कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

आ (2/2)

आलेपः पुनरालिप्तावनुलेपनवस्तुनि ।आलोकस्तु नृलिङ्गः स्यादुद्योते दर्शने तथा ॥ ५९० ॥
4.590 · p. 46
अनुष्टुप्
आवन्त्योऽवन्तिराट्पुत्रे मर्त्त्यजात्यन्तरे पुनः ।विप्रपूर्वकविप्रस्त्रीजाते व्रात्याद्द्वयोर्भवेत् ॥ ५९१ ॥
4.591 · p. 46
अनुष्टुप्
आवर्त्तोऽम्भोभ्रमे रोमप्रभृतेर्बलिते चये ।आवर्त्तनायामावृत्तौ चिन्तने च पुमान्मतः ॥ ५९२ ॥
4.592 · p. 46
अनुष्टुप्
अथावर्त्तनमावृत्तौ नपुंसकमुदाहृतम् ।आवर्त्तना स्यादभ्यासे सूत्रस्य वलने स्त्रियाम् ॥ ५९३ ॥
4.593 · p. 46
अनुष्टुप्
आवसथ्यस्त्वावसथेऽप्यग्नौ चाहवनीयतः ।प्राग्देशस्थे प्रयुक्तोऽसौ पुँल्लिङ्गे शब्दवेदिभिः ॥ ५९४ ॥
4.594 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्वा (wrong syllable)
आवाप आलवाले च प्रक्षेपे न्यसने तथा ।परिक्षेपे च वपने भाण्डे चापि पुमान्मतः ॥ ५९५ ॥
4.595 · p. 46
अनुष्टुप्
आवापकः पारिहार्ये स्यादावप्तरि तु त्रिषु ।आविकं त्र्यवियुक्ते क्लीत्वविरोमजकम्बले ॥ ५९६ ॥
4.596 · p. 46
अनुष्टुप्
आविद्धं कुटिले क्षिप्ते वाच्यवच्च पराहते ।आविलं कलुषेऽपि स्याद्वाच्यवच्चाप्यनुज्ज्वले ॥ ५९७ ॥
4.597 · p. 46
अनुष्टुप्
आवृत्स्त्रियामावृ…त्तथा यागादिकर्मणाम् ।कल्पे च परिपाट्यां च साम्नो गायत्रसंज्ञिनः ॥ ५९८ ॥
4.598 · p. 46
अनुष्टुप्metre not read in every line

आवेशनं-आश्लेषा

द्वितीयपादगीत्यां च तृतीयार्चिकपर्वणोः ।आवेशनं शिल्पिशाले भूतावेशप्रवेशयोः ॥ ५९९ ॥
4.599 · p. 47
अनुष्टुप्
आवेष्टको वेष्टके त्रिर्वाटे पुँल्लिङ्ग उच्यते ।समीपेऽप्यथ भुक्तौ च व्याप्तावाशः पुमान्मतः ॥ ६०० ॥
4.600 · p. 47
अनुष्टुप्
आशङ्का तु भये सम्भावनायामपि च स्त्रियाम् ।आशयस्तु पुमान्स्थानेऽभिप्रायाधारयोरपि ॥ ६०१ ॥
4.601 · p. 47
अनुष्टुप्
कोष्ठागारे जलस्थाने वासनायां च चेतसि ।विभवे पनसे संघेऽथ त्रिः कृपणजीर्णयोः ॥ ६०२ ॥
4.602 · p. 47
अनुष्टुप्
आशरो राक्षसे द्वे ना त्वग्नौ त्र्यशरयोगिनि ।आशा स्त्री दीर्घतृष्णायां दिश्यवान्तरदिश्यपि ॥ ६०३ ॥
4.603 · p. 47
अनुष्टुप्
आशाबन्धः समाश्वासे तथा मर्कटजालके ।त्रिराशिनं भवस्तत्र करणे नौदनादिना ॥ ६०४ ॥
4.604 · p. 47
अनुष्टुप्
येनाशितो भवेद्भावे त्वाशितस्यास्त्रियां मतः ।आशिरस्तु पुमान्वह्नौ विष्णौ सूर्ये च भोजने ॥ ६०५ ॥
4.605 · p. 47
अनुष्टुप्
तथा क्षीरविकारे स्यादथ बह्वाशिनि त्रिषु ।आशीरिच्छा हिताशंसा सर्पदंष्ट्रास्वपि स्त्रियाम् ॥ ६०६ ॥
4.606 · p. 47
अनुष्टुप्
आशुः पाटलसंज्ञे ना व्रीहिभेदे दिवाकरे ।अलंकारसुवर्णे तु क्ली शृङ्गीकनकाह्वये ॥ ६०७ ॥
4.607 · p. 47
अनुष्टुप्
असत्त्वगामिचेच्छीघ्रेऽव्ययं सत्त्वे पुनस्त्रिषु ।आशुराश्वीति चाप्यश्वे पुंस्त्रियोः परिकीर्त्तितम् ॥ ६०८ ॥
4.608 · p. 47
अनुष्टुप्
आशुशुक्षणिराख्यातः पुमान्वह्नौ रवावपि ।आशौचनिः पुमानग्नौ चन्द्रेऽपि परिकीर्त्तितः ॥ ६०९ ॥
4.609 · p. 47
अनुष्टुप्
आश्रमोऽस्त्री मुनिवने ब्रह्मचर्यादिके मठे ।आश्रयाशः पुमान्वह्नौ त्रिषु चाश्रयनाशके ॥ ६१० ॥
4.610 · p. 47
अनुष्टुप्
आश्रवोऽङ्गीकृतौ क्लेशे [पुंसि] त्रि तु स्याद्वचनस्थिते ।आश्राणा स्त्री यवाग्वां स्यात्पक्वे त्वन्यत्र भेद्यवत् ॥ ६११ ॥
4.611 · p. 47
अनुष्टुप्metre not read in every line
क्षीराच्च हविषश्चाथाशृतं क्षीरे हविष्यपि ।आश्लेषासर्पभे स्त्री स्यादाश्लेषस्तु पुमानयम् ॥ ६१२ ॥
4.612 · p. 47
अनुष्टुप्

आश्वयुजी-आस्कन्दनं

रसाख्यधातौ शारीरे स्त्रीणां चालिङ्गने मतः ।स्त्रियामाश्वयुजी पौर्णमासी भेदेऽश्वयुग्युते ॥ ६१३ ॥
4.613 · p. 48
अनुष्टुप्
ना तु मास्याश्विने त्रिस्तु जातेऽश्विन्याख्यकालके ।आश्वास आख्यायिकांश आशुक्षेपे च विश्रमे ॥ ६१४ ॥
4.614 · p. 48
अनुष्टुप्
आश्विनो मास्याश्वयुजे क्ली तु शास्त्रान्तरे क्रतौ ।सम्बन्धिनि त्वश्विनोश्चाश्विन्याश्च त्रिषु कीर्त्त्यते ॥ ६१५ ॥
4.615 · p. 48
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 स्या (wrong syllable)
आश्विनी स्त्रीष्टकासु स्यादग्निचित्यगतासु च ।अश्विनीनक्षत्रयुक्ते तथा स्यात्पूर्णिमान्तरे ॥ ६१६ ॥
4.616 · p. 48
अनुष्टुप्
आषाढः शुचिमासेऽपि व्रतिदण्डे नगान्तरे ।प्रलये पूर्णिमायां त्वाषाढाऽऽषाढर्क्षभाज्यसौ ॥ ६१७ ॥
4.617 · p. 48
अनुष्टुप्
आष्ट्रं नपुंसके प्रोक्तमाकाशे किरणेऽपि च ।आस्स्मृतौ कोपसन्तापावाकृतिष्वपि चाव्ययम् ॥ ६१८ ॥
4.618 · p. 48
अनुष्टुप्
आसः स्यात्क्षेपणे चापे चेक्षुपक्षिभिदोः पुमान् ।कैवर्तीमुस्तकाख्ये तु स्यादासं मुस्तकान्तरे ॥ ६१९ ॥
4.619 · p. 48
अनुष्टुप्
आसक्तमन्धकारे क्ली त्रि त्वासज्जनकर्मणि ।आसत्तिस्तु स्त्रियां लाभे सांनिध्ये संगमेपि च ॥ ६२० ॥
4.620 · p. 48
अनुष्टुप्
आसनं गात्रविन्यासभेदे पद्मासनादिके ।यात्रानिवृत्तौ पीठे च गजस्कन्धे नपुंसकम् ॥ ६२१ ॥
4.621 · p. 48
अनुष्टुप्
आसना चासनं चेति क्रियायामास्तितो न ना ।आसनी विपणौ स्त्री स्यादासनः पुंसि जीरके ॥ ६२२ ॥
4.622 · p. 48
अनुष्टुप्
आसन्दस्तु पुमान्विष्णावासन्दी वेत्रनिर्मिते ।स्त्रियां स्यादासने कैश्चिदुक्तैषाऽऽसनमात्रके ॥ ६२३ ॥
4.623 · p. 48
अनुष्टुप्
आसवो मद्यभेदेऽप्यपक्वेक्षुरससाधिते ।आसुत्याख्ये तथा मद्यसन्धाने पूगपादपे ॥ ६२४ ॥
4.624 · p. 48
अनुष्टुप्
आसारी स्त्री स्थले सार्थे त्वासारश्चण्डवर्षणे ।राज्ञां सुहृद्बले सैन्यप्रसरे प्रसृतावपि ॥ ६२५ ॥
4.625 · p. 48
अनुष्टुप्
त्रिरासुतीबलः कल्या पाले ना सोमयाजिनि ।आस्कन्दनं तिरस्कारे रणे संशोषणेपि च ॥ ६२६ ॥
4.626 · p. 48
अनुष्टुप्

आस्था-आह्वा

स्यादास्तरणमास्तीर्य्ये कुशे चास्तीर्णवस्तुनि ।आस्था त्वालम्बनास्थानयत्नापेक्षास्वियं स्त्रियाम् ॥ ६२७ ॥
4.627 · p. 49
अनुष्टुप्
प्रतिज्ञायां च तात्पर्ये गोष्ठ्यां चापि प्रयुज्यते ।आस्थान्यना प्रतिज्ञायां सदस्याक्रमणे तु नप् ॥ ६२८ ॥
4.628 · p. 49
अनुष्टुप्
आस्पदं तु भवेत्कृत्ये स्थाने चापि नपुंसकम् ।आस्फोटनी वेधन्यां स्त्र्यास्फोटे त्वास्फोटना न ना ॥ ६२९ ॥
4.629 · p. 49
अनुष्टुप्
आस्फोतो नाऽर्कपर्णेऽपि पलाशे कोविदारके ।आस्फोता गिरिकर्ण्यां च वनमल्ल्यामपि स्त्रियाम् ॥ ६३० ॥
4.630 · p. 49
अनुष्टुप्
आस्या स्यादासनायां स्त्री मुखे त्वास्यं विलेऽस्य च ।त्रि तु तद्भवतत्साधुतद्धितक्षेप्यवस्तुषु ॥ ६३१ ॥
4.631 · p. 49
अनुष्टुप्
आस्यप्रिया निष्पावाख्यधान्ये त्रि तु मुखप्रिये ।आस्रं क्ली रुधिरे वाष्पे कचे ना त्र्यस्रयोगिनि ॥ ६३२ ॥
4.632 · p. 49
अनुष्टुप्
आह क्षेपेऽतियोगे च परिकीर्त्तितमव्ययम् ।आहतस्त्वानके क्ली तु वस्त्रयोः प्रत्ननूत्नयोः ॥ ६३३ ॥
4.633 · p. 49
अनुष्टुप्
मृषार्थवाक्ये तु हते गुणिते ताडिते त्रिषु ।आहतिः स्त्री हतौ यज्वस्तुगासादनकर्मणि ॥ ६३४ ॥
4.634 · p. 49
अनुष्टुप्
आहार ओदनेपि स्यादानीतौ भोजनेऽपि च ।आहार्यमाहर्तव्ये त्र्यभिनेये भूषणादिभिः ॥ ६३५ ॥
4.635 · p. 49
अनुष्टुप्
आहो धिगर्थे शोके च करुणार्थविषादयोः ।संबोधने प्रशंसायां विस्मये पादपूरणे ॥ ६३६ ॥
4.636 · p. 49
अनुष्टुप्
अस्त्रियामाह्निको ग्रन्थाऽवच्छेदे भेद्यवत्पुनः ।अह्ननिर्वर्तनीयादौ क्लीबं स्यान्नैत्यकेऽशने ॥ ६३७ ॥
4.637 · p. 49
अनुष्टुप्
आह्वा स्त्री नाम्नि कण्ठे च कथायामपि कीर्त्तिता ॥ ६३७-१/२ ॥
4.169 · p. 49