कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

च (1/2)

चश्चण्डीशे पुमानुक्तः कच्छपे चन्द्रचौरयोः ।चको ना सर्पसत्रस्य सर्पभेदेऽपि यष्टरि ॥ २०३८ ॥
22.2038 · p. 151
अनुष्टुप्
तर्पणे चिक्कणे तु स्यात्क्लीबं पूगतरोः फले ।चकोरस्तु द्वयोः पक्षिभेदे गिर्यन्तरे तु ना ॥ २०३९ ॥
22.2039 · p. 151
अनुष्टुप्
चक्रमस्त्री रथाङ्गे च संसारे सैन्यराष्ट्रयोः ।जलावर्त्ते चये वृन्ते मण्डले घनलोहयोः ॥ २०४० ॥
22.2040 · p. 151
अनुष्टुप्
काव्यालङ्कारभेदे च विषमे माक्षिकेऽपि च ।दद्रुसंज्ञव्याधिभेदे व्यूहदम्भप्रभेदयोः ॥ २०४१ ॥
22.2041 · p. 151
अनुष्टुप्
धर्मचक्रादिके कुम्भकारोपकरणान्तरे ।अस्त्रान्तरे द्वे तु चक्रञ्चक्रवाकखगे मतः ॥ २०४२ ॥
22.2042 · p. 151
अनुष्टुप्
हरौ चक्रधरो नाऽहौ द्वे त्रिषु ग्रामजालिनि ।चक्रपादो द्वयोर्हस्तिन्यथ पुंसि रथे मतः ॥ २०४३ ॥
22.2043 · p. 151
अनुष्टुप्
चक्रवर्ती पुमान्सार्वभौमे स्त्री चक्रवर्त्तिनी ।स्थावरे जन्तुतत्संज्ञे योगे त्वर्थवदिष्यते ॥ २०४४ ॥
22.2044 · p. 151
अनुष्टुप्

चक्रवाटः-चतुर्थी

चक्रवाटः क्रियारोहे पर्यन्ते च शिखातरौ ।चक्रवाडम्मण्डले क्ली लोकालोकगिरौ पुमान् ॥ २०४५ ॥
22.2045 · p. 152
अनुष्टुप्
चक्राङ्कीकर्कटशृङ्ग्याञ्चक्राङ्कः शार्ङ्गधन्विनि ।चक्राङ्गी कटुरोहिण्यां चक्राङ्गो हंसपक्षिणि ॥ २०४६ ॥
22.2046 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
चक्राटो विषवैद्ये द्वे ना दीनारे त्रि धूर्त्तके ।चक्री जालिककोकाऽजकुलालगृहिषु द्वयोः ॥ २०४७ ॥
22.2047 · p. 152
अनुष्टुप्
विष्णौ तु ना त्रिषु त्वेष चक्रवच्चक्रयायिनोः ।चक्षुष्यः सुभगे त्रि स्यात्तथा स्याच्चक्षुषो हिते ॥ २०४८ ॥
22.2048 · p. 152
अनुष्टुप्
ना पुनः पीतमुद्गे च पुण्डरीकतरावपि ।कतकद्रौ सक्तुषु च चक्षुष्या तु भवेत्स्त्रियाम् ॥ २०४९ ॥
22.2049 · p. 152
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
कुलालीभेषजे चापि द्रोणपुष्पाख्यझाटके ।चङ्कुरस्तु द्वयोर्दैत्ये ना रथे च भगाङ्कुरे ॥ २०५० ॥
22.2050 · p. 152
अनुष्टुप्
चङ्क्रमः सङ्क्रमे नाऽथ चङ्क्रमञ्चङ्क्रमोऽपि च ।भवेच्चङ्क्रमणे तच्चाप्यल्पेऽध्वनि गतागतम् ॥ २०५१ ॥
22.2051 · p. 152
अनुष्टुप्
चङ्गस्तु शोभने दक्षे त्रिलिङ्गः परिकीर्त्तितः ।चञ्चत्कः स्यान्मणौ नातिभास्वरे त्वभिधेयवत् ॥ २०५२ ॥
22.2052 · p. 152
अनुष्टुप्
भवेद्द्वयोस्तु चञ्चत्कः खद्योते दर्दुरेऽपि च ।चञ्चला स्त्री तडिल्लक्ष्म्योश्चञ्चलः पवने पुमान् ॥ २०५३ ॥
22.2053 · p. 152
अनुष्टुप्
वाच्यवत्कर्मवति च लेखने तु द्वयोर्मतः ।चञ्चा तु नलनिर्माणे तृणनिर्मितपूरुषे ॥ २०५४ ॥
22.2054 · p. 152
अनुष्टुप्
चतुरः कीर्त्तितो दक्षे बुद्धिमत्यभिधेयवत् ।चतुरा हस्तिशालायां तथाल्पभ्रुकुटावपि ॥ २०५५ ॥
22.2055 · p. 152
अनुष्टुप्
मृगभेदे तु चतुरा स्त्री तस्या लक्षणं विदुः ।चतुरा स्याद्धनस्निग्धरोमा श्यामा सबिन्दुका ॥ २०५६ ॥
22.2056 · p. 152
अनुष्टुप्
चतुरङ्गुल इत्येष पुमानारग्वधद्रुमे ।मानान्तरे शराख्ये च योगे त्वर्थवदिष्यते ॥ २०५७ ॥
22.2057 · p. 152
अनुष्टुप्
चतुर्थन्तु चतुर्णां त्रिः पूरणेऽथ चतुर्थ्यसौ ।तुरीयायां विभक्तौ स्त्री विनायकतिथावपि ॥ २०५८ ॥
22.2058 · p. 152
अनुष्टुप्

चतुर्दशी-चन्द्रकी

चतुर्दशी स्त्री वीणायां यस्यास्तन्त्र्यश्चतुर्दश ।तथा शिवतिथौ त्रिस्तु पूरणे स्याच्चतुर्दश ॥ २०५९ ॥
22.2059 · p. 153
अनुष्टुप्
चतुर्वर्गः पुमानर्थधर्मकामविमुक्तिषु ।चतुष्कं स्याच्चतुःसङ्घे भवने यष्टिकान्तरे ॥ २०६० ॥
22.2060 · p. 153
अनुष्टुप्
अक्षे तु ना चतुष्की तु स्त्रियां यवनिकान्तरे ।मशकहारिण्याख्ये पुष्करिण्यन्तरेपि च ॥ २०६१ ॥
22.2061 · p. 153
अनुष्टुप्metre not read in every line
चतुष्पथं क्ली शृङ्गाटे ब्राह्मणे ना चतुष्पथः ।चतुष्पदी स्त्री पद्ये ना पशौ क्ली करणान्तरे ॥ २०६२ ॥
22.2062 · p. 153
अनुष्टुप्
चतुष्पाद्रावणे पुंसि चतुरङ्घ्रौ तु वाच्यवत् ।चतुष्षष्टिः कलासंख्यादेवीभित्सु ऋचि स्त्रियाम् ॥ २०६३ ॥
22.2063 · p. 153
अनुष्टुप्
चतुस्समं यौगिकेऽपि क्लीबं तु परिभाषितम् ।चन्दनागुरुकर्पूरकुङ्कुमैः कर्दमे कृते ॥ २०६४ ॥
22.2064 · p. 153
अनुष्टुप्
चत्वरन्त्वङ्गणे स्थण्डिले क्ली ना चतुष्पथे ।स्त्री तु स्याद्देवताभेदे रथ्यायामपि चत्वरी ॥ २०६५ ॥
22.2065 · p. 153
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चत्वालो हेमकुण्डे च पुंसि दर्भेऽपि दृश्यते ।चन्दना चन्दनी च स्त्री नदीभेदे प्रयुज्यते ॥ २०६६ ॥
22.2066 · p. 153
अनुष्टुप्
चन्दनोऽस्त्री मलयजे भद्रकाल्यान्नपुंसकम् ।चन्दिरं क्ली जले ना तु चन्द्रे हस्तिनि तु द्वयोः ॥ २०६७ ॥
22.2067 · p. 153
अनुष्टुप्
चन्दिलः पुंसि वास्तूकशाके स्यान्नापिते भगे ।चन्द्रो वारिणि कर्पूरे शशाङ्के बर्हिमेचके ॥ २०६८ ॥
22.2068 · p. 153
अनुष्टुप्
कम्पिल्लवृक्षेऽपि पुमान्सुन्दरे तु त्रिषु स्मृतः ।क्ली त्वारण्यकसाम्नि स्यात्त्रि त्वाह्लादक इष्यते ॥ २०६९ ॥
22.2069 · p. 153
अनुष्टुप्
कुमुदे रजतेऽपि स्यात्कनके तु नृशण्डयोः ।अर्घ्यायान्तु स्त्रियां चन्द्रा नतु स्त्री सूर्यरश्मिषु ॥ २०७० ॥
22.2070 · p. 153
अनुष्टुप्
शतत्रयं सहस्रे ये हिमोत्सर्गाय कीर्त्तिताः ।चन्द्रको बर्हिपक्षाग्रेऽप्सुतैलप्रसरेऽपि ना ॥ २०७१ ॥
22.2071 · p. 153
अनुष्टुप्
चन्द्रकान्तस्तु पुंसि स्यान्मणिभेदे च कैतवे ।चन्द्रकी ना मयूरे स्यादथ व्याघ्रे द्वयोर्भवेत् ॥ २०७२ ॥
22.2072 · p. 153
अनुष्टुप्

चन्द्रभागः-चरुः

चन्द्रभागस्तु ना शैलान्तरे काश्मीरसंस्थिते ।स्त्रियां तु देवताभेदे चन्द्रभागा प्रकीर्त्तिता ॥ २०७३ ॥
22.2073 · p. 154
अनुष्टुप्
चन्द्रभागा चन्द्रभागी नदीभेदे द्वयं मतम् ।चन्द्रहासः खड्गमात्रे विशेषाद्रावणस्य च ॥ २०७४ ॥
22.2074 · p. 154
अनुष्टुप्
चन्द्रहासोऽर्धचन्द्राऽग्रे खङ्गमात्रेऽपि कीर्त्तितः ।चन्द्रिका चन्द्रभागाख्यनद्याञ्चन्द्रातपेऽपि च ॥ २०७५ ॥
22.2075 · p. 154
अनुष्टुप्
चन्द्रिप्रिय इत्येष चकोराख्ये खगे द्वयोः ।चन्द्रोदयः स्यादुल्लोचे शशाङ्कस्योदयेपि च ॥ २०७६ ॥
22.2076 · p. 154
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 च (syllables merged)
चपलश्चञ्चले शीघ्रे दुर्विनीतेऽनवस्थिते ।अतले चैव चौरे च वाच्यवत्पारदे तु ना ॥ २०७७ ॥
22.2077 · p. 154
अनुष्टुप्
तुरुष्काख्ये च निर्यासे द्वे तु वानरमत्स्ययोः ।चपला करिपिप्पल्यां पिप्पल्यामपि विद्युति ॥ २०७८ ॥
22.2078 · p. 154
अनुष्टुप्
पुंश्चल्याञ्च सुरायाञ्च तथा लक्ष्म्यामपीष्यते ।चप्पटस्तु चपेटे च पर्परे च पुमान्मतः ॥ २०७९ ॥
22.2079 · p. 154
अनुष्टुप्
चप्पटं स्फारविपुले वाच्यवत्परिकीर्त्तितम् ।चमकं यजुरध्यायभेदे ह्रीबेरकेऽपि च ॥ २०८० ॥
22.2080 · p. 154
अनुष्टुप्
चमरं चामरे स्त्री तु मञ्जर्यां द्वे मृगान्तरे ।चमसो यज्ञपात्रे चाऽस्त्रीकर्णावयवान्तरे ॥ २०८१ ॥
22.2081 · p. 154
अनुष्टुप्
मेघे तु चमसः पुंसि चमसी तु स्त्रियामियम् ।मुद्गादीनां कृते पिष्टे व्यञ्जने परिकीर्त्तिता ॥ २०८२ ॥
22.2082 · p. 154
अनुष्टुप्
चमूः सेनाविशेषे च सेनामात्रेऽपि च स्त्रियाम् ।चम्पस्तु तरुभेदे ना चम्पा स्त्री नगरीभिदि ॥ २०८३ ॥
22.2083 · p. 154
अनुष्टुप्
चयः समूहे प्राकारमूलबन्धे समाहृतौ ।चरोऽक्षद्यूतभेदे च भौमे वारे च पुंस्ययम् ॥ २०८४ ॥
22.2084 · p. 154
अनुष्टुप्
वाच्यवत्तु स्पसे चापि चलेऽथ युवतौ चरी ।चरितं क्लीबमाचारे गते वृत्ते च भक्षणे ॥ २०८५ ॥
22.2085 · p. 154
अनुष्टुप्
गते तु मक्षिते चैव चरितो वाच्यवन्मतः ।चरुः स्थाल्यां हव्यपाके तथा मेघे पुमान्मतः ॥ २०८६ ॥
22.2086 · p. 154
अनुष्टुप्

चर्चरी-चातुरी

चर्चरी चर्भटिरितिप्रसिद्धे हास्यवाक्यके ।उक्ता कार्पटिकानाञ्च गीतभेदे स्त्रियामियम् ॥ २०८७ ॥
22.2087 · p. 155
अनुष्टुप्
चर्चरीको महाकाले केशविन्यासशाकयोः ।चर्चा मार्जारकर्ण्यां स्त्री मार्ष्टौ चर्चिक्यचिन्तयोः ॥ २०८८ ॥
22.2088 · p. 155
अनुष्टुप्
पुंश्चल्यां तिलके गौर्याञ्चर्चो वेदविदि त्रिषु ।चर्मकारः पादुकृतिमतः स्त्रीपुंसयोरयम् ॥ २०८९ ॥
22.2089 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
स्त्री तु चर्मकारीति मता चर्मकषौषधौ ।चर्मण्वती स्त्री कदली द्रुमेऽपि सरिदन्तरे ॥ २०९० ॥
22.2090 · p. 155
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चर्म क्लीबं त्वचि तथा फलकाख्येऽस्त्रवारणे ।चर्मी भूर्जद्रुमे पुंसि तथा भृङ्गरिटावपि ॥ २०९१ ॥
22.2091 · p. 155
अनुष्टुप्
अथो फलकपाणौ च चर्मवत्यपि वाच्यवत् ।चर्वणञ्चर्वणाऽऽस्वादे चर्वणा नीलमक्षिका ॥ २०९२ ॥
22.2092 · p. 155
अनुष्टुप्
चर्वणिर्नाऽनले स्त्री तु व्यवसायेतरे धियाम् ।चलञ्चलाचले त्रि स्त्री पुंश्चलीविद्युतोः श्रियाम् ॥ २०९३ ॥
22.2093 · p. 155
अनुष्टुप्
अथ कम्पे तुरुष्काख्यनिर्यासे चानिले पुमान् ।चलनम्भ्रमणे कम्पे भूषणे वस्त्रघर्घरे ॥ २०९४ ॥
22.2094 · p. 155
अनुष्टुप्
पादे तु चलनः पुंसि पुंश्चल्यां चलना स्त्रियाम् ।चलनी वस्त्रघर्घर्यां वारिभेदेऽपि च क्वचित् ॥ २०९५ ॥
22.2095 · p. 155
अनुष्टुप्
चव्या स्त्रियां वचायां स्याच्चविके चव्यमिष्यते ।चषकोऽस्त्री सुरापात्रे पाने मद्यान्तरेऽपि च ॥ २०९६ ॥
22.2096 · p. 155
अनुष्टुप्
चाक्रिको घाण्टिके चापि तैलिकेऽपि द्वयोर्मतः ।चाटो ना चटने चार्थोपजीविभिदि च स्मृतः ॥ २०९७ ॥
22.2097 · p. 155
अनुष्टुप्
चौरे वर्णे कृष्णहरित्सिते च त्रि तु तद्वति ।चाटुः पशुपिचण्डे ना प्रियवाक्ये तु ना च नप् ॥ २०९८ ॥
22.2098 · p. 155
अनुष्टुप्
नृपादिस्तुतिवाक्ये तु चाटु स्यात्स्त्री नपुंसकम् ।चाटुकारस्तु ना हारभेदे हेमगुडैः कृते ॥ २०९९ ॥
22.2099 · p. 155
अनुष्टुप्
यष्टिमात्रेऽपि च त्रिस्तु विज्ञेयोऽयं प्रियंवदे ।चातुरः शकटे चक्रगण्डौ दाक्ष्ये तु चातुरी ॥ २१०० ॥
22.2100 · p. 155
अनुष्टुप्

चातुरकः-चिकुरः

चाटुकारिनियन्त्रोस्तु दृष्टेरपि च गोचरे ।तथा चतुरसम्बन्धिन्याशुकारिणि च त्रिषु ॥ २१०१ ॥
22.2101 · p. 156
अनुष्टुप्
अथ चातुरकश्चक्रगण्डौ पुंस्यभिधेयवत् ।गोचरे लोचनस्यापि चाटुकारे नियन्तरि ॥ २१०२ ॥
22.2102 · p. 156
अनुष्टुप्
चान्द्रभागस्तु ना शैलविशेषभिदि शीतगोः ।चान्द्रभागा चान्द्रभागी नदीभेदे द्वयं मतम् ॥ २१०३ ॥
22.2103 · p. 156
अनुष्टुप्
चन्द्रभागस्य सम्बन्धिन्येतत्स्यादभिधेयवत् ।चान्द्री स्त्री पूर्णिमायां स्याच्चन्द्रसम्बन्धिनि त्रिषु ॥ २१०४ ॥
22.2104 · p. 156
अनुष्टुप्
चामरन्तु भवेत्क्लीबं ह्रीबेरे च प्रकीर्णके ।अथो चमरसम्बन्धिन्यर्थवच्चामरम्मतम् ॥ २१०५ ॥
22.2105 · p. 156
अनुष्टुप्
पुमांश्चामरपुष्पः स्यात्पूगकाशाम्रकेतके ।चामीकरन्तु कनके चामरेऽपि नपुंसकम् ॥ २१०६ ॥
22.2106 · p. 156
अनुष्टुप्
चाम्पेयो हेम्नि किञ्जल्के तथा चम्पकपादपे ।नागकेशरवृक्षे च ना क्ली तु प्रसवेऽनयोः ॥ २१०७ ॥
22.2107 · p. 156
अनुष्टुप्
चारः प्रियालवृक्षे ना बन्धे चैव स्पशे गतौ ।चारन्तु स्यात्प्रियालस्य प्रसवे चाङ्गणेऽपि नप् ॥ २१०८ ॥
22.2108 · p. 156
अनुष्टुप्
चारकः पालकेऽश्वादेः स्यात्संचालकबन्धयोः ।चारणं चारणाद्यर्थे न ना चारयतेर्द्वयम् ॥ २१०९ ॥
22.2109 · p. 156
अनुष्टुप्
देवजात्यन्तरे तु द्वे चारणोऽपि कुशीलवे ।चारिः पशुमुखव्याधौ लक्षणीयेऽपि च स्त्रियाम् ॥ २११० ॥
22.2110 · p. 156
अनुष्टुप्
चारी तु स्त्री नाट्यनान्द्यागतावन्नस्य सेवने ।चारुर्बृहस्पतौ पुंसि शोभने त्वभिधेयवत् ॥ २१११ ॥
22.2111 · p. 156
अनुष्टुप्
चित्राखुपर्णीमोडुम्बा सुभद्राऽवन्तिकासु तु ।मायायां सर्वनक्षत्रनदीभेदेषु च स्त्रियाम् ॥ २११२ ॥
22.2112 · p. 156
अनुष्टुप्
चारुनालं रक्तपद्मे योगे त्वर्थवदिष्यते ।चालनी चालनं च स्त्री पुंसोस्तितउनि स्मृतम् ॥ २११३ ॥
22.2113 · p. 156
अनुष्टुप्
अथ चालयतेरर्थे चालनं चालना नना ।चिकुरः पादपे केशे पुंसि स्यात्पादपान्तरे ॥ २११४ ॥
22.2114 · p. 156
अनुष्टुप्

चिक्कणः-चित्रभानुः

द्वयोस्तु गृहबभ्रौ स्याद्विहगे च सरीसृपे ।चञ्चले तु त्रिषु ज्ञेयं युवतीनां च लोचने ॥ २११५ ॥
22.2115 · p. 157
अनुष्टुप्
ईषन्निमीलिते च क्ली चिकुरं परिकीर्त्तितम् ।चिक्कणः कथितो धान्ये मसृणे तु त्रिषु स्मृतम् ॥ २११६ ॥
22.2116 · p. 157
अनुष्टुप्
चित्स्त्रियामुच्यते ज्ञाने ज्ञातरि त्वेष भेद्यवत् ।चितं छन्ने त्रिषु चिता स्त्रियां सा चितिचित्ययोः ॥ २११७ ॥
22.2117 · p. 157
अनुष्टुप्
चित्यायां स्त्री चिता क्ली तु चये त्रिश्चितिकर्मणि ।चितिस्तु स्त्री समूहे स्याच्चितायां चयनेऽपि च ॥ २११८ ॥
22.2118 · p. 157
अनुष्टुप्
ज्ञाने च चेततौ त्वेष धातौ पुँल्लिङ्ग इष्यते ।चित्तन्नपुंसक बुद्धौ हृदयेऽपि प्रकीर्त्तितम् ॥ २११९ ॥
22.2119 · p. 157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
चित्यं मृतकचैत्ये स्याच्चित्या मृतचितौ स्त्रियाम् ।चित्रं नपुंसकं पुण्ड्रे स्यादालेख्येप्यथ त्रिषु ॥ २१२० ॥
22.2120 · p. 157
अनुष्टुप्
आश्चर्ये कर्बुराभिख्यवर्णयुक्तेप्यथो पुमान् ।देवतानुक्रमे प्रोक्त आखुराजे चिरन्तने ॥ २१२१ ॥
22.2121 · p. 157
अनुष्टुप्
कर्बुराख्यगुणेऽथ स्त्री चित्रा हेमन्तरा त्रिषु ।पशुकामेष्टिभेदे न्यग्रोध्यां कृष्णत्रिवृत्यपि ॥ २१२२ ॥
22.2122 · p. 157
अनुष्टुप्
गोदुम्बाख्यलताजातौ सुभद्राधुनिभेदयोः ।वेदशालिमुखे चापि नक्षत्रे चन्द्रदैवते ॥ २१२३ ॥
22.2123 · p. 157
अनुष्टुप्
तद्युक्ते कालमात्रे च तत्कालोत्पन्नयोषिति ।द्वयोस्तु चित्रः पाठीननाम्नि मत्स्यान्तरे मतः ॥ २१२४ ॥
22.2124 · p. 157
अनुष्टुप्
चित्रकस्तु पुमान्वह्निसंज्ञायाम्भेषजौषधौ ।तन्मूले च तथैरण्डे द्वे तु राजिलभोगिनाम् ॥ २१२५ ॥
22.2125 · p. 157
अनुष्टुप्
त्रयोदशानां भेदानामेकस्मिन्व्याघ्र एव च ।अथ क्लीबं चित्रकन्तत्तिलके सम्प्रपुज्यते ॥ २१२६ ॥
22.2126 · p. 157
अनुष्टुप्
चित्रगुप्तस्तु पुंसि स्याद्यमे तस्य च लेखके ।चित्रपक्षः पक्षिभेदे द्वे कपिञ्जलसंज्ञके ॥ २१२७ ॥
22.2127 · p. 157
अनुष्टुप्
चित्रपर्णी पृश्निपर्णीलतायां त्रि तु यौगिके ।चित्रभानुः पुमान्सूर्ये पावकेऽपि प्रकीर्त्तितः ॥ २१२८ ॥
22.2128 · p. 157
अनुष्टुप्

चित्ररथः-चुक्रः

अथ चित्ररथः सूर्ये चन्द्रे गन्धर्वभिद्यपि ।चित्रलः कालिङ्गवल्ल्यां छाग्यां स्त्री चित्रला मता ॥ २१२९ ॥
22.2129 · p. 158
अनुष्टुप्
चित्राङ्गो द्वे व्याघ्रभेदे पिण्डारकसमाह्वये ।अथ चित्रशरीरे च चित्राङ्गो वाच्यवन्मतः ॥ २१३० ॥
22.2130 · p. 158
अनुष्टुप्
चिपिटः पृथुके पुंसि त्रि तु पिच्छितविस्तृते ।चिरजीवी द्वयोः काके पुमांस्तु ब्रह्मणि स्मृतः ॥ २१३१ ॥
22.2131 · p. 158
अनुष्टुप्
चिरण्टी त्ववमन्तव्या सा द्वितीयवयः स्त्रियाम् ।सुवासिनीति प्रथिते स्त्रीविशेषेऽपि कोविदैः ॥ २१३२ ॥
22.2132 · p. 158
अनुष्टुप्
चिरमेही गर्दभे द्वे यौगिके त्वर्थवन्मतः ।ग्रीवाभेदेऽतसीविद्युत्खद्योते चिलमीलिका ॥ २१३३ ॥
22.2133 · p. 158
अनुष्टुप्
मत्स्यभेदे चिलिचिमो द्वयोर्हैमवते तु ना ।वृक्षभेदे च तस्यैव प्रसवे क्लीबमिष्यते ॥ २१३४ ॥
22.2134 · p. 158
अनुष्टुप्
चिल्लः क्लिन्नेऽक्ष्णि ना त्रिस्तु क्लिन्नाक्षे द्वे खगान्तरे ।आतापिसंज्ञे चिल्ली तु भ्रुवि शाके च मारिषे ॥ २१३५ ॥
22.2135 · p. 158
अनुष्टुप्
चिह्नन्नपुंसकं प्रोक्तम्पताकायां च लक्ष्मणि ।चीबो ना पीतमुद्गे च तन्तावप्यंशुकान्तरे ॥ २१३६ ॥
22.2136 · p. 158
अनुष्टुप्
काककङ्गौ च मदनद्रुमे चोदीच्यनीवृति ।भूम्नि तद्देशराजेषु तु द्वयोर्मृगयोरपि ॥ २१३७ ॥
22.2137 · p. 158
अनुष्टुप्
व्यवस्थया तु मृगयोर्लक्षणं चैवमुच्यते ।ताम्रवर्णो मृगो यः स हरिणः स्यात्स एव च ॥ २१३८ ॥
22.2138 · p. 158
अनुष्टुप्
सितक्रोडः स चीनः स्यादित्येकः प्रोक्तलक्षणः ।अन्यः कपोतवर्णो यस्त्रिंशदङ्गुलमानकः ॥ २१३९ ॥
22.2139 · p. 158
अनुष्टुप्
इत्युक्तः क्ली तु मदनफले चीनमयस्यपि ।चीरं क्ली छिन्नवस्त्रे च रेखालिखनभेदयोः ॥ २१४० ॥
22.2140 · p. 158
अनुष्टुप्
गोस्तने वल्कले चाऽथ चीरी झिल्लाख्यकीटके ।चीर्णपर्णस्तु निम्बेऽपि खर्जूरद्रौ तथा पुमान् ॥ २१४१ ॥
22.2141 · p. 158
अनुष्टुप्
चुक्रोऽम्लवेतसे बीजपूरे चाऽऽम्लरसे पुमान् ।विमन्त्रणे गुञ्जिकायां सुन्दरे तु द्वयोर्मतः ॥ २१४२ ॥
22.2142 · p. 158
अनुष्टुप्

चुक्रम्-चेतनः

चुक्रन्तु यच्छुचौ भाण्डे सक्षौद्रगुडकाञ्जिके ।त्रिरात्रं धान्यराशिस्थं भवेन्मस्त्वादि तत्स्मृतम् ॥ २१४३ ॥
22.2143 · p. 159
अनुष्टुप्
स्त्री चुक्राथ चाङ्गेर्यां चुक्री त्र्यम्लरसान्विते ।चुम्बकञ्चुम्बनपरे धूर्त्ताऽयस्कान्तयोरपि ॥ २१४४ ॥
22.2144 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 स्त्री (syllables merged)
बहुग्रन्थैकदेशज्ञे घटस्योर्ध्वावलम्बने ।चुम्रस्तु स्यात्पुमान्नाशे नाशवत्यभिधेयवत् ॥ २१४५ ॥
22.2145 · p. 159
अनुष्टुप्
चुलुकी शिशुमारे स्यात्कुण्डीभेदे कुलान्तरे ।चुलुको भाण्डभेदे ना द्वीपाख्ये व्याघ्रके द्वयोः ॥ २१४६ ॥
22.2146 · p. 159
अनुष्टुप्
नृस्त्रियोस्तु द्रवाधारप्रसृते परिकीर्त्तितः ।चुलुम्पो गमने प्रोक्तश्चुलुम्पा छागयोषिति ॥ २१४७ ॥
22.2147 · p. 159
अनुष्टुप्
चुल्लः क्लिन्नाक्षजन्तौ च क्लिन्ने चाक्षणि वाच्यवत् ।चुल्ली चितायामुद्घानेऽपि स्त्रियाम्परिकीर्त्तिता ॥ २१४८ ॥
22.2148 · p. 159
अनुष्टुप्
चूचुर्द्वयोः किरात्याञ्च शम्बरादपि पुल्कसात् ।वैदेहाद्वापि सम्भूतः संकरस्तत्र कीर्त्तितः ॥ २१४९ ॥
22.2149 · p. 159
अनुष्टुप्
चूडा शिखावलभ्योः स्त्री मूर्ध्नि बाहुविभूषणे ।चूडामणिः स्त्री गुञ्जायां पुंस्त्रियोस्तु शिरोमणौ ॥ २१५० ॥
22.2150 · p. 159
अनुष्टुप्
चूडारभा तूच्चटायां स्त्री चूडावति पुनस्त्रिषु ।चूतकः कूपके पुंसि तथाम्रे परिकीर्त्तितः ॥ २१५१ ॥
22.2151 · p. 159
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 वति (syllable split)
चूर्णमस्त्री वासयोगे धूलौ क्षारान्तरेऽप्यथ ।कपर्दके तु चूर्णी स्त्री चूर्णी दग्धेऽभिधेयवत् ॥ २१५२ ॥
22.2152 · p. 159
अनुष्टुप्
चूर्णिश्चूर्णयतौ ना स्त्री ग्रन्थभेदकपर्दयोः ।चूलिस्तु पिष्टकेऽपि स्याच्चापस्याप्यटतौ स्त्रियाम् ॥ २१५३ ॥
22.2153 · p. 159
अनुष्टुप्
चूलिकस्तु तिले ना स्याच्चूलिकी कुक्कुटे द्वयोः ।चूलिका तु स्त्रियां जातिश्छन्दोभेदे गजस्य च ॥ २१५४ ॥
22.2154 · p. 159
अनुष्टुप्
कर्णमूले तथा नाटकाङ्गेऽपि परिकीर्त्तिता ।चूषा गजवरत्रायां स्त्री चूषं चूषणे न ना ॥ २१५५ ॥
22.2155 · p. 159
अनुष्टुप्
चेत् कुत्सितेऽथ साकल्ये स्तुतौ पक्षान्तरेऽव्ययम् ।चेतना संविदि स्त्री स्याच्चेतनः प्राणिनि त्रिषु ॥ २१५६ ॥
22.2156 · p. 159
अनुष्टुप्

चेलः-चौरिका

चेलोऽधमे भेद्यवत्स्याच्चेलं वस्त्रे नपुंसकम् ।चेष्टितन्तु गतौ क्लीबं चेष्टायां च तथेष्यते ॥ २१५७ ॥
22.2157 · p. 160
अनुष्टुप्