कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ओ

ओ संबोधन आह्वाने सारणे चानुकम्पने ।ओकः सान्तं जलौकायां क्लीबं मन्दिर आश्रमे ॥ ९२५ ॥
15.925 · p. 71
अनुष्टुप्
ओघः परम्परायां स्याज्जलस्रोतसि संचये ।महाजलसमूहे च वाद्यादिद्रुतवर्त्तने ॥ ९२६ ॥
15.926 · p. 71
अनुष्टुप्
ओजो दीप्ताववष्टम्भे प्रकाशबलयोरपि ।जले नपुंसकं सान्तं काव्यस्य च गुणान्तरे ॥ ९२७ ॥
15.927 · p. 71
अनुष्टुप्
अदन्तमपि सान्तं वा राश्यादौ विषमे त्रिषु ।ओड्रस्तु तरुभेदे ना प्रसवेऽस्य नपुंसकम् ॥ ९२८ ॥
15.928 · p. 71
अनुष्टुप्
ओड्रा औड्राश्च पुंभूम्नि भवेयुर्नीवृदन्तरे ।ओतुर्द्वयोः स्यान्मार्जारे क्लीबं सामान्तरे स्मृतम् ॥ ९२९ ॥
15.929 · p. 71
अनुष्टुप्
ओदनोऽस्त्री भवेदन्ने क्ली मेघे काञ्जिके पुमान् ।ओदनीति स्त्रियामेषा बलायां परिकीर्त्तिता ॥ ९३० ॥
15.930 · p. 71
अनुष्टुप्
ओम्मङ्गले च प्रणवेऽपाकृतावप्युक्रमे ।तथाभ्युपगमे चैतदव्ययं चेशवाचकम् ॥ ९३१ ॥
15.931 · p. 71
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
ओलकस्तु पुमाञ्छाके काणमारिषसंज्ञके ।सितोपलाविशेषे च करकायां च कीर्त्तितः ॥ ९३२ ॥
15.932 · p. 71
अनुष्टुप्

ओलिका-किम्

ओलिका धान्यभेदे स्यादियं नीवारसंज्ञके ।ओल्लस्तु सूरणे पुंसि स्यादार्द्रे वाच्यलिङ्गकः ॥ ९३३ ॥
15.933 · p. 72
अनुष्टुप्
ओषो दाहे भवेत्पुंसि क्षिप्रे तु त्रिषु कीर्त्तितः ।ओष्ठी रक्तफलावल्ल्यामोष्ठो दन्तच्छदे पुमान् ॥ ९३४ ॥
15.934 · p. 72
अनुष्टुप्