कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

आ (1/2)

आः शिवे स्यात्पुमानातु स्त्रियां लक्ष्म्यां प्रकीर्त्तिता ॥ ४७० ॥
4.470 · p. 37
आ प्रगृह्यं स्मृतौ वाक्येऽनुकम्पायां समुच्चये ।आकरः श्रेष्ठनिवहोत्पत्तिस्थानेषु कथ्यते ॥ ४७१ ॥
4.471 · p. 37
अनुष्टुप्
आकर्षः शारिफलके द्यूते च द्यूतपाशके ।आकृष्टाविन्द्रिये पार्श्वे कोदण्डाभ्यासवस्तुनि ॥ ४७२ ॥
4.472 · p. 37
अनुष्टुप्
ये सप्तभागाः करिण ऊर्ध्वदेशे कराङ्गुलेः ।द्वितीयेप्याद्यतस्तेषामाकर्षेऽपि नृपान्तरे ॥ ४७३ ॥
4.473 · p. 37
अनुष्टुप्
आकर्षकस्त्रिष्वाकर्षकुशले चुम्बके तु ना ।बृहत्कथाप्रसिद्धे त्वाकर्षिका नगरान्तरे ॥ ४७४ ॥
4.474 · p. 37
अनुष्टुप्
अनाप्याकलना बन्धे संख्यानज्ञानयोरपि ।शब्दने तु समूहे च क्लीबमाकलनं मतम् ॥ ४७५ ॥
4.475 · p. 37
अनुष्टुप्

आकल्पः-आखुः

आकल्पः कल्पने पुंसि वेषे च परिकीर्त्तितः ।आकल्पकस्तमोमोहग्रन्थावुत्कलिकामुदोः ॥ ४७६ ॥
4.476 · p. 38
अनुष्टुप्
स्यादाकल्पनमाकाङ्क्षा परिसंख्यानबन्धने ।आकाङ्क्षा त्वभिलाषेऽपि स्त्रीलिङ्गे परिकीर्त्तिता ॥ ४७७ ॥
4.477 · p. 38
अनुष्टुप्
प्रतीतिपर्यवसिते विरहेपि तथेष्यते ।आकार इङ्गिताकृत्योराह्वानात्मविकारयोः ॥ ४७८ ॥
4.478 · p. 38
अनुष्टुप्
आवर्णेपि पुमानेष आकारः परिकीर्त्तितः ।आकालिकी स्त्रियामेषा विद्युदर्थे मताऽथ च ॥ ४७९ ॥
4.479 · p. 38
अनुष्टुप्
अह्नो वा रजनेर्वापि भागमारभ्य कंचन ।आ तस्मात्परतो भागाद्भवेऽकालभवे त्रिषु ॥ ४८० ॥
4.480 · p. 38
अनुष्टुप्
आकृतिस्त्री शरीरे स्यादाकारव्यक्तिजातिषु ।अष्टाशीत्यक्षरछन्दोभेदे च पुरुषान्तरे ॥ ४८१ ॥
4.481 · p. 38
अनुष्टुप्
आक्रन्दो रुदिताह्वानारावेषु नृपतौ प्रभौ ।मित्रे दारुणयुद्धे च त्रातर्यपि पुमान्मतः ॥ ४८२ ॥
4.482 · p. 38
अनुष्टुप्
आक्रीडः क्रीडने पुंसि कुरुत्थामसुतेपि च ।अस्त्रियां त्वयमाक्रीडः क्रीडोद्याने प्रकीर्त्तितः ॥ ४८३ ॥
4.483 · p. 38
अनुष्टुप्
आक्षारितस्त्रिलिङ्गोऽयमनिशस्ते प्रकीर्त्तितः ।विवादेष्वभियुक्तेऽपि तथैवास्त्रावितेपि च ॥ ४८४ ॥
4.484 · p. 38
अनुष्टुप्
आक्षिकः स्यात्पुमान्व्याधौ त्रिलिङ्गस्त्वक्षदेविनि ।आक्षेपो भर्त्सना निन्दा तथा कृषिरुगन्तरे ॥ ४८५ ॥
4.485 · p. 38
अनुष्टुप्
काव्यालङ्कारभेदेऽध्याहारे वर्णगुणान्तरे ।आक्षेपकोऽनिलव्याधौ व्याधौ निन्दाकरेपि च ॥ ४८६ ॥
4.486 · p. 38
अनुष्टुप्
द्वयोस्त्वाखनिकश्चौरसूकराम्बुखगाखुषु ।तटाककारे तु त्रिष्वाखनिकी परिकीर्त्तिता ॥ ४८७ ॥
4.487 · p. 38
अनुष्टुप्
आखुर्मूषिकमात्रेपि सूकरेपि द्वयोर्मतः ।तथा मूषिकजातेश्च भेदेपि क्रमसंज्ञके ॥ ४८८ ॥
4.488 · p. 38
अनुष्टुप्

आख्यातं-आजिः

आख्यातं वाच्यवत्प्रोक्तेऽथ तिङन्ते नपुंसकम् ।आख्यानं तु कथायां च वचनेऽपि प्रकीर्त्तितम् ॥ ४८९ ॥
4.489 · p. 39
अनुष्टुप्
आख्यानं क्ली वृत्तभेदे क्लीबं तु स्यात्कथानके ।आगोऽपराधे पापेऽपि रहस्येऽपि नपुंसकम् ॥ ४९० ॥
4.490 · p. 39
अनुष्टुप्
पुंस्याग्निमारुतोऽगस्त्यमुनौ त्र्यग्नामरुद्युजि ।आग्नीध्र ऋत्विग्भेदे स्यादग्निधिष्ण्यन्तरेपि नप् ॥ ४९१ ॥
4.491 · p. 39
अनुष्टुप्
अग्निकार्ये तथाग्नीध्री स्त्रियामेषा प्रकीर्त्तिता ।आग्नेयः पुंस्त्यगस्त्यर्षौ द्वापराख्ययुगेपि च ॥ ४९२ ॥
4.492 · p. 39
अनुष्टुप्
संवत्सरे च क्लीबं तु रुधिरेऽप्युत्तरायणे ।दशाहकार्यश्राद्धे च त्रेतायां च युगे स्त्रियाम् ॥ ४९३ ॥
4.493 · p. 39
अनुष्टुप्
आग्नेयी भेद्यवत्वग्नियोगिन्येषा प्रकीर्त्तिता ।आघाटः सीम्नियानेऽपामार्गे वाद्यान्तरे घटे ॥ ४९४ ॥
4.494 · p. 39
अनुष्टुप्
आघातस्ताडने घाते वधस्थाने पुमान्मतः ।आघारणः स्रुवे पुंसि न तु ना क्षारणे मतः ॥ ४९५ ॥
4.495 · p. 39
अनुष्टुप्
आघ्रातं शिङ्घिते क्रान्ते क्लीभावे त्रि तु कर्मणि ।आङ् सीमायामभिव्याप्तौ क्रियायोगेषदर्थयोः ॥ ४९६ ॥
4.496 · p. 39
अनुष्टुप्
आचाम ओदनस्य स्यान्निःस्रावे मासराह्वये ।तथाचान्तिक्रियायां च पुँल्लिङ्गः परिकीर्त्तितः ॥ ४९७ ॥
4.497 · p. 39
अनुष्टुप्
आचारः पुंसि चारित्रेऽथाचारा स्त्रीहरेर्भवेत् ।नव याः शक्तयस्तासामेकस्यामिति सूरयः ॥ ४९८ ॥
4.498 · p. 39
अनुष्टुप्
आचार्य उपनीत्यादिमन्दव्याख्याकृतोः पुमान् ।व्याख्यात्र्यां स्वयमाचार्या चार्यान्याचार्ययोषिति ॥ ४९९ ॥
4.499 · p. 39
अनुष्टुप्
आचितः शकटोन्मेये पलानामयुते द्वये ।वाच्यवन्निश्चितेच्छन्ने संगृहीतेऽथ नप्स्मृतम् ॥ ५०० ॥
4.500 · p. 39
अनुष्टुप्
तुलाविंशतिरूपाणां भाराणां दशके बुधैः ।आच्छादनं संपिघाने वस्त्रेपवृतिमात्रके ॥ ५०१ ॥
4.501 · p. 39
अनुष्टुप्
स्यादाच्छरितकं हासनखराघातभेदयोः ।आजिः स्त्रियां क्वचित्पुंसि युद्धे सममहीतले ॥ ५०२ ॥
4.502 · p. 39
अनुष्टुप्

आजीवः-आत्मनीनः

आजीवस्तु क्षपणके जीविकायां च कीर्त्तितः ।आज्यं श्रीवेष्टनिर्यासे घृते युद्धे नपुंसकम् ॥ ५०३ ॥
4.503 · p. 40
अनुष्टुप्
पलाख्योन्मानभेदेऽपि स्तोत्रेषु च चतुर्ष्वपि ।स्युर्बर्हिष्पवमानाद्यान्यूर्ध्वान्यध्वरकर्मणाम् ॥ ५०४ ॥
4.504 · p. 40
अनुष्टुप्
आज्ञा तु स्त्री महीपादेः शासने लग्नराशितः ।राशौ च दशमे वेश्याविशेषेपि महीपतेः ॥ ५०५ ॥
4.505 · p. 40
अनुष्टुप्
यस्याज्ञागणिकेत्याख्याऽऽज्ञी तु स्यात्त्र्यज्ञयोगिनि ।त्र्याञ्जनमञ्जनसम्बन्धिन्यरत्नौ त्वञ्जने पुमान् ॥ ५०६ ॥
4.506 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
तथा सप्तदशारत्ने यूपस्याद्याच्चतुर्थके ।आडम्बरोऽस्त्री संरम्भे गजगर्जिततूर्ययोः ॥ ५०७ ॥
4.507 · p. 40
अनुष्टुप्
युद्धवादिमनिर्घोष आभोगक्रोधयोः पुमान् ।आढकोऽस्त्री चतुष्प्रस्थे तुवर्यामाढकी मता ॥ ५०८ ॥
4.508 · p. 40
अनुष्टुप्
आणिः स्त्रीपुंसयोर्युद्ध रथाद्यक्षाग्रकीलके ।जङ्घामर्मणि निःश्रेण्यां निःश्रेणिद्वारि चोच्यते ॥ ५०९ ॥
4.509 · p. 40
अनुष्टुप्
आतङ्को रोगसन्तापशङ्कासु मुरजध्वनौ ।आतञ्चनं प्रतीवापजवनाप्वायनेषु नप् ॥ ५१० ॥
4.510 · p. 40
अनुष्टुप्
आततिः स्यादन्धकारे विस्तारे पथि च स्मृता ।आतर्पणं प्रीणने स्यान्मङ्गलाऽऽलेपनेपि च ॥ ५११ ॥
4.511 · p. 40
अनुष्टुप्
आतिथ्यो नाऽतिथावुक्तो तिथ्यर्थे तु त्रिलिङ्गकः ।आत्मजः पुंसि कामेऽथात्मजमुक्तं मनोसृजोः ॥ ५१२ ॥
4.512 · p. 40
अनुष्टुप्
द्वे त्वपत्ये त्रिषु त्वेष स्वस्माज्जाते प्रकीर्त्तितः ।आत्मार्कचन्द्रवाताग्निजीवेषु परमात्मनि ॥ ५१३ ॥
4.513 · p. 40
अनुष्टुप्
देहे यत्ने धृतौ कीर्त्तौ बुद्धौ मनसि च श्रुते ।धर्मे स्वभावे पुत्रेऽर्थे परस्य प्रतियोगिनि ॥ ५१४ ॥
4.514 · p. 40
अनुष्टुप्
आत्मनीनः सुते स्याले द्वयोस्त्रिष्वात्मनो हिते ।विदूषके प्राणधारे केशवस्त्वाहदूषके ॥ ५१५ ॥
4.515 · p. 40
अनुष्टुप्

आत्मभूः-आध्मातः

आत्मभूर्मन्मथे चैव विरिञ्चेपि पुमान्मतः ।आत्मयोनिः पुमान्कामे शिवे ब्रह्मणि मारुते ॥ ५१६ ॥
4.516 · p. 41
अनुष्टुप्
आत्मवीरः प्राणवति श्यालकेत्र विदूषके ।आत्माश्यात्माशिनी मत्स्ये त्रि तु स्यादात्मभक्षिणि ॥ ५१७ ॥
4.517 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्रा (wrong syllable)
आत्मीयस्तु निजेऽपि स्यान्मित्रे चाप्यभिधेयवत् ।आत्रेयी ऋतुमत्यां च नदीभेदे च कीर्त्तिता ॥ ५१८ ॥
4.518 · p. 41
अनुष्टुप्
क्ली तु सामविशेषे स्याद्द्वयोस्त्वत्रेरपत्यके ।अबहुष्वेव बहुषु त्वत्रयोऽपत्यवाचिनः ॥ ५१९ ॥
4.519 · p. 41
अनुष्टुप्
आथर्वणः समूहेऽथर्वणामाम्नायधर्मयोः ।तेषां शान्तिगृहेऽपि स्यात्सामभेदेप्यथर्वणाम् ॥ ५२० ॥
4.520 · p. 41
अनुष्टुप्
शंनो देवीरिति ह्यस्यामृचि दृष्टे नपुंसकम् ।वाच्यलिङ्गे तु सम्बन्धिमात्रेऽपि स्यादथर्वणः ॥ ५२१ ॥
4.521 · p. 41
अनुष्टुप्
आदर्शा दर्पणे टीकाप्रतिपुस्तकयोरपि ।आदानमश्वालंकारे ग्रहणे चोत्तरायणे ॥ ५२२ ॥
4.522 · p. 41
अनुष्टुप्
आदित्योऽर्केप्युपेन्द्रेऽथ द्वयोर्देवेऽपि चादितेः ।अपत्यआदित्यस्य त्रि त्वादित्याऽऽदित्ययोगिनि ॥ ५२३ ॥
4.523 · p. 41
अनुष्टुप्
आदिष्टमादेशिते त्रिराज्ञप्तोच्छिष्टयोस्तु नप् ।आदीनवः पुमान्दोषे परिक्लेशदुरन्तयोः ॥ ५२४ ॥
4.524 · p. 41
अनुष्टुप्
आदृतः सादरेऽपि स्यादर्चितेप्यभिधेयवत् ।आदेष्टाऽदेशके त्रि स्यान्नाऽध्वरव्रतिनि स्मृतः ॥ ५२५ ॥
4.525 · p. 41
अनुष्टुप्
आद्या स्त्रियां शक्तिदेव्यां त्र्याद्यं पूर्वप्रधानयोः ।अदनीये च पुँल्लिङ्गस्त्याद्यो वेधसि कीर्त्तितः ॥ ५२६ ॥
4.526 · p. 41
अनुष्टुप्
आधानं तु विधाने स्यात्त्रेताग्न्याधान एव च ।आधार आलवालेऽम्बुबन्धेऽधिकरणेपि च ॥ ५२७ ॥
4.527 · p. 41
अनुष्टुप्
आधिर्मानसपीडायां व्यसने बन्धकेपि च ।प्रत्याशायामधिष्ठाने पुँल्लिङ्गः परिकीर्त्तितः ॥ ५२८ ॥
4.528 · p. 41
अनुष्टुप्
आधेयमग्न्याधाने त्रिस्त्वाधारस्यनिधेययोः ।आध्मातः शब्दिते दग्धे त्रिषु वातरुगन्तरे ॥ ५२९ ॥
4.529 · p. 41
अनुष्टुप्

आध्यात्मिकः-आप्लुतः

आध्यात्मिको ध्यानयोगे त्रिस्त्वध्यात्मभवे मतः ।आनकः पटहे भेर्यां मृदङ्गे ध्वनदेऽम्बुदे ॥ ५३० ॥
4.530 · p. 42
अनुष्टुप्
वासुदेवे तु संप्रोक्तः पुमानानकदुन्दुभिः ।क्लीबं तु स्यात्समाहार आनकस्य च दुन्दुभेः ॥ ५३१ ॥
4.531 · p. 42
अनुष्टुप्
आनद्धं मुरजादो क्ली स्याद्बद्धे त्वभिधेयवत् ।स्यादानन्दी तु गोस्तन्यां स्त्र्यानन्दस्तु सुखे पुमान् ॥ ५३२ ॥
4.532 · p. 42
अनुष्टुप्
आनर्त्तो देशभेदे स्यान्नृत्तस्थाने जले रणे ।आनाहोऽधोवृद्धिरोगे बन्धनेप्युदरस्य च ॥ ५३३ ॥
4.533 · p. 42
अनुष्टुप्
आनील ईषन्नीले त्रिरानीली श्यामघोटके ।द्वयोः स्त्रियां तु वङ्गेऽसावानीली परिकीर्त्तिता ॥ ५३४ ॥
4.534 · p. 42
अनुष्टुप्
स्यात्त्रिष्वापणिकः पारे वणिजि व्यवहारके ।स्यात्त्रिष्वापतिकः पादोष्णके चैव वणिज्यपि ॥ ५३५ ॥
4.535 · p. 42
अनुष्टुप्
द्वे तु श्येने मयूरेऽथ पुंसि काले प्रयुज्यते ।आपत्तिरापदि स्त्री स्यात्प्रापणेपि प्रकीर्त्तिता ॥ ५३६ ॥
4.536 · p. 42
अनुष्टुप्
स्यात्त्रिष्वापदिकश्चैवापतिकोऽपि वणिज्ययम् ।पुँल्लिङ्गौ तु भवेतां द्वाविन्द्रनीलेन्द्रकीलयोः ॥ ५३७ ॥
4.537 · p. 42
अनुष्टुप्
आपन्नः सविपत्तौ च प्राप्ते चाप्यभिधेयवत् ।आपन्नसत्त्वा तु स्त्रीत्वे गर्भिण्यामथ वाच्यवत् ॥ ५३८ ॥
4.538 · p. 42
अनुष्टुप्
प्राप्तसत्त्वे विपन्नं च सत्त्वं यस्यास्ति तत्र च ।आपातः स्यादापतने तदात्वे पतने तथा ॥ ५३९ ॥
4.539 · p. 42
अनुष्टुप्
आपानं तु सुरापानगोष्ठ्यामारुष्यपानके ।आपीडः शेखरे जातिच्छन्दोभेदेपि कीर्त्तितः ॥ ५४० ॥
4.540 · p. 42
अनुष्टुप्
आप्तः प्रत्ययिते प्रोक्तस्तथा लब्धेऽपि वाच्यवत् ।आप्तिः प्रत्ययितत्वे स्याल्लाभसम्बन्धयोरपि ॥ ५४१ ॥
4.541 · p. 42
अनुष्टुप्
आप्यं तु प्रापणीये स्यादम्मयेपि त्रिलिङ्गकम् ।आप्रीतस्तु द्वयोर्विप्रादुग्रस्त्रीसम्भवे सुते ॥ ५४२ ॥
4.542 · p. 42
अनुष्टुप्
अथाभिनवमृत्पात्रे प्रसन्नेऽप्यभिधेयवत् ।आप्लुतः स्यात्समावृत्ते स्नाते चाप्यभिधेयवत् ॥ ५४३ ॥
4.543 · p. 42
अनुष्टुप्

आबद्धः-आयतिः

आबद्धो दृढबन्धे स्यात्प्रेमालंकारयोक्त्रयोः ।आबन्धस्तु पुमान्योक्त्रे बन्धने च प्रकीर्त्तितः ॥ ५४४ ॥
4.544 · p. 43
अनुष्टुप्
आभीलं कष्टरजसोस्त्रि तु तद्वति भीषणे ।आभोगो वारुणच्छत्रे परिपूर्णत्वयत्नयोः ॥ ५४५ ॥
4.545 · p. 43
अनुष्टुप्
आभ्यन्तरं तु त्रिष्वभ्यन्तरजादावथो नपि ।रसभावाङ्गहाराद्यैर्नर्त्तने रूपकाश्रये ॥ ५४६ ॥
4.546 · p. 43
अनुष्टुप्
आमव्ययं मतं ज्ञाने निश्चये स्मरणे तथा ।आमो रुक्तद्भिदोः पुंसि स्यादपक्वेन्यलिङ्गकः ॥ ५४७ ॥
4.547 · p. 43
अनुष्टुप्
आमन्त्रणामन्त्रणं चाह्वानेऽनुज्ञापनेऽपि च ।कामचाराभ्यनुज्ञानेऽपीदं द्वयमुदीरितम् ॥ ५४८ ॥
4.548 · p. 43
अनुष्टुप्
आमन्त्रितस्त्वनुज्ञाते त्रिरनुज्ञापितेऽपि च ।सम्बोधनविभक्तौ तु भवेदामन्त्रिता न ना ॥ ५४९ ॥
4.549 · p. 43
अनुष्टुप्
आमन्त्रितं पुनः क्लीबं स्यादामन्त्रणकर्मणि ।आमिषं त्वस्त्रियां मांसे संभोगे भोग्यवस्तुनि ॥ ५५० ॥
4.550 · p. 43
अनुष्टुप्
उत्कोचेऽथ स्त्रियां मांस्याऽऽख्ये गन्धद्रव्य आमिषी ।आमोदस्तु पुमान्हर्षेऽतिनिर्हारिणि चोच्यते ॥ ५५१ ॥
4.551 · p. 43
अनुष्टुप्
विमर्दोत्थे परिमले गन्धे जनमनोहरे ।आम्नाय उपदेशेऽपि संप्रदायेपि कीर्त्तितः ॥ ५५२ ॥
4.552 · p. 43
अनुष्टुप्
पाठाभ्यासे च वेदे च पुँल्लिङ्गः संप्रयुज्यते ।आयः पुंसि धनोत्पत्तौ स्वामिभागे तथागतौ ॥ ५५३ ॥
4.553 · p. 43
अनुष्टुप्
आगतौ च तथा राशौ लग्नादेकादशे मतः ।अयसम्बन्धिनी त्वायी त्रिलिङ्गा परिकीर्त्तिता ॥ ५५४ ॥
4.554 · p. 43
अनुष्टुप्
त्रिरायतः स्यादाकृष्टे दीर्घवस्तुन्यथायतौ ।क्लीबमाकर्णकर्षाच्च शराकर्षेङ्गुलाधिके ॥ ५५५ ॥
4.555 · p. 43
अनुष्टुप्
आयतस्तु पुमान्कश्चित्त्वाचष्टे ब्राह्मणे द्वयोः ।भवेदायतनं देवालये गेहे च तोरणे ॥ ५५६ ॥
4.556 · p. 43
अनुष्टुप्
शख्ये स्थानमात्रे च लिङ्गं चास्य नपुंसकम् ।आयतिर्दीर्घतायां स्त्री प्रभावागामिकालयोः ॥ ५५७ ॥
4.557 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 श (syllables merged)

आयत्तिः-आराग्रं

आयत्तिस्तु स्त्रियां स्नेहे वशित्वे वासवे बले ।आयसं त्वयसि क्लीबमयःसम्बन्धिनि त्रिषु ॥ ५५८ ॥
4.558 · p. 44
अनुष्टुप्
त्र्यायस्तः कुपिते क्षिप्ते क्लेशिते तेजिते हते ।आयानं त्वश्वभूषायामागतौ च प्रकीर्त्तितम् ॥ ५५९ ॥
4.559 · p. 44
अनुष्टुप्
आयाम इति शब्दोऽयं पुँल्लिङ्गः परिकीर्त्तितः ।दैर्घ्ये रज्जुपटादीनामभितश्च विकर्षणे ॥ ५६० ॥
4.560 · p. 44
अनुष्टुप्
आयासस्तु प्रयत्नेऽपि क्लेशेऽपि परिकीर्त्तितः ।आयुशब्दो मनुष्ये द्वे शकटे तु पुमानयम् ॥ ५६१ ॥
4.561 · p. 44
अनुष्टुप्
स्यात्पुरुरवउर्वश्योः पुराणप्रथिते सुते ।आयुधं वारिणि क्लीबं शस्त्रे त्वायुधमस्त्रियाम् ॥ ५६२ ॥
4.562 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
आयुर्नपुंसकं सान्तं धने वत्सरनीरयोः ।जीविते विश्वतो दावन्नित्यारण्यकसामनि ॥ ५६३ ॥
4.563 · p. 44
अनुष्टुप्
तथा जीवितकालेऽपि क्रतुभेदेऽपि पुंनपोः ।आयुष्मान्योगभेदे ना वाच्यवच्चिरजीविनि ॥ ५६४ ॥
4.564 · p. 44
अनुष्टुप्
आयोगो व्यापृतौ बोधे गन्धमाल्याद्युपाहृतौ ।आयोगवो द्वे वैश्यायां शूद्राज्जाते निषादतः ॥ ५६५ ॥
4.565 · p. 44
अनुष्टुप्
शूद्रायामपि जातेऽथ त्रिष्वयोमयपत्त्रिणः ।सम्बन्धिन्यायोगवश्चायोगव्यायोगवं तथा ॥ ५६६ ॥
4.566 · p. 44
अनुष्टुप्
आयोधनं वधे युद्धे नपुंसकमुदाहृतम् ।आरस्त्वङ्गारके गत्यामागतौ च शनैश्चरे ॥ ५६७ ॥
4.567 · p. 44
अनुष्टुप्
आरा चर्मप्रभेदिन्यामथारं पित्तले नृ नप् ।अरसम्बन्धिनि त्वारमारश्चारी च वाच्यवत् ॥ ५६८ ॥
4.568 · p. 44
अनुष्टुप्
आरक्षो गजकुम्भाधःप्रदेशे चापि रक्षिणि ।आरट्टा देशभेदे पुं भूम्न्यारट्टस्तु तद्भवे ॥ ५६९ ॥
4.569 · p. 44
अनुष्टुप्
आरट्टी च द्वयोरुक्तौ विशेषात्तज्जघोटके ।आरम्भस्तु त्वरायामप्युद्यमे वधदर्पयोः ॥ ५७० ॥
4.570 · p. 44
अनुष्टुप्
उपक्रमे च निर्माणे पुँल्लिङ्गः परिकीर्त्तितः ।आराग्रं स्यादिषोरग्रेऽप्यारायाश्चाग्रभागके ॥ ५७१ ॥
4.571 · p. 44
अनुष्टुप्

आरात्-आलिङ्गः

आराद्दूरे समीपे चाप्यव्ययं परिकीर्त्तितम् ।आराधनाऽऽराधनं च प्राप्तिसंसिद्धितृप्तिषु ॥ ५७२ ॥
4.572 · p. 45
अनुष्टुप्
संतोषणायामपि च द्वयमेतत्प्रकीर्त्तितम् ।आरामः स्यादुपवने विरामेऽपि पुमानयम् ॥ ५७३ ॥
4.573 · p. 45
अनुष्टुप्
आरुः पुंसि तरोर्भेदे द्वयोः कर्कटदंष्ट्रिणोः ।आरोहो हस्तिवाहेऽवरोहाख्येऽङ्गे तरोरपि ॥ ५७४ ॥
4.574 · p. 45
अनुष्टुप्
दैर्घ्ये समुच्छ्रये चापि श्रोण्यामारोहणे तथा ।वरारोहाकटिस्थानेप्येष पुँल्लिङ्ग उच्यते ॥ ५७५ ॥
4.575 · p. 45
अनुष्टुप्
आरोहणो रथे पुंसि क्लीत्वारोहस्य साधने ।आर्त्तवं रजसि स्त्रीणां कुसुमे च नपुंसकम् ॥ ५७६ ॥
4.576 · p. 45
अनुष्टुप्
वाच्यवदृतुजातेऽपि प्राप्तर्त्तावपि कीर्त्त्यते ।आर्त्तिः पीडाधनुष्कोट्योः प्राप्ते लब्धस्वसत्रयोः ॥ ५७७ ॥
4.577 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
आर्द्रोऽस्त्रियां शृङ्गवेरेऽथार्द्रा क्लिन्ने त्रिलिङ्गिका ।आर्द्रकं शृङ्गिवेरे त्रि त्वार्द्रानक्षत्रसंभवे ॥ ५७८ ॥
4.578 · p. 45
अनुष्टुप्
आर्द्रा स्त्री रुद्रनक्षत्रे तद्युक्ते कालमात्रके ।आर्या मृडान्यां स्त्रीजातिच्छन्दोभेदे च ना पुनः ॥ ५७९ ॥
4.579 · p. 45
अनुष्टुप्
सौविदल्ले सज्जने तु तद्वदेवार्ययोगिनि ।आगन्तव्ये च गम्ये च वाच्यवत्संप्रयुज्यते ॥ ५८० ॥
4.580 · p. 45
अनुष्टुप्
आर्यपुत्रो द्वयोरार्याऽपत्ये पुंसि तु भर्त्तरि ।नाट्योक्तिविषये चैव देवरेपि प्रकीर्त्तितः ॥ ५८१ ॥
4.581 · p. 45
अनुष्टुप्
आर्षणं सामभेदे क्ली त्रिषु त्वृषभयोगिनि ।आलप्तिः स्यादालपने स्त्रियां गीतेरुपक्रमे ॥ ५८२ ॥
4.582 · p. 45
अनुष्टुप्
आलम्बो नाऽऽलम्बने स्यात्क्ली तु स्यान्मत्तवारणे ।आलस्यमलसत्वे स्यादलसे त्वभिधेयवत् ॥ ५८३ ॥
4.583 · p. 45
अनुष्टुप्
आलानमस्त्रियां बन्धस्तम्भे रज्जौ च दन्तिनाम् ।तथैव स्तम्भमात्रेऽपि ग्रहणे तु नपुंसकम् ॥ ५८४ ॥
4.584 · p. 45
अनुष्टुप्
आलिः पङ्क्तिसखीसेतुषु स्त्री त्रिविंशदाशये ।आलिङ्गो वाद्यभेदाश्लेषयोस्त्रित्वेप्यलिङ्गतः ॥ ५८५ ॥
4.585 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्रि (wrong syllable)

आलिङ्ग्यः-आवृत्

आलिङ्ग्यः पटहे मध्यमे स्त्रिस्त्वालिङ्गनीयके ।आलीढं स्थितिभेदे ध्वन्विनां स्यात्स्थीयते यदा ॥ ५८६ ॥
4.586 · p. 46
अनुष्टुप्
वाममाकुञ्च्य चरणं दक्षिणे प्रततेऽग्रतः ।क्लीबमास्वादने चैतत्त्रिषु त्वास्वादिते भवेत् ॥ ५८७ ॥
4.587 · p. 46
अनुष्टुप्
आलुः श्लेष्मान्तक श्लेष्मण्यपि पुंसि प्रयुज्यते ।नपुंसकं भेलके च मूले चाप्यथ नप्स्त्रियोः ॥ ५८८ ॥
4.588 · p. 46
अनुष्टुप्
चक्रोष्ट-संज्ञके कन्दे कर्कर्यां तु स्त्रियामियम् ।आलूः स्त्रीटिट्टिभे योनिव्याधावपि वनस्पतौ ॥ ५८९ ॥
4.589 · p. 46
अनुष्टुप्