All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
उपसंहारः
उपसंहारः
निरमायि महोद्योगैर्मुद्रितश्च बहुव्ययैः ।वाङ्मयार्णवनामा श्रीविश्वविद्यापराभिधः ॥ १ ॥
50.1 · p. 502
अनुष्टुप्
शब्दब्रह्मोद्भवः शब्दब्रह्मण्येव समर्पितः ।निघण्टुसम्राट् शब्दार्थमार्मिकैरवलोक्यताम् ॥ २ ॥
50.2 · p. 502
अनुष्टुप्
अमरहलायुधपुरुषोत्तमयादवहेमकेशवादिकृतम् ।श्रीमङ्खविश्वमेदिनीधन्वन्तरिनरहरिग्रथितम् ॥ ३ ॥
50.3 · p. 502
आर्याmetre not read in every line
भगवद्यास्कोपक्रममपि शर्मण्यावसानमिमम् ।अभिधानमहार्णवाब्धिं विलोड्य दृष्ट्वाऽऽकरान्बहुशः ॥ ४ ॥
50.4 · p. 502
उपगीतिःmetre not read in every line
पद्यैर्दृब्धा घूर्णिभिरलङ्कृता छात्रकुलतृप्त्यै ।आयोजनेन महता घटिता श्रीविश्वविद्येयम् ॥ ५ ॥
50.5 · p. 502
metre not recognised
अभिधानकृतामैदम्पर्यम्प्रायो न बुध्यते ।हेमचन्द्रो दोषमेतं यथासाध्यमशोधयत् ॥ ६ ॥
50.6 · p. 502
अनुष्टुप्
-------------------
50.7 · p. 502