All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
व (2/8)
विडेऽपि वरटाख्येऽपि धान्यभेदे प्रकीर्त्तितः ।यवक्षारे तुरुष्काख्यनिर्यासे मारिषान्तरे ॥ ५०६७ ॥
45.5067 · p. 377
अनुष्टुप्
लतामारिष इत्युक्ते चटके तु द्वयोरयम् ।अथोत्तरेषु षट्सु क्ली तक्कोले कुङ्कुमेऽपि च ॥ ५०६८ ॥
45.5068 · p. 377
अनुष्टुप्
गुग्गुलौ हरिताले च महोदर्याख्यमुस्तके ।वर्त्तुलाकाररचितवह्निकुण्डेऽप्यथ स्त्रियाम् ॥ ५०६९ ॥
45.5069 · p. 377
अनुष्टुप्
विडङ्गेऽपि गुडूच्यां च ब्राह्मीरेणुकयोरपि ।पाठायाञ्च नदीभेदे पार्वत्यामपि कीर्त्तिता ॥ ५०७० ॥
45.5070 · p. 377
अनुष्टुप्
पथ्यागुञ्जाहरिद्रासु दूर्वादारुहरिद्रयोः ।आस्फोताकण्टकार्योश्च वरापि स्यात्फलत्रिके ॥ ५०७१ ॥
45.5071 · p. 377
अनुष्टुप्
वरकं-वरयिता
शरपर्णीमुद्गपर्ण्योः शालिभेदेऽपि पर्पटे ।अस्त्रियां तु द्विखण्डाख्ये मतः प्रावरणान्तरे ॥ ५०७२ ॥
45.5072 · p. 378
अनुष्टुप्
क्लीबमेव मनागिष्टेऽव्ययं वा थोन्तमे त्रिषु ।वरकं स्यात्पटगृहे वस्त्रेऽपि च नपुंसकम् ॥ ५०७३ ॥
45.5073 · p. 378
अनुष्टुप्
वरको वनमुद्गे ना रूक्षणाख्ये च कोद्रवे ।भार्ग्यां वराटिकातुल्यधान्ये च वरकाष्ठका ॥ ५०७४ ॥
45.5074 · p. 378
अनुष्टुप्
देवदारुणि कालेयेऽपि प्रोक्तं वरचन्दनम् ।वरटो धान्यभेदे कुसुम्भबीजाख्ययोदिते ॥ ५०७५ ॥
45.5075 · p. 378
अनुष्टुप्
वरटाऽप्यथ हंसस्य योषायान्तु स्त्रियाम् मता ।वरटा वरटी चेति सविषे शलभान्तरे ॥ ५०७६ ॥
45.5076 · p. 378
अनुष्टुप्
नृजातिभेदे वरटा मल्लीपुष्पे नपुंसकम् ।वरणस्तु पुमांस्तिक्तशाकप्राकारयोरपि ॥ ५०७७ ॥
45.5077 · p. 378
अनुष्टुप्
अथावृतौ च सम्भक्तौ कन्यादिवरणे नपि ।वरणा स्यान्नदीभेदे काशीस्थे वरुणापि च ॥ ५०७८ ॥
45.5078 · p. 378
अनुष्टुप्
वरण्डः पुम्बलाख्ये स्यान्मुखरोगे च स ह्यना ।प्राकारेऽप्यन्तरावेदौ तृणकाष्ठादिभारके ॥ ५०७९ ॥
45.5079 · p. 378
अनुष्टुप्
वडिशे स्त्र्यसिपुत्र्याञ्च रज्जुशारिकयोरपि ।स्त्रियां वरतनुश्चारुनार्यां छन्दोऽन्तरेऽपि च ॥ ५०८० ॥
45.5080 · p. 378
अनुष्टुप्
वरतिक्तस्तु कुटजे स्यान्निम्बे पर्पटेऽपि च ।वरतिक्ता तु पाठायां सैव स्याद्वरतिक्तिका ॥ ५०८१ ॥
45.5081 · p. 378
अनुष्टुप्
वरत्रा तु स्त्रियां वर्त्तौ तथा स्याद्वध्रिकक्षयोः ।वरदस्तु प्रसन्नेऽपि वाच्यवत्स्यात्समर्थके ॥ ५०८२ ॥
45.5082 · p. 378
अनुष्टुप्
नृजातिभेदे वरदाः कन्यायां वरदा मता ।त्रिपर्ण्यामपि रक्तालौ वरतन्तोः कुलस्य च ॥ ५०८३ ॥
45.5083 · p. 378
अनुष्टुप्
देव्यां योगिन्यन्तरे च मध्यदेशे नदीभिदि ।वरपोतो द्वे हरिणे शाकभेदे नपुंसकम् ॥ ५०८४ ॥
45.5084 · p. 378
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्वे (wrong syllable)
वरप्रदो विधौ लोपामुद्रायां तु वरप्रदा ।धवे वरयिता पुंसि त्रि स्याद्वरयतेस्तृचि ॥ ५०८५ ॥
45.5085 · p. 378
अनुष्टुप्
वररुचिः-वरालः
कात्यायने वररुचिः कोषकारे कवौ शिवे ।वरलो वरला चापि गन्धोलीहंसयोषितोः ॥ ५०८६ ॥
45.5086 · p. 379
अनुष्टुप्
वरलब्धश्चम्पकेऽपि काञ्चीभेदे पुमान्मतः ।वरवर्णिन्यस्तु लाक्षाहरिद्रारोचनासु च ॥ ५०८७ ॥
45.5087 · p. 379
अनुष्टुप्
स्त्रीरले च फलिन्यां च साधीयस्यामपि स्त्रियाम् ।दुर्गायामपि लक्ष्म्याञ्च सरस्वत्यामपीष्यते ॥ ५०८८ ॥
45.5088 · p. 379
अनुष्टुप्
वराकः शङ्करे पुंसि हिंसायां भेषजान्तरे ।शोचनीये पुनरयं स्याद्वराकोऽभिधेयवत् ॥ ५०८९ ॥
45.5089 · p. 379
अनुष्टुप्
वराङ्गं योनिमातङ्गमस्तकेषु गुडे त्वचि ।हस्ते चोचाख्यौषधौ ना विष्णौ नाक्षत्रवत्सरे ॥ ५०९० ॥
45.5090 · p. 379
अनुष्टुप्
चतुर्विंशतिसंयुक्तवासरत्रिशतीमिते ।वराङ्गा तु चतुर्वर्षसुरभौ परिकीर्त्तिता ॥ ५०९१ ॥
45.5091 · p. 379
अनुष्टुप्
वराङ्गी तु हरिद्रायां शाकाम्ले तु प्रकीर्त्तिता ।वराङ्गना श्रेष्ठनार्यां तथा तालीद्रुमेऽस्त्रियाम् ॥ ५०९२ ॥
45.5092 · p. 379
अनुष्टुप्
वराटो बीजकोशे नाऽब्जस्य स्याद्रज्जुनीचयोः ।खड्गभेदेऽपि चैरण्डबीजाभपुलकावलौ ॥ ५०९३ ॥
45.5093 · p. 379
अनुष्टुप्
कपर्देऽपि वराटी तु रागभेदे प्रकीर्त्तिता ।वराटको द्वे कपर्देऽब्जबीजकोशे त्रि सेवके ॥ ५०९४ ॥
45.5094 · p. 379
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्याद्वराणस्तु शक्रेऽपि वात्स्यायनमुनावपि ।वराणकः पुमानुक्तो वात्स्यायनमुनावयम् ॥ ५०९५ ॥
45.5095 · p. 379
अनुष्टुप्
द्वयोर्वराणकः प्रोक्तस्तीवरीडोम्बयोः सुते ।वराणसो वराणीये त्रिः काश्यां तु वराणसी ॥ ५०९६ ॥
45.5096 · p. 379
अनुष्टुप्
तथैव च नदीभेदे स्त्रीत्व एव प्रकीर्त्तितः ।वरारोहा श्रेष्ठनार्यां महोदर्याख्यमुस्तके ॥ ५०९७ ॥
45.5097 · p. 379
अनुष्टुप्
मल्लिकाया विशेषे च देवमल्लीति विश्रुते ।सोमेश्वरस्थदाक्षायण्यां रम्ये च नितम्बके ॥ ५०९८ ॥
45.5098 · p. 379
अनुष्टुप्
अथ विष्णौ गजारोहे नोत्तमारोहिणि त्रिषु ।वरालः सितपिङ्गाभवर्णे त्रिषु तु तद्वति ॥ ५०९९ ॥
45.5099 · p. 379
अनुष्टुप्
वराला-वरुणः
वराला हंसकान्तायां वरालं भेषजान्तरे ।वरालिस्तु पुमांश्चन्द्रे रागभेदे प्रकीर्त्तितः ॥ ५१०० ॥
45.5100 · p. 380
अनुष्टुप्
वराहः पर्वते मेघेऽङ्गिरःसुप्रवरेऽह्नि ना ।विष्णौ वराहमिहिरे मानद्वीपाद्रिभित्स्वपि ॥ ५१०१ ॥
45.5101 · p. 380
अनुष्टुप्
व्यूहभेदे मुस्तकेऽपि रक्तालौ च प्रकीर्त्तितः ।सूकरे तु पशौ मेषे शिशुमारे द्वयोर्मतः ॥ ५१०२ ॥
45.5102 · p. 380
अनुष्टुप्
वराही मातृभेदे स्याद्विष्वक्सेनप्रियौषधौ ।स्त्रीलिङ्ग एव कथिता तथैषा मुस्तकान्तरे ॥ ५१०३ ॥
45.5103 · p. 380
अनुष्टुप्
वराहनामा रक्तालौ लज्जालौ च पुमान्मतः ।वराहिकाऽश्वगन्धायां नागभेदे वराहकः ॥ ५१०४ ॥
45.5104 · p. 380
अनुष्टुप्
वराहुस्तु वराहे द्वे नृभूम्नि तु वराहवः ।वरिमा तु वरत्वेऽपि तथोरुत्वे पुमान्मतः ॥ ५१०५ ॥
45.5105 · p. 380
अनुष्टुप्
वरिवस्तु धनेऽपि स्याद्वरत्वेऽपि नपुंसकम् ।वरिषस्तु पुमान्वृष्टौ वर्षासु स्त्री बहुत्वके ॥ ५१०६ ॥
45.5106 · p. 380
अनुष्टुप्
वर्षे तु वरिषं क्लीबलिङ्गमेव प्रकीर्त्तितम् ।वरिष्ठः स्यादुरुतमे तथा वरतमे त्रिषु ॥ ५१०७ ॥
45.5107 · p. 380
अनुष्टुप्
द्वे तित्तिरे बीजपूरे ना क्ली मरिचताम्रयोः ।वरीता त्रिर्वरयितर्यथ पुंसि वरे स्मृतः ॥ ५१०८ ॥
45.5108 · p. 380
अनुष्टुप्
वरीयान्योगभेदो ना स्यात्प्रशस्तरे त्रिषु ।अतियून्युरूत्तरे शतावर्यां वरीयसी ॥ ५१०९ ॥
45.5109 · p. 380
metre not recognised
वरुटस्तु प्राक्प्रसूतस्य जातौ क्षत्रियस्त्रियाम् ।व्रात्याज्जाते निषाद्यां च मेदे वैदेहजे द्वयोः ॥ ५११० ॥
45.5110 · p. 380
अनुष्टुप्
वरुणो वरुणद्रौ च प्रचेतसि जलोदरे ।आदित्यभेदोब्धावप्सु ग्रहनागाग्निभित्स्वपि ॥ ५१११ ॥
45.5111 · p. 380
अनुष्टुप्
वरुणाः-वर्णा
तथाऽऽयुधविशेषेऽपि वरुणा तु नदीभिदि ।द्वे मत्स्यभेदे वरुणपाशो योगे यथायथम् ॥ ५११२ ॥
45.5112 · p. 381
अनुष्टुप्
अहीनभेदे वरुणप्रघासः पुंसि कीर्त्तितः ।चातुर्मास्ये नृभूकार्ये श्रावणाषाढपूर्णयोः ॥ ५११३ ॥
45.5113 · p. 381
अनुष्टुप्
वरूथो रथगुप्तौ ना मृगे क्ली चर्मवेश्मनोः ।अस्त्री सैन्येऽपि वृन्दे द्वे पुमांस्तु निजराष्ट्रके ॥ ५११४ ॥
45.5114 · p. 381
अनुष्टुप्
वरूथी स्याद्युद्धरथे सेनायान्तु वरूथिनी ।श्रेष्ठे क्लीबं वरेण्यं स्याद् वाच्यवच्चापि कुत्रचित् ॥ ५११५ ॥
45.5115 · p. 381
अनुष्टुप्
वरेण्याः पितृभेदेषु वरेण्यं कुङ्कुमे मतम् ।सर्वोच्चलोके पार्वत्यां तु वरेण्या प्रकीर्त्तिता ॥ ५११६ ॥
45.5116 · p. 381
अनुष्टुप्
वर्करः परिहासे स्याच्छागे युवपशावपि ।वर्कराटः कटाक्षे स्यात्तरुणादित्यरोचिषि ॥ ५११७ ॥
45.5117 · p. 381
अनुष्टुप्
नारीपयोधरोत्सङ्गकान्तदत्तनखक्षते ।वर्गः समानान्निवहे वज्रे शक्त्याह्वये बले ॥ ५११८ ॥
45.5118 · p. 381
अनुष्टुप्
तावत्कृत्वः कृतौ चापि [पक्षे] पुँल्लिङ्ग [इष्यते] ।वर्गणा गुणने वर्गीकरणे खण्डनेऽपि च ॥ ५११९ ॥
45.5119 · p. 381
अनुष्टुप्
वर्ग्यश्छात्रालये पुंसि पक्ष्ये तु त्रिषु कीर्त्तितः ।वर्चोऽन्नविष्ठातेजःसु लावण्येऽपि तथार्चिषि ॥ ५१२० ॥
45.5120 · p. 381
अनुष्टुप्
रूपे नपुंसकं पुंसि वर्चाश्चन्द्रसुते मतः ।वर्जनं तु मतं क्लीबं हिंसायां त्याग एव च ॥ ५१२१ ॥
45.5121 · p. 381
अनुष्टुप्
वर्णोऽस्त्रियां प्रकारे च शोभायाञ्च विलेपने ।सुवर्णेऽपि तदुत्कर्षे [कथायामपि कीर्त्तितः] ॥ ५१२२ ॥
45.5122 · p. 381
अनुष्टुप्
ना तु द्रव्याश्रितगुणमात्रे शुक्लादिके स्तुतौ ।गीतिक्रमे च विप्रादौ कुथे चित्रे तथाऽऽकृतौ ॥ ५१२३ ॥
45.5123 · p. 381
अनुष्टुप्
उक्तिमात्रेऽक्षरे कीर्त्तौ माल्ये वेषे वृतेऽपि च ।ब्रह्मचर्येऽथ वर्णा स्यादाढकी पृथुबीजयोः ॥ ५१२४ ॥
45.5124 · p. 381
अनुष्टुप्
वर्णम्-वर्धः
वर्णं तु कुङ्कुमे क्लीबलिङ्गमेव प्रकीर्त्तितम् ।ना वर्णकस्तान्तवे स्याद्द्वयो रागेषु वर्णिका ॥ ५१२५ ॥
45.5125 · p. 382
अनुष्टुप्
पर्यायार्हादिकथने व्याख्यातरि भवेत्त्रिषु ।वर्णकश्चारणे स्त्री तु चन्दने च विलेपने ॥ ५१२६ ॥
45.5126 · p. 382
अनुष्टुप्
द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे कथनस्य च ।वर्णाटः स्त्रीकृताजीवे त्रिश्चित्रकृति गायने ॥ ५१२७ ॥
45.5127 · p. 382
अनुष्टुप्
श्लोकस्तेने सन्धिचौरेऽपि च वर्णविलोडकः ।वर्णी त्रिर्लेखके चित्रकरेऽपि ब्रह्मचारिणि ॥ ५१२८ ॥
45.5128 · p. 382
अनुष्टुप्
वर्णवत्यर्थना वृक्षभेदेऽपि श्रमणान्तरे ।स्त्रीमात्रे तु स्त्रीविशेषे हरिद्रायाञ्च वर्णिनी ॥ ५१२९ ॥
45.5129 · p. 382
अनुष्टुप्
वर्णुर्नदान्तरे वेदेऽर्के ना जनपदान्तरे ।वर्ण्यं तु वर्णनीये त्रिः सुवर्णे तु नपुंसकम् ॥ ५१३० ॥
45.5130 · p. 382
अनुष्टुप्
वर्त्तकं स्याल्लोहभेदे त्रि तु वर्त्तितरि स्मृतः ।वर्त्तका वर्त्तिका चाथ त्रिषु वर्त्तितरि स्मृतः ॥ ५१३१ ॥
45.5131 · p. 382
अनुष्टुप्
वर्त्तकोऽश्वखुरे स्त्री तु विहगे वर्त्तकी द्वयोः ।वर्त्तनं धूलिलुठनेऽश्वस्य व्यावर्त्तनेऽपि च ॥ ५१३२ ॥
45.5132 · p. 382
अनुष्टुप्
कुटीपिण्डे प्रवृत्तौ जीविकायां वचने मुहुः ।त्रिर्वर्त्तिष्णौ न ना वर्त्तयत्यर्थे प्रेषणे तथा ॥ ५१३३ ॥
45.5133 · p. 382
अनुष्टुप्
पिण्डने तूलनालायां तर्कुपीठे तथेष्यते ।वर्त्तनं वामने क्लीबं वृत्तौ स्त्री प्रेषणाध्वनोः ॥ ५१३४ ॥
45.5134 · p. 382
अनुष्टुप्
नदीभेदे वर्त्तरुकः काकनीडे जलावटे ।वर्त्तिर्भेषजनिर्माणे नयनाञ्जनलेखयोः ॥ ५१३५ ॥
45.5135 · p. 382
अनुष्टुप्
गात्रानुलेपनीदीपदशादीपेषु योषिति ।वर्त्तुलस्तु कलाये ना तर्कुपीठे च चक्रके ॥ ५१३६ ॥
45.5136 · p. 382
अनुष्टुप्
वर्त्तुली गजपिप्पल्यां स्यात्पलाण्ड्वन्तरेऽपि च ।वर्त्म मार्गे तथा नेत्रच्छदे नान्तं नपुंसकम् ॥ ५१३७ ॥
45.5137 · p. 382
अनुष्टुप्
वर्धन्तु सीसके सेतौ भार्ङ्ग्यां वर्धो द्वयोर्मतः ।अथ वर्धयितर्येष वर्धः स्यादभिधेयवत् ॥ ५१३८ ॥
45.5138 · p. 382
अनुष्टुप्
वर्धकः-वर्षः
वर्धको द्वे तीक्ष्णभाङ्गर्यां ना वर्धयितरि त्रिषु ।वर्धनं छेदने वृद्धिक्रियायाञ्च नपुंसकम् ॥ ५१३९ ॥
45.5139 · p. 383
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 र्धयि (syllable split)
वर्धनस्त्रिषु वर्धिष्णौ तथा स्याद्वृद्धिसाधने ।गलन्तिकायान्तु स्त्री स्यात्संमार्जन्यां च वर्धनी ॥ ५१४० ॥
45.5140 · p. 383
अनुष्टुप्
वर्धना तु न ना धातोरर्थे वर्धयतेर्मता ।वर्धमानः प्रश्नभेदे शरावैरण्डविष्णुषु ॥ ५१४१ ॥
45.5141 · p. 383
अनुष्टुप्
पुरान्तरे जनपदान्तरे पौरस्त्यदिग्गजे ।महावीरार्हति तथा शब्दोऽयं त्रिः सवृद्धिके ॥ ५१४२ ॥
45.5142 · p. 383
अनुष्टुप्
वर्धमानं पुनश्छन्दोऽन्तरे क्लीबं प्रकीर्त्तितम् ।वर्धमानक उक्तो ना करमुद्रान्तरेऽपि च ॥ ५१४३ ॥
45.5143 · p. 383
अनुष्टुप्
वर्धापकं पूर्णपात्रे कञ्चुके पांसुचामरे ।वर्धापनं नाभितालच्छेदे स्यात्पूर्णपात्रके ॥ ५१४४ ॥
45.5144 · p. 383
अनुष्टुप्
वर्धितं प्रसिते छिन्ने पूरितेऽपि शरावके ।वर्ध्रं वर्ध्री वरत्रा ना वेष्टे क्ली चर्मसीसयोः ॥ ५१४५ ॥
45.5145 · p. 383
अनुष्टुप्
वर्म स्यात्कवचे चापि त्वचि गेहे नपुंसकम् ।वर्मवत् क्ली तनुत्राणे सवर्मणि तु वाच्यवत् ॥ ५१४६ ॥
45.5146 · p. 383
अनुष्टुप्
वर्या पतिंवरायां स्त्री वरेण्ये त्रिषु ना स्मरे ।वर्वरः फञ्जिका केशनीवृदन्तरचक्रले ॥ ५१४७ ॥
45.5147 · p. 383
अनुष्टुप्
पारसीकजने तु द्वे शबरेऽप्यथ च स्त्रियाम् ।पत्न्यां स्याद्वर्वरी नद्यां केशविन्यासभिद्यपि ॥ ५१४८ ॥
45.5148 · p. 383
अनुष्टुप्
शाकपुष्पभिदोस्त्रिस्तु वक्रकेशेऽपि चाधमे ।वर्वरीका सरस्वत्यां द्वे तु पक्षिणि चोरणे ॥ ५१४९ ॥
45.5149 · p. 383
अनुष्टुप्
केशसंस्थानभेदे च त्रिषु वाक्यकृति स्मृतः ।वर्वरीको [महाकालशाकभित्केशकर्मसु] ॥ ५१५० ॥
45.5150 · p. 383
अनुष्टुप्
वर्वीः स्त्री शकटे द्वे तु शरभाख्यमहामृगे ।वर्षोऽस्त्री वत्सरे वृष्टौ दिवसे भारतादिके ॥ ५१५१ ॥
45.5151 · p. 383
अनुष्टुप्
प्रावृट्संज्ञर्त्तुभेदे तु वर्षाः स्त्री भूम्नि कीर्त्तिताः ।उपवर्षभ्रातरि तु वर्षः पुंसि प्रकीर्त्तितः ॥ ५१५२ ॥
45.5152 · p. 383
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ्रा (wrong syllable)
वर्षा-वलः
वर्षा तु स्त्री च वार्षिक्यां वृष्टौ स्यात्कस्यचिन्मते ।वर्षकस्त्रिर्वृष्टिकृति वर्षात्स्वार्थे यथायथम् ॥ ५१५३ ॥
45.5153 · p. 384
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वृ (wrong syllable)
अथ ग्रीष्मालये क्लीबं वर्षकं कैश्चिदीष्यते ।वर्षकोशस्तु मासेऽपि तथा ज्योतिषिके पुमान् ॥ ५१५४ ॥
45.5154 · p. 384
अनुष्टुप्
वर्षणं तु मतं वृष्टौ दाने मोक्षादिके गुणात् ।वर्षणिर्वर्त्तनेऽपि स्याद्वर्षणेऽपि कृतौ क्रतौ ॥ ५१५५ ॥
45.5155 · p. 384
अनुष्टुप्
षण्ढे वर्षधरो वर्षपर्वतेऽपि पुमान्मतः ।वर्षवृद्धिस्तु वर्षोपचये जन्मदिनोत्सवे ॥ ५१५६ ॥
45.5156 · p. 384
अनुष्टुप्
पुनर्नवायां वर्षाङ्गी वर्षाङ्गो मास इष्यते ।वर्षाभूः स्त्री च शोथघ्न्यां भूलताप्लवयोः पुमान् ॥ ५१५७ ॥
45.5157 · p. 384
अनुष्टुप्
वर्षाभूस्तु द्वयोर्भेके वर्षाभ्वीति यदा तदा ।वृत्तिः स्याद्योनिमत्यर्थे तथा गण्डूपदेऽपि च ॥ ५१५८ ॥
45.5158 · p. 384
अनुष्टुप्
भेकोक्तन्यायभावः स्यात्परेषां तु मतं विदुः ।पुनर्नवासमाख्यायामोषधी स्त्री तु तत्पुनः ॥ ५१५९ ॥
45.5159 · p. 384
अनुष्टुप्
स्यात्संशयितमस्माभिर्यतश्छन्दसि दृश्यते ।अनादिसम्प्रदायात्ते प्रयोगे कण्ठजोष्मवान् ॥ ५१६० ॥
45.5160 · p. 384
अनुष्टुप्
व्युत्पन्नो ह्वयतेर्धातोर्वर्षाहू शब्द एष वै ।उत्तम्भयेति वर्षाह्वा जुहोतीति ततश्च सः ॥ ५१६१ ॥
45.5161 · p. 384
अनुष्टुप्
अपभ्रष्ट उताहोस्विद्वर्षाभूरिति चापरः ।पुनर्नवायां शब्दोऽस्ति व्युत्पन्नो भवतेरिति ॥ ५१६२ ॥
45.5162 · p. 384
अनुष्टुप्
व्युत्पद्यमानो भवतेर्मण्डूके सावकाशकः ।तस्मात्पुनर्नवायां स्यादयमोष्ठ्यभकारवान् ॥ ५१६३ ॥
45.5163 · p. 384
अनुष्टुप्
पुनर्नवायां स्त्री द्वे तु वर्षाभ्रूर्भेक इष्यते ।वर्षुस्तु वर्षुके वापि वृद्धे स्यादभिधेयवत् ॥ ५१६४ ॥
45.5164 · p. 384
अनुष्टुप्
वर्ष्म न स्त्री परिच्छेदे शरीरश्रेष्ठयोरपि ।स्यादुच्छ्राये च महति शुष्मण्यपि च सुन्दरे ॥ ५१६५ ॥
45.5165 · p. 384
अनुष्टुप्
वर्ष्या वृष्ट्यम्बुषु स्त्री भू त्रिस्तु वृष्ट्यब्दसम्भवे ।वलो दैत्यान्तरे मेघे पर्वतेऽपि पुमांस्तथा ॥ ५१६६ ॥
45.5166 · p. 384
अनुष्टुप्
वलजः-वलूकम्
निष्पावसंज्ञके धान्ये काके तु स्याद्वलो द्वयोः ।उत्तरस्थः शतबले समासात्तु वलौ मतः ॥ ५१६७ ॥
45.5167 · p. 385
अनुष्टुप्
वलजः पुरगेहादिद्वार्यनासस्यक्षेत्रयोः ।अपूतधान्यराशौ तु स्त्री सुरूपस्त्रियामपि ॥ ५१६८ ॥
45.5168 · p. 385
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्य (wrong syllable)
लवणोष्णकटुस्वादुतिक्तात्मनि तु ना रसे ।त्रि तद्वति बलाज्जातेऽथ युद्धे बलजन्नपि ॥ ५१६९ ॥
45.5169 · p. 385
अनुष्टुप्
यूध्यामथ वणिक्पत्न्यान्ना तु वाणिज्यके मतः ।वलनं चलने क्लीबं तन्त्वाद्यावर्त्तनेऽपि च ॥ ५१७० ॥
45.5170 · p. 385
अनुष्टुप्
संवृतौ वलयत्यर्थे तु न ना वलना मता ।वलभिर्वलभी कूटागारे सौराष्ट्रपूर्भिदि ॥ ५१७१ ॥
45.5171 · p. 385
अनुष्टुप्
वलभित्पुंसि शक्रे चैकाहक्रत्वन्तरेऽपि च ।अथारण्यकयोः साम्नोरुपत्वाजामयोः गिरः ॥ ५१७२ ॥
45.5172 · p. 385
अनुष्टुप्
इत्यस्यामृचि ये गीते वलभित्तत्र नप्स्मृतम् ।वलयः कण्ठरोगेऽपि महोदर्याख्यमुस्तके ॥ ५१७३ ॥
45.5173 · p. 385
अनुष्टुप्
पुमान्पश्चिमराश्यर्धे ( र्थे ) कटके त्वस्त्रियामयम् ।चक्रीकृते वेष्टितेऽपि भवेद्वलयितं त्रिषु ॥ ५१७४ ॥
45.5174 · p. 385
अनुष्टुप्
वलाहको गिरौ मेघे वायावश्वे हरेः पुमान् ।दर्वीकराख्यसर्पाणां भेदे षड्विंशतेः क्वचित् ॥ ५१७५ ॥
45.5175 · p. 385
अनुष्टुप्
कृष्णसर्प इति ख्याते निर्विषद्वादशस्वपि ।एकभेदे स्त्रियां तु स्यादायुधीयजनश्रुते ॥ ५१७६ ॥
45.5176 · p. 385
अनुष्टुप्
अन्तर्लोहेन बद्धान्ते फलके स्याद्बलाहका ।वलिर्जठररेखायां जराप्रशिथिलत्वचि ॥ ५१७७ ॥
45.5177 · p. 385
अनुष्टुप्
ऊर्मौ स्त्री गृहदारौ च वाद्यभेदेऽपि गन्धके ।वलितस्त्रिः सवलने करमुद्रान्तरे पुमान् ॥ ५१७८ ॥
45.5178 · p. 385
अनुष्टुप्
अथ स्यात्कृष्णमरिचे वलितं तन्नपुंसकम् ।वलीमुखं दध्नि गाढास्याख्ये द्वे तु कपौ भवेत् ॥ ५१७९ ॥
45.5179 · p. 385
अनुष्टुप्
वलूकोऽपि वलूकञ्च शालूके न स्त्रियां भवेत् ।द्वयोः पक्षिणि रक्ते तु कृष्णे वा वाच्यवन्मतः ॥ ५१८० ॥
45.5180 · p. 385
अनुष्टुप्
वल्कः-वल्लूरकः
वल्कस्तु दशने पुंसि वल्कले त्वस्त्रियां मतः ।वल्कस्तु दशने पुंसि न स्त्री वल्कलशल्कयोः ॥ ५१८१ ॥
45.5181 · p. 386
अनुष्टुप्
वल्कलस्त्वचि वृक्षस्य न स्त्री वस्त्रेऽपि तत्कृते ।ना वल्करोध्रे त्वक्पत्रे क्ली वल्लभिदि वल्कला ॥ ५१८२ ॥
45.5182 · p. 386
अनुष्टुप्
वल्गितं वल्गनेऽप्यश्वगतौ त्रिषु तु तद्युते ।वल्गु त्रिरम्ये स्त्री वाचि द्वे छागे नेत्ररोम्णि नप् ॥ ५१८३ ॥
45.5183 · p. 386
अनुष्टुप्
वल्गुको ना द्रुभेदे क्ली चन्दनेऽपि वने पणे ।वल्मीरिन्द्रे समुद्रे च पुंसि सान्द्रे तु वाच्यवत् ॥ ५१८४ ॥
45.5184 · p. 386
अनुष्टुप्
वल्मीकः सातपे मेघे पुमान्सूर्येऽप्यथास्त्रियाम् ।वल्मीकः करपादादिशोथे नाकौ तथा मतः ॥ ५१८५ ॥
45.5185 · p. 386
अनुष्टुप्
वल्लो गोधूमभेदेऽपि तथा मानान्तरे पुमान् ।वल्लकी कुन्दुरुक्यामक्षयोगान्तरवीणयोः ॥ ५१८६ ॥
45.5186 · p. 386
अनुष्टुप्