कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (5/8)

विधाता [ना विधौ कामे] कर्त्तृमेधाविनोस्त्रिषु ।विधानं हस्तिकवले प्रेरणेऽभ्यर्चने धने ॥ ५४२७ ॥
45.5427 · p. 403
अनुष्टुप्
वेदनायामुपाये च प्रकारे वैरकर्मणि ।विधिर्ना नियतौ काले विधाने परमेष्ठिनि ॥ ५४२८ ॥
45.5428 · p. 403
अनुष्टुप्
विधुर्विष्ण्वग्निकालेन्दुवात [कर्पूरकेषु च] ।[पुँल्लिङ्गो द्वे राक्षसे तु शब्दोऽयम्परिकीर्त्तितः] ॥ ५४२९ ॥
45.5429 · p. 403
अनुष्टुप्
विधुतं कम्पितेऽपि स्यात्त्यक्ते चाप्यभिधेयवत् ।विधुरः कष्टविश्लिष्टापत्नीकविकलेषु च ॥ ५४३० ॥
45.5430 · p. 403
अनुष्टुप्

विनतः-विप्रलापः

[क्लीबन्तु तत्र विश्लेषे रसालायां स्त्रियामपि] ।विनतः प्रणते भुग्ने शिक्षिते चाभिधेयवत् ॥ ५४३१ ॥
45.5431 · p. 404
अनुष्टुप्
विनता तार्क्ष्यजननी पटकाण्डभिदोस्त्रियाम् ।विनया स्त्री बलायां ना शमेकीतनये त्रिषु ॥ ५४३२ ॥
45.5432 · p. 404
अनुष्टुप्
विनायकस्तु हेरम्बे तार्क्ष्ये विघ्ने जिने गुरौ ।विनिपातो निपाते स्याद्दैवादिव्यसने पुमान् ॥ ५४३३ ॥
45.5433 · p. 404
अनुष्टुप्
विनीतः सुवहाऽश्वे स्याद्वणिज्यपि पुमांस्त्रिषु ।जितेन्द्रियेऽपनीते च निभृते विनयान्विते ॥ ५४३४ ॥
45.5434 · p. 404
अनुष्टुप्
विनेता केशवे राज्ञि ना [च त्रिषु विनेतरि] ।अजयस्तु प्रकरणे दन्त्योष्ठादिपदावलेः ॥ ५४३५ ॥
45.5435 · p. 404
अनुष्टुप्
दन्त्योष्ठादिं च विदुषो वाचकं विन्दुरित्यमुम् ।विप्रुढ्वाचिनमोष्ठ्यादिबिन्दुशब्दं च विभ्रमात् ॥ ५४३६ ॥
45.5436 · p. 404
अनुष्टुप्
एकं मत्वा द्वयोरर्थौ विन्दुर्ज्ञातरि विप्रुषि ।विन्ध्या स्त्रियां लवल्यां स्यात्पुंसि व्याधाद्रिभेदयोः ॥ ५४३७ ॥
45.5437 · p. 404
अनुष्टुप्
विन्नं तु प्राप्तसत्ताके त्रिषु लब्धे विचारिते ।विपक्षः पक्षिपक्षेऽरौ त्रि तु स्याद्वीतपक्षके ॥ ५४३८ ॥
45.5438 · p. 404
अनुष्टुप्
स्त्रियां विपञ्ची वीणायां वीणाभेदे च कीर्त्तिता ।योऽल्पदण्डश्च तन्त्रीभिस्तथा नवभिरन्वितः ॥ ५४३९ ॥
45.5439 · p. 404
अनुष्टुप्
विपणिः पण्यवीथ्यां च भवेदापणपण्ययोः ।विपत्ति[र्यानायां स्यात्पदि चापि स्त्रियामियम्] ॥ ५४४० ॥
45.5440 · p. 404
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्या (syllables merged)
विपन्नस्तु द्वयोः सर्पे त्रिर्मृते च विपद्गते ।विपाकः पचने स्वेदे विरुद्धे कर्मणः फले ॥ ५४४१ ॥
45.5441 · p. 404
अनुष्टुप्
विपाकी ना यवक्षारे विपाकवति तु त्रिषु ।विपिनं गहने त्रिः क्ली जलदुर्गे वनेऽपि च ॥ ५४४२ ॥
45.5442 · p. 404
अनुष्टुप्
विपुलः पृथुलेऽगाधे मेरुपश्चिमभूधरे ।विप्रतीसार उद्दिष्टः कौकृत्येऽनुशयेऽरुणि ॥ ५४४३ ॥
45.5443 · p. 404
अनुष्टुप्
विप्रलापो विरोधोक्तौ विप्रलम्भोपमर्दयोः ।विप्रस्य भाषणे चापि पुँल्लिङ्गः परिकीर्त्तितः ॥ ५४४४ ॥
45.5444 · p. 404
अनुष्टुप्

विप्रियम्-विरला

विप्रियं त्वपराधे क्ली भेद्यवद्विगतप्रिये ।विबुधस्तु द्वयोर्देवे विदुषि त्वभिधेयवत् ॥ ५४४५ ॥
45.5445 · p. 405
अनुष्टुप्
विभक्तिः स्त्री विभागेऽपि सुप्तिङोः प्राग्दिशीयके ।प्रत्ययेऽपि तथा प्रोक्ता वीतभक्तौ तु भेद्यवत् ॥ ५४४६ ॥
45.5446 · p. 405
अनुष्टुप्
विभवो ना धने मोक्षेऽप्यैश्वर्येऽपि पुमान्मतः ।विभाकरोऽग्निौ(?) सूर्ये ना त्रिषु तु स्याद्विभाकृति] ॥ ५४४७ ॥
45.5447 · p. 405
अनुष्टुप्metre not read in every lineimpossible sign sequence: िभाकरोऽग्निौ(?) सूnearly अनुष्टुप्: pāda 2, syllable 2 त्रिषु (syllable split)
विभाजनः शाकभेदे देवमारिषसंज्ञके ।विभागहेतुव्यापारे तु नना स्याद्विभाजना ॥ ५४४८ ॥
45.5448 · p. 405
अनुष्टुप्
विभावः स्यात्परिचये रसस्योद्दीपनादिषु ।विभावती सप्तलाख्यपुष्पवल्ल्यां प्रकीर्त्तिता ॥ ५४४९ ॥
45.5449 · p. 405
अनुष्टुप्
विभावना साधनायामुपलब्धौ तथा न ना ।विभावरी निशारात्र्योः कुट्टन्यां वक्रयोषिति ॥ ५४५० ॥
45.5450 · p. 405
अनुष्टुप्
विवादे वस्त्रगुण्ठ्यां च [स्त्रीलिङ्गे परिकीर्त्तिता] ।विभावसुर्ना सूर्याग्नीन्दुषु द्वे शतपत्रके ॥ ५४५१ ॥
45.5451 · p. 405
अनुष्टुप्
विभीषणः पुमाञ्शक्रे रावणस्याऽनुजेऽपि च ।विभुः कुबरे [सूर्ये च पुंसि ब्रह्मणि शङ्करे] ॥ ५४५२ ॥
45.5452 · p. 405
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
[त्रिषु स्यात्सर्वगे नित्ये प्रभावपि तथा मतः] ।विभूतिस्तु स्त्रियाम्भूतौ विभोरैश्वर्यसम्पदोः ॥ ५४५३ ॥
45.5453 · p. 405
अनुष्टुप्
वीतभूतौ तु कथिता विभूतिरभिधेयवत् ।विभ्रमः संशये भ्रान्तौ शोभायां वेर्भ्रमे पुमान् ॥ ५४५४ ॥
45.5454 · p. 405
अनुष्टुप्
शृङ्गारचेष्टाभेदे च द्राग्विपर्यासरूपके ।वीतभ्रमे त्वयं प्रोक्तो विभ्रमश्चाभिधेयवत् ॥ ५४५५ ॥
45.5455 · p. 405
अनुष्टुप्
[विमला स्त्री भुवो भेदे शातलायां त्रि निर्मले] ।विमानो व्योमयाने च सार्वभौमगृहेऽपि च ॥ ५४५६ ॥
45.5456 · p. 405
अनुष्टुप्
घोटके यानपात्रे च पुंनपुंसकयोर्मतः ।शिविकायां तथा सप्तभूमिके भवनेऽपि च ॥ ५४५७ ॥
45.5457 · p. 405
अनुष्टुप्
विरजा तूड्रदेश्ये स्त्री पूर्भेदे जम्बुपादपे ।विरला गृध्रनख्याख्यलतायां स्त्र्यघने त्रिषु ॥ ५४५८ ॥
45.5458 · p. 405
अनुष्टुप्

विरागः-विविक्तम्

विरागः पुंसि वैराग्ये वीतरागे त्रिषु स्मृतः ।विराट् छन्दोऽन्तरेषु स्यात्क्षत्रिये तु द्वयोरयम् ॥ ५४५९ ॥
45.5459 · p. 406
अनुष्टुप्
अथ विष्णौ तथा यज्ञभेदे पुंसि विराड्भवेत् ।विरिञ्चिर्ना विरिञ्चश्च वैकुण्ठे परमेष्ठिनि ॥ ५४६० ॥
45.5460 · p. 406
अनुष्टुप्
विरूढोऽङ्कुरिते जाते [वाच्यवत्परिकीर्त्तितः] ।विरोचनोऽर्के चन्द्रेऽग्नौ प्रह्लादतनयेऽपि च ॥ ५४६१ ॥
45.5461 · p. 406
अनुष्टुप्
विरोधी पुंसि शत्रौ स्यात्त्रिषु तु स्याद्विरोद्धरि ।विलग्नं कायमध्ये क्ली सक्ते तु त्रिषु कीर्त्तितम् ॥ ५४६२ ॥
45.5462 · p. 406
अनुष्टुप्
विलम्बो विषभेदेऽपि पुमान्प्रोक्तो विलम्बके ।विलम्बितं वञ्चिते स्यात्तथा मन्देऽपि च त्रिषु ॥ ५४६३ ॥
45.5463 · p. 406
अनुष्टुप्
विलासशब्दो लीलायां [हारभेदे च ना मतः] ।तथैव भावभेदेऽपि य उक्तः श्लिष्टविक्रिया ॥ ५४६४ ॥
45.5464 · p. 406
अनुष्टुप्
विलासी भोगिनि [त्रि स्याद्व्याले चाऽयम्पुमान्मतः] ।विलीनं विद्रुतेऽपि स्यात्तथा लीनेऽपि वाच्यवत् ॥ ५४६५ ॥
45.5465 · p. 406
अनुष्टुप्
विलेपस्त्वनुलेपार्थद्रव्येऽपि स्याद्विलेपने ।विलेपी स्त्री मता तस्यां यवाग्वां या घनद्रवा ॥ ५४६६ ॥
45.5466 · p. 406
अनुष्टुप्
विलेपनी सुवेषस्त्रीयवाग्वोरपि योषिति ।विलेप्या त्रिर्विलेप्तव्ये विलेप्यां तु स्त्रियां मता ॥ ५४६७ ॥
45.5467 · p. 406
अनुष्टुप्
विलोमस्तु प्रतीपे स्याद्भुजङ्गे वरुणे शुनि ।आमलक्यां विलोमी च विलोमं चारघट्टके ॥ ५४६८ ॥
45.5468 · p. 406
अनुष्टुप्
विवक्षितं तु रुचिरे वक्तुमिष्टेऽपि च त्रिषु ।विवधो वीवधः पर्याहारे भारे तथाऽध्वनि ॥ ५४६९ ॥
45.5469 · p. 406
अनुष्टुप्
विवर्त्तः समुदाये स्यादपवर्त्तननृत्ययोः ।विवशस्त्वस्वतन्त्रात्मन्यवश्ये च प्रकीर्त्तितः ॥ ५४७० ॥
45.5470 · p. 406
अनुष्टुप्
अरिष्टदुष्टबुद्धौ च त्रिलिङ्गः परिकीर्त्तितः ।विवस्वांस्तु पुमान्सूर्ये द्वे तु देवे नरेऽपि च ॥ ५४७१ ॥
45.5471 · p. 406
अनुष्टुप्
वायुदिग्गजहस्तिन्यां पुनः स्त्री स्याद्विवस्वती ।विविक्तं निर्जने शुद्धे पृथग्भूते विचारिते ॥ ५४७२ ॥
45.5472 · p. 406
अनुष्टुप्

विवृता-विश्रब्धः

असम्बाधेऽपि च तथा वाच्यवत्परिकीर्त्तितम् ।विवृता क्षुद्ररुग्भेदे विस्तृते त्वभिधेयवत् ॥ ५४७३ ॥
45.5473 · p. 407
अनुष्टुप्
विवृत्ताक्षः कुक्कुटे द्वे योगार्थे तु यथायथम् ।विवेकस्तु पृथक्कारे पृथग्भावे विचारणे ॥ ५४७४ ॥
45.5474 · p. 407
अनुष्टुप्
जलद्रोण्यामपि तथा पुँल्लिङ्गः परिकीर्त्तितः ।विट् (श्) तु गूथे ननाऽङ्गुल्यां स्त्री द्वयोर्मर्त्त्यवैश्ययोः ॥ ५४७५ ॥
45.5475 · p. 407
अनुष्टुप्
विशदः पाण्डुरे रक्ते [स्पष्टे चाऽपि तथा मतः] ।विशयः संशये तद्वद्वेश्चापि शयने पुमान् ॥ ५४७६ ॥
45.5476 · p. 407
अनुष्टुप्
विशल्याऽग्निशिखादन्तीगुडूचीषु स्त्रियां मता ।निःशल्ये तु विशल्योऽयमभिधेयवदिष्यते ॥ ५४७७ ॥
45.5477 · p. 407
अनुष्टुप्
क्ली हिंसायां विशसनं खड्गे विशसनः पुमान् ।विशाखा ऋक्षभेदेऽपि धारासंज्ञे द्रुमाङ्गके ॥ ५४७८ ॥
45.5478 · p. 407
अनुष्टुप्
स्कन्ददेवे स्कन्ददेवपृष्ठजेऽपि सुरान्तरे ।विशाखान्वितकालेयो जातस्तत्राभिधेयवत् ॥ ५४७९ ॥
45.5479 · p. 407
अनुष्टुप्
विशारदस्त्रिषु बुधे धृष्टे विगतशारदे ।विशाला त्विन्द्रवारुण्यामुज्जयिन्यान्तु योषिति ॥ ५४८० ॥
45.5480 · p. 407
अनुष्टुप्
मृगपक्षिभिदोः पुंसि पृथुले त्वभिधेयवत् ।विशालाक्षो हरे तार्क्ष्ये ना सुनेत्रेऽभिधेयवत् ॥ ५४८१ ॥
45.5481 · p. 407
अनुष्टुप्
विशिखं चेतसि क्लीबं निःशिखे तु त्रिषु स्मृतम् ।[पुंस्ययं विशिखः प्रोक्तस्तोमरे च तथा शरे] ॥ ५४८२ ॥
45.5482 · p. 407
अनुष्टुप्
विशिखा तु खनित्र्यां च रथ्यानलिकयोरपि ।विशुद्धलवणं तु स्यात्सैन्धवे लवणे शुचौ ॥ ५४८३ ॥
45.5483 · p. 407
अनुष्टुप्
विशेलिमः शशाङ्केऽपि भास्करे पाशकेऽपि च ।विन्दुतन्त्रे तथा पुंसि च तुरङ्गेऽपि कीर्त्तितः ॥ ५४८४ ॥
45.5484 · p. 407
अनुष्टुप्
विशेषोऽतिशये भेदे योगार्थे तु यथायथम् ।विशेषकस्तु तिलके पुंसि क्लीबे च कीर्त्तितः ॥ ५४८५ ॥
45.5485 · p. 407
अनुष्टुप्
विशेषयितरि त्वेष विशेष्टरि तथा त्रिषु ।विश्रब्धोऽनुद्भटेऽपि स्याद्गाढविश्वस्तयोस्त्रिषु ॥ ५४८६ ॥
45.5486 · p. 407
अनुष्टुप्

विश्लेषः-विषाणी

विश्लेषस्तु पृथक्कारे विरहेऽपि पुमान्मतः ।विश्वा त्वतिविषाभूम्योः स्त्री शुण्ठ्यां स्त्रीनपुंसकम् ॥ ५४८७ ॥
45.5487 · p. 408
अनुष्टुप्
सर्वनाम त्रि सर्वार्थे क्लीबं तु जगति स्मृतम् ।विश्वे तु देवभेदेषु भवेयुः पुंसि भूमनि ॥ ५४८८ ॥
45.5488 · p. 408
अनुष्टुप्
विश्वकर्मा तु सूर्येऽपि विरिञ्चे देववर्धकौ ।विश्वगोप्ता तु शक्रेऽपि विष्णावपि पुमान्मतः ॥ ५४८९ ॥
45.5489 · p. 408
अनुष्टुप्
विश्वप्सा तु पुमाञ्शके [चन्द्रेऽग्ना] वान्तरेऽनिले ।विश्वम्भरोऽच्युते शक्रे वह्नौ विश्वम्भरा भुवि ॥ ५४९० ॥
45.5490 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ञ्श (wrong syllable)
ना शुण्ठ्यां पुंसि देवप्रभेदेऽप्यखिले त्रिषु ।विश्वरूपः शिवे विष्णावश्वे त्वाष्ट्रे बृहस्पतौ ॥ ५४९१ ॥
45.5491 · p. 408
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विश्वरूपा गवि स्त्री स्याद्भूम्नि गायत्रसामनि ।त्रिरभ्यासेन गीते च न्यूषुवाचं प्रमेत्यृचि ॥ ५४९२ ॥
45.5492 · p. 408
अनुष्टुप्
विश्वस्ता विधवायां त्रिस्त्वाप्तविश्वासयोग्ययोः ।विश्वात्मा तु विरिञ्चेऽपि भास्करेऽपि प्रकीर्त्तितः ॥ ५४९३ ॥
45.5493 · p. 408
अनुष्टुप्
विश्वावसुर्ना गन्धर्वभेदे रात्रौ स्त्रियां मता ।विश्वेदेवास्तु सूर्येऽपि वह्नावपि पुमान्मतः ॥ ५४९४ ॥
45.5494 · p. 408
अनुष्टुप्
[विट्शब्दस्तु षकारान्तः स्त्रियां पावनविष्ठयोः ।विषघाती द्वयोराखुजातिभेदे त्रियौगिके ॥ ५४९५ ॥
45.5495 · p. 408
अनुष्टुप्
विषघ्नी त्रिवृताभार्ङ्गीगुडूचीवृश्चिकालिषु ।त्र्यमनुष्ये विषारौ ना श्लेष्मातकशिरीषयोः ॥ ५४९६ ॥
45.5496 · p. 408
अनुष्टुप्
विषन्धरो द्वयोः सर्पे पुमान्मेघे प्रकीर्त्तितः ।विषयो गोचरे देशे तथा रूपरसादिके ॥ ५४९७ ॥
45.5497 · p. 408
अनुष्टुप्
पुमाञ्जनपदे नित्यसेवितेऽपि प्रकीर्त्तितः ।विषयी मन्मथे भूपे विषयस्थजनेऽपि ना ॥ ५४९८ ॥
45.5498 · p. 408
अनुष्टुप्
विषयासक्तविषयान्वितयोस्त्रीन्द्रिये तु न ।विषा त्वतिविषायां स्त्री क्ष्वेडे न स्त्री जले तु नप् ॥ ५४९९ ॥
45.5499 · p. 408
अनुष्टुप्
विषाणी क्षीरकाकोल्यामजशृङ्ग्यां च योषिति ।कुष्ठनामौषधे क्लीबं पशुशृङ्गेभदन्तयोः ॥ ५५०० ॥
45.5500 · p. 408
अनुष्टुप्

विषादः-विष्वक्सेनः

विषादः पुंसि चित्तावसादे त्रिर्विषभक्षके ।विषायी स्यात्पुमान्राज्ञि वैषयिकजनेऽपि च ॥ ५५०१ ॥
45.5501 · p. 409
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ष (wrong syllable)
इन्द्रिये कामदेवे च विषयासक्तपूरुषे ।विषुवन्नृनपोः काले समरात्रिन्दिवे मतम् ॥ ५५०२ ॥
45.5502 · p. 409
अनुष्टुप्
क्रतुभेदे त्वयं शब्दः पुँल्लिङ्गः परिकीर्त्तितः ।विष्कम्भः प्रतिबन्धे च प्रतिबन्धस्य साधने ॥ ५५०३ ॥
45.5503 · p. 409
अनुष्टुप्
रूपकाङ्गान्तरे योगान्तरविस्तारयोरपि ।विष्किरो द्वे पक्षिमात्रे मयूरे कुक्कुटेऽपि च ॥ ५५०४ ॥
45.5504 · p. 409
अनुष्टुप्
विष्टप् तु स्त्री दिवि प्रोक्ता विष्टप्सूर्ये पुमान्मतः ।विष्टपं भुवने देवविमानेऽपि नपुंसकम् ॥ ५५०५ ॥
45.5505 · p. 409
अनुष्टुप्
विष्टम्भः प्रतिबन्धेऽपि स्यात्स्तोमदशके परे ।महावैराजसंज्ञस्य साम्नः प्रस्तावभक्तितः ॥ ५५०६ ॥
45.5506 · p. 409
अनुष्टुप्
विष्टरस्त्वासने वृक्षे दर्भमुष्टौ तथा पुमान् ।विष्टिर्ना कर्मणि हठात्कारिते त्रिषु तत्कृति ॥ ५५०७ ॥
45.5507 · p. 409
अनुष्टुप्
स्त्री त्वाजूवेदनाकालभेदमूल्यप्रवेशने ।विष्णुर्मेघे केशवस्यावतारे वामनाभिधे ॥ ५५०८ ॥
45.5508 · p. 409
अनुष्टुप्
चन्द्रे द्वादशसूर्याणां तथैवान्यतमे पुमान् ।[यज्ञे तथा केशवे च विष्णुशब्दः प्रकीर्त्तितः] ॥ ५५०९ ॥
45.5509 · p. 409
अनुष्टुप्
विष्णुक्रान्ता तु सुमुखीगिरिकर्णिकयोरपि ।विष्णुगुप्तस्तु कौटिल्ये योगार्थे तु यथायथम् ॥ ५५१० ॥
45.5510 · p. 409
अनुष्टुप्
क्लीबं विष्णुपदं व्योम्नि तीर्थभेदेऽपि कीर्त्तितम् ।गङ्गायां स्त्री विष्णुपदी रविसङ्क्रमणेषु तु ॥ ५५११ ॥
45.5511 · p. 409
अनुष्टुप्
वृषवृश्चिकसिंहेषु कुम्भे च स्त्रीनपुंसकम् ।विष्वक् तु सर्वतोऽर्थेऽव्ययं नानागतिके त्रिषु ॥ ५५१२ ॥
45.5512 · p. 409
अनुष्टुप्
स्त्रीत्वे विषूची तत्रापि स्त्र्येव सा स्याद्रुजान्तरे ।विष्वक्सेना फलिन्यां स्त्री विष्वक्सेनस्तु ना हरौ ॥ ५५१३ ॥
45.5513 · p. 409
अनुष्टुप्

विष्वक्सेनप्रिया-विहव्या

विष्वक्सेनप्रिया लक्ष्म्यां वाराह्यामपि योषिति ।विसरः प्रसरे चैव व्रजेऽपि स्यात्पुमानयम् ॥ ५५१४ ॥
45.5514 · p. 410
अनुष्टुप्
विसर्गस्तु पुमान्दाने त्यागे च जलनिर्गमे ।विसर्जनीयेऽप्ययनभेदेऽपि च विभावसोः ॥ ५५१५ ॥
45.5515 · p. 410
अनुष्टुप्
विसृतं विगते चापि तते चाप्यभिधेयवत् ।विस्तरो वाक्प्रपञ्चे स्याद्विस्तारे प्रणयेऽपि च ॥ ५५१६ ॥
45.5516 · p. 410
अनुष्टुप्
विस्तारो विस्तृतौ तद्वत्स्तम्बेऽपि च पुमान्मतः ।विस्फुलिङ्गस्त्वग्निकणे विषभेदे तथा पुमान् ॥ ५५१७ ॥
45.5517 · p. 410
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)
विस्फोटः स्फुटनेऽपि स्यान्मसूर्याञ्च तथा पुमान् ।विस्मयस्त्वद्भुते तद्वद्गर्वेऽपि च पुमान्मतः ॥ ५५१८ ॥
45.5518 · p. 410
अनुष्टुप्
स्मयेन रहिते त्वेष वाच्यवत्परिकीर्त्तितः ।विस्मापनो ना कुहके गन्धर्वनगरे स्मरे ॥ ५५१९ ॥
45.5519 · p. 410
अनुष्टुप्
विस्मितस्त्रिषु विस्मेरे छन्दोभेदे त्वना भवेत् ।विस्रगन्धिस्त्र्यामगन्धौ हरिताले नपुंसकम् ॥ ५५२० ॥
45.5520 · p. 410
अनुष्टुप्
विस्रब्धं निभृते शस्ये तथा विश्वसिते त्रिषु ।विस्रम्भः केलिकलहे विश्वासे प्रणयेऽपि च ॥ ५५२१ ॥
45.5521 · p. 410
अनुष्टुप्
विस्रा स्त्री हपुषायां क्ली रुधिरे त्वामगन्धिनि ।विस्वरं क्ली विरुद्धे स्यात्स्वरे त्रिर्विकृतस्वरे ॥ ५५२२ ॥
45.5522 · p. 410
अनुष्टुप्
विहङ्गः पक्षिणि द्वे ना रविचन्द्राम्बुदेषुषु ।विहगस्त्वेषु दशमे राशौ सर्वग्रहस्थितौ ॥ ५५२३ ॥
45.5523 · p. 410
अनुष्टुप्
विहङ्गकः पक्षिणि द्वे पर्याहारे विहङ्गिका ।विहङ्गमः पक्षिणि द्वे सूर्ये नाऽथ नृभूमनि ॥ ५५२४ ॥
45.5524 · p. 410
अनुष्टुप्
एकादशान्तरभवे निर्जराणां गणान्तरे ।विहङ्गिकायां तु स्त्रीत्वे पक्षिण्यां च विहङ्गमा ॥ ५५२५ ॥
45.5525 · p. 410
अनुष्टुप्
विहणस्त्वृषिभेदे ना शठे वाच्यवदिष्यते ।क्लीबं विहननं विघ्ने पिञ्जनेऽपि वधेऽपि च ॥ ५५२६ ॥
45.5526 · p. 410
अनुष्टुप्
तथा कार्पासतूलादेर्विघातेऽपि प्रकीर्त्तितम् ।विहव्या इष्टकाभित्सु स्त्री क्ली ऋक्सूक्तभिद्यपि ॥ ५५२७ ॥
45.5527 · p. 410
अनुष्टुप्

विहस्तः-वीतः

विहस्तस्त्रिर्बुधे व्यग्रे निर्हस्ते ना नपुंसके ।विहा त्वसत्यामपि च विहगेषु भवे स्त्रियाम् ॥ ५५२८ ॥
45.5528 · p. 411
अनुष्टुप्
विहाया व्योम्नि नृनपोर्विहगे तु द्वयोर्मतः ।विहायसस्तु नृनपोर्व्योम्नि पक्षिणि तु द्वयोः ॥ ५५२९ ॥
45.5529 · p. 411
अनुष्टुप्
विहाया महति स्तेने त्रिषु व्याप्तरि वञ्चके ।विहारो भ्रमणे स्कन्धे लीलायां सुगतालये ॥ ५५३० ॥
45.5530 · p. 411
अनुष्टुप्
वैजयन्ते पुमान्द्वे तु विन्दुरेखकपक्षिणि ।विहेठनं तु हिंसायां मर्दने च विडम्बने ॥ ५५३१ ॥
45.5531 · p. 411
अनुष्टुप्
विह्वलस्त्रिर्विक्लवे स्यात् रसगन्धे च पुम् स्मृतः ।वीको वायौ वसन्तेऽर्थे नाशे वीका दृशोर्मले ॥ ५५३२ ॥
45.5532 · p. 411
अनुष्टुप्
द्वयोः पक्षिणि चित्ते तु वीकं पुंसि विदुः परे ।वीकाशस्तु प्रकाशेऽपि (तथा प्रोक्तो रहस्यपि) ॥ ५५३३ ॥
45.5533 · p. 411
अनुष्टुप्metre not read in every line
वीक्षो वीक्षा विस्मये द्वे वीक्षा स्याद्वीक्षणे स्त्रियाम् ।वीक्षणं दर्शने नेत्रे [नपुंसकमुदीरितम्] ॥ ५५३४ ॥
45.5534 · p. 411
अनुष्टुप्
वीक्ष्यं तु विस्मये दृश्ये पुंसि लासकवादिनोः ।वीङ्खा लास्यान्तरे सन्धौ कपिकच्छ्वामपि स्त्रियाम् ॥ ५५३५ ॥
45.5535 · p. 411
अनुष्टुप्
वीचिः स्त्रीपुंसयोरूर्मौ लेशे पङ्क्तौ तथा मता ।मुखेऽवकाशे किरणे [सुखे] वीच्यपि च स्त्रियाम् ॥ ५५३६ ॥
45.5536 · p. 411
अनुष्टुप्
वीजनस्तु द्वयोः काकजीवजीवकपक्षिणोः ।वीजनं व्यजने वस्तुन्यपि व्यजनचालने ॥ ५५३७ ॥
45.5537 · p. 411
अनुष्टुप्
वीटकं स्याच्च ताम्बूले वीटिका तु स्त्रियां मता ।कञ्चुक्यादेर्बन्धनेऽपि ताम्बूलादिकवेष्टने ॥ ५५३८ ॥
45.5538 · p. 411
अनुष्टुप्
वीडुर्दृढे भेद्यवत्स्याद्बले तु स्यान्नपुंसकम् ।वीणा विद्युति वल्लक्यां ग्रहयोगान्तरे तथा ॥ ५५३९ ॥
45.5539 · p. 411
अनुष्टुप्
नदीभेदेऽपि च स्त्रीत्वे कीर्त्तिता सरिदन्तरे ।वीणावादस्त्रि वीणायां वादके वादने तु ना ॥ ५५४० ॥
45.5540 · p. 411
अनुष्टुप्
वीतं त्वसारे हस्त्यश्वे हस्त्यारोहाङ्घ्रिकर्मणि ।वीतस्तु वाच्यवत्प्रोक्तो गते शान्ते त्रिषु त्वथ ॥ ५५४१ ॥
45.5541 · p. 411
अनुष्टुप्

वीतरागः-वीरवान्

गतिकान्त्यशनादौ विगतावङ्कुशवारणे ।वीतरागो जिने बुद्धे ना रागरहिते त्रिषु ॥ ५५४२ ॥
45.5542 · p. 412
अनुष्टुप्
वीतशोकोऽशोकवृक्षे वीतशोका तु पूर्भिदि ।वीतहव्यो नृपभिदि कृष्णेऽपि च पुमान्मतः ॥ ५५४३ ॥
45.5543 · p. 412
अनुष्टुप्
वीतिर्दीप्तौ गतौ धावनेऽशने प्रजने स्त्रियाम् ।वीतिहोत्रोऽनलेऽर्के ना नृभूम्नि क्षत्रियान्तरे ॥ ५५४४ ॥
45.5544 · p. 412
अनुष्टुप्
वीथी तु पङ्क्तौ मार्गे च गृहाङ्गे रूपकान्तरे ।वीध्रोऽभ्राग्न्यनिले ना क्ली नभसि त्रिस्तु निर्मले ॥ ५५४५ ॥
45.5545 · p. 412
अनुष्टुप्
वीरः शिवकुबेरेन्द्रराहुस्कन्दसुतेषु ना ।अग्निभेदे तपःपुत्रे यज्ञाग्नावर्जुनद्रुमे ॥ ५५४६ ॥
45.5546 · p. 412
अनुष्टुप्