कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

औ

औ त्वेतत्कथितं हूतौ तथा संबोधनेऽव्ययम् ।स्त्री तु विश्वम्भरायां स्यान्निःस्वने पुंसि कीर्त्तितः ॥ ९३५ ॥
16.935 · p. 72
अनुष्टुप्
औचित्यमुचितत्वे स्यात्सत्येऽपि च नपुंसकम् ।औजसं काञ्चने क्लीबमोजःसम्बन्धिनि त्रिषु ॥ ९३६ ॥
16.936 · p. 72
अनुष्टुप्
औदुम्बरं कुष्ठरोगभेदे ताम्रेऽपि नप्यथ ।यमे च वानप्रस्थे ना तस्मिन्यस्तुर्यकालभुक् ॥ ९३७ ॥
16.937 · p. 72
अनुष्टुप्
षण्माससंग्रही चाऽपि योगाऽर्थे त्वभिधेयवत् ।औदुम्बरायणऋषिभित्कृतोद्वाहविप्रयोः ॥ ९३८ ॥
16.938 · p. 72
अनुष्टुप्
औपरिष्टकमित्येतत्कामशास्त्रक्रियान्तरे ।ऊर्ध्वजे तु त्रिलिङ्गोऽयं शब्दः संपरिकीर्त्तितः ॥ ९३९ ॥
16.939 · p. 72
अनुष्टुप्
औरभ्रो मेषसंबद्धे त्रि पुमान्मेषकम्बले ।औरसो द्वे निजे पुत्रे पुँल्लिङ्गः सूक्ष्मनीरके ॥ ९४० ॥
16.940 · p. 72
अनुष्टुप्
उरःसम्बन्धिनि त्वौरसी लिङ्गत्रितये मता ।और्वो ना वडवाग्नौ स्यादूर्वसम्बन्धिनि त्रिषु ॥ ९४१ ॥
16.941 · p. 72
अनुष्टुप्
और्वशेयोऽगस्त्यमुनौ द्वयोस्तूर्वश्यपत्यके ।औशीरं चामरे शय्यासने दण्डेऽप्युशीरजे ॥ ९४२ ॥
16.942 · p. 72
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)