All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ई
ई-ईहामृगः
ई विषादेऽनुकम्पायां लक्ष्म्यां पुनरनव्ययम् ॥ ६७९ ॥
6.679 · p. 53
ईक्षणं नयने क्लीबं दृग्व्यापारेऽपि कीर्त्तितम् ।ईडो ना देवताभेदे स्तुतौ त्वक्ली स्त्रियां क्षितौ ॥ ६८० ॥
6.680 · p. 53
अनुष्टुप्
ईतिर्डिम्बे प्रवासे षट्स्वतिवृष्ट्यादिषु स्त्रियाम् ।ईरिणं स्यादिरिणवत्त्रिषु शून्ये तथोषरे ॥ ६८१ ॥
6.681 · p. 53
अनुष्टुप्
सिकतावत्यपि क्लीबं तु स्याद्दुर्गे वनेऽपि च ।ईशः शिवे प्रभौ च स्यात् समर्थे चापि वाच्यवत् ॥ ६८२ ॥
6.682 · p. 53
अनुष्टुप्
ईशानं ज्योतिषि क्लीबमीशानस्तु शिवे पुमान् ।ईशाना स्वयमीशित्र्यामीशानी पुंयुजि स्त्रियाम् ॥ ६८३ ॥
6.683 · p. 53
अनुष्टुप्
ईश्वरस्त्रि प्रभौ चाढ्ये ना शण्डे शिवकामयोः ।ईश्वरा स्वयमीशित्र्यां पुंयोगे त्वीश्वरी मता ॥ ६८४ ॥
6.684 · p. 53
अनुष्टुप्
ईश्वरप्रिय एष द्वे तित्तिरौ त्रीशवल्लभे ।ईषको गन्तृहिंसितृद्रष्दृषूक्तोऽभिधेयवत् ॥ ६८५ ॥
6.685 · p. 53
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सि (wrong syllable)
ईषा स्त्री रथसीरादिदण्डके परिकीर्त्तिता ।उक्ता प्रमाणभेदेऽपि चाष्टाशीतिशताङ्गुले ॥ ६८६ ॥
6.686 · p. 53
अनुष्टुप्
ईषिका हस्तिनो नेत्रकूटे स्त्री परिकीर्त्तिता ।ईष्मो वायौ वसन्ते च पुँल्लिङ्गः परिकीर्त्तितः ॥ ६८७ ॥
6.687 · p. 53
अनुष्टुप्
ईस् दुःखभावने कोपे चाव्ययं परिकीर्त्तितम् ।ईहा स्त्रियामुद्यमे च वाञ्छायामपि कीर्त्तिता ॥ ६८८ ॥
6.688 · p. 53
अनुष्टुप्
ईहामृगो वृके द्वे स्यात्पुंसि स्याद्रूपकान्तरे ॥ ६८८-१/२ ॥
6.11 · p. 53