कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

म (1/4)

मो मध्यमस्वरे काले शिवेन्द्रब्रह्मविष्णुषु ।यमे विषे मन्त्रभेदे पुमांश्छन्दोगणान्तरे ॥ ४०७६ ॥
41.4076 · p. 303
अनुष्टुप्

मा-मङ्क्षु

मा प्रभा मातृमानेषुज्ञानबन्धनमृत्युषु ।लक्ष्म्यां कट्यां स्त्रियो मं तु धनेऽम्बुनि नपुंसकम् ॥ ४०७७ ॥
41.4077 · p. 304
अनुष्टुप्
मकरो द्वे झषे ना तु निधिराशिभिदोः स्मृतः ।मकरन्दः पुष्परसे तथा स्यान्मल्लिकान्तरे ॥ ४०७८ ॥
41.4078 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
रससिन्दूरभेदे च कामे च मकरध्वजः ।नपुंसकं मकरमुखं तथा स्यान्मकराकृतौ ॥ ४०७९ ॥
41.4079 · p. 304
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मकराङ्कः समुद्रेऽपि कामदेवे पुमान्मतः ।जलनिर्गमनद्वारे जानूर्ध्वावयवे तथा ॥ ४०८० ॥
41.4080 · p. 304
अनुष्टुप्
मकुरः स्यान्मुकुरवद्दर्पणे बकुलद्रुमे ।कुलालदण्डे मुकुले बकुलस्य फलेऽपि नप् ॥ ४०८१ ॥
41.4081 · p. 304
अनुष्टुप्
मकुलो बकुले पुंसि कुड्मले त्वस्त्रियां मतः ।मकुष्ठो व्रीहिभेदे ना मन्थरे पुनरन्यवत् ॥ ४०८२ ॥
41.4082 · p. 304
अनुष्टुप्
मक्कणस्तु पुमान्कालेऽप्यजातरदने गजे ।निःश्मश्रपुरुषे द्वे तूद्दंशे खर्वगजेऽपि च ॥ ४०८३ ॥
41.4083 · p. 304
अनुष्टुप्
क्लीबं तु मक्कणं योधजङ्घात्राणार्थयन्त्रके ।मखो यशस्कामसत्रयाजिक्रत्वमरान्तरे ॥ ४०८४ ॥
41.4084 · p. 304
अनुष्टुप्
मखद्वेषी शिवे चापि राक्षसेऽपि पुमान्मतः ।मगधो राजभेदेऽस्य मगधा भूम्नि नीवृति ॥ ४०८५ ॥
41.4085 · p. 304
अनुष्टुप्
मुष्टौ च फलकादीनां वाद्यभेदे च मड्डुके ।पिप्पल्यां मगधा स्त्रीत्वे [सुश्रुते परिकीर्त्तिता] ॥ ४०८६ ॥
41.4086 · p. 304
अनुष्टुप्
मघाः स्त्रियोऽग्निनक्षत्रे भूम्नि काले च तद्युते ।मघा तु गिरिजायां स्त्री मघी धान्यान्तरे भवेत् ॥ ४०८७ ॥
41.4087 · p. 304
अनुष्टुप्
मघा त्वोषधिभेदे द्वे मघो द्वीपान्तरे पुमान् ।क्ली तु दानधनादौ च मघं स्यात्कुसुमान्तरे ॥ ४०८८ ॥
41.4088 · p. 304
अनुष्टुप्
मघवा ना नकारान्तस्त्रन्तोपीन्द्रे त्रि दातरि ।मङ्क्षु शीघ्रे भृशार्थे चाव्ययमेतत्प्रकीर्त्तितम् ॥ ४०८९ ॥
41.4089 · p. 304
अनुष्टुप्

मङ्खः-मणिः

मङ्खोऽस्त्री मङ्गले ना तु मङ्ख आर्योपजीविनि ।मङ्खस्तु मङ्गलस्य स्यात्पठितर्यभिधेयवत् ॥ ४०९० ॥
41.4090 · p. 305
अनुष्टुप्
मङ्गोऽस्त्री नौशिरस्यक्ली मङ्गने गमनात्मके ।मङ्गला सितदूर्वायामुमायामस्त्रियां शुभे ॥ ४०९१ ॥
41.4091 · p. 305
अनुष्टुप्
त्रि तु स्यान्मल्लिकापुष्पगन्धे लब्धार्थरक्षणे ।मङ्गलोऽङ्गारके ग्रामवास्तुभेदे च पुंस्ययम् ॥ ४०९२ ॥
41.4092 · p. 305
अनुष्टुप्
मङ्गल्यं निमित्तादौ मङ्गलस्याभिधेयत् ।मल्लिकासमगन्धे च दध्नि तु स्यान्नपुंसकम् ॥ ४०९३ ॥
41.4093 · p. 305
अनुष्टुप्metre not read in every line
तथा सर्वौषिधिस्नाने ना तु बिल्वमसूरयोः ।अश्वत्थे त्रायमाणायां वचायां तु स्त्रियां मता ॥ ४०९४ ॥
41.4094 · p. 305
अनुष्टुप्
कालागुरुविशेषे च मल्लिकाख्ये च सौरभे ।रोचनाशम्यधःपुष्पीमसीशुक्लवचास्वपि ॥ ४०९५ ॥
41.4095 · p. 305
अनुष्टुप्
रीठाकरञ्जे जीरे च नारिकेलकपित्थयोः ।मङ्गल्या गिरिजायां च चीडायामृद्धिभेषजे ॥ ४०९६ ॥
41.4096 · p. 305
अनुष्टुप्
दूर्वाहरिद्राजीवन्तीमाषपर्णीप्रियङ्गुषु ।मञ्जरी तिलकद्रुमुक्तयोर्वल्लरौ द्वयोः ॥ ४०९७ ॥
41.4097 · p. 305
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मञ्जुघोषाऽप्सरोभेदे यौगिके तु भवेत्त्रिषु ।मञ्जुनाशी तु शच्यां स्त्री मञ्जुनाशस्त्रियौगिके ॥ ४०९८ ॥
41.4098 · p. 305
अनुष्टुप्
मञ्जुलो जलरङ्काख्यखगे द्वे त्रि तु सुन्दरे ।मञ्जुलं तु मतं क्लीबं निकुञ्जे च जलाञ्जले ॥ ४०९९ ॥
41.4099 · p. 305
अनुष्टुप्
जलाञ्चलं स्वतोवारिनिर्गमे शैवलेऽपि च ।मञ्जूषा स्यात्पुटे तद्वत्पेटायामपि च स्त्रियाम् ॥ ४१०० ॥
41.4100 · p. 305
अनुष्टुप्
मटची करकायां स्याच्छलभे कस्यचिन्मते ।मठरस्त्वृषिभेदे ना भेद्यवत्त्वलसे स्मृतः ॥ ४१०१ ॥
41.4101 · p. 305
अनुष्टुप्
मठरं दध्न्यतितरान्द्रवीभूते नपुंसकम् ।त्रि तु कण्ठगते प्राणे कृमिजात्यन्तरे द्वयोः ॥ ४१०२ ॥
41.4102 · p. 305
अनुष्टुप्
मड्डकं वाद्यभेदे च मुष्टौ स्यात्फलकस्य च ।मणिः स्त्रीपुंसयो रत्ने मणिबन्धेऽप्यलिञ्जरे ॥ ४१०३ ॥
41.4103 · p. 305
अनुष्टुप्

मणिः-मण्डली

अजादिकण्ठप्रभवे स्तनाकारे च वस्तुनि ।काष्ठलोहादिनिष्पाद्यगुलिकायामपीष्यते ॥ ४१०४ ॥
41.4104 · p. 306
अनुष्टुप्
गोलमात्रे गुह्यमध्यगुले शेफाग्रकेऽपि च ।घण्टायां मणतौ त्वेष धातौ पुंसि मणिः स्मृतः ॥ ४१०५ ॥
41.4105 · p. 306
अनुष्टुप्
कुण्डले तीर्थभेदे च स्त्रियां स्यान्मणिकर्णिका ।मणिच्छिद्रा तु भेदायामृषभाख्यौषधावपि ॥ ४१०६ ॥
41.4106 · p. 306
अनुष्टुप्
मणिबन्धो मणेर्बन्धे सन्धौ पाणिप्रकोष्ठयोः ।मणिमाला स्त्रियां हारे तथा दन्तक्षतान्तरे ॥ ४१०७ ॥
41.4107 · p. 306
अनुष्टुप्
मणिसोपानशब्दोऽयं सोपाने मणिनिर्मिते ।चाटुकार इति ख्यातेऽप्येकवल्ल्या समे कृते ॥ ४१०८ ॥
41.4108 · p. 306
अनुष्टुप्
सौवर्णैर्गुडकैर्विद्यादलङ्कारान्तरेऽपि तम् ।मणीचं मौक्तिके पुष्पे चाग्रहस्तेऽपि कीर्त्तितम् ॥ ४१०९ ॥
41.4109 · p. 306
अनुष्टुप्
मण्डः सर्वरसाग्रे स्यादस्त्री मण्डा तु नृस्त्रियोः ।मण्डने किरणे तु स्यान्मण्डो मण्डी तु सा स्त्रियाम् ॥ ४११० ॥
41.4110 · p. 306
अनुष्टुप्
या (य्वा)गुल्यां पञ्चमाषे तून्माने मण्डं नपुंसकम् ।मण्डनं भूषणे क्लीबं न ना भूषिकृतौ भवेत् ॥ ४१११ ॥
41.4111 · p. 306
अनुष्टुप्
मण्डनालङ्करिष्णौ तु वाच्यवन्मण्डनो मतः ।मण्डपस्त्रिषु मण्डस्य पिबेऽथाऽस्त्रीजनाश्रये ॥ ४११२ ॥
41.4112 · p. 306
अनुष्टुप्
मण्डयन्तस्तु मुकुरेऽप्योदनेऽपि पुमान्मतः ।अथ प्रसाधके वित्तपालेऽप्यर्थमये त्रिषु ॥ ४११३ ॥
41.4113 · p. 306
अनुष्टुप्
तत्रापि मण्डयन्तीति स्त्रीत्वे रूपं प्रकीर्त्तितम् ।मण्डली त्र्युपसूर्ये च बिम्बे कुष्ठरुजान्तरे ॥ ४११४ ॥
41.4114 · p. 306
अनुष्टुप्
समूहमात्रे ग्रामौघे देशे द्वादशराजके ।युग्मे च कुक्कुरे त्वेष कीर्त्तितो मण्डलो द्वयोः ॥ ४११५ ॥
41.4115 · p. 306
अनुष्टुप्
क्लीबं मण्डलकं बिम्बे कुष्ठभेदे रुजान्तरे ।मण्डलाग्रस्तु खड्गेऽप्यन्वर्थे खड्गान्तरेऽपि ना ॥ ४११६ ॥
41.4116 · p. 306
अनुष्टुप्
मण्डली तु द्वयोः सर्पजातिभेदेषु केषुचित् ।षड्विंशतौ मण्डलवदर्थे नान्तस्त्रिषु स्मृतः ॥ ४११७ ॥
41.4117 · p. 306
अनुष्टुप्

मण्डूकः-मत्सरी

मण्डूकः पिकभेदे च भेके स्त्रीपुंसयोर्मतः ।अथोपरिष्टादारभ्य तुर्यभागे स्त्रियामियम् ॥ ४११८ ॥
41.4118 · p. 307
अनुष्टुप्
गजापराङ्घ्रेर्मण्डूकी कृतस्य दशधा मता ।मण्डूकपर्ण्यामपि च लाङ्गलावयवान्तरे ॥ ४११९ ॥
41.4119 · p. 307
अनुष्टुप्
पुरदुर्गबहिर्भूमिकृतयन्त्रान्तरे तु ना ।मण्डूकष्टुण्टुकेऽपि स्यात्तथा नागान्तरेऽपि च ॥ ४१२० ॥
41.4120 · p. 307
अनुष्टुप्
रतबन्धान्तरे त्वेतन्मण्डूकं स्यान्नपुंसकम् ।मण्डूकपर्णी भण्डीरीवल्ल्यां स्त्री परिकीर्त्तिता ॥ ४१२१ ॥
41.4121 · p. 307
अनुष्टुप्
मण्डूकपर्णस्तु पुमांष्टुण्डुवृक्षे प्रकीर्त्तितः ।मण्डोदकं चित्तरागे क्लीबमातर्पणेऽपि च ॥ ४१२२ ॥
41.4122 · p. 307
अनुष्टुप्
मतं तु वाञ्छिते ज्ञायमाने च त्रिषु कीर्त्तितम् ।अथ क्लीबं मतं ज्ञाने स्यादाकूतेच्छयोरपि ॥ ४१२३ ॥
41.4123 · p. 307
अनुष्टुप्
मतिर्बुद्धावपि स्त्री स्यादिच्छायां च तथा मता ।मत्कुणो निर्विषाणेभे निःश्मश्रुपुरुषेऽपि च ॥ ४१२४ ॥
41.4124 · p. 307
अनुष्टुप्
उद्दंशे नारिकेले च पुँल्लिङ्गः परिकीर्त्तितः ।मत्तः क्षीबे च हृष्टे त्रिः क्लीबं तु मदकर्मणि ॥ ४१२५ ॥
41.4125 · p. 307
अनुष्टुप्
मत्तवारणमुक्तं क्ली निर्यूहेऽपाश्रयेऽपि च ।अथ मत्तगजे पुंसि मत्तवारण इष्यते ॥ ४१२६ ॥
41.4126 · p. 307
अनुष्टुप्
क्लीबं प्रासादवीथीनां कुड्यवृक्षवृतावपि ।मत्यं क्षेत्रस्य कृष्टस्य क्ली समीकृतिसाधने ॥ ४१२७ ॥
41.4127 · p. 307
अनुष्टुप्
अथ मत्यो मतेः साधौ मतस्याप्यभिधेयवत् ।मत्सरोऽन्यशुभद्वेषे लोभे कोपे तथा क्रतोः ॥ ४१२८ ॥
41.4128 · p. 307
अनुष्टुप्
सोमाख्ये साधने चैव निष्क्रयेऽपि पुमान्मतः ।कृपणे त्वन्यसम्पत्तेरसोढरि तथा त्रिषु ॥ ४१२९ ॥
41.4129 · p. 307
अनुष्टुप्
मत्सरा तु स्त्रियामेषा मक्षिकायां प्रकीर्त्तिता ।मत्सरी त्रिकदर्याढ्ये परसम्पदसोढरि ॥ ४१३० ॥
41.4130 · p. 307
अनुष्टुप्

मत्स्यः-मद्गुः

मत्स्यो मीने द्वयोर्मत्स्या नीवृद्भेदे नृभूमनि ।तद्राजे तु पुमान्मत्स्यो मीनराशौ तथा मतः ॥ ४१३१ ॥
41.4131 · p. 308
अनुष्टुप्
मत्स्यराड्मकरे द्वे स्याद्विराडाख्ये नृपे पुमान् ।मत्स्याक्षी तु स्त्रियां ब्राह्मीसंज्ञानूपतृणान्तरे ॥ ४१३२ ॥
41.4132 · p. 308
अनुष्टुप्
मत्स्याक्षस्तु पुमाञ्शाकस्तम्बे पत्तूरसंज्ञके ।मथितं तु क्लीबलिङ्गं निर्जले गोरसे कृते ॥ ४१३३ ॥
41.4133 · p. 308
अनुष्टुप्
त्रिस्तु मन्थतिमथ्नातिकर्मभूतेषु वस्तुषु ।क्लीबं निर्मलघोले स्यात्त्रिष्वालोडितघृष्टयोः ॥ ४१३४ ॥
41.4134 · p. 308
अनुष्टुप्
मदो रेतसि गर्वे च हर्षे गन्धे पुमांस्तथा ।गजदानजले मेढ्रप्रवर्त्तिनि विशेषतः ॥ ४१३५ ॥
41.4135 · p. 308
अनुष्टुप्
कस्तूर्याञ्चाथ मत्तावस्थायां स्त्रीत्वे मदी मता ।मत्तनागे मदकलस्त्रिर्मदाव्यक्तवाचि च ॥ ४१३६ ॥
41.4136 · p. 308
अनुष्टुप्
मदनो ना स्मरे पिण्डीतकद्रौ वनकोद्रवे ।धुर्धूरे कुरवे चैव मधूच्छिष्टवसन्तयोः ॥ ४१३७ ॥
41.4137 · p. 308
अनुष्टुप्
कस्तूरिकामृगाण्डे तु मद्ये च मदनी स्त्रियाम् ।प्रसवे तूक्तवृक्षाणां मदनं स्यान्नपुंसकम् ॥ ४१३८ ॥
41.4138 · p. 308
अनुष्टुप्
माद्यत्यर्थेऽपि मदना त्वना मदयतेः कृतौ ।सारिकायां तु मदनशलाका परिकीर्त्तिता ॥ ४१३९ ॥
41.4139 · p. 308
अनुष्टुप्
अपि चैषा मता स्त्रीत्वे कामोद्दीपकभेषजे ।मदमत्तस्तु धुर्धूरे न स्त्री ना तु पुरे मतः ॥ ४१४० ॥
41.4140 · p. 308
अनुष्टुप्
अथ मत्ते मदेन स्यान्मदमत्तोऽभिधेयवत् ।मदयन्ती मल्लिकायां मदयन्तस्त्रि मादके ॥ ४१४१ ॥
41.4141 · p. 308
अनुष्टुप्
मदयित्नुस्तु समदे पुमान्मद्ये तु नप्स्मृतः ।मदारो हस्तिनि द्वे स्यात्त्रिषु त्वलसधूर्त्तयोः ॥ ४१४२ ॥
41.4142 · p. 308
अनुष्टुप्
मदोत्कटो द्वयोः पारावतनामनि पक्षिणि ।मदोत्कटा चैत्ररथनाम्नि याऽस्ति शिवालये ॥ ४१४३ ॥
41.4143 · p. 308
अनुष्टुप्
तस्यां शिवायां त्रिस्त्वेष मदेनोद्धत इष्यते ।मद्गुर्द्वे जलकाके च निष्ट्याच्च वरुटीभवे ॥ ४१४४ ॥
41.4144 · p. 308
अनुष्टुप्

मद्रं-मधुरिकः

अम्बष्ठसंज्ञे माहिष्ये चायुर्वेदेन जीवति ।स्यात्पारधैनुके चापि य आघोषणवृत्तिकः ॥ ४१४५ ॥
41.4145 · p. 309
अनुष्टुप्
मद्रं शुभे सुखे क्लीबं त्रि तु तद्वति कीर्त्तितम् ।अथ नीवृद्विशेषे ते मद्राः पुंभूमनि स्मृताः ॥ ४१४६ ॥
41.4146 · p. 309
अनुष्टुप्
मद्वा ऋष्यन्तरे तृप्तिक्रीडाकान्तिशिरः सु ना ।अथ मद्वा मेदितरि त्रिलिङ्गः परिकीर्त्तितः ॥ ४१४७ ॥
41.4147 · p. 309
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मे (wrong syllable)
मधुस्तु ना चैत्रमासे वसन्ते दानवान्तरे ।पूर्वक्षत्रियभेदे च विप्रभेदे च कुत्रचित् ॥ ४१४८ ॥
41.4148 · p. 309
अनुष्टुप्
मधूकद्रौ कुरवके मद्यभेदे च कुत्रचित् ।मध्वासवाख्ये मधुररसे मिश्ररसेऽपि च ॥ ४१४९ ॥
41.4149 · p. 309
अनुष्टुप्
कटुकस्वादुतिक्तात्मन्यथ तद्वति स त्रिषु ।क्लीबं तु सलिले क्षीरे मद्ये पुष्परसे मधु ॥ ४१५० ॥
41.4150 · p. 309
अनुष्टुप्
मन्त्रभेदेषु शाके तु जीवन्त्याख्ये स्त्रियां मधुः ।अस्त्री तु पौत्तिकक्षौद्रादिमधुष्वपि तत्सुरे ॥ ४१५१ ॥
41.4151 · p. 309
अनुष्टुप्
मधुकं मधुयष्ट्याख्यौषधे क्लीबे स्त्रियामपि ।मैत्रेयाऽयोगवीपुत्रे त्वपि वन्दिनि स द्वयोः ॥ ४१५२ ॥
41.4152 · p. 309
अनुष्टुप्
मधुका तु श्यामकङ्गौ मधुपर्ण्यामपि स्त्रियाम् ।मधुच्छदो ना वृक्षे विकङ्कताख्ये त्रि यौगिके ॥ ४१५३ ॥
41.4153 · p. 309
अनुष्टुप्
मधुद्रो भ्रमरेऽपि स्यात्कामुकेऽपि द्वयोर्मतः ।मधुपर्णी तु काश्मर्यगुडूचीनीलिनीषु च ॥ ४१५४ ॥
41.4154 · p. 309
अनुष्टुप्
मधुरो ना रसे स्वादुनाम्नि तद्वति तु त्रिषु ।प्रिये च शोभने स्त्री तु मधुरा नगरान्तरे ॥ ४१५५ ॥
41.4155 · p. 309
अनुष्टुप्
दूर्वायां मधुयष्ट्यां च मिश्रे या शतपुष्पयोः ।मधुकुक्कुटिकासंज्ञमातुलुङ्गान्तरे तथा ॥ ४१५६ ॥
41.4156 · p. 309
अनुष्टुप्
मेदायां च विषे क्ली तु काञ्जिके मधुरो न ना ।भवेन्मधुरसा द्राक्षामूर्विकादुग्धिकासु च ॥ ४१५७ ॥
41.4157 · p. 309
अनुष्टुप्
मधुरस्वन उक्तो ना शङ्खे त्रिषु तु यौगिके ।पुमान्मधुरिकः प्रोक्तो जीवकाह्वयभेषजे ॥ ४१५८ ॥
41.4158 · p. 309
अनुष्टुप्

मधुरिका-मनोजवः

शालेयाख्ये शीतशिवे स्त्रियां मधुरिका मता ।मधुवाक्कोकिले द्वे स्यात्प्रियवाचि तु भेद्यवत् ॥ ४१५९ ॥
41.4159 · p. 310
अनुष्टुप्
मधुव्रतः श्वेतगुञ्जायां फलाध्यक्षके तु ना ।मधुसूदन उक्तो द्वे भृङ्गे ना वनमालिनि ॥ ४१६० ॥
41.4160 · p. 310
अनुष्टुप्
मधूलः पुंसि गिरिजे मधूके मधुरे तथा ।त्रि तु तद्वत्यथ मधौ मधूलंसारघादिके ॥ ४१६१ ॥
41.4161 · p. 310
अनुष्टुप्
मधूलकस्तु गिरिजे मधूकाख्यतरौ पुमान् ।मधूकपुष्पविहितसुरायां स्त्री मधूलिका ॥ ४१६२ ॥
41.4162 · p. 310
अनुष्टुप्
मूर्वायामपि च प्रोक्ता स्याद्यष्टिमधुकेऽपि च ।मध्यं दशगुणे संख्यान्तरे क्लीबं समुद्रतः ॥ ४१६३ ॥
41.4163 · p. 310
अनुष्टुप्
वस्तुद्वयस्यान्तराले छन्दोभेदेऽपि कीर्त्तितम् ।त्रि तु न्याय्येवलग्नाख्यकायाङ्गे तु नृशण्डयोः ॥ ४१६४ ॥
41.4164 · p. 310
अनुष्टुप्
हिमोत्सर्गाय सूर्यस्य रश्मीनां यच्छतत्रयम् ।तत्रैकत्र शते ह्रादिन्याख्येषु रविरश्मिषु ॥ ४१६५ ॥
41.4165 · p. 310
अनुष्टुप्
स्त्रियां मध्या भूमनि स्युर्मध्या स्त्री नायिकान्तरे ।मध्यमोऽस्त्र्यवलग्ने ना मध्यदेशेश्वरे नृपे ॥ ४१६६ ॥
41.4166 · p. 310
अनुष्टुप्
षड्जादीनां वराणां च सप्तानां क्वचिदिष्यते ।त्रि तु मध्यभवे स्त्री तु मध्यमा मध्यमाङ्गुलौ ॥ ४१६७ ॥
41.4167 · p. 310
अनुष्टुप्
स्त्रियां च दृष्टरजसि कर्णिकायां च कीर्त्तिता ।मनश्चित्ते मनीषायामपि च क्लीबमिष्यते ॥ ४१६८ ॥
41.4168 · p. 310
अनुष्टुप्
मनागल्पे च मन्दे चाप्यव्ययं परिकीर्त्तिर्तम् ।मनाका तु करिण्यां च कामिन्यां स्त्रीत्व इष्यते ॥ ४१६९ ॥
41.4169 · p. 310
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 र्त्ति (wrong syllable)
मनुस्तु पुंसि मन्त्रे स्यात्पूर्वे च क्षत्रियान्तरे ।स्त्रियां तु तस्य भार्यायां मनायी च मनाव्यपि ॥ ४१७० ॥
41.4170 · p. 310
अनुष्टुप्
मनोजवाऽग्निजिह्वानां सप्तानां क्वचिदिष्यते ।मनोजवो द्वयोरेषोऽपत्ये स्यात्पितृधर्मिणि ॥ ४१७१ ॥
41.4171 · p. 310
अनुष्टुप्

मनोरथः-मन्दाकिनी

मनोरथोऽभिलाषेऽपि वाञ्छितार्थेऽपि कीर्त्तितः ।मनोहरा तु पिप्पल्यां स्यान्ममोहारिणि त्रिषु ॥ ४१७२ ॥
41.4172 · p. 311
अनुष्टुप्
मन्तुः शोकेऽपराधे ना वैमनस्ये प्रजापतौ ।प्रियंवदे तु विज्ञे च मन्तुः स्यादभिधेयवत् ॥ ४१७३ ॥
41.4173 · p. 311
अनुष्टुप्
मन्ता प्रजापतौ नाथ विद्वज्ज्ञात्रेष्ट्टषु त्रिषु ।मन्त्र ऋग्यजुरादौ च तथा स्याद्गूढभाषणे ॥ ४१७४ ॥
41.4174 · p. 311
अनुष्टुप्
पुमान्मन्त्रः समुद्दिष्टो देवादीनां च साधने ।मन्त्रज्ञस्तु पुमांश्चारे त्रि तु स्यान्मन्त्रवादिनि ॥ ४१७५ ॥
41.4175 · p. 311
अनुष्टुप्
मन्त्री धीसचिवे राज्ञः पुंसि मन्त्रवति त्रिषु ।मन्थो मन्थनदण्डे च मन्थने च पुमान्मतः ॥ ४१७६ ॥
41.4176 · p. 311
अनुष्टुप्
दिवाकरेऽपि च तथा द्रवसिक्तेषु सक्तुषु ।मन्थरो मन्दगे वक्रे पृथौ मन्दे त्रि सूचके ॥ ४१७७ ॥
41.4177 · p. 311
अनुष्टुप्
ना तु बाधे बले कोपे मन्थदण्डेऽथ मन्थरम् ।कुसुम्भ्यां मन्थरा तु स्त्री कैकेय्याश्चेटिकान्तरे ॥ ४१७८ ॥
41.4178 · p. 311
अनुष्टुप्
मन्थी तु भास्करे राहौ चन्द्रेऽपि च पुमांस्तथा ।गृहाख्यसोमपात्राणामेकस्मिन्यज्ञकारिणाम् ॥ ४१७९ ॥
41.4179 · p. 311
अनुष्टुप्
मन्दः शनौ ना त्रिषु तु स्वल्पाज्ञापटुरोगिषु ।निर्भाग्ये च कनिष्ठे च मन्दजाते तु दध्नि नप् ॥ ४१८० ॥
41.4180 · p. 311
अनुष्टुप्
अथ मन्दो द्वयोरेष गजभेदे प्रकीर्त्तितः ।मन्दनं तु स्तुतौ मोदे गतौ स्वप्ने मदेऽपि च ॥ ४१८१ ॥
41.4181 · p. 311
अनुष्टुप्
मन्दरस्तु पुमान्मन्थशैले मन्दारपादपे ।वाच्यवद्बहले मन्द मन्दरः परिकीर्त्तितः ॥ ४१८२ ॥
41.4182 · p. 311
अनुष्टुप्
त्रिषु मन्दविसर्पी स्याच्छ्नकैः सृप्तिशीलके ।शिरःक्रिमौ च यूकाख्ये स्त्रियां मन्दविसर्पिणी ॥ ४१८३ ॥
41.4183 · p. 311
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मन्दसानो द्वयोर्हंसे ना जीवार्केन्दुवह्निषु ।मन्दाकिनी स्यादाकाशगङ्गायामापगान्तरे ॥ ४१८४ ॥
41.4184 · p. 311
अनुष्टुप्

मन्दाक्षः-मरः

मन्दाक्षो मन्ददृष्टौ च तथा मन्देन्द्रिये त्रिषु ।नपुंसकन्तु मन्दाक्षं लज्जायां परिकीर्त्तितम् ॥ ४१८५ ॥
41.4185 · p. 312
अनुष्टुप्
मन्दारस्तु पुमान्देववृक्षभेदेऽर्कनाम्नि च ।गुल्मे स्यात्पारिभद्राख्यवृक्षतद्भेदयोरपि ॥ ४१८६ ॥
41.4186 · p. 312
अनुष्टुप्
अथारविन्दे मन्दारमुक्ताद्रुप्रसवेपि च ।मन्दिरन्तु पुरे गेहे क्लीबमब्धौ तु मन्दिरः ॥ ४१८७ ॥
41.4187 · p. 312
अनुष्टुप्
मन्दुरा वाजिशालायां शयनीयार्थवस्तुनि ।मन्द्रः स्वराणां सप्तानां षष्ठे ना सामवर्त्तिनाम् ॥ ४१८८ ॥
41.4188 · p. 312
अनुष्टुप्
मन्द्रो गम्भीरशब्दे त्रिर्मन्द्रा वाचि स्त्रियां मता ।मन्मथः कामचिन्तायां कपित्थेऽपि स्मरे पुमान् ॥ ४१८९ ॥
41.4189 · p. 312
अनुष्टुप्
मन्मथं तु कपित्थस्य प्रसवे क्लीबमिष्यते ।मन्युः कृपारुट्शुग्दैन्ययज्ञे ना धीमति त्रिषु ॥ ४१९० ॥
41.4190 · p. 312
अनुष्टुप्
मयः प्रक्षेपणे दैत्यवर्द्धकौ पुंसि हिंसने ।मया स्त्रीत्वे चिकित्सायां द्वयोरश्वोष्ट्रयोर्मयी ॥ ४१९१ ॥
41.4191 · p. 312
अनुष्टुप्
मयटस्तृणहर्म्येऽपि प्रासादेऽपि पुमान्मतः ।मयुः पुमान्स्यात्प्रक्षेपेऽथ द्वयोः किन्नरे मृगे ॥ ४१९२ ॥
41.4192 · p. 312
अनुष्टुप्
मयूखः किरणे न स्त्री रथाऽक्षे तु पुमानयम् ।ज्वालादीप्त्योश्च शङ्कौ च मयूखः परिकीर्त्तितः ॥ ४१९३ ॥
41.4193 · p. 312
अनुष्टुप्
अग्निभेदेऽपि दीप्तौ तु मयूखाऽपि स्त्रियां क्वचित् ।मयूरो बर्हिणे द्वे नाऽपामार्गे तुलसीभिदि ॥ ४१९४ ॥
41.4194 · p. 312
अनुष्टुप्
अल्पपत्रसुगन्धौ च स्यान्मयूरशिखौषधे ।कालमानान्तरे नृत्यगतिभित्कविभेदयोः ॥ ४१९५ ॥
41.4195 · p. 312
अनुष्टुप्