कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ष

षट्कः-ष्ठ्यमः

षट्कः षण्णां गणे त्रि स्याद्विशेषात्कामरोषयोः ॥ ६१९७ ॥
47.6197 · p. 459
मदलोभमुदां मानस्य च सङ्घे पुमान्मतः ।षडस्रा तु स्त्रियामेषा स्याच्छागलकपादपे ॥ ६१९८ ॥
47.6198 · p. 459
अनुष्टुप्
प्रसिद्धे चापि शार्ङ्गाष्ठादासाप्रभृतिभिः पदैः ।वनस्पत्यन्तरे त्रिस्तु षट्कोणे परिकीर्त्तिता ॥ ६१९९ ॥
47.6199 · p. 459
अनुष्टुप्
षड्ग्रन्था पिप्पलीमूले वचाशट्योरपि स्त्रियाम् ।षण्डः स्यादिट्चरे षण्डे मूर्धन्योष्मादिकः पुमान् ॥ ६२०० ॥
47.6200 · p. 459
अनुष्टुप्
एष वेर्षवरे नीलवृषोत्सर्गे च कीर्त्तितः ।षण्डोऽस्त्री वृक्षपद्मादिवृन्दे पुंसि तु गोपतौ ॥ ६२०१ ॥
47.6201 · p. 459
अनुष्टुप्
षण्डाली स्त्री सरागायां तैलमाने सरस्यपि ।षष्टिहायन-शब्दोऽयं गजे स्याद्द्वे स्त्रियां पुनः ॥ ६२०२ ॥
47.6202 · p. 459
अनुष्टुप्
समाहारद्विगौ षष्टिहायनी भेद्यवत्पुनः ।बहुव्रीहौ हि तत्रापि स्त्रियां ङीप् षष्टिहायनी ॥ ६२०३ ॥
47.6203 · p. 459
अनुष्टुप्
वयस्येवात्र ङीबुक्तः शालादौ षष्टिहायना ।षष्ठं तु पूरणे षण्णां त्रिः षष्ठी तु स्त्रियां तिथौ ॥ ६२०४ ॥
47.6204 · p. 459
अनुष्टुप्
स्कान्द्यां षष्ठविभक्तौ च पार्वत्याञ्च प्रकीर्त्तिता ।षाडवो गीतिभेदेऽम्लमधुरोन्मिश्रिते रसे ॥ ६२०५ ॥
47.6205 · p. 459
अनुष्टुप्
षाडवस्त्वम्लमधुररसयुक्ते त्रिषु स्मृतः ।षाण्मासी सप्तमे मासि कर्त्तव्ये श्राद्ध इष्यते ॥ ६२०६ ॥
47.6206 · p. 459
अनुष्टुप्
षण्मासीयोगिनि त्वेष वाच्यवत्परिकीर्त्तितः ।षाष्ठिकं व्रतभेदे षष्ठकालांशे प्रवर्त्तने ॥ ६२०७ ॥
47.6207 · p. 459
अनुष्टुप्
भेद्यवत्तु क्रतुमति षष्ठाहभववस्तुनि ।षिङ्गो वेश्यापतौ पुंसि वेश्याचार्येऽपि कीर्त्तितः ॥ ६२०८ ॥
47.6208 · p. 459
अनुष्टुप्
पलमाने षोडशिका न नाथाऽस्त्री पलद्वये ।ष्ट्यूमश्चन्द्रे जले रश्मौ तन्तौ स्यान्मङ्गलेऽपि च ॥ ६२०९ ॥
47.6209 · p. 459
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षो (wrong syllable)