कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

क (3/7)

कलशोदकः-कलिः

दधिमन्थनगर्गर्यामपि स्यात्कलशि स्त्रियाम् ।कलशोदक इत्येष पुमानम्लानसंज्ञिनः ॥ ११८३ ॥
17.1183 · p. 90
अनुष्टुप्
स्तम्बस्य भेदे स्याच्छोणपुष्पे झाटाकृतावथ ।कलशस्य जले क्लीबं कलशोदकमिष्यते ॥ ११८४ ॥
17.1184 · p. 90
अनुष्टुप्
कलहंसस्तु कादम्बे राजहंसेऽपि च द्वयोः ।कलहंसस्तु पुँल्लिङ्गश्छन्दोभिद्राजहंसयोः ॥ ११८५ ॥
17.1185 · p. 90
अनुष्टुप्
कलहो युधि च द्वन्द्वे खड्गकोषे च भण्डने ।कलहप्रिय इत्येष नारदः स्त्री तु सारिका ॥ ११८६ ॥
17.1186 · p. 90
अनुष्टुप्
कलेन्दोः षोडशांशे चाप्यंशेऽवयवमात्रके ।वैशिके कलनायां च देहधात्वन्तरे तनौ ॥ ११८७ ॥
17.1187 · p. 90
अनुष्टुप्
त्रिंशत्काष्ठाप्रमाणे च काले वृद्धावृणस्य च ।कूड्यच्छदिः संधिमनःशिलयोर्गीतिशिल्पयोः ॥ ११८८ ॥
17.1188 · p. 90
अनुष्टुप्
कलाङ्कुरस्तु कंसेऽपि पक्षिभेदेऽपि कीर्त्तितः ।कलाचिकः पुमान्दर्व्यां प्रकोष्ठे स्त्री कलाचिका ॥ ११८९ ॥
17.1189 · p. 90
अनुष्टुप्
कलाधरः शशाङ्केऽपि शिवेऽपि परिकीर्त्तितः ।कलाऽनुनादी रोलम्बे कलविङ्के कपिञ्जले ॥ ११९० ॥
17.1190 · p. 90
अनुष्टुप्
कलापः संहतौ बर्हे काञ्च्यां भूषणतूणयोः ।चन्द्रे विदग्धे प्रत्नाङ्गिरसे व्याकरणान्तरे ॥ ११९१ ॥
17.1191 · p. 90
अनुष्टुप्
कलापको ना कलमशालौ क्ली विश्वभेषजे ।कलापकं चतुर्णां च पद्यानां सार्द्धमन्वये ॥ ॥ ११९२ ॥
17.1192 · p. 90
अनुष्टुप्doubled daṇḍa: ॥ ॥
कलापी द्वे मयूरेऽथ ना पर्कट्यां शिवेऽपि च ।कलापिनी स्त्री पार्वत्यां कलापवति तु त्रिषु ॥ ११९३ ॥
17.1193 · p. 90
अनुष्टुप्
कलापी कणिशे स्त्री स्यात्तथाकणिशपूलके ।कलापूर्णस्त्रिकलया तुल्ये चन्द्रे तु पुंस्ययम् ॥ ११९४ ॥
17.1194 · p. 90
अनुष्टुप्
कलाया गण्डदूर्वायां कलायः कालपुष्पके ।कलालापो द्वयोरुक्तो भ्रमरे त्रि तु यौगिके ॥ ११९५ ॥
17.1195 · p. 90
अनुष्टुप्
कलिर्नेषौ रणेऽनर्थे कलधातौ बिभीतके ।तत्फलेऽन्त्ययुगाऽलक्ष्म्योर्विवादे स्त्री तु कोरके ॥ ११९६ ॥
17.1196 · p. 90
अनुष्टुप्

कलिकारः-कल्मषं

कलिकारस्तु धूम्याटे करञ्जे पीतमस्तके ।नारदे कलिकारी तु लाङ्गल्यां परिकीर्त्तिता ॥ ११९७ ॥
17.1197 · p. 91
अनुष्टुप्
कलिङ्गः पूतिकरजे नृपभेदे च पुंस्ययम् ।अपत्येषु बहुष्वस्य भूम्नि चैषां च नीवृति ॥ ११९८ ॥
17.1198 · p. 91
अनुष्टुप्
द्वे तु धूम्याटविहगे स्यात्कलिङ्गा तु नप्स्त्रियोः ।फले कुटजवृक्षस्य महिलायां तु योषिति ॥ ११९९ ॥
17.1199 · p. 91
अनुष्टुप्
कलितं त्र्याप्तविहितसंख्यातज्ञातसंयते ।कलिन्दोऽक्षद्रुमे सूर्ये चाऽद्रिभेदे पुमान्मतः ॥ १२०० ॥
17.1200 · p. 91
अनुष्टुप्
कलिन्दी तु स्त्रियामेषा यमुनायां प्रकीर्त्तिता ।कलिप्रियो नारदे ना वानरे तु द्वयोर्मतः ॥ १२०१ ॥
17.1201 · p. 91
अनुष्टुप्
कलिलं गहने त्रिर्ना समूहे कायपापयोः ।गाम्भीर्ये संगतेऽप्यात्माऽधिष्ठिते शुक्रशोणिते ॥ १२०२ ॥
17.1202 · p. 91
अनुष्टुप्
कलुषं स्यादघे क्लीबं कलुषो महिषे द्वयोः ।सूक्ष्मैलायां तु कलुषी स्त्री त्रिषु त्वाविले भवेत् ॥ १२०३ ॥
17.1203 · p. 91
अनुष्टुप्
कृष्णे तु वर्णे कलुषः पुंसि तद्वति भेद्यवत् ।कलेवरं तु कायेऽपि शवेऽपि च नपुंसकम् ॥ १२०४ ॥
17.1204 · p. 91
अनुष्टुप्
नवानां शम्भुशक्तीनामेकस्यां स्यात्कलेवरा ।कल्कोऽस्त्री घृततैलादिशेषे दम्भे बिभीतके ॥ १२०५ ॥
17.1205 · p. 91
अनुष्टुप्
पापे चौषधपिष्टे च तथा स्यात्किट्टविष्ठयोः ।कल्कस्तुरुष्कनिर्यासे ना त्रि पापाशये मतः ॥ १२०६ ॥
17.1206 · p. 91
अनुष्टुप्
कल्पो देवद्रुमे न्याये संवर्त्तब्रह्मणो दिने ।बिभीतके विकल्पे च सामर्थ्ये वर्णने विधौ ॥ १२०७ ॥
17.1207 · p. 91
अनुष्टुप्
कारणौपम्याऽधिवासच्छेदशास्त्राऽन्तरेषु च ।चिकित्साक्रमभेदे च क्वचिज्जन्मान्तरेऽपि च ॥ १२०८ ॥
17.1208 · p. 91
अनुष्टुप्
कल्पनं तु मतं क्लीबं क्लृप्तौ च छेदनेऽपि च ।कल्पना सज्जनायां स्त्री कारिणः परिकीर्त्तिता ॥ १२०९ ॥
17.1209 · p. 91
अनुष्टुप्
कल्पना तु क्रियायां सा न ना कल्पयतेर्भवेत् ।कल्मषं किल्विषं क्लीबं पुंसि स्यान्नरकान्तरे ॥ १२१० ॥
17.1210 · p. 91
अनुष्टुप्

कल्माषः-कशेरूः

कल्माषो यातुधाने च वर्णे स्यात्कृष्णपाण्डुरे ।कृष्णे च शबले वर्णे तद्वति त्वभिधेयवत् ॥ १२११ ॥
17.1211 · p. 92
अनुष्टुप्
क्लीबं त्वारण्यके साम्नि कयानश्चित्र इत्यृचि ।सर्पसामाह्वये गीते कल्माषं परिकीर्त्तितम् ॥ १२१२ ॥
17.1212 · p. 92
अनुष्टुप्
कल्यस्तु नीरुजि त्रि स्याद्दक्षे कल्याणवाचि च ।सज्जे च क्ली त्वतीतेऽह्नि लग्ने चाहर्मुखेऽपि च ॥ १२१३ ॥
17.1213 · p. 92
अनुष्टुप्
स्त्री सुरायां क्वचित्त्वेष त्रिषु वाक्च्छ्रुतिवर्जिते ।कल्याणं तूत्सवे क्लीबमक्षयस्वर्गरुक्मयोः ॥ १२१४ ॥
17.1214 · p. 92
अनुष्टुप्
मङ्गले स्वर्णपत्रे च श्रुतौ च परिकीर्त्तितम् ।कल्याणी क्ष्मागिरिजयोर्वाच्यवत्त्वक्षये शुभे ॥ १२१५ ॥
17.1215 · p. 92
अनुष्टुप्
कल्याणा चापि कल्याणी स्त्रीत्वेऽन्त्यार्थद्वये भवेत् ।कल्याणकं शुभं कल्याणिका तु स्यान्मनःशिला ॥ १२१६ ॥
17.1216 · p. 92
अनुष्टुप्
कल्याणिनी बलायां स्त्री कल्याणी त्रिः शुभान्विते ।कल्लोलः पुंसि हर्षे स्यान्महोर्मौ च रिपावपि ॥ १२१७ ॥
17.1217 · p. 92
अनुष्टुप्
कवचः पटहे चैव नान्दीवृक्षे तथा पुमान् ।पुंनपुंसकयोस्त्वेतत्संनाहे कवचं मतम् ॥ १२१८ ॥
17.1218 · p. 92
अनुष्टुप्
कवटः कवटी च द्वे पुल्कसी शूद्रसम्भवे ।कवटं क्लीबमुच्छिष्टे भक्ताख्येऽन्ने च कीर्त्तितम् ॥ १२१९ ॥
17.1219 · p. 92
अनुष्टुप्
कवारः पक्षिभेदे स्यात्कवारं कमले मतम् ।कविः शुक्रे च वाल्मीकौ कृतकोटिमुनौ च ना ॥ १२२० ॥
17.1220 · p. 92
अनुष्टुप्
स्त्र्यङ्गुलित्रे खलीने च विद्वत्काव्यकृतोस्त्रिषु ।स्यात्कव्यवाहनोऽग्नौ ना विशेषात्पितृपावके ॥ १२२१ ॥
17.1221 · p. 92
अनुष्टुप्
कशा स्त्री वाजिताडन्यां द्वे तु लोमशपुच्छके ।नकुलस्य प्रभेदेऽपि डिण्डिकीवैश्यजे सुते ॥ १२२२ ॥
17.1222 · p. 92
अनुष्टुप्
कशिपुः शयने वस्त्रेऽन्ने चाऽस्त्री तद्द्वये कुथे ।कशेरुः स्त्रीनपोः पृष्ठस्यास्थनि क्लीबकं पुनः ॥ १२२३ ॥
17.1223 · p. 92
अनुष्टुप्
स्तम्बप्रभेदे सजले पङ्करूढे कशेर्वथ ।वशावेश्याकर्णिकारे कशेरूः परिकीर्त्तिता ॥ १२२४ ॥
17.1224 · p. 92
अनुष्टुप्

कश्मलं-काकणी

कश्मलं मलिने त्रि स्यात्क्लीबं मोहपुरीषयोः ।कश्मीरजं कुङ्कुमे स्यात्त्रि तु कश्मीरसम्भवे ॥ १२२५ ॥
17.1225 · p. 93
अनुष्टुप्
कश्यं त्रिषु कशाऽर्हे स्यात्क्लीबं मद्याऽश्वबध्ययोः ।कश्यपो मुनिभेदे ना द्वे कूर्मे त्रिस्तु मद्यपे ॥ १२२६ ॥
17.1226 · p. 93
अनुष्टुप्
कषाकुरग्नो सूर्ये च पुँल्लिङ्गः परिकीर्त्तितः ।कषायस्तु वराभिख्यरसे क्वाथरसे तथा ॥ १२२७ ॥
17.1227 · p. 93
अनुष्टुप्
निर्यासे सौरभे च स्यादनुराङ्गरागयोः ।रागद्रव्ये रक्तवर्णे रक्तपीतद्वयात्मके ॥ १२२८ ॥
17.1228 · p. 93
metre not recognisednearly अनुष्टुप्
मिश्रवर्णे तथा क्रोधलाभादौ भेद्यवत्पुनः ।रक्तवर्णयुते रक्तपीतवर्णद्वयान्विते ॥ १२२९ ॥
17.1229 · p. 93
अनुष्टुप्
सुरभौ तु वराख्येन रसेन च समन्विते ।कषायी शालखर्जूरी लकुचे ना त्रियौगिके ॥ १२३० ॥
17.1230 · p. 93
अनुष्टुप्
कषिर्निकषपाषाणे धातौ स्यात्कषतावपि ।अश्वकर्णाख्यवृक्षे च काष्ठेऽपि च तथा पुमान् ॥ १२३१ ॥
17.1231 · p. 93
अनुष्टुप्
कषीका मक्षिकायां स्त्री कषीकं क्ली खनित्रके ।कषुस्तु ना करीषाग्नौ स्त्री कुल्यातुषकोष्ठयोः ॥ १२३२ ॥
17.1232 · p. 93
अनुष्टुप्
कष्टं तु गहने कृच्छ्रे त्रिष्वसत्त्वे नपुंसकम् ।कंसो ना पूर्वभूपालभेदे कृष्णस्य मातुले ॥ १२३३ ॥
17.1233 · p. 93
अनुष्टुप्
पानपात्राऽन्तरे त्वस्त्री लोहे घोषाख्य आढके ।हंसे स्त्रीपुंसयोरेष कंसः संपरिकीर्त्तितः ॥ १२३४ ॥
17.1234 · p. 93
अनुष्टुप्
कस्वरं तु धने क्लीबं त्रिः स्यात्कसनशीलके ।कांस्योऽस्त्री वाद्यभित्पानपात्रघोषाख्यतैजसे ॥ १२३५ ॥
17.1235 · p. 93
अनुष्टुप्
काको द्वे वायसे ना तु वृक्षभित्पाठसर्पिणोः ।शिरोऽवक्षालने लौल्ये मानभिद्द्वीपभेदयोः ॥ १२३६ ॥
17.1236 · p. 93
अनुष्टुप्
काकं क्ली रतबन्धाऽन्तरेऽपि स्यात्काकसंहतौ ।काकजङ्घा षडस्रेतिप्रसिद्धस्थावरान्तरे ॥ १२३७ ॥
17.1237 · p. 93
अनुष्टुप्
गुडासमाख्यवल्ल्यां स्त्री जङ्घायां करटस्य च ।काकणी मानदण्डस्य माषस्य च पणस्य च ॥ १२३८ ॥
17.1238 · p. 93
अनुष्टुप्

काकतुण्डी-काचूकः

तुर्येंऽशे पादुकायां च कपर्दानां च विंशतौ ।एकस्मिंश्च कपर्दे स्यात्कृष्णलेऽपि स्त्रियामियम् ॥ १२३९ ॥
17.1239 · p. 94
अनुष्टुप्
काकतुण्डी तु तापिच्छे काकतुण्डोऽगुरौ पुमान् ।काकनासा पुष्पगुल्मे वसुभट्टाभिधे स्त्रियाम् ॥ १२४० ॥
17.1240 · p. 94
अनुष्टुप्
काकाङ्गवल्ल्यां काकस्य नासिकायां च कीर्त्तिता ।काकपीलुस्तु काकेन्दौ ना गुञ्जायां स्त्रियामियम् ॥ १२४१ ॥
17.1241 · p. 94
अनुष्टुप्
त्रिलिङ्ग एष कथितः काकपीलुः स्वरान्तरे ।काकभाण्डी काकतुण्ड्यां तथा हस्तिकरञ्जके ॥ १२४२ ॥
17.1242 · p. 94
अनुष्टुप्
भवेत्काकरुको भीरावुलृकेऽस्त्री जिनेऽपि च ।नग्ने दम्भे तथा निम्बपादपेऽपि पुमानयम् ॥ १२४३ ॥
17.1243 · p. 94
अनुष्टुप्
काकली तु कले सूक्ष्मे शब्दे स्त्री काकलं पुनः ।ग्रीवाया उन्नते देशे क्ली कण्ठमणिसंज्ञके ॥ १२४४ ॥
17.1244 · p. 94
अनुष्टुप्
काकशीर्षस्तु ना पुष्पस्तम्बभेदे शिवप्रिये ।वसुभट्ट इति ख्याते क्ली तु काकस्य मूर्धनि ॥ १२४५ ॥
17.1245 · p. 94
अनुष्टुप्
काकाण्डं वायसाण्डे क्ली कृष्णशिम्बौ तु पुंस्ययम् ।काकी स्त्री काकनासायां काकोलीकाकजङ्घयोः ॥ १२४६ ॥
17.1246 · p. 94
अनुष्टुप्
रक्तिकामलपूकाकमाचीतुवरिकासु च ।काकोदरस्तु द्वे सर्पमात्रे सर्पान्तरे तथा ॥ १२४७ ॥
17.1247 · p. 94
अनुष्टुप्
षड्विंशतेरन्यतमे दर्वीकरफणाभृताम् ।काकोलो द्वे कुलाले च द्रोणकाके प्रकीर्त्तितः ॥ १२४८ ॥
17.1248 · p. 94
अनुष्टुप्
काकोलोऽस्त्री विषभिदि कालोलं नरकान्तरे ।काकोली तु पयस्याख्यवल्लीजातौ स्त्रियां मता ॥ १२४९ ॥
17.1249 · p. 94
अनुष्टुप्
काक्षी तुवरिकायां च स्त्रियां सौराष्ट्रमृद्यपि ।काचः शिक्येऽक्षिरुग्भेदे मृद्भेदे च शिलान्तरे ॥ १२५० ॥
17.1250 · p. 94
अनुष्टुप्
स्त्री काचमालिका मद्ये काचस्रजि च कीर्त्तिता ।काचिकस्तु पुमाञ्ज्ञेयः कमुण्डे द्वेतु मूषिके ॥ १२५१ ॥
17.1251 · p. 94
अनुष्टुप्
काचिद्यः काञ्चनेऽपि स्याच्छेमण्डे मूषिकेऽपि च ।काचूकः कृकवाकौ स्यात्पीतमस्तककोकयोः ॥ १२५२ ॥
17.1252 · p. 94
अनुष्टुप्

काञ्चनः-कान्तः

काञ्चनः काञ्चनार स्याच्चम्पके नागकेसरे ।उदुम्बरे च धुर्धूरे हरिद्रायां तु काञ्चनी ॥ १२५३ ॥
17.1253 · p. 95
अनुष्टुप्
क्ली त्वब्जकेसरे हेम्नि ब्रह्मरीतौ तु न स्त्रियाम् ।काञ्ची स्त्री मेखलादाम्नि दाक्षिणात्यपुरान्तरे ॥ १२५४ ॥
17.1254 · p. 95
अनुष्टुप्
काठः पुमान्स्यात्पाषाणे कठसम्बन्धिनि त्रिषु ।काणः काके द्वयोस्त्रिर्विकृतेऽक्ष्णि विकृताक्षके ॥ १२५५ ॥
17.1255 · p. 95
अनुष्टुप्
काणकस्त्रिषु हिंस्रे स्यात्काणकं त्वक्षिजे मले ।काणूकः कुक्कुटे हंसभिदि पक्ष्यन्तरे द्वयोः ॥ १२५६ ॥
17.1256 · p. 95
अनुष्टुप्
अस्त्री काण्डो जले बाणे दण्डे नाले च कुत्सिते ।शक्तिसंज्ञबलेऽध्याये स्तम्बेऽवसरवर्गयोः ॥ १२५७ ॥
17.1257 · p. 95
अनुष्टुप्
इक्ष्वादेर्ग्रन्थिभेदे च द्रुमस्कन्धे रहस्यपि ।काण्डकारो बाणकारे गुवाके तु नपुसंकम् ॥ १२५८ ॥
17.1258 · p. 95
अनुष्टुप्metre not read in every line
काण्डी रोगजपिप्पल्यां त्रिस्तु काण्डवति स्मृतः ।काण्डी तु हस्तिपिप्पल्यां स्त्रीलिङ्गे परिकीर्त्तिता ॥ १२५९ ॥
17.1259 · p. 95
अनुष्टुप्
कातरः पण्डके पुंसि भीरौ त्रिर्द्वे झषान्तरे ।कात्यायनो वररुचौ तथा मुन्यन्तरे पुमान् ॥ १२६० ॥
17.1260 · p. 95
अनुष्टुप्
काषायवस्त्रविधवार्द्धजरत्युभयोः स्त्रियाम् ।कादम्बः कलहंसे द्वे बाणे ना त्रि तु यौगिके ॥ १२६१ ॥
17.1261 · p. 95
अनुष्टुप्
कादम्बरो ना दध्यग्रे क्ली तु मद्यान्तरे मतम् ।स्त्रीवारुणीपरभृताभारतीशारिकासु च ॥ १२६२ ॥
17.1262 · p. 95
अनुष्टुप्
कादम्बिनी स्त्रियां मेघमालायां च नवाम्बुदे ।कानकं कलकोऽपूते तथा स्याद्बीजरेचके ॥ १२६३ ॥
17.1263 · p. 95
अनुष्टुप्
काननं विपिने गेहे परमेष्ठिमुखेऽपि च ।कानीनः पुंसि कर्णे च व्यासे त्रिषु तु लोभिनि ॥ १२६४ ॥
17.1264 · p. 95
अनुष्टुप्
पितृगेहेऽप्यनूढाजे कानीनं त्वञ्जने स्मृतम् ।कान्ता प्रियङ्गौ रामायां स्त्री कान्तस्तु धवे पुमान् ॥ १२६५ ॥
17.1265 · p. 95
अनुष्टुप्
नान्दीवृक्षे चम्पकद्रौ क्ली तु तत्प्रसवे भवेत् ।तथा दमनके त्रिस्तु कान्तः प्रियमनोज्ञयोः ॥ १२६६ ॥
17.1266 · p. 95
अनुष्टुप्

कान्तारः-कामरूपाः

चन्द्रायः सूर्यपर्यायपरः पुंसि शिलायसोः ।कान्तारोऽस्त्री महारण्ये दुर्गमार्गे च कीर्त्तितः ॥ १२६७ ॥
17.1267 · p. 96
अनुष्टुप्
वनमात्रे च कान्तारस्त्विक्षुभेदे पुमानयम् ।कान्तारकस्त्विक्षुभेदे जनभेदे तु भूम्नि ना ॥ १२६८ ॥
17.1268 · p. 96
अनुष्टुप्
कान्तारिका तु कथिता स्त्रियां सा मक्षिकान्तरे ।कान्तिः स्त्रियां स्यादिच्छायां शोभायां च प्रयुज्यते ॥ १२६९ ॥
17.1269 · p. 96
अनुष्टुप्
कान्तिदा वाकुची प्रोक्ता कान्तिदं पित्तमुच्यते ।कान्तिदायकमुक्तं त्रिर्यागे कालीयके तु नप् ॥ १२७० ॥
17.1270 · p. 96
अनुष्टुप्
पुमान्कापटिकश्छात्रवेषधारे स्पशान्तरे ।संस्थाचराणां पञ्चानामेकस्मिंस्त्रिस्तु दाम्भिके ॥ १२७१ ॥
17.1271 · p. 96
अनुष्टुप्
कापथः कुत्सितपथेऽप्युशीरे क्लीबमिष्यते ।कापोतो रुचके क्ली तु कपोतौघेऽञ्जनान्तरे ॥ १२७२ ॥
17.1272 · p. 96
अनुष्टुप्
कामः काम्यस्मरेच्छासु गुग्गुलावपि रेतसि ।क्लीबं निकामे कामं स्यात्तत्स्यादनुमतेऽव्ययम् ॥ १२७३ ॥
17.1273 · p. 96
अनुष्टुप्
कामकूटस्तु वेश्यायाः प्रियविभ्रमयोः पुमान् ।पुमान्कामगुणो रागे विषयाभोगयोरपि ॥ १२७४ ॥
17.1274 · p. 96
अनुष्टुप्
कामचारः स्वतन्त्रे त्रिः स्वेच्छायां तु पुमान्मतः ।कामचारी ना गरुडे कलविङ्के द्वयोर्मतः ॥ १२७५ ॥
17.1275 · p. 96
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
वाच्यवत्कामचार्युक्तः स्वच्छन्दे कार्मुकेपि च ।कामदा कामधेनौ स्त्री कामदातरि वाच्यवत् ॥ १२७६ ॥
17.1276 · p. 96
अनुष्टुप्
कामध्वजो ना वादित्रनिर्घोषे च स्मरोत्सवे ।कामस्य तु ध्वजे ज्ञेयः पुनपुंकसयोरयम् ॥ १२७७ ॥
17.1277 · p. 96
अनुष्टुप्
क्लीबं कामपदं योनौ कामस्य च पदे तथा ।कामपालः शिवे चैव बलदेवे पुमान्मतः ॥ १२७८ ॥
17.1278 · p. 96
अनुष्टुप्
कामप्रः कामपूर्त्तौ स्यात्कामप्रः कामपूरके ।कामप्रदः कामदे त्रीरतबन्धान्तरे तु ना ॥ १२७९ ॥
17.1279 · p. 96
अनुष्टुप्
कामं प्रकामासूयानुगमनानुमतिष्वपि ।कामरूपास्तु पुंभूम्नि स्युः प्राग्ज्योतिषनीवृति ॥ १२८० ॥
17.1280 · p. 96
अनुष्टुप्

कामरूपी-कायस्थः

योगार्थे त्वर्थवशतो लिङ्गाद्यं तस्य तर्क्यताम् ।कामरूपी द्वयोर्नानावर्णे च कृकलासके ॥ १२८१ ॥
17.1281 · p. 97
अनुष्टुप्
बिम्बाख्ये यौगिके त्वर्थवशतो लिङ्गमुन्नयेत् ।कामला द्वे रुजाभेदे कामुके कामलस्त्रिषु ॥ १२८२ ॥
17.1282 · p. 97
अनुष्टुप्
कामलस्तु पुमानेष मतो मरुवसन्तयोः ।कामवान्कामिनि मतस्तस्य लिङ्गादि वाच्यवत् ॥ १२८३ ॥
17.1283 · p. 97
अनुष्टुप्
कामवत्युदितादारुहरिद्रायां स्त्रियामियम् ।कामवृद्धिर्लताभेदे योगार्थेऽपि स्त्रियां मता ॥ १२८४ ॥
17.1284 · p. 97
अनुष्टुप्
भवेत्कामशरः कामबाणे चाम्रतरावपि ।अथ कामसखश्चैत्रवसन्ताम्रतरुष्वपि ॥ १२८५ ॥
17.1285 · p. 97
अनुष्टुप्
कामाङ्कुशो नखे चैव मेहनेऽपि प्रकीर्त्तितः ।कामाङ्गश्चूतवृक्षे ना कामाङ्गं तु स्मराङ्गके ॥ १२८६ ॥
17.1286 · p. 97
अनुष्टुप्
कामान्धा स्त्री मृगमदे कामान्धः कोकिले द्वयोः ।कामायुधो महाराजचूते मेढ्रे तु नप्स्मृतम् ॥ १२८७ ॥
17.1287 · p. 97
अनुष्टुप्
कामिर्ना कामुके रत्यां स्त्री कामिः परिकीर्त्तिता ।कामिकान्तं तु माध्वीकमद्ये क्ली त्रि तु यौगिके ॥ १२८८ ॥
17.1288 · p. 97
अनुष्टुप्
कामी द्वे सारसे चक्रवाके पारावतेऽपि च ।वाच्यवत्कामुके स्त्री तु कामिनी भीरुवन्दयोः ॥ १२८९ ॥
17.1289 · p. 97
अनुष्टुप्
पुष्पवृक्षविशेषेऽपि कामिनी कीर्त्तिता स्त्रियाम् ।कामुकः कमनेऽशोकपादपे चातिमुक्तके ॥ १२९० ॥
17.1290 · p. 97
अनुष्टुप्
कामोत्सवः पुमान्कामहर्षे चापि स्मरोत्सवे ।काम्पिल्या देशभेदे च पुमान्वृक्षान्तरेऽपि च ॥ १२९१ ॥
17.1291 · p. 97
अनुष्टुप्
काम्बोजः श्वेतखदिरे पुमान्पुन्नागपादपे ।काम्बोजी माषपर्ण्यां स्त्री द्वे तु कम्बोजवाजिनि ॥ १२९२ ॥
17.1292 · p. 97
अनुष्टुप्
काम्यं ताम्रे त्रिस्तु कामसाधुकामयितव्ययोः ।कायः शरव्ये निवहे स्वभावे च तनौ च ना ॥ १२९३ ॥
17.1293 · p. 97
अनुष्टुप्
कायं प्राजापत्यतीर्थे क्लीबं त्रिस्तु कदैवते ।कायस्थो लेखकाख्ये स्यान्नरजात्यन्तरे द्वयोः ॥ १२९४ ॥
17.1294 · p. 97
अनुष्टुप्

कायस्था-कारुजः

स्त्री कायस्था हरीतक्यां चित्रगुप्तात्मनोस्तु ना ।कायिका प्रत्यहं देहे ऋणे वृद्ध्यन्तरे स्मृता ॥ १२९५ ॥
17.1295 · p. 98
अनुष्टुप्
कायेन तु कृते चैतत्कायिकं स्यात्त्रिलिङ्गकम् ।कारः पुंसि क्रियायां च नृपभागेऽप्यथ स्त्रियाम् ॥ १२९६ ॥
17.1296 · p. 98
अनुष्टुप्
कारकः कर्त्तरि तथा हिंसकेप्यभिधेयवत् ।क्रियानिर्वर्त्तके तु क्ली कर्मादौ कारकं मतम् ॥ १२९७ ॥
17.1297 · p. 98
अनुष्टुप्
कारणं करणे हेतौ स्त्रीनपोस्त्वपि कारणा ।क्रियायां स्यात्कारयतेर्घाते च परिकीर्त्तिता ॥ १२९८ ॥
17.1298 · p. 98
अनुष्टुप्
कारणा तु स्त्रियां तीव्रवेदनायां प्रकीर्त्तिता ।कारन्धमी कांस्यकारे धातुवादरतेऽपि ना ॥ १२९९ ॥
17.1299 · p. 98
अनुष्टुप्
कारवी वाष्पिकासंज्ञभेषजे कृष्णजीरके ।खराश्वाख्याजमोदायां शतपुष्प्यौषधावपि ॥ १३०० ॥
17.1300 · p. 98
अनुष्टुप्
कारवी कीर्त्तिता क्षुद्रकारवेल्ल्यामपि स्त्रियाम् ।कारस्करो द्वयो राजवृक्षे क्ली नगरान्तरे ॥ १३०१ ॥
17.1301 · p. 98
अनुष्टुप्
पुमांस्तु गिरिभेदेऽथ नृभूम्नि स्युर्जनान्तरे ।कारा प्रसेविकायां च तथा वन्धनवेश्मनि ॥ १३०२ ॥
17.1302 · p. 98
अनुष्टुप्