All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
घ
घस्तन्मात्रे निश्चयेऽपि परमार्थविशेषयोः ॥ १९९६ ॥
20.1996 · p. 148
घाव्ययं निश्चये तावत्यमृषार्थविशेषयोः ।घ उत्तरस्थस्त्रिर्हन्तर्यथ घा ताडने तथा ॥ १९९७ ॥
20.1997 · p. 148
अनुष्टुप्
किङ्किण्यां घस्तु घण्टायां तथा स्याद्घर्घरारवे ।घटः समाधिभेदे ना शिरःकटकुटेषु च ॥ १९९८ ॥
20.1998 · p. 148
अनुष्टुप्
स्तम्भमागे तथा प्रासादाकारान्तरसीमयोः ।कुम्भराशौ तथा प्रोक्तो माने द्रोणाह्वये पुमान् ॥ १९९९ ॥
20.1999 · p. 148
अनुष्टुप्
घटकस्त्रि घटयितर्यपि चावयवे स्मृतः ।वंशवेदिनि चोद्वाहसाधकेऽथ वनस्पतौ ॥ २००० ॥
20.2000 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्त्रि (wrong syllable)
पुमान्द्वयोस्तु वार्यादिकुम्भे स्याद्घटिकाऽथ सा ।स्त्रियां मुहूर्त्ते घण्टाख्यवाद्ये गुल्फे च कीर्त्तिता ॥ २००१ ॥
20.2001 · p. 148
अनुष्टुप्
घटजन्मा पुमान्द्रोणे वसिष्ठागस्त्ययोरपि ।घटना घटनञ्चापि निर्मित्यायोजनादिके ॥ २००२ ॥
20.2002 · p. 148
अनुष्टुप्
स्त्रियां तु घटनेत्येषा गजादिव्यूह इष्यते ।घटा घटनसंघातगोष्ठीभघटनासु च ॥ २००३ ॥
20.2003 · p. 148
अनुष्टुप्
अपि स्यात्स्वादुजम्बीरे तथैव पणवान्तरे ।घटिकं क्ली नितम्बे स्याद्घटेन तरति त्रिषु ॥ २००४ ॥
20.2004 · p. 148
अनुष्टुप्
घटी-घनः
घटी तु दोहपात्रे च काले नाडीद्वयात्मके ।घण्टावादनभाण्डे च स्यात्तथैवोत्सवान्तरे ॥ २००५ ॥
20.2005 · p. 149
अनुष्टुप्
घटी पुमाञ्शिवे कुम्भराशौ घटवति त्रिषु ।अरघट्टे घटीयन्त्रं यन्त्रे समयसूचके ॥ २००६ ॥
20.2006 · p. 149
अनुष्टुप्
घटोत्कचो दैत्यभेदे सुते भीमहिडिम्बयोः ।तथा समुद्रगुप्तस्य नृपतेः स्यात्पितामहे ॥ २००७ ॥
20.2007 · p. 149
अनुष्टुप्
घट्टजीवी द्वयोर्वैश्यानिर्णेजकसुतेऽथ च ।घटेन जीवति पुनर्घट्टजीवी त्रिषु स्मृतः ॥ २००८ ॥
20.2008 · p. 149
अनुष्टुप्
घट्टनं तु हिमे क्लीबं द्वे तुरङ्गोपजीविनि ।अनासंवरणे चापि चलने चापि घट्टना ॥ २००९ ॥
20.2009 · p. 149
अनुष्टुप्
घट्टिता पणवाघातभेदे त्रिषु तु यौगिके ।घण्टः शिवे लेह्यभेदे वाद्यभेदे पुनस्त्रियाम् ॥ २०१० ॥
20.2010 · p. 149
अनुष्टुप्
कांस्यतालान्तरे चैव बलायां पाटलावपि ।घण्टकः पाटलौ पुंसि घण्टाकोऽपि प्रयुज्यते ॥ २०११ ॥
20.2011 · p. 149
अनुष्टुप्
घण्टाताडस्तु योगार्थे तथा स्यात्संकरान्तरे ।घण्टारवस्तु घण्टायाः शब्दे रागान्तरेऽपि च ॥ २०१२ ॥
20.2012 · p. 149
अनुष्टुप्
घण्टारवा तु शणपर्ण्योषधौ यौगिकेऽर्थवत् ।घण्टाली कर्कटीभेदे घण्टापङ्क्तावपि स्त्रियाम् ॥ २०१३ ॥
20.2013 · p. 149
अनुष्टुप्
घण्टास्वनन्तु क्ली लौहे यौगिके लिङ्गमर्थवत् ।घण्टिका क्षुद्रघण्टायामवटौ च स्त्रियाम्मता ॥ २०१४ ॥
20.2014 · p. 149
अनुष्टुप्
अपामार्गे विघण्टी तु क्षुद्रघण्टार्थिका मता ।घण्टुरूष्मणि कण्ठस्थघण्टायां करिणोऽपि ना ॥ २०१५ ॥
20.2015 · p. 149
अनुष्टुप्
घनो ना मुस्तके मेघे संघाते लोहमुद्गरे ।मुद्गरेऽपि च काठिन्ये कफे गन्धेऽभ्रके तथा ॥ २०१६ ॥
20.2016 · p. 149
अनुष्टुप्
भिक्षायाः परिमाणे च हस्तकाण्डद्वयात्मके ।विस्तारे कठिने तु त्रिर्विपुले मूर्त्तसान्द्रयोः ॥ २०१७ ॥
20.2017 · p. 149
अनुष्टुप्
कायस्थगन्धयुक्ते च कांस्यतालादिके तु नप् ।मुखे मध्यमनृत्यादौ लोहे मरकताह्वये ॥ २०१८ ॥
20.2018 · p. 149
अनुष्टुप्
घनरसः-घोरम्
भवेद्घनरसः सान्द्रनिर्यासे मोरटाम्बुनि ।कर्पूरे पीलुपर्ण्याञ्च सम्यक्सिद्धरसेऽपि च ॥ २०१९ ॥
20.2019 · p. 150
अनुष्टुप्
शक्रे धातुकमत्तेभे वर्षुकाऽभ्रे घनाघनः ।घर्घरो ना चलद्वारिध्वाने घूके नदान्तरे ॥ २०२० ॥
20.2020 · p. 150
अनुष्टुप्
स्यादस्त्री पुनरट्टादेरधोद्वारकवाटके ।अथ स्त्री घर्घरी क्षुद्रघण्ट्यां वीणान्तरेऽपि च ॥ २०२१ ॥
20.2021 · p. 150
अनुष्टुप्
खरान्तरे तथा वाद्यलगुडे घर्घरा पुनः ।सरय्वंशान्तरे द्वे तु रन्ध्रीवैश्यात्मसम्भवे ॥ २०२२ ॥
20.2022 · p. 150
अनुष्टुप्
अथ घर्घरिका वाद्यभेदे वादित्रकोणके ।घर्मः स्वेदजले ग्रीष्म उष्णे दिवस आतपे ॥ २०२३ ॥
20.2023 · p. 150
अनुष्टुप्
यज्ञे हविर्विशेषे च महावीरमतेऽश्विनोः ।घस्रस्तु दिवसे पुंसि हिंस्रे स्यादभिधेयवत् ॥ २०२४ ॥
20.2024 · p. 150
अनुष्टुप्
घातः काले प्रहरणे पुँल्लिङ्गः परिकीर्त्तितः ।घासिर्नाऽग्नौ रणे गर्त्ताऽग्नौ बह्वाशिनि त्रिषु ॥ २०२५ ॥
20.2025 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
घुटिकोऽश्वगजादीनां पादादीनाञ्च बन्धके ।शङ्कावपि च गुल्फे च पुँल्लिङ्गः परिकीर्त्तितः ॥ २०२६ ॥
20.2026 · p. 150
अनुष्टुप्
घृणा स्त्रियां जुगुप्सायां दयायां च प्रकीर्त्तिता ।घृणिरस्त्री निदाघेऽह्नि ज्वालादीधितिवीचिषु ॥ २०२७ ॥
20.2027 · p. 150
अनुष्टुप्
घृतमाज्याम्बुनोर्न स्त्री प्रदीप्ते त्वभिधेयवत् ।घृतवद्घृतयुक्ते त्रि घृतवत्यौ तु रोदसी ॥ २०२८ ॥
20.2028 · p. 150
अनुष्टुप्
घृताची त्वप्सरोभेदे निशायाञ्च प्रकीर्त्तिता ।घृष्टिः स्त्री वर्षणस्पर्द्धाविष्णुकान्तासु ना किरौ ॥ २०२९ ॥
20.2029 · p. 150
अनुष्टुप्
घोणः पुमान्धूनने स्यादित्वरे त्वभिधेयवत् ।घोणा तूक्ता हयपोथे नासिकायामपि स्त्रियाम् ॥ २०३० ॥
20.2030 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 य (wrong syllable)
कुम्भीरमक्षिकाख्ये च कीटेऽम्बूपरिसर्पिणि ।घोण्टा तु बदरीपूगवृक्षयोः कीर्त्तिता स्त्रियाम् ॥ २०३१ ॥
20.2031 · p. 150
अनुष्टुप्
घोरः पुमाञ्शिवे त्रिस्तु कष्टे च स्याद्भयात्मके ।घोरो द्वयोः सृगाले स्याद्घोरं क्ली कुङ्कुमे मतम् ॥ २०३२ ॥
20.2032 · p. 150
अनुष्टुप्
घोलः-चक्रवर्त्तिनी
घोलः पुंसि कपालेऽथ क्ली दण्डाहतके भवेत् ।द्वयोस्तु घर्घरीवैश्यसम्भूते स्यान्नरान्तरे ॥ २०३३ ॥
20.2033 · p. 151
अनुष्टुप्
घोष आभीरपल्लौ ना शब्दे वाचि स्वरेऽपि च ।ब्रह्मबालुकसंज्ञे च विषभेदे लतान्तरे ॥ २०३४ ॥
20.2034 · p. 151
अनुष्टुप्
कोशातक्याह्वये शब्दवर्णधर्मेऽम्बुदेषु च ।कंसाख्यलोहे त्वस्त्री स्त्री घोषा मधुरिकौषधौ ॥ २०३५ ॥
20.2035 · p. 151
अनुष्टुप्
घोषयित्नुस्तु विप्रे च कोकिलेऽपि पुमान्मतः ।घोषवांस्त्रिर्घोषयुक्ते वीणायां घोषवत्यसौ ॥ २०३६ ॥
20.2036 · p. 151
अनुष्टुप्
घ्राणघ्राणे च नासायां त्रिर्घ्राते घ्रातिवाचिनि ॥ २०३६-१/२ ॥
20.42 · p. 151