कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

प (3/7)

पाली स्त्री जडकन्यायाम्पालस्तु त्रिषु पालके ।पालस्त्राणे पुमानस्त्री द्रोणाख्ये काष्ठपात्रके ॥ ३३०७ ॥
37.3307 · p. 244
अनुष्टुप्
पालकस्तु पुमान्हस्तिशिरोमध्यस्य पार्श्वयोः ।गजज्वरे च द्वे त्वश्वे क्ली तु कुष्ठाख्यभेषजे ॥ ३३०८ ॥
37.3308 · p. 244
अनुष्टुप्
पालङ्कः शल्लकीशाकभेदयोः प्राजिपक्षिणि ।पालिः कर्णलताऽग्रेऽश्रौ पङ्क्तावङ्कप्रभेदयोः ॥ ३३०९ ॥
37.3309 · p. 244
अनुष्टुप्

पाली-पिङ्गला

छात्रादिदेये स्त्री पाली यूकासश्मश्रुयोषितोः ।पालिकस्तु पुमान्वृक्षे नृपतावपि कीर्त्तितः ॥ ३३१० ॥
37.3310 · p. 245
अनुष्टुप्
भेद्यवद्गाथके मुख्ये पूज्ये रक्षक एव च ।पालुकः सूपकारेऽभिधेयवत्प्रोच्यतेऽथ च ॥ ३३११ ॥
37.3311 · p. 245
अनुष्टुप्
लघुवाचिनि सूपे ना स्यादध्वर्यौ च पालुकः ।पालूरस्तु द्वयोर्दूते क्लीबन्त्वन्ध्रपुरान्तरे ॥ ३३१२ ॥
37.3312 · p. 245
अनुष्टुप्
पावकोऽग्नौ सदाचारे वह्निमन्थे च चित्रके ।भल्लातके विडङ्गे च पुँल्लिङ्गः परिकीर्त्तितः ॥ ३३१३ ॥
37.3313 · p. 245
अनुष्टुप्
पावनन्तु जलेऽपि स्यात्प्रायश्चित्ते नपुंसकम् ।अथ स्यात्पावयितरि पवितर्यपि वाच्यवत् ॥ ३३१४ ॥
37.3314 · p. 245
अनुष्टुप्
पावनस्तु पुमान्व्याप्ते पावकेऽपि प्रकीर्त्तितः ।पाशो ना पाशनायां सुब्धातोः पाशयतेर्घञि ॥ ३३१५ ॥
37.3315 · p. 245
अनुष्टुप्
रज्ज्वादिप्रान्तविन्यस्तग्रन्थिभेदे तथैव च ।मृगपक्ष्यादिबन्धार्थयन्त्रभेदे च तत्कृते ॥ ३३१६ ॥
37.3316 · p. 245
अनुष्टुप्
स्त्री तु केशाच्छिखायां स्यात्केशपाशिन्यथ त्रिषु ।याप्ये प्रत्ययसंज्ञः स स्वार्थिको निहतस्वरः ॥ ३३१७ ॥
37.3317 · p. 245
अनुष्टुप्
पाशी तु वरुणे पुंसि व्याधे पाशी च पाशिनी ।पुमान्पाशुपतो वृक्षे शिवमल्लीबकाभिधे ॥ ३३१८ ॥
37.3318 · p. 245
अनुष्टुप्
त्रि स्यात्पशुपतेः सम्बन्धिनि क्ली तु व्रतान्तरे ।पिङ्गो मण्डलिसर्पाणां प्रभेदे महिषे द्वयोः ॥ ३३१९ ॥
37.3319 · p. 245
अनुष्टुप्
ना पिशङ्गाह्वये वर्णे ऋषिभेदे च सर्षपे ।पिशङ्गवर्णयुक्ते तु त्रि स्त्रियां पिङ्गलाह्वये ॥ ३३२० ॥
37.3320 · p. 245
अनुष्टुप्
पिङ्गा पक्ष्यन्तरे ब्रह्मरीतिसंज्ञे च लोहके ।तथा गोरोचनाहिङ्गुनालिकाचण्डिकासु च ॥ ३३२१ ॥
37.3321 · p. 245
अनुष्टुप्
पिङ्गी तु शम्याम्पिङ्गन्तु तालके क्लीबमिष्यते ।पिङ्गलो नागमुनिभिद्विष्णुब्रह्मशिवाग्निषु ॥ ३३२२ ॥
37.3322 · p. 245
अनुष्टुप्
रवेरन्यतमे पारिपार्श्विकानां पिशङ्गके ।वर्णे तद्वति तु त्रि स्त्री करिण्यां पिङ्गला मता ॥ ३३२३ ॥
37.3323 · p. 245
अनुष्टुप्

पिङ्गलः-पिठरी

पुण्डरीकाभिधानस्याग्नेयदिक्करिणस्तथा ।षष्णामन्यतमायाञ्च निर्विषाणां जलौकसाम् ॥ ३३२४ ॥
37.3324 · p. 246
अनुष्टुप्
शरीरनाडिभेदे च पक्षिजात्यन्तरेऽपि च ।महाभारतविख्यातवेश्यायां लोहभिद्यपि ॥ ३३२५ ॥
37.3325 · p. 246
अनुष्टुप्
ब्रह्मरीतिसमाख्यायां ह्रीबेरे तु नपुंसकम् ।द्वयोर्बिडाले नकूले वानरेऽपि च पिङ्गलः ॥ ३३२६ ॥
37.3326 · p. 246
अनुष्टुप्
पिचुर्ना कुष्ठभित्कर्षमानतूलसुरान्तरे ।पिचुलो झावुकेऽपि स्यादिज्जले जलवायसे ॥ ३३२७ ॥
37.3327 · p. 246
अनुष्टुप्
पिच्चटो नेत्ररोगे ना क्लीबं सीसकरङ्गयोः ।पिच्छा पूगच्छटाकोशमोचाशाल्मलिवेष्टके ॥ ३३२८ ॥
37.3328 · p. 246
अनुष्टुप्
सर्वपिच्छिलमण्डे च पङ्क्तावश्वपदामये ।यवाग्वाञ्च स्त्रियां पिच्छस्तु द्वयोर्बर्हचूडयोः ॥ ३३२९ ॥
37.3329 · p. 246
अनुष्टुप्
पक्षिणस्तु छदे क्लीबं पिच्छं पुच्छे तु पुंस्ययम् ।पिच्छः स्याद्गुणभेदे च यद्वा पिच्छिल उच्यते ॥ ३३३० ॥
37.3330 · p. 246
अनुष्टुप्
पिच्छूली त्रिस्तृणस्तम्बे राशौ पिच्छूल एष ना ।पिञ्जरः पीतरक्ताख्ये मिश्रवर्णान्तरे पुमान् ॥ ३३३१ ॥
37.3331 · p. 246
अनुष्टुप्
त्रि तु तद्वत्यथ क्लीबं हरितालेऽपि पिञ्जरम् ।पिञ्जा तूले हरिद्रायाम्पिञ्जन्तु क्ली बले स्मृतम् ॥ ३३३२ ॥
37.3332 · p. 246
अनुष्टुप्
पिञ्जस्तु स्याद्वधे पुंसि व्याकुले त्वभिधेयवत् ।पिटो रोमपुटे तद्वत्कण्डोलेऽपि पुमान्मतः ॥ ३३३३ ॥
37.3333 · p. 246
अनुष्टुप्
पिटं पिटाटिकाख्ये क्ली छदिषोऽवयवे मतम् ।पिटकस्त्रिषु विस्फोटे मञ्जूषायाम्पुमान्मतः ॥ ३३३४ ॥
37.3334 · p. 246
अनुष्टुप्
पिठरम्मुस्तके मन्थदण्डेऽपि स्यान्नपुंसकम् ।पिठरी तु स्त्रियां क्लीबेऽपि स्यात्स्थाल्युखयोरियम् ॥ ३३३५ ॥
37.3335 · p. 246
अनुष्टुप्

पिण्डः-पित्र्यम

पिण्डो बाले बले सान्द्रे देहागारैकदेशयोः ।देहमात्रे निकाये च गोलसिल्हकयोरपि ॥ ३३३६ ॥
37.3336 · p. 247
अनुष्टुप्
ओड्रपुष्पे च पुंसि स्यात्क्लीबमाजीवनायसोः ।पिण्डी तु पिण्डीतगरेऽलाबुखर्जूरभेदयोः ॥ ३३३७ ॥
37.3337 · p. 247
अनुष्टुप्
पिण्डपुष्पमशोके च जवायाञ्च कुशेशये ।स्त्रियाम्पिण्डफलाऽलाबुवल्ल्यां योगे यथायथम् ॥ ३३३८ ॥
37.3338 · p. 247
अनुष्टुप्
पिण्डारः क्षपणे गोपे महिषीरक्षके द्रुमे ।पिण्डारको ना पिण्डीके चित्राङ्गद्वीपिनि द्वयोः ॥ ३३३९ ॥
37.3339 · p. 247
अनुष्टुप्
पिण्डिर्ना पिष्टधानादिचूर्णे निःस्नेहपिण्डके ।पिण्डिकस्तु पुमान्गेहावयवेऽलिन्दसंज्ञके ॥ ३३४० ॥
37.3340 · p. 247
अनुष्टुप्
पिण्डिका तु स्त्रियान्नाभौ रथचक्रस्य कीर्त्तिता ।जङ्घापिण्डे तथा हस्तिचरणावयवान्तरे ॥ ३३४१ ॥
37.3341 · p. 247
अनुष्टुप्
पिण्डितो ना तुरुष्केऽथ त्रिषु स्याद्गणिते घने ।पिण्डिलस्तु पुमान्मेघे हिमे क्ली गणके त्रिषु ॥ ३३४२ ॥
37.3342 · p. 247
अनुष्टुप्
पिण्डीतकः स्यात्तगरे मदनाख्यमहीरुहे ।पिण्याकोऽस्त्री तुरुष्काख्यनिर्यासे हिङ्गुकिण्वयोः ॥ ३३४३ ॥
37.3343 · p. 247
अनुष्टुप्
श्रीपिष्टाख्ये च निर्यासे यवानीतिलकल्कयोः ।पितामहो विरिञ्चे ना पितुश्च पितरि स्मृतः ॥ ३३४४ ॥
37.3344 · p. 247
अनुष्टुप्
पितामही पुनः स्त्रीत्वे पितुर्मातरि कीर्त्तिता ।पितुस्त्वन्ने विरिञ्चे च सूर्ये चापि पुमान्मतः ॥ ३३४५ ॥
37.3345 · p. 247
अनुष्टुप्
पितृप्रपा तु योगार्थे गयायामाम्रसेचने ।पित्तलं त्वारसंज्ञे क्ली लोहभेदे स्त्रियाम्पुनः ॥ ३३४६ ॥
37.3346 · p. 247
अनुष्टुप्
पित्तला तोयपिप्पल्यां त्रिस्तु पित्तकरे भवेत् ।पित्र्या तु पूर्णिमायां स्त्री पित्र्यन्तु पितृदैवते ॥ ३३४७ ॥
37.3347 · p. 247
अनुष्टुप्

पित्सन्-पीठं

पितृसाधौ पितुश्चैवागतादौ वाच्यवन्मतम् ।पित्सन्खगे द्वयोस्त्रिस्तु पत्तुं पतितुमेष्टरि ॥ ३३४८ ॥
37.3348 · p. 248
अनुष्टुप्
पिदारो महिषीपाले गोपे द्वे क्षपणे तु ना ।पिनाकः कार्मुके शम्भोः शूलेऽपि परिकीर्त्तितः ॥ ३३४९ ॥
37.3349 · p. 248
अनुष्टुप्
पांशुवर्षे च दण्डे च पुंनपुंसकयोरयम् ।द्वयोः पिपतिषन्पक्षिण्यथ त्रिः पतनोत्सुके ॥ ३३५० ॥
37.3350 · p. 248
अनुष्टुप्
पिप्परस्तु पुमान्वृक्षभेदे स्यात्स्त्री तु पिप्परी ।पिप्पलन्तु जले क्लीबं वृक्षाणां च फले तथा ॥ ३३५१ ॥
37.3351 · p. 248
अनुष्टुप्
वस्त्रच्छेदप्रभेदे च सूचीसूत्रेऽपि चूचुके ।पिप्पली तु कणायाञ्च कर्णमूले च हस्तिनः ॥ ३३५२ ॥
37.3352 · p. 248
अनुष्टुप्
मृज्यमानेऽतिवर्गस्य सामभेदे च सप्तमे ।निरङ्गुले पक्षिभेदे ना त्वश्वत्थे हि पिप्पलः ॥ ३३५३ ॥
37.3353 · p. 248
अनुष्टुप्
क्लीबं पिप्पलकं स्यूतिसूत्रे वृन्ते स्तनस्य च ।पियालो वृक्षयोः सन्नकद्रुराजादनाख्ययोः ॥ ३३५४ ॥
37.3354 · p. 248
अनुष्टुप्
क्ली तु तत्प्रसवे द्राक्षायां पियाला स्त्रियां मता ।पिल्लस्त्रिषु स्यात्क्लिन्नेऽक्षिण तथा क्लिन्नाक्षिमत्यपि ॥ ३३५५ ॥
37.3355 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पिशाचस्त्रिषु सोन्मादे देवयोन्यन्तरे द्वयोः ।पिशितं क्ली भवेन्मांसे मांस्यां तु पिशिता स्त्रियाम् ॥ ३३५६ ॥
37.3356 · p. 248
अनुष्टुप्
पिशीलं क्लीबमुदितमेतदंसद्वयान्तरे ।अथ स्त्रियां पिशीलीति वीणाभेदे प्रकीर्त्तिता ॥ ३३५७ ॥
37.3357 · p. 248
अनुष्टुप्
पिशुनं कुङ्कुमे रूपे तगरे च नपुंसकम् ।नारदेऽपि च काले ना सूचकक्रूरयोस्त्रिषु ॥ ३३५८ ॥
37.3358 · p. 248
अनुष्टुप्
स्पृक्कायां तु स्त्रियामेषा पिशुना परिकीर्त्तिता ।पिष्टको घृतपूपादौ नेत्ररोगान्तरेऽपि च ॥ ३३५९ ॥
37.3359 · p. 248
अनुष्टुप्
पीको जलाशये योनौ पुँल्लिङ्गः परिकीर्त्तितः ।पीठं स्यादासने स्थाने तीर्थासनभिदोरपि ॥ ३३६० ॥
37.3360 · p. 248
अनुष्टुप्

पीठकः-पीतलः

अवधापूरणे ना तु सूर्ये मत्स्यान्तरेऽपि च ।कंसामात्येऽपि कस्मिंश्चिदसुरेऽपि तथोदितः ॥ ३३६१ ॥
37.3361 · p. 249
अनुष्टुप्
पीठकस्त्वस्त्रियां पीठे शिविकायामपि क्वचित् ।पीठिका तु स्त्रियां क्षुद्रपीठसुन्दरपीठयोः ॥ ३३६२ ॥
37.3362 · p. 249
अनुष्टुप्
पीठमर्दोऽतिधृष्टे त्रिर्नायकस्य प्रिये तु ना ।पीडनं मर्दने दुःखदानेप्यावरणेप्यना ॥ ३३६३ ॥
37.3363 · p. 249
अनुष्टुप्
पीडा व्यथा शिरोमालाकृपासु सरलद्रुमे ।उपरागोपेक्षणादौ केषांचित्पिटकेपि सा ॥ ३३६४ ॥
37.3364 · p. 249
अनुष्टुप्
पीडितं कृतपीडे त्रिः क्ली पीडारतबन्धयोः ।पीतो ना गन्धके हारिद्राभवर्णे च कीर्त्तितः ॥ ३३६५ ॥
37.3365 · p. 249
अनुष्टुप्
शाल्मलिद्वीपवैश्येऽपि गोमूत्रोद्भववर्णके ।त्रि तु तद्वर्णवति च पिबतेः पीयतेस्तथा ॥ ३३६६ ॥
37.3366 · p. 249
अनुष्टुप्
कर्मण्यथ हरिद्रायां पीता पीतौ तु नप् स्मृतम् ।पीतकाबेरमित्येतत्कुङ्कुमे पित्तलेऽपि च ॥ ३३६७ ॥
37.3367 · p. 249
अनुष्टुप्
पीतचन्दनमुद्दिष्टं कोलीयकहरिद्रयोः ।दीपके दर्पणे चापि केषाञ्चित्पीतचम्पकः ॥ ३३६८ ॥
37.3368 · p. 249
अनुष्टुप्
स्त्री पीततण्डुला कङ्गुधान्ये स्याद्यौगिके त्रिषु ।पीतदारुस्तु नप्पीतचन्दने देवदारुणि ॥ ३३६९ ॥
37.3369 · p. 249
अनुष्टुप्
अग्नौ सुवर्णे [क्लीबं स्यात् ] ताम्रसारे च चन्दने ।पीतदुग्धा मता स्वर्णक्षीर्यामपि तथा गवि ॥ ३३७० ॥
37.3370 · p. 249
अनुष्टुप्
पीतनो नाम्रातके क्ली हरिताले च कुङ्कुमे ।पीतदारुणि च प्रोक्तमाम्रातकफलेऽपि च ॥ ३३७१ ॥
37.3371 · p. 249
अनुष्टुप्
पीतपुष्पस्तु ना कासमर्दकूष्माण्डयोर्मतः ।शाखोटे कर्मरङ्गेऽपि पुमान्पीतफलो मतः ॥ ३३७२ ॥
37.3372 · p. 249
अनुष्टुप्
द्वे पीतमारुतः सर्पभेदे योगे यथायथम् ।पीतरक्तो रक्तपीते पीताऽसृज्यपि चेष्यते ॥ ३३७३ ॥
37.3373 · p. 249
अनुष्टुप्
पीतरागं मधूच्छिष्टे मृणाले न स्त्रियामिदम् ।पीतलः पीतवर्णे ना पीते त्रिः पित्तले तु नप् ॥ ३३७४ ॥
37.3374 · p. 249
अनुष्टुप्

पीतवृक्षः-पीलुः

पीतवृक्षो देवदारुद्रुमे स्योनाकपादपे ।स्यात्पीतशोणितोऽप्यत्र यौगिकत्वाद्यथायथम् ॥ ३३७५ ॥
37.3375 · p. 250
अनुष्टुप्
पीतसारो मलयजे गोमेदकमणावपि ।पीता षकारे कदलीभेदशिंशपयोरपि ॥ ३३७६ ॥
37.3376 · p. 250
अनुष्टुप्
हरिद्रायां महाज्योतिष्मत्यामतिविषौषधे ।पीताङ्गो भेकभेदेऽपि तथा स्योनाकपादपे ॥ ३३७७ ॥
37.3377 · p. 250
अनुष्टुप्
पीताब्धिः स्यादगस्त्येऽपि पुँल्लिङ्गश्चीनसागरे ।पीताम्बरस्तु शैलूषे तथा कैटभसूदने ॥ ३३७८ ॥
37.3378 · p. 250
अनुष्टुप्
पीतिस्तु स्याद्द्वयोरश्वे पानकर्मणि तु स्त्रियाम् ।पीती तु स्याद्द्वयोरश्वेऽथ पीतवति वाच्यवत् ॥ ३३७९ ॥
37.3379 · p. 250
अनुष्टुप्
पीतुर्द्वयोः पक्षिणि स्याल्लोचने तु प्रभाकरे ।यूथाध्यक्षगजे पुंसि बालाज्यचषकेऽपि च ॥ ३३८० ॥
37.3380 · p. 250
अनुष्टुप्
वालानां घृतपानार्थभाजने च पुमान्मतः ।पीतदारुस्तु खदिरे देवदारुद्रुमेऽपि च ॥ ३३८१ ॥
37.3381 · p. 250
अनुष्टुप्
पीथो ना नवनीतेऽग्नौ बालपेयघृतेऽपि च ।पानेऽथ पीथं क्ली क्षीरे जलेऽपि परिकीर्त्तितम् ॥ ३३८२ ॥
37.3382 · p. 250
अनुष्टुप्
पीनसो ना प्रतिश्याये द्वे तु मण्डलसंज्ञिनाम् ।षड्विंशतेः सर्पजातिभेदानां क्वचिदिष्यते ॥ ३३८३ ॥
37.3383 · p. 250
अनुष्टुप्
पीनस्कन्धो वराहे द्वे स्थूलांसे तु त्रिषु स्मृतः ।पीयकोऽसुरजातौ द्वे तथैव त्रिषु निन्दके ॥ ३३८४ ॥
37.3384 · p. 250
अनुष्टुप्
पीयुर्द्वयोरुलूके स्यान्ना काले किरणे रवौ ।पीयुः काकोलूकयोर्द्वे त्रिषु हिंस्रे प्रकीर्त्तितः ॥ ३३८५ ॥
37.3385 · p. 250
अनुष्टुप्
पीयुर्ना किरणे काले सुवर्णे पावके रवौ ।पीयूषन्त्वमृते दुग्धे नवसूतगवीभवे ॥ ३३८६ ॥
37.3386 · p. 250
अनुष्टुप्
पीला स्यादप्सरोभेदे स्त्रीविशेषे तथा मता ।पीलुस्तु कट्फले काण्डे पुष्पे गुडफलद्रुमे ॥ ३३८७ ॥
37.3387 · p. 250
अनुष्टुप्

पीलुकः-पुङ्गवः

तालकाण्डे कृमौ बाणे पुद्गले शरकोरके ।फालास्थिखण्डे च पुमान्द्वे तु पीलुमतङ्गजे ॥ ३३८८ ॥
37.3388 · p. 251
अनुष्टुप्
कट्फलस्य तु पीलोश्च फले पीलु नपुंसकम् ।पीलुको वृक्षभेदे ना द्वयोस्तु स्यात्पिपीलके ॥ ३३८९ ॥
37.3389 · p. 251
अनुष्टुप्
पीलुपर्णी तु मूर्वायां बिम्बिकायामपि स्त्रियाम् ।पीवः स्थूले वाच्यवत्स्यात् पीवा तु स्यात्स्त्रियां जले ॥ ३३९० ॥
37.3390 · p. 251
अनुष्टुप्
पीवा वायौ पुमान्स्थूले वाच्यवत्पीवरी पुनः ।युवत्यां च शतावर्यां तथा च गवि कीर्त्तिता ॥ ३३९१ ॥
37.3391 · p. 251
अनुष्टुप्
बर्हिषत्पितृकन्यायां पत्न्यां वेदशिरोमुनेः ।पीवरस्तु द्वयोः कूर्मे स्थूले तु त्रिषु कीर्तितः ॥ ३३९२ ॥
37.3392 · p. 251
अनुष्टुप्
पीवरा त्वश्वगन्धायां शतावर्यां प्रकीर्त्तिता ।पीवरन्तु मतं क्रौञ्चद्वीपवर्षान्तरे नपि ॥ ३३९३ ॥
37.3393 · p. 251
अनुष्टुप्
पीवरी तु स्त्रियामेषा शतावर्यां प्रकीर्त्तिता ।पुंश्चलः स्वैरिपुरुषे स्वैरिण्यां पुंश्चली मता ॥ ३३९४ ॥
37.3394 · p. 251
अनुष्टुप्
पुंश्चलूर्व्यभिचारिण्यां स्त्री ना तु व्यभिचारिणि ।अथ पुंसवनं गर्भस्त्रियाः संस्कारकर्मणि ॥ ३३९५ ॥
37.3395 · p. 251
अनुष्टुप्
क्षीरे पुंसश्च सवने नपुंसकमुदीरितम् ।पुंस्त्वन्तु पुरुषत्वेऽपि शुक्रेपि क्वचिदिष्यते ॥ ३३९६ ॥
37.3396 · p. 251
अनुष्टुप्
पुक्कसी कलिकायां च नीलिकायामपि स्त्रियाम् ।श्वपचे तु द्वयोरेष पुक्कसस्त्वधमे त्रिषु ॥ ३३९७ ॥
37.3397 · p. 251
अनुष्टुप्
पुङ्खः श्येने द्वयोर्ना मङ्गलाचारशराङ्गयोः ।पुङ्गलः सुन्दराकारे त्रिषु पुंस्याऽऽत्मदेहयोः ॥ ३३९८ ॥
37.3398 · p. 251
अनुष्टुप्
पुङ्गवस्तु बलीवर्दे प्रभेदेप्यौषधस्य च ।उत्तरस्थः पुनः श्रेष्ठे पुङ्गवः परिकीर्त्तितः ॥ ३३९९ ॥
37.3399 · p. 251
अनुष्टुप्

पुच्छः-पुण्डरीकमुखी

पुच्छः पश्चात्प्रदेशे मुख्याङ्गे लाङ्गूलयोर्नृनप् ।पुच्छी स्यादर्कपर्णे ना कुक्कुटे तु द्वयोर्मतः ॥ ३४०० ॥
37.3400 · p. 252
अनुष्टुप्
पुञ्जिष्ठः कैवर्त्तके द्वे वाच्यवत्पुञ्जिते मतः ।पुटः स्त्रीपुंसयोः शूद्रकवरीसम्भवे मतः ॥ ३४०१ ॥
37.3401 · p. 252
अनुष्टुप्
पूर्यां करण्ड्यां कौपीने पुटस्तु स्यात्समुद्गके ।छन्दोऽन्तरे पुटन्तु स्यात्क्लीबं जातीफले पुरे ॥ ३४०२ ॥
37.3402 · p. 252
अनुष्टुप्
पुटकः स्यात्पत्रपुटे पाणिमुद्रान्तरे पुटे ।पुटिका भस्त्रिकाशुक्त्योरेलायाञ्च स्त्रियाम्मता ॥ ३४०३ ॥
37.3403 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प (wrong syllable)
जातीफले तु पुटकं कमले कुमुदेऽपि च ।पुटग्रीवा तु गर्गर्यां ताम्रघट्यामपि स्त्रियाम् ॥ ३४०४ ॥
37.3404 · p. 252
अनुष्टुप्
पुटभेदो नदीवक्त्रे पत्तनातोद्ययोरपि ।पुटितं स्याद्वस्तिपुटे त्रि तु स्यूते च पाटिते ॥ ३४०५ ॥
37.3405 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्व (wrong syllable)
पुण्डरीकं सिते छत्रे कुष्ठव्याध्यन्तरेऽपि च ।पद्ममात्रे सिताम्भोजे बालुकाख्यविषान्तरे ॥ ३४०६ ॥
37.3406 · p. 252
अनुष्टुप्
स्यादाम्रस्य फले गन्धद्रव्ये मदनकाह्वये ।पुण्डरीकस्त्वग्निदिशो गजे हस्तिज्वरान्तरे ॥ ३४०७ ॥
37.3407 · p. 252
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
कोशकारान्तरे चेक्षुशालिजातिभिदोरपि ।महाश्वेतापतौ चापि विष्णुभक्ते द्विजान्तरे ॥ ३४०८ ॥
37.3408 · p. 252
अनुष्टुप्
द्वयोस्तु सर्पभेदा ये राजिलाख्यास्त्रयोदश ।तेषामेकत्र भेदे च व्याघ्रे च परिकीर्त्तितः ॥ ३४०९ ॥
37.3409 · p. 252
अनुष्टुप्
आनूपमांसवर्गस्य मध्ये यः प्लवसंज्ञकः ।हंसादिर्गण उद्दिष्टस्तत्र चैकत्र पक्षिणि ॥ ३४१० ॥
37.3410 · p. 252
अनुष्टुप्
अस्त्रियां तिलके यज्ञभेदेऽपि परिकीर्त्तितः ।पुण्डरीका त्वप्सरोभित्क्रौञ्चद्वीपसरिद्भिदोः ॥ ३४११ ॥
37.3411 · p. 252
अनुष्टुप्
पुण्डरीकमुखः पद्मवदने वाच्यवन्मतः ।पुण्डरीकमुखी तु स्त्री जलौकाभिदि कीर्त्तिता ॥ ३४१२ ॥
37.3412 · p. 252
अनुष्टुप्

पुण्डरीकाक्षः-पुत्रः

पुण्डरीकाक्ष इत्येष विष्णौ जलखगान्तरे ।पुण्डरीकाक्षमित्येतत्क्लीबं स्याद्भेषजान्तरे ॥ ३४१३ ॥
37.3413 · p. 253
अनुष्टुप्
पुण्डरीयक इत्येष विश्वेदेवान्तरेऽथ च ।प्रपौण्डर्ये भेषजभिद्यपि स्यात्पुण्डरीयकम् ॥ ३४१४ ॥
37.3414 · p. 253
अनुष्टुप्
पुण्ड्रन्तु तिलके न स्त्री पुण्ड्रस्त्विक्ष्वन्तरे क्रिमौ ।पुण्ड्रं हिमाचलहेमकूटयोर्मध्ये…पुरम् ॥ ३४१५ ॥
37.3415 · p. 253
अनुष्टुप्metre not read in every line
पुष्पगुल्मेऽतिमुक्ताख्ये दैत्यभित्पुण्डरीकयोः ।नीवृद्भेदे तु पुण्ड्राः स्युर्वरेन्द्र्याख्ये नृभूमनि ॥ ३४१६ ॥
37.3416 · p. 253
अनुष्टुप्
अथ पुण्ड्रा स्त्रियामेव धवलायां गवीष्यते ।पुण्ड्रकः पुण्ड्रतुल्यार्थे ना कोशकृमिजीविनि ॥ ३४१७ ॥
37.3417 · p. 253
अनुष्टुप्
पुण्यं पुष्पेऽप्सु खे हेम्नि व्रते धर्मे सुकर्मणि ।गङ्गार्घ्ययोस्तु पुण्या स्त्री स्यात्तुलस्यश्वगन्धयोः ॥ ३४१८ ॥
37.3418 · p. 253
अनुष्टुप्
अस्त्री तु स्यात्सरोभेदे त्रिर्मनोज्ञे च पावके ।पुण्यकं व्रतभेदेऽत्र भार्यायै चाप्युपायने ॥ ३४१९ ॥
37.3419 · p. 253
अनुष्टुप्
पुण्यकृत्त्रिषु योगार्थे विश्वेदेवान्तरे पुमान् ।पुण्यगन्धः सुगन्धे त्रिश्चम्पके तु पुमान्मतः ॥ ३४२० ॥
37.3420 · p. 253
अनुष्टुप्
पुमान्पुण्यजनो यक्षे राक्षसे सज्जनेऽपि च ।पुंसि पुण्यफलो लक्ष्म्या उद्याने यौगिके त्रिषु ॥ ३४२१ ॥
37.3421 · p. 253
अनुष्टुप्
पुंसि पुण्यबलो बोधिसत्त्वशक्त्यन्तरे तथा ।पुण्यवत्याख्यपुर्याश्च नृपतौ परिकीर्त्तितः ॥ ३४२२ ॥
37.3422 · p. 253
अनुष्टुप्
पुण्यभूमिः पुत्रमातर्यार्यावर्त्तेऽपि च स्त्रियाम् ।पुण्यवांस्त्रि सुकृतिनि पूर्भेदे पुण्यवत्यपि ॥ ३४२३ ॥
37.3423 · p. 253
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्त्रि (wrong syllable)
पुण्यश्लोकः पुण्यकीर्त्तौ वाच्यवच्च प्रियंवदे ।पुत्तलः पुद्गले देहे नरजीवशिवात्मसु ॥ ३४२४ ॥
37.3424 · p. 253
अनुष्टुप्
द्वे तु स्फटिकवर्णाश्वे मनोज्ञे तु त्रिषु स्मृतः ।पुत्रास्तु भूम्निच्छान्दोग्ये मधुकृत्सु प्रकीर्त्तिताः ॥ ३४२५ ॥
37.3425 · p. 253
अनुष्टुप्
पुत्रस्तु तनये पुंसि पञ्चमे भवनेऽपि च ।पुत्रकाख्येऽपि सविषक्षुद्रजन्तौ नृपान्तरे ॥ ३४२६ ॥
37.3426 · p. 253
अनुष्टुप्