ॥
46.5900 · p. 437
अनुष्टुप्
द्वयोः शाकुलिको मत्स्यबन्धे त्रिर्मत्स्यसंहतौ ।शाक्करो वृषभे सोमविशेषेऽप्यथ वाच्यवत् ॥ ५९०१ ॥
46.5901 · p. 437
अनुष्टुप्
शक्करीयोगिनि क्ली तु यागसामभिदोर्भवेत् ।शाक्तं सामान्तरे क्ली त्रिस्तान्त्रिके ना पराशरे ॥ ५९०२ ॥
46.5902 · p. 437
अनुष्टुप्
शाक्तिकस्त्रिः शक्तिजीविन्यपि स्यात्तान्त्रिकान्तरे ।शाक्त्यं सामान्तरे ना तु गौरवीति ऋषौ भवेत् ॥ ५९०३ ॥
46.5903 · p. 437
अनुष्टुप्

शाक्यः-शातः

शाक्यो गौतमबुद्धे ना त्रिः शकाभिजनादिके ।शाक्री स्त्रियां स्याद्दुर्गायां शाक्रं ज्येष्ठर्क्ष इष्यते ॥ ५९०४ ॥
46.5904 · p. 438
अनुष्टुप्
शाखा तरोर्लतायां च देहाङ्घ्र्यङ्गुलिबाहुषु ।गृहपार्श्वे द्वारपार्श्वस्तम्भे भागप्रभागयोः ॥ ५९०५ ॥
46.5905 · p. 438
अनुष्टुप्
पक्षान्तरेऽन्तिके वर्षे वेदव्यक्तिषु च स्त्रियाम् ।शाखस्तु स्कन्ददेवस्य पृष्ठजे स्यात्सुरान्तरे ॥ ५९०६ ॥
46.5906 · p. 438
अनुष्टुप्
करञ्जेऽपि च पुँल्लिङ्गः शाखा व्याप्तौ द्वयोर्मता ।शाखामृगो वानरे द्वे केषांचिच्चिक्षुरेऽपि च ॥ ५९०७ ॥
46.5907 · p. 438
अनुष्टुप्
शाखाशिफा वरोहः स्यान्मूलाच्चाग्रङ्गता लता ।शाखी तु वृक्षसामान्ये शाखिनस्तु नृभूमनि ॥ ५९०८ ॥
46.5908 · p. 438
अनुष्टुप्
तुरुष्केष्वथ शाखी तु स्याच्छाखावति वाच्यवत् ।शाख्यस्तु शाखासदृशे शाखायोगिनि च त्रिषु ॥ ५९०९ ॥
46.5909 · p. 438
अनुष्टुप्
शाङ्करः शङ्करस्य स्यात्सम्बन्धिन्येष वाच्यवत् ।शाङ्करी तु समाम्नाय वर्णानां शिवसम्मते ॥ ५९१० ॥
46.5910 · p. 438
अनुष्टुप्
क्लीबं शाङ्करमार्द्राभे पुमान्शाकरवृदृषे ।शाङ्करिस्तु गणेशेऽपि कार्त्तिकेये तथा पुमान् ॥ ५९११ ॥
46.5911 · p. 438
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 वृ (wrong syllable)
शाङ्खस्त्रिः शङ्खसम्बन्धिन्यथ शङ्खस्वने तु नप् ।शाङ्खिकस्त्रिः शङ्खयोगिन्यपि शङ्खध्मि कीर्त्तितः ॥ ५९१२ ॥
46.5912 · p. 438
अनुष्टुप्
द्वयोस्तु शङ्खककृमिजातौ शङ्खारिनामनि ।शाडवो रागभेदेऽम्लमधुरेऽथ त्रि तद्वति ॥ ५९१३ ॥
46.5913 · p. 438
अनुष्टुप्
शाणो ना निकषे द्वे तु शाणः शाणा चतुष्टये ।माषाणामथ दाने स्त्री शाणी गोण्यामपीष्यते ॥ ५९१४ ॥
46.5914 · p. 438
अनुष्टुप्
शणसम्बन्धिनि त्वेषा शाणी स्याज्जैनचीवरे ।तथा जवनिकाभेदे संज्ञायां त्रिस्तु यौगिके ॥ ५९१५ ॥
46.5915 · p. 438
अनुष्टुप्
शाण्डिल्यस्त्वृषिभेदे ना स्याद्बिल्वे पावकान्तरे ।शाण्डिल्यस्य त्वपत्ये द्वे गोत्रे स्त्री तत्र शाण्डिली ॥ ५९१६ ॥
46.5916 · p. 438
अनुष्टुप्
शाण्डिलः शाण्डिल्यजाते शाण्डिलीत्यग्निमातरि ।शातस्तीक्ष्णे कृशे चापि शतयोगिनि वाच्यवत् ॥ ५९१७ ॥
46.5917 · p. 438
अनुष्टुप्

शातकुम्भं-शापः

क्ली धत्तूरसुखयोः पुंसि भ्रंशक्षयादिषु ।शातकुम्भं सुवर्णे क्ली तत्सम्बन्धिनि तु त्रिषु ॥ ५९१८ ॥
46.5918 · p. 439
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 क्ली (syllables merged)