कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

र (2/2)

रासेरसस्तु गोष्ट्यां स्याद्रासशृङ्गारयोरपि ।रससिद्धौ रसावासषष्ठीजागरयोपि ॥ ४७१५ ॥
43.4715 · p. 351
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रास्ना स्त्रीत्वे मता धेनौ सुवाख्येपि च भेषजे ।रिक्तं शून्ये त्रिषु क्ली तु रेचने च वनेऽपि च ॥ ४७१६ ॥
43.4716 · p. 351
अनुष्टुप्
क्षीयमाणतिथिप्रायपक्षे रिक्तः पुमान्मतः ।रिक्ता चतुर्थनवमचतुर्दशतिथिष्वियम् ॥ ४७१७ ॥
43.4717 · p. 351
अनुष्टुप्

रिङ्खा-रुचकः

रिङ्खाऽश्वगतिभेदेपि शूकशिम्ब्यां च नर्त्तने ।रितं गतौ हिंसनेऽपि त्रिर्गर्त्ते हिंसितेऽपि च ॥ ४७१८ ॥
43.4718 · p. 352
अनुष्टुप्
रिपुः शत्रौ पुमांश्चौरे तथा षष्ठगृहे रिपुः ।रिप्रं दुःखे च पापे च क्लीबलिङ्गं प्रकीर्त्तितम् ॥ ४७१९ ॥
43.4719 · p. 352
अनुष्टुप्
रिष्टं त्वभावे पापेऽथ त्रिर्याप्येऽप्यशुभे शुभे ।खड्गे च फेनिले पुंसि रिष्टिरित्यपि रिष्टवत् ॥ ४७२० ॥
43.4720 · p. 352
अनुष्टुप्
रीतिर्दग्धसुवर्णादिमले स्थित्यारकूटयोः ।प्रचारे स्रवणे पङ्क्तौ स्वभावे पित्तले स्त्रियाम् ॥ ४७२१ ॥
43.4721 · p. 352
अनुष्टुप्
वैदर्भी मागधी लाटी गौडी पाञ्चाल्यवन्तिका ।इत्यादि नामधेयासु काव्यवृत्तिषु चेष्यते ॥ ४७२२ ॥
43.4722 · p. 352
अनुष्टुप्
रीतिकं रीतिकुसुमे रीतिधातौ तु रीतिका ।रीज्याऽवमाननायां च लज्जायां स्त्रीत्व इष्यते ॥ ४७२३ ॥
43.4723 · p. 352
अनुष्टुप्
रुस्तु शब्दे भये युद्धे विच्छेदेऽपि पुमान्मतः ।रुक्मं सुवर्णे तीक्ष्णाख्ये चायोभेदेऽञ्जनान्तरे ॥ ४७२४ ॥
43.4724 · p. 352
अनुष्टुप्
रुक्मस्तु निष्कालंकारे धत्तूरे नागकेसरे ।रुक्मिणी द्वारवत्यां दाक्षायणी कृष्णपत्न्यपि ॥ ४७२५ ॥
43.4725 · p. 352
अनुष्टुप्
रुक्मी तु तद्भ्रातरि पुमांस्तथा स्यात्पर्वतान्तरे ।रुग्णो भग्ने व्याधिते त्रिः क्ली रुग्णं भगरन्ध्रयोः ॥ ४७२६ ॥
43.4726 · p. 352
metre not recognisednearly अनुष्टुप्
रुक्प्रभाकान्तिवाञ्छासु चकारान्ता स्त्रियां मता ।रुचको विपुले चापि वाच्यवद्रुचिकारिणि ॥ ४७२७ ॥
43.4727 · p. 352
अनुष्टुप्
अस्त्री दन्तेऽङ्गुलीये च निष्के सौभाग्यभूषणे ।द्वे मातुलुङ्गजम्बीरकपोतेष्वेरण्ड एव ना ॥ ४७२८ ॥
43.4728 · p. 352
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
चतुरस्रस्तम्भभेदे पञ्चानां भाग्यशालिनाम् ।ग्रहयोगविशेषेण चैकस्मिन् पर्वतान्तरे ॥ ४७२९ ॥
43.4729 · p. 352
अनुष्टुप्

रुचकम्-रुणिः

अश्वभूषान्तरे तु क्ली माल्येऽपि रुचकं मतम् ।सौवर्चले विडङ्गे च क्षारे च मधुरद्रवे ॥ ४७३० ॥
43.4730 · p. 353
अनुष्टुप्
गोरोचनायां रुचिकृद्द्रव्यभेदेऽपि कीर्त्तितम् ।उत्तरालिन्दशून्ये च रुचकं मन्दिरान्तरे ॥ ४७३१ ॥
43.4731 · p. 353
अनुष्टुप्
रुचिः स्त्री दीप्तिशोभाभिलाषाभिष्वङ्गरश्मिषु ।रतबन्धान्तरे चैव रोचनायां मता रुचिः ॥ ४७३२ ॥
43.4732 · p. 353
अनुष्टुप्
वृक्षाम्लसंज्ञे तिन्तिण्याः फले स्त्री देवतान्तरे ।आकूतेस्तु पुमान्पत्यौ यज्ञस्य पितरि स्मृतः ॥ ४७३३ ॥
43.4733 · p. 353
अनुष्टुप्
क्लीबं रुचिफलं बिम्बीफले पारेवतेऽपि च ।रुचिभर्त्ता पुमान्सूर्ये पत्यावपि रुचेर्मतः ॥ ४७३४ ॥
43.4734 · p. 353
अनुष्टुप्
रुचिराऽतिजगत्यन्तर्वृत्तरोचनयोः स्त्रियाम् ।वाच्यवत्सुन्दरे चैव दीप्तेऽपि रुचिकारिणि ॥ ४७३५ ॥
43.4735 · p. 353
अनुष्टुप्
क्ली कुङ्कुमे रुधिरवल्लवङ्गे सुषिरं यथा ।कैश्चिदुक्तं मूलकेऽपि रुचिरं स्यान्नपुंसकम् ॥ ४७३६ ॥
43.4736 · p. 353
अनुष्टुप्
रुचिष्यः स्वदमाने त्रिः खद्योते तु द्वयोर्मतः ।रुचिष्यं श्वेतलवणे क्लीबलिङ्गं प्रकीर्त्तितम् ॥ ४७३७ ॥
43.4737 · p. 353
अनुष्टुप्
रुच्यः पत्यौ च कतके विल्वे शालौ पुमानथ ।रुच्या तु कर्कटीभेदे कृष्णजीरे तथा स्त्रियाम् ॥ ४७३८ ॥
43.4738 · p. 353
अनुष्टुप्
रुच्यं सौर्वचले क्लीबं भूषणेऽपि विलेपने ।रुचिकारिण्ययं रुच्यो वाच्यवत्परिकीर्त्तितः ॥ ४७३९ ॥
43.4739 · p. 353
अनुष्टुप्
रुक् व्याधिव्यधयोर्जान्ता स्त्री तथा कुष्ठभेषजे ।रुजा भङ्गजरामृत्युरोगेषु स्त्रीत्व इष्यते ॥ ४७४० ॥
43.4740 · p. 353
अनुष्टुप्
मेष्यामपि तथा कुष्ठभेषजे भञ्जके त्रिषु ।रुजाकरो रोगकरे कर्मरङ्गफलेऽपि च ॥ ४७४१ ॥
43.4741 · p. 353
अनुष्टुप्
रुजासहो रोगसहे परुषेऽपि तथा पुमान् ।रुणिः क्रमुकभेदेऽपि दुष्टदेवश्रुतौ स्त्रियाम् ॥ ४७४२ ॥
43.4742 · p. 353
अनुष्टुप्

रुण्डः-रुरुः

हिमालयोपत्यकायां प्रयुक्तैषाऽऽमरुत्फले ।रुण्डो नृजातिभेदे द्वे वरुटीशूद्रसम्भवे ॥ ४७४३ ॥
43.4743 · p. 354
अनुष्टुप्
चतुष्पाज्जातिभेदे च स्यादश्वावेसरोद्भवे ।कबन्धे तु पुमान्रुण्डः खण्डिते त्वेष वाच्यवत् ॥ ४७४४ ॥
43.4744 · p. 354
अनुष्टुप्
रुण्डिका युद्धभूद्वारपिण्डीदूतीविभूतिषु ।रुतं क्लीबं रवे प्रोक्तं विच्छिन्ने वाच्यवन्मतम् ॥ ४७४५ ॥
43.4745 · p. 354
अनुष्टुप्
रुत् स्त्रियां रोदनव्याध्योः रोदके त्र्युत्तरस्थितः ।रुदथस्तु शिशुच्छात्रकुक्कुटेषु शुनिद्वयोः ॥ ४७४६ ॥
43.4746 · p. 354
अनुष्टुप्
रुदितं क्ली रोदनेऽथ त्रिः साक्रन्दे च शोचिते ।रुद्रस्तु ना शिवेऽग्नौ च रुद्राणी पार्वती स्त्रियाम् ॥ ४७४७ ॥
43.4747 · p. 354
अनुष्टुप्
देवभेदेषु मन्त्रेषु भीमे स्तोतरि च त्रिषु ।अजैकपादहिर्बुध्न्यो हरो निर्ऋत ईश्वरः ॥ ४७४८ ॥
43.4748 · p. 354
अनुष्टुप्
भुवनोऽङ्गारको मृत्युरर्धकेतुकपालिनौ ।सर्वश्चेत्येकादशामी रुद्रा वायव्यकीर्त्तिताः ॥ ४७४९ ॥
43.4749 · p. 354
अनुष्टुप्
स्यादेकादशसंख्यायां प्रथमे च मुहूर्त्तके ।एकारवीणान्तरयोः कोशकारान्तरेऽपि च ॥ ४७५० ॥
43.4750 · p. 354
अनुष्टुप्
रुद्रा तु स्याल्लताभेदे स्त्रीभूम्नि त्वर्यमांशुषु ।शतसंख्येषु ये तापं वितरन्त्यथ च स्त्रियाम् ॥ ४७५१ ॥
43.4751 · p. 354
अनुष्टुप्
स्याद्रुद्रतनयो दण्डे तथा खड्गेऽपि पुंस्ययम् ।रुद्रपत्नी तु दुर्गायामतस्याञ्च प्रकीर्त्तिता ॥ ४७५२ ॥
43.4752 · p. 354
अनुष्टुप्
रुद्रप्रिया तु पार्वत्यां हरीतक्यामपि स्मृता ।रुधिरोऽङ्गारके चाथ शोणिते कुङ्कुमेऽपि नप् ॥ ४७५३ ॥
43.4753 · p. 354
अनुष्टुप्
रुमा सुग्रीवदारेषु विशिष्टलवणाकरे ।रुम्रः सूर्यसूते चैव विनाशेऽपि पुमान्मतः ॥ ४७५४ ॥
43.4754 · p. 354
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सू (wrong syllable)
ब्राह्मणे तु द्वयोरुम्रो दर्शनीये तु स त्रिषु ।रुरुः प्रमद्वारायाश्च पत्यौ ना मृगदैत्ययोः ॥ ४७५५ ॥
43.4755 · p. 354
अनुष्टुप्

रुवथः-रेचितम्‌

रुवथो ना ध्वनौ द्वे तु कुक्कुटे शकुनावपि ।रुशद्वर्णविशेषेण युक्ते वाक्येऽप्यमङ्गले ॥ ४७५६ ॥
43.4756 · p. 355
अनुष्टुप्
हिंसितर्यपि पूर्वत्र स्त्र्यर्थे स्याद्रुशतीति हि ।रुह्वा पुमान्प्रावृषि च तथा प्रावृड्वनस्पतौ ॥ ४७५७ ॥
43.4757 · p. 355
अनुष्टुप्
रुह्वरीति स्त्रियामेषा वसुधायां प्रकीर्त्तिता ।रूक्षं क्ली निःशरे दध्नि त्रिष्वप्रेम्ण्यपि चिक्कणे ॥ ४७५८ ॥
43.4758 · p. 355
अनुष्टुप्
पादपे तु पुमानेष रूक्षः सम्परिकीर्त्तितः ।रूक्षणी यागवीथौ स्यात्स तु शीथुनि नामतः ॥ ४७५९ ॥
43.4759 · p. 355
अनुष्टुप्
अथ रूक्षयितव्ये च सरूक्षणहिते त्रिषु ।रूक्षस्वरो गर्दभे स्याद्योगार्थे तु यथायथम् ॥ ४७६० ॥
43.4760 · p. 355
अनुष्टुप्
रूढो यवे ना क्ली जाते प्रसिद्धे वाच्यवच्च सः ।कृतप्ररोहणे शब्देऽवयवार्थबहिष्कृते ॥ ४७६१ ॥
43.4761 · p. 355
अनुष्टुप्
रूपं स्वभावसौन्दर्यश्लोकाकृतिवपुःषु च ।शब्दे च नाटके नाटकादौ शुक्लादिकेष्वपि ॥ ४७६२ ॥
43.4762 · p. 355
अनुष्टुप्
ग्रन्थावृत्तौ च मृगजात्यन्तरे तु द्वयोरयम् ।रूपणे तु पुमानेव रूप एष प्रयुज्यते ॥ ४७६३ ॥
43.4763 · p. 355
अनुष्टुप्
रूपकं नाटके मूर्त्ते काव्यालङ्करणेऽपि च ।रूप्यं विभूषणे हेम्नि रजते चाहते मतम् ॥ ४७६४ ॥
43.4764 · p. 355
अनुष्टुप्
अथ प्रशस्तरूपेऽपि रूपणीये च वाच्यवत् ।रेको विरेके शङ्कायां रेकः स्यादवमेऽपि च ॥ ४७६५ ॥
43.4765 · p. 355
अनुष्टुप्
रेखा तु कृत्रिमे मार्गे हस्तपादतलादिषु ।निरन्तरालपङ्क्तौ च [चिह्ने रेखा प्रकीर्त्तिता] ॥ ४७६६ ॥
43.4766 · p. 355
अनुष्टुप्
रेचना रेचयत्यर्थे न ना रिक्तौ तु रेचनम् ।रेचनी दन्तिकागुल्मे कम्पिल्ले त्रिवृदोषधौ ॥ ४७६७ ॥
43.4767 · p. 355
अनुष्टुप्
क्लीबं रेचितमावक्रद्रुतात्माश्वगतौ मतम् ।वियोजने च भ्रुकुटौ कृतायामेकया ध्रुवा ॥ ४७६८ ॥
43.4768 · p. 355
अनुष्टुप्

रेचितम्-रोचकः

मतं रेचयतेरर्थे तथा सम्पर्चनेऽपि च ।रेचितं वाच्यवत्प्रोक्तं सम्पृक्ते च वियोजिते ॥ ४७६९ ॥
43.4769 · p. 356
अनुष्टुप्
कर्मभूते रेचयतेस्तथोक्तगतिमत्यपि ।रेटिः स्त्री वह्निरटिते संयतोत्कटवाचि च ॥ ४७७० ॥
43.4770 · p. 356
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रे (wrong syllable)
तिन्त्रिटीके स्पृहायां च तथा कान्त्यर्चिषोरपि ।रेणुः स्त्रियां हरेण्वाख्यभेषजे परिकीर्त्तिता ॥ ४७७१ ॥
43.4771 · p. 356
अनुष्टुप्
स्त्रीपुंसयोस्तु पांसौ स्यात्त्रसरेण्वष्टकेपि च ।रेणुका तु हरेणौ स्त्री जमदग्नेश्च योषिति ॥ ४७७२ ॥
43.4772 · p. 356
अनुष्टुप्
रेतो जले च शुक्रे च सान्तं क्ली पारदेऽपि च ।रेत्रं रेतसि पीयूषे पटवासे च सूतके ॥ ४७७३ ॥
43.4773 · p. 356
अनुष्टुप्
रेपाः स्यादधमे क्रूरे कृपणेऽप्यभिधेयवत् ।रेफस्तु पुंसि मूर्धन्योन्तः स्थावर्णे प्रकीर्त्तितः ॥ ४७७४ ॥
43.4774 · p. 356
अनुष्टुप्
वाच्यवत्तु मतो रेफः स्तोतर्यपि च कुत्सिते ।रेरिहाणस्तु पुंसि स्यान्महादेवेऽम्बरेऽपि च ॥ ४७७५ ॥
43.4775 · p. 356
अनुष्टुप्
रेवटं दक्षिणावर्त्तशङ्खे क्लीबं प्रकीर्त्तितम् ।रेणुवातूलयोः पुंसि विषवैद्ये पुनर्द्वयोः ॥ ४७७६ ॥
43.4776 · p. 356
अनुष्टुप्
रेवती बलभद्रस्य पत्न्यां गवि च पौष्णभे ।तद्युक्ते कालमात्रे च तत्र जातस्त्रियां तथा ॥ ४७७७ ॥
43.4777 · p. 356
अनुष्टुप्
मालत्यां नागदन्ताख्यस्तम्बे मातृषु च स्त्रियाम् ।केषुचित्सामभेदेषु रेवत्य इति भूम्नि च ॥ ४७७८ ॥
43.4778 · p. 356
अनुष्टुप्
प्रत्येकं स्युस्तृचे चापि रेवतीर्न उपक्रमे ।[रेवा नील्योषधौ रत्यां नर्मदाख्यनदीभिदि] ॥ ४७७९ ॥
43.4779 · p. 356
अनुष्टुप्
रैशब्दो द्वे धने स्वर्णे मेघे त्वेष पुमान्मतः ।रैवतोऽद्रौ शिवे मेघारग्वधाऽद्र्यन्तरेषु च ॥ ४७८० ॥
43.4780 · p. 356
अनुष्टुप्
सम्बन्धिनि तु रेवत्या रैवतं भेद्यवन्मतम् ।रोको दीप्तौ बिले रोकं नौकाक्रयणभेदयोः ॥ ४७८१ ॥
43.4781 · p. 356
अनुष्टुप्
रोगः कुष्ठौषधे व्याधौ [तथाऽऽधौ परिकीर्त्तितः] ।रोचकस्तु पुमान्हस्तिकर्ण इत्यतिविश्रुते ॥ ४७८२ ॥
43.4782 · p. 356
अनुष्टुप्

रोचना-रोहिणी

कम्बलस्य प्रभेदे स्यात्त्रितु रोचितरि स्मृतः ॥ ४७८३ ॥
43.4783 · p. 357
रोचना रक्तकल्हारे कर्कशावारयोषितोः ।रोचनी तु त्रिवृद्वल्यां गोपित्ते रोचना मता ॥ ४७८४ ॥
43.4784 · p. 357
अनुष्टुप्
मनःशिलायां काम्बिल्यसंज्ञवृक्षेपि च स्त्रियाम् ।रोचनः कूटशाल्मल्यां रोचत्यर्थे तु रोचनम् ॥ ४७८५ ॥
43.4785 · p. 357
अनुष्टुप्
रोचना रोचयत्यर्थे न ना त्रिषु तु रोचके ।रोडः क्षोदे भवेत्पुंसि तृप्ते स्याद्वाच्यलिङ्गकः ॥ ४७८६ ॥
43.4786 · p. 357
अनुष्टुप्
रोडा तु पांसुलायां स्त्री त्रिषु हस्तादिवर्जिते ।रोदनी तु यवासेऽथ रोदनं रुदिताश्रुणोः ॥ ४७८७ ॥
43.4787 · p. 357
अनुष्टुप्
रोदः क्ली रोदसी च स्त्री द्वयं व्योम्नि तथा भुवि ।सहोक्तौ तु भवेद्द्यावा पृथिव्यो रोदसी इति ॥ ४७८८ ॥
43.4788 · p. 357
अनुष्टुप्
रोधस्तीरेऽन्तरिक्षे च वृत्तौ कुड्ये च बन्धने ।रोधसी इति तु द्वित्वे रोदसोरिदमुच्यते ॥ ४७८९ ॥
43.4789 · p. 357
अनुष्टुप्
रोध्रो ना सावरे क्लीबमपराधे च किल्बिषे ।रोपस्तु रोपणेऽपि स्यात्तथा बाणे पुमान्मतः ॥ ४७९० ॥
43.4790 · p. 357
अनुष्टुप्
रोपणस्तु शरे पुंसि त्रि तु रोहणसाधने ।रोपणा रोहणायां च मता क्लीबे स्त्रियामपि ॥ ४७९१ ॥
43.4791 · p. 357
अनुष्टुप्
रोमशस्तु द्वयोर्मेषे ना निम्बे ऋषिभिद्यपि ।रोमशा तु स्त्रियां शूकशिम्ब्यां कासीस इष्यते ॥ ४७९२ ॥
43.4792 · p. 357
अनुष्टुप्
काकजङ्घासहामांसीमेदासु त्रिस्तु लोमशे ।रोमहर्षणः [सूतमुनौ रोमाञ्चजनके त्रिषु] ॥ ४७९३ ॥
43.4793 · p. 357
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रोषणस्तु पुमान्स्वर्णकषणग्राब्णि पारदे ।क्रोधने रोषशीलार्थे त्रिषु स्यादूषरेऽपि च ॥ ४७९४ ॥
43.4794 · p. 357
अनुष्टुप्
रोहकः प्रेतभेदे ना रोढरि त्रिषु विश्रुतः ।रोहन्ती स्त्री लतायां स्याद्रोहन्तस्तु पुमान्द्रुमे ॥ ४७९५ ॥
43.4795 · p. 357
अनुष्टुप्
रोहन्तो भेद्यवच्चैष रोहतादिति कर्त्तरि ।रोहिणी लोहिनीपथ्याऽतसीकन्यासु गव्यपि ॥ ४७९६ ॥
43.4796 · p. 357
अनुष्टुप्

रोहित्-लक्तिका

कण्ठरोगप्रभेदे च नक्षत्रे च प्रजापतेः ।तद्युक्ते कालमात्रे च तत्रजातस्त्रियामपि ॥ ४७९७ ॥
43.4797 · p. 358
अनुष्टुप्
[एकत्र कृष्णपत्नीषु मूलभे च तडित्यपि] ।रोहिदग्निहये पुंसि वर्णभेदेऽर्क एव च ॥ ४७९८ ॥
43.4798 · p. 358
अनुष्टुप्
त्रि तु तद्वर्णवत्येष वाच्यवत्तु द्वयोर्मतः ।स्त्रियां त्वृश्यस्य भार्यायां नद्यङ्गुलिलतासु च ॥ ४७९९ ॥
43.4799 · p. 358
अनुष्टुप्
रोहितः पुंसि वृषभे रक्तवर्णे प्रकीर्त्तितः ।रक्ते वर्णेऽथ तद्युक्ते रोहिता रोहिणी त्रिषु ॥ ४८०० ॥
43.4800 · p. 358
अनुष्टुप्
द्वे श्वेतराजिमृगभिद्यृश्यमत्स्यान्तरेष्वपि ।रोहिणी तु स्त्रियां रक्तवर्णायां गवि कीर्त्तिता ॥ ४८०१ ॥
43.4801 · p. 358
अनुष्टुप्
रोहितं कुङ्कुमे घासे ऋजौ शक्रशरासने ।रोहिताश्वश्चित्रभानौ हरिश्चन्द्रनृपात्मजे ॥ ४८०२ ॥
43.4802 · p. 358
अनुष्टुप्
रोही रोहितकदौ ना रोहवत्येष वाच्यवत् ।रोहिषो गर्दभाभासमृगभिन्मत्स्यभेदयोः ॥ ४८०३ ॥
43.4803 · p. 358
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
कत्तृणाकाशयोः स्त्री तु वात्यायां रोहिषी स्मृता ।रौद्रो न स्त्री भवेद्घर्मे काव्यस्य च रसान्तरे ॥ ४८०४ ॥
43.4804 · p. 358
अनुष्टुप्
शिवशक्त्यन्तरे चैवोग्रताचण्डिकयोः स्त्रियाम् ।एकस्यां सप्तमातृणां त्रि तूग्रे रुद्रयोगिनि ॥ ४८०५ ॥
43.4805 · p. 358
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)
रौरवः सामभेदेऽपि पुमांश्च नरकान्तरे ।रुरुसम्बन्धिनि त्वेष वाच्यवच्च भयङ्करे ॥ ४८०६ ॥
43.4806 · p. 358
अनुष्टुप्
रौहिणेयो बुधेऽपि स्याद्बलभद्रे तथा पुमान् ।स्यादपत्ये तु रोहिण्या रौहिणेयो द्वयोरयम् ॥ ४८०७ ॥
43.4807 · p. 358
अनुष्टुप्
रौहिषं कत्तृणे क्लीबं पुंसि स्याद्धरिणान्तरे ॥ ४८०७-१/२ ॥
43.214 · p. 358