कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (3/8)

वल्लभो दयितेऽध्यक्षे त्रिर्ना सल्लक्षणे हये ।स्यादगुर्वन्तरे स्त्री तु वल्लभी परिकीर्त्तिता ॥ ५१८७ ॥
45.5187 · p. 386
अनुष्टुप्
वल्लभा तु प्रियङ्गौ चाऽतिविषायाञ्च कीर्त्तिता ।वल्लरिः स्त्री लतायां च मञ्जर्यां वल्लरी तथा ॥ ५१८८ ॥
45.5188 · p. 386
अनुष्टुप्
वल्लवो द्वे सूपकारे गोपे भीमे पुनः पुमान् ।वल्ला स्त्री तुवरीधान्ये सा तु संवरणे द्वयोः ॥ ५१८९ ॥
45.5189 · p. 386
अनुष्टुप्
मल्लीक्षत्रियजे त्वेषा द्वयोर्वल्ली प्रकीर्त्तिता ।वल्ली कैवर्त्तिकाचव्याऽजमोदाव्रततिष्वपि ॥ ५१९० ॥
45.5190 · p. 386
अनुष्टुप्
फलवल्लीग्रन्थकाण्डभूषु स्त्री वल्लिवन्मता ।वल्लिजं मरिचे वंशक्षीर्यां चैव नपुंसकम् ॥ ५१९१ ॥
45.5191 · p. 386
अनुष्टुप्
सविषप्रसवे तूद्भिद्भेदे स्याद्वल्लिजः पुमान् ।वल्लु(ल्लू)रस्तु वनक्षेत्र ऊषरे वाहने तथा ॥ ५१९२ ॥
45.5192 · p. 386
अनुष्टुप्
गहनेऽपि च नक्षत्रे क्लीबलिङ्गं प्रकीर्त्तितम् ।वल्लुरं शाद्बले क्षेत्रगहनेऽनम्भसि स्मृतम् ॥ ५१९३ ॥
45.5193 · p. 386
अनुष्टुप्
मञ्जर्यामौषधे कुञ्जेऽपि क्लीबमिति केचन ।वल्लूरकस्तु वल्लूरे कर्णवैकृतभिद्यपि ॥ ५१९४ ॥
45.5194 · p. 386
अनुष्टुप्

वल्लूरा-वसन्तसखः

वल्लूरा तु त्रयी शुष्कमांससूकरमांसयोः ।वव्रः पुमान्ह्रदे त्रिस्तु वव्रो वरणकारिणि ॥ ५१९५ ॥
45.5195 · p. 387
अनुष्टुप्
वशङ्गमस्त्रिर्वशगे मन्त्रभेदे वशङ्गतौ ।वशवर्त्तिन्योषधीभिद्यथ त्रिषु तु यौगिके ॥ ५१९६ ॥
45.5196 · p. 387
अनुष्टुप्
स्त्रियां वशा स्याद्वन्ध्यायां स्त्रीमात्रे दुहितर्यपि ।करिण्यां वन्ध्यगव्यां चाप्यग्निमन्थद्रुमेऽप्यथ ॥ ५१९७ ॥
45.5197 · p. 387
अनुष्टुप्
आयत्तत्वे प्रभुत्वे च स्पृहायाञ्च जनेऽपि ना ।केचिद्वेश्यालये वाल्मीक्यृषिभिज्जन्मसूचिरे ॥ ५१९८ ॥
45.5198 · p. 387
अनुष्टुप्
वशन्द्रुतवसायां च क्लीबं क्वाप्युपलभ्यते ।त्रिष्वायत्ते द्वयोस्तु स्यात्करणीवैश्यसम्भवे ॥ ५१९९ ॥
45.5199 · p. 387
अनुष्टुप्
वशिः कान्ते त्रिषु क्लीबं वशित्वे वशि कीर्त्तितम् ।वशी वश्यात्मनि त्रि स्याद्वशिनी तु स्त्रियां मता ॥ ५२०० ॥
45.5200 · p. 387
अनुष्टुप्
शम्यामपि च वन्दायां न क्ली जलविडालके ।वशिरः किणिहीहस्तिपिप्पल्योः पुंसि कीर्त्तितः ॥ ५२०१ ॥
45.5201 · p. 387
अनुष्टुप्
सामुद्रलवणे त्वेतद्वशिरं स्यान्नपुंसकम् ।वशीरोऽपि वसीरोऽपि वसिरश्चैव न स्त्रियाम् ॥ ५२०२ ॥
45.5202 · p. 387
अनुष्टुप्
वश्या वशित्वसिद्धौ न नाऽथ स्याद्वशगे त्रिषु ।वसतिः स्त्री गृहे रात्राववस्थाने जिनाश्रमे ॥ ५२०३ ॥
45.5203 · p. 387
अनुष्टुप्
वसनं छादने वस्त्रे निवासाख्ये च कर्मणि ।वसन्तः सुरभौ छन्दोरागतालान्तरेषु च ॥ ५२०४ ॥
45.5204 · p. 387
अनुष्टुप्
तथाऽतिसाररोगेऽपि पुँल्लिङ्गः परिकीर्त्तितः ।वसन्तजा सुरभिमासोत्सवे मल्लिकाभिदि ॥ ५२०५ ॥
45.5205 · p. 387
अनुष्टुप्
वसन्ततिलका न क्ली छन्दोभेदे प्रकीर्त्तिता ।तिलकस्य तु पुष्पे क्ली भाणभेदे रसान्तरे ॥ ५२०६ ॥
45.5206 · p. 387
अनुष्टुप्
वसन्तदूतश्चैत्रेऽपि चूते ना पञ्चमस्वरे ।वसन्तदूती पाटल्यां माधव्यां च स्त्रियां मता ॥ ५२०७ ॥
45.5207 · p. 387
अनुष्टुप्
द्रुमान्तरेऽग्निमन्थाभे कोकिले तु द्वयोर्भवेत् ।स्याद्वसन्तसखः पुंसि कामे च मलयानिले ॥ ५२०८ ॥
45.5208 · p. 387
अनुष्टुप्

वसव्यम्-वसुमान्‌

वसव्यं वसुदेवैस्त्रिः संबद्धे धनयोगिनि ।वसाऽस्यादार्द्रकाभोद्भिदन्तरे मेदसि तथा ॥ ५२०९ ॥
45.5209 · p. 388
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सि (wrong syllable)
वसादनी शिंशपायामटरूषेऽपि च स्त्रियाम् ।छत्राकं क्ली तु कवके वसारोहं शिलीन्ध्रके ॥ ५२१० ॥
45.5210 · p. 388
अनुष्टुप्
वसिस्तु वसधातौ ना वस्त्रे स्यात्पुंसि वा स्त्रियाम् ।वसिष्ठ ऋषिभेदेऽपि पुमांस्तारान्तरेऽपि च ॥ ५२११ ॥
45.5211 · p. 388
अनुष्टुप्
वसिष्ठं तूच्यते वासिष्ठवत्कैश्चिन्नपुंसकम् ।वसुर्नाऽनौ ह्रदे योक्त्रे किरणेऽन्धुकपादपे ॥ ५२१२ ॥
45.5212 · p. 388
अनुष्टुप्
पादपे पीतमुद्गे चारत्निसंज्ञप्रमाणके ।पूर्वक्षत्रियभेदे च देवभेदे बके द्रुमे ॥ ५२१३ ॥
45.5213 · p. 388
अनुष्टुप्
आदित्यमरुदग्नीन्द्रवायुरुद्रोऽश्विविष्णुषु ।शिवे कुबेरेऽप्युषसि सूर्ये चन्द्राष्टसंख्ययोः ॥ ५२१४ ॥
45.5214 · p. 388
अनुष्टुप्
त्रिशुष्कस्वादुशस्तेषु न तु क्ली नरमत्स्ययोः ।मणौ जले च द्रविणे क्लीबं स्याद्वसिरौषधे ॥ ५२१५ ॥
45.5215 · p. 388
अनुष्टुप्
वसुदेवे तथा कृष्णे भारद्वाजऋषौ जिने ।वृद्ध्यौषधे तथा श्यामरैरलेऽश्वेपि मौक्तिके ॥ ५२१६ ॥
45.5216 · p. 388
अनुष्टुप्
रौमकाख्येऽपि लवणे वस्वी तु स्यात्स्त्रियां निशि ।वसुको वासयितरि त्रिः पुमांस्तु बकद्रुमे ॥ ५२१७ ॥
45.5217 · p. 388
अनुष्टुप्
अर्वागस्त्याटरूषेषु तालभिद्यपि (कीर्त्तितः) ।रौमकाख्ये तु लवणे क्लीबं वसुकमिष्यते ॥ ५२१८ ॥
45.5218 · p. 388
अनुष्टुप्metre not read in every line
वसुदेवः कृष्णताते कण्ववंश्यनृपान्तरे ।वसुदेवं धनिष्ठायां स्त्री श्वफल्कसुतार्थिका ॥ ५२१९ ॥
45.5219 · p. 388
अनुष्टुप्
वसुदैव्या धनिष्ठायां तथैव नवमीतिथौ ।वसुधास्त्रिर्धनवति भूलक्ष्म्यो (स्तु स्त्रियामियम् ) ॥ ५२२० ॥
45.5220 · p. 388
अनुष्टुप्metre not read in every line
वसुधा तु नदीबौद्धदेवीभिदलकास्वपि ।वसुधासुत इत्येष भौमे च नरकासुरे ॥ ५२२१ ॥
45.5221 · p. 388
अनुष्टुप्
वसुप्रभाऽग्निजिह्वानामेकस्यामलकापुरि ।वसुमान्वसुयुक्ते त्रिर्वसुमत्यवनि स्त्रियोः ॥ ५२२२ ॥
45.5222 · p. 388
अनुष्टुप्

वसुरेताः-वहन्ती

वसुरेतास्तु वह्नौ स्याच्छिवे चापि प्रयुज्यते ।वसुलस्तु द्वयोर्देवे वसुदत्ताऽभिधे तु ना ॥ ५२२३ ॥
45.5223 · p. 389
अनुष्टुप्
वसुश्रेष्ठस्तु विष्णौ ना रजते तु नपुंसकम् ।वसुषेणस्तु कर्णेऽपि विष्णावपि पुमान्मतः ॥ ५२२४ ॥
45.5224 · p. 389
अनुष्टुप्
वसुसाराऽलकापुर्यां योगार्थे तु यथायथम् ।वसूको बकवृक्षे ना क्ली तु स्याल्लवणान्तरे ॥ ५२२५ ॥
45.5225 · p. 389
अनुष्टुप्
वसोर्धाराऽग्निचयनघृतहोमे ग्रहाऽन्तरे ।स्वर्गङ्गायां तथा स्वाहादेव्यां तीर्थान्तरेऽपि च ॥ ५२२६ ॥
45.5226 · p. 389
अनुष्टुप्
वस्तिर्मूत्राशये नाभेश्चाधोदेशेऽभिषज्य ताम् ।द्वे स्नेहनोपकरणे दशायामम्बरस्य च ॥ ५२२७ ॥
45.5227 · p. 389
अनुष्टुप्
अथ वस्तिः पुमान्धातौ वसावादादिके स्मृतः ।वस्ति ग्रामनगर्यादिपदार्थेऽपि धने (नपि) ॥ ५२२८ ॥
45.5228 · p. 389
अनुष्टुप्metre not read in every line
वस्तुकं वस्तुनि तथा वास्तूके क्लीबमुच्यते ।वस्त्रं स्यादंशुके क्लीबं तथा (वस्त्रा नदीभिदि) ॥ ५२२९ ॥
45.5229 · p. 389
अनुष्टुप्metre not read in every line
स्याद्वस्त्रकुट्टिमं छत्रे तथैव पटवेश्मनि ।वस्नं रुमाजे लवणे मूल्ये मेढ्रागमे तु ना ॥ ५२३० ॥
45.5230 · p. 389
अनुष्टुप्
वस्नोऽह्नि वस्त्रं तु गृहे वेतने च नपुंसकम् ।वस्वौकसारा वस्वोकसारापि स्यान्नदीभिदि ॥ ५२३१ ॥
45.5231 · p. 389
अनुष्टुप्
अलकायामपि तथाऽमरावत्यामपीष्यते ।वहा नद्यां वहो वायौ गोश्वादिस्कन्धदेशके ॥ ५२३२ ॥
45.5232 · p. 389
अनुष्टुप्
मानान्तरे चतुर्द्रोणे युगांशे मार्ग एव च ।वहतो वृषभेऽपि स्यात्पथिकेऽपि तथा पुमान् ॥ ५२३३ ॥
45.5233 · p. 389
अनुष्टुप्
वहतिस्तु कुटुम्बेऽपि पुत्रेऽमात्ये वृषे पुमान् ।वहती त्वापगायां स्त्रीलिङ्ग एव प्रकीर्त्तिता ॥ ५२३४ ॥
45.5234 · p. 389
अनुष्टुप्
वहतुस्तु बलीवर्दे कालेऽग्नौ पथिके पुमान् ।वहनं भारभरणे रथादीनां च यापने ॥ ५२३५ ॥
45.5235 · p. 389
अनुष्टुप्
स्यन्दे रथविशेषे च चतुरस्रे सकूबरे ।वहन्तो रथरेणी ना वहन्ती वोढरि त्रिषु ॥ ५२३६ ॥
45.5236 · p. 389
अनुष्टुप्

वहन्त्यः-वागीश्वरः

ना विस्तृतकरे हस्ते क्ली ताम्रे मकरेऽपि च ।वहन्त्यस्तु सरन्तीषु स्त्रीबहुत्वेऽप्सु कीर्त्तिताः ॥ ५२३७ ॥
45.5237 · p. 390
अनुष्टुप्
क्लीबं वहित्रं पोतोपवहनाख्यरथान्तरे ।वह्निस्त्वग्नौ पुमानुक्ष्णि द्वयोस्त्वश्वे वहिस्तथा ॥ ५२३८ ॥
45.5238 · p. 390
अनुष्टुप्
भल्लातक्यां त्रिसंख्यायाञ्जम्बीरे चित्रकेऽपि च ।रेफे कल्पेऽष्टमे चापि वाहने च पुमानयम् ॥ ५२३९ ॥
45.5239 · p. 390
अनुष्टुप्
वह्निगर्भः समुद्रेऽपि वेणौ वृक्षे तथा पुमान् ।वह्निगर्भा पुनः स्त्रीत्वे शमीवृक्षे प्रकीर्त्तिता ॥ ५२४० ॥
45.5240 · p. 390
अनुष्टुप्
वह्निज्वाला तु धातक्यां पुमांस्तु नरकान्तरे ।अजमोदा वह्निदीपिका कुसुम्भे पुनः पुमान् ॥ ५२४१ ॥
45.5241 · p. 390
अनुष्टुप्
वह्निबीजं सुवर्णेऽपि जम्बीरे रेफ एव च ।स्यात्कुसुम्भे वह्निमुखं योगार्थे तु यथायथम् ॥ ५२४२ ॥
45.5242 · p. 390
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
कुसुम्भे कुङ्कुमे क्लीबलिङ्गं वह्निशिखं मतम् ।धातक्यां गणिकारीकाश्मर्योर्वह्निशिखा स्त्रियाम् ॥ ५२४३ ॥
45.5243 · p. 390
अनुष्टुप्
अथ वह्निसखो वायौ जीरकेऽपि पुमान्मतः ।वा स्याद्विकल्पोपमयोर्वितर्के पादपूरणे ॥ ५२४४ ॥
45.5244 · p. 390
अनुष्टुप्
समुच्चये च विस्तम्भे नानार्थाऽतीतयोरपि ।एवार्थेऽपि तथेवार्थे चार्थे तच्चाव्ययम्मतम् ॥ ५२४५ ॥
45.5245 · p. 390
अनुष्टुप्
वांशी स्त्री स्यात्तुगाक्षीर्यां वंशसम्बन्धिनि त्रिषु ।वांशिकस्त्रिषु वेणोश्च वादके वांशभारिके ॥ ५२४६ ॥
45.5246 · p. 390
अनुष्टुप्
वाको वाका द्वयोरुक्तौ वाकं स्यात्सामभित्स्वपि ।वाक्यं तु वचने क्लीबं सक्रिये कारके तथा ॥ ५२४७ ॥
45.5247 · p. 390
अनुष्टुप्
मीमांसायां तर्कशास्त्रे शास्त्रार्थे परिकीर्त्तितम् ।वागरो वारके शाणे निर्जरे वाडवे वृके ॥ ५२४८ ॥
45.5248 · p. 390
अनुष्टुप्
मुमुक्षौ पण्डिते चापि परित्यक्तभयेऽपि च ।निर्णकेऽपि विशाले च वागरो वारके पुमान् ॥ ५२४९ ॥
45.5249 · p. 390
अनुष्टुप्
वागीशा तु सरत्वत्यां ना ब्रह्मणि बृहस्पतौ ।वागीश्वरस्तु धिषणे ब्रह्मण्यपि पुमान्मतः ॥ ५२५० ॥
45.5250 · p. 390
अनुष्टुप्

वागीश्वरी-वाजी

वागीश्वरी सरस्वत्यां स्त्रियां वागीश्वराऽपि च ।वागुरा मृगबन्धन्यां स्त्रीलिङ्गे परिकीर्त्तिता ॥ ५२५१ ॥
45.5251 · p. 391
अनुष्टुप्
वागुरस्तु द्वयोरुक्तो वैश्यवेनीसमुद्भवे ।वाग्दुष्टं दूषिते वाचा द्वयोस्तु व्रात्य इष्यते ॥ ५२५२ ॥
45.5252 · p. 391
अनुष्टुप्
वाग्मी शुके द्वे ना जीवे वाचोयुक्तिपटौ त्रिषु ।वाग्यः कल्येऽपि निर्वेदे वाग्दरिद्रेऽपि वाच्यवत् ॥ ५२५३ ॥
45.5253 · p. 391
अनुष्टुप्
वाघत्स्यादृत्विजि पुमान्मेधाविनि तथा मतः ।साहित्ये वाङ्मयं क्लीबं वाग्देव्यां वाङ्मयी स्त्रियाम् ॥ ५२५४ ॥
45.5254 · p. 391
अनुष्टुप्
वाग्वाण्यां गौणावृत्त्या सा शब्दे वक्त्रेऽपि च स्त्रियाम् ।एकाहभेदे जिह्वायां साम्नि वाङ्निधनाभिधे ॥ ५२५५ ॥
45.5255 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 णा (wrong syllable)
वाचंयमो मुनौ त्रिस्तु वाग्यते परिकीर्त्तितः ।वाचो मत्स्यविशेषे द्वे पुमांस्तु मदनद्रुमे ॥ ५२५६ ॥
45.5256 · p. 391
अनुष्टुप्
वाचको वाच्यवत्पाठकेऽपि चार्थाभिधायके ।वाचनस्योपयुक्तेऽपि तथा वाचनकं मतम् ॥ ५२५७ ॥
45.5257 · p. 391
अनुष्टुप्
वाचाला शारिकायां स्त्री बहुगर्ह्यगिरि त्रिषु ।सन्देशे वाचिकं क्ली वागाशीर्दत्ते पुमान्मतः ॥ ५२५८ ॥
45.5258 · p. 391
अनुष्टुप्
वाच्यस्त्रि कुत्सितेऽधीने विहीने वदितव्यके ।प्रजापतौ तु पुँल्लिङ्गे वाच्यन्दोषे नपुंसकम् ॥ ५२५९ ॥
45.5259 · p. 391
अनुष्टुप्
वाजः पक्षीषुपक्षे रेतसि वेगे स्वने युधि ।अन्ने चैत्रे ऋभूणां च त्रयाणां क्वचिदिष्यते ॥ ५२६० ॥
45.5260 · p. 391
अनुष्टुप्
वाजं केचित्क्लीबमाहुर्घृतयज्ञान्नवारिषु ।वाजपेयोऽस्त्रियां सोमसप्तसंख्यासु च क्वचित् ॥ ५२६१ ॥
45.5261 · p. 391
अनुष्टुप्
पुमांस्तु तस्य मन्त्रे च कल्पे च परिकीर्त्तितः ।पुमान्वाजसनिर्विष्णौ साम्नोरपि कयोश्चन ॥ ५२६२ ॥
45.5262 · p. 391
अनुष्टुप्
याज्ञवल्क्ये वाजसनेयो नृ भूयाजुषेषु च ।वाजिस्त्री पुङ्खवसने केशपङ्क्तौ द्वयोर्हये ॥ ५२६३ ॥
45.5263 · p. 391
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
वाजी नाग्नौ गुरौ बाणे द्वे तु घोटकपक्षिणोः ।त्रि वाजवति ना सप्तसंख्याऽर्यम्णोस्तथाऽनिले ॥ ५२६४ ॥
45.5264 · p. 391
अनुष्टुप्

वाजिनम्-वातकेलिः

वाच्यवद्वाजिनं वाजिसम्बन्धिनि समीरितम् ।वाजिनं तु मतं क्लीबं नवामिक्षाजवस्तुनि ॥ ५२६५ ॥
45.5265 · p. 392
अनुष्टुप्
वाजिनी त्वश्वगन्धायामश्वायां चोषसि स्मृता ।वाञ्छितस्तालभेदे स्यादिच्छायां तु नपुंसकम् ॥ ५२६६ ॥
45.5266 · p. 392
अनुष्टुप्
वाटस्तु वेष्टने पुंसि नगरे भोजने गृहे ।मण्डले वलये मार्गे स्त्रियां वाटी तथा मता ॥ ५२६७ ॥
45.5267 · p. 392
अनुष्टुप्
कुट्यां पक्षिविशेषेऽथ वरण्डाङ्गान्नभित्सु नप् ।स्त्रियां तु वाटी गेहान्तःक्लृप्ते पुष्पफले वने ॥ ५२६८ ॥
45.5268 · p. 392
अनुष्टुप्
अस्त्री वृतौ द्वे तु वैश्यमैत्रीपुत्रेऽपि वास्तुनि ।वाट्या बलायां स्त्री त्रिस्तु वेष्ट्यवेष्टयितव्ययोः ॥ ५२६९ ॥
45.5269 · p. 392
अनुष्टुप्
वटयोगिनि वाट्यस्तु पुमान्भृष्टयवे मतः ।वाडबो वडबाऽग्नौ ना ब्राह्मणे तु द्वयोर्मतः ॥ ५२७० ॥
45.5270 · p. 392
अनुष्टुप्
वाडबं करणे स्त्रीणां घोटकौघे नपुंसकम् ।मुहूर्त्तभेदेऽप्यस्त्री तु पाताले दक्षिणध्रुवे ॥ ५२७१ ॥
45.5271 · p. 392
अनुष्टुप्
नरकेऽपि च केषाञ्चिन्मते वाडबमिष्यते ।वाडबेयोऽश्विनोः पुंसि वृषेऽथ ब्राह्मणे द्वयोः ॥ ५२७२ ॥
45.5272 · p. 392
अनुष्टुप्
वाणं हुडुक्कहिक्कायां (छन्दोभिद्वीणयोस्तु ना) ।वाणः स्याद्गोस्तने दैत्यभेदे केवलकाण्डयोः ॥ ५२७३ ॥
45.5273 · p. 392
अनुष्टुप्
वाणा तु वाणमूले स्त्री नीलीझण्ट्यां पुनर्द्वयोः ।वाणिनी तु विदग्धायां नत्तर्क्यां मत्तयोषिति ॥ ५२७४ ॥
45.5274 · p. 392
अनुष्टुप्
वाणिर्वानेऽम्बुदे वाचि स्तुतावपि भवेत्स्त्रियाम् ।वाणी वाने सरस्वत्यां वाग्वाद्यस्वरवेणुषु ॥ ५२७५ ॥
45.5275 · p. 392
अनुष्टुप्
छन्दोभिदोश्च वाण्यौ तु युगेऽपि स्याद्रथादिनः ।नदीभेदेऽपि वाणी स्यात्सा केषाञ्चित् सरस्वती ॥ ५२७६ ॥
45.5276 · p. 392
अनुष्टुप्
वाणिजो वणिजि प्रोक्तस्तथैव वडबानले ।वातं त्रिकृतवाने ना वायौ वातिकृतौ तु नप् ॥ ५२७७ ॥
45.5277 · p. 392
अनुष्टुप्
वातकेलिः कलालापे षिङ्गदन्तक्षते पुमान् ।वात्यायां पिच्छिलस्फोटे वामायां वातशोणिते ॥ ५२७८ ॥
45.5278 · p. 392
अनुष्टुप्

वातखुडा-वातिः

स्त्रियां वातखुडा वातहुडावत्परिकीर्त्तिता ।वातगामी पक्षिणि द्वे त्रि तु स्याद्वातयायिनि ॥ ५२७९ ॥
45.5279 · p. 393
अनुष्टुप्
वातगामी तु वातूलोत्कचयोः शक्रकार्मुके ।वातगुल्मस्तु वात्यायां (वात) व्याधौ पुमान्मतः ॥ ५२८० ॥
45.5280 · p. 393
अनुष्टुप्metre not read in every line
वातघ्नस्तु पुमानेष उक्त एरण्डपादपे ।वातघ्नी त्वमनुष्ये स्याद्वाच्यवद्वातघातके ॥ ५२८१ ॥
45.5281 · p. 393
अनुष्टुप्
वातजं शूलभेदे स्याद्योगे तु स्याद्यथायथम् ।वातपुत्रो महाधूर्त्ते भीमसेने हनूमति ॥ ५२८२ ॥
45.5282 · p. 393
अनुष्टुप्
वातप्रमीः स्त्री वात्यायां द्वे तु वातमृगाश्वयोः ।नकुलेऽपि च केषाञ्चिन्मते वातप्रमीः स्मृतः ॥ ५२८३ ॥
45.5283 · p. 393
अनुष्टुप्
द्वयोर्वातमृगे द्वे वातगे वातमजो मतः ।वातरायण उन्मत्ते निष्प्रयोजनपूरुषे ॥ ५२८४ ॥
45.5284 · p. 393
अनुष्टुप्
क्रकचे करपत्रे च सायके शरसङ्क्रमे ।वातरायण इत्युक्तः कैश्चिच्च सरलद्रुमे ॥ ५२८५ ॥
45.5285 · p. 393
अनुष्टुप्
वातारूषश्चक्रवातोत्कोचेन्द्रधनुरुत्कटे ।वातवेगस्तु गरुडे धृतराष्ट्रसुते क्वचित् ॥ ५२८६ ॥
45.5286 · p. 393
अनुष्टुप्
वातव्याधिस्तु योगार्थेऽनिरुद्धे तु पुमान्मतः ।पुमान्वातसुतो वेश्याऽऽचार्ये योगे यथायथम् ॥ ५२८७ ॥
45.5287 · p. 393
अनुष्टुप्
स्त्रियां वातहुडा वात्या राजशोणितयोरपि ।पिच्छिलस्फोटिकायां च वामायामपि योषिति ॥ ५२८८ ॥
45.5288 · p. 393
अनुष्टुप्
वातादो मृगभेदे द्वे बादामे ना फलेऽस्य नप् ।वातापिर्देत्यभेदे ना त्रिषु [वातस्य पातरि] ॥ ५२८९ ॥
45.5289 · p. 393
अनुष्टुप्
वातायनोऽनिले चोलौ नृभूस्यात्सामशाखिषु ।द्वयोरश्वे गवाक्षे तु क्लीबं वातायनं मतम् ॥ ५२९० ॥
45.5290 · p. 393
अनुष्टुप्
वातारिस्तु शतावर्यां निर्गुण्ड्येरण्डयोरपि ।अजमोदास्नुहीभार्गीभल्लातकविडङ्गके ॥ ५२९१ ॥
45.5291 · p. 393
अनुष्टुप्
सूरणे पुत्रदात्र्यां च जतुकायाम्प्रकीर्त्तिता ।वातिर्वायौ रवीन्द्वोर्ना गतिगन्धनकर्मणि ॥ ५२९२ ॥
45.5292 · p. 393
अनुष्टुप्

वातिः-वानं

धातौ तत्क्रिययोस्तु स्त्री वातिः शोषे तथा मता ।वातिको विषवैद्ये द्वे त्रिषु स्याद्वातरोगिणि ॥ ५२९३ ॥
45.5293 · p. 394
अनुष्टुप्
तथा वातस्य शमने कोपने चापि वस्तुनि ।द्वयोस्तु चातकेऽप्येष वातिको मान्त्रिकेऽपि च ॥ ५२९४ ॥
45.5294 · p. 394
अनुष्टुप्
स्कन्दानुगामिनि क्वचित्पुंस्येष परिकीर्त्तितः ।वातिगः पुंसि भण्टाक्यां धातुवादिनि वाच्यवत् ॥ ५२९५ ॥
45.5295 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्व (wrong syllable)
वातुलस्तु सवाते त्रिः शिम्बीधान्यान्तरे पुमान् ।प्रियङ्गौ चक्रवाते च वातुलः परिकीर्त्तितः ॥ ५२९६ ॥
45.5296 · p. 394
अनुष्टुप्
वातूलः पुंसि वात्यायां त्रिर्वातासहवातले ।वात्या स्त्री चक्रवातेऽथ वात्यस्त्रिर्वातयोगिनि ॥ ५२९७ ॥
45.5297 · p. 394
अनुष्टुप्
वात्सकं वत्सयूथे क्ली त्रिस्तु वत्सकयोगिनि ।वात्सीपुत्रो नापिते द्वे नागर्ष्यन्तरयोः पुमान् ॥ ५२९८ ॥
45.5298 · p. 394
अनुष्टुप्
वात्स्यस्त्रिवत्साऽपत्यादौ वात्स्यं वत्सत्व इष्यते ।वादस्तु कलहेऽप्युक्तस्तथा वीणादिवादने ॥ ५२९९ ॥
45.5299 · p. 394
अनुष्टुप्
वादनं वदनेन त्रिः सम्बद्धेऽथ न ना युचि ।वादलः स्याद्यष्टिमधौ वादलं स्याच्च दुर्दिने ॥ ५३०० ॥
45.5300 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्य (wrong syllable)
वादान्यस्त्रिर्वदान्येन सम्बद्धेऽन्यत्र वादतः ।वादिकस्त्रिर्वादवति मान्त्रिके वातिकाभिधे ॥ ५३०१ ॥
45.5301 · p. 394
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्वा (wrong syllable)
वादिकं क्ली तु वाद्ये स्याद् भेद्यलिङ्गं तु कर्त्तरि ।अण्यन्तं वदतेर्ण्यन्ते वदतेः कर्मणि स्मृतः ॥ ५३०२ ॥
45.5302 · p. 394
अनुष्टुप्
वादित्रं वाद्यनिर्घोषे वाद्ये चापि नपुंसकम् ।वदितुस्तु त्रिसम्बन्धिन्येतद्वादित्रमिष्यते ॥ ५३०३ ॥
45.5303 · p. 394
अनुष्टुप्
वादिराट् पुंसि मञ्जुश्रीबुद्धे योगार्थ इष्यते ।वाद्यन्तु क्लीबमातोद्ये त्रिर्वाद्यो वादनीयके ॥ ५३०४ ॥
45.5304 · p. 394
अनुष्टुप्
वाद्यमानं त्रियोगार्थे वाद्यभाण्डे नपुंसकम् ।वाध्रीणसो द्वयोश्छागे गण्डकेऽप्युक्ष्णि पक्षिणि ॥ ५३०५ ॥
45.5305 · p. 394
अनुष्टुप्
कृष्णग्रीवे रक्तशीर्षे श्वेतपक्षे प्रकीर्त्तितः ।वानं शुष्कफले शुष्के त्रि क्ली स्यूतौ च शोषणे ॥ ५३०६ ॥
45.5306 · p. 394
अनुष्टुप्