All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
त (2/2)
तुरिः स्त्री तन्तुवायोपकरणान्तर इष्यते ।तुतोर्तिधातौ त्वेष स्याद्वारिधौ च तुरिः पुमान् ॥ २४७८ ॥
32.2478 · p. 183
अनुष्टुप्
तुरुष्कः सिल्हनिर्यासे राजभेदेऽस्य तु स्त्रियाम् ।तुरुष्काऽपत्यके देशे तुरुष्काः स्युर्नृभूमनि ॥ २४७९ ॥
32.2479 · p. 183
अनुष्टुप्
तुला-तूषा
तुला तून्मानदण्डेऽपि सादृश्येऽपि स्त्रियां मता ।स्तम्भपीठे पलशते तथा राशौ च सप्तमे ॥ २४८० ॥
32.2480 · p. 184
अनुष्टुप्
तुलाकोटिस्तुलानां द्वे कोटौ स्यान्नूपुरे तु ना ।तुलाधारस्तुलाराशौ पुंसि वाणिजके त्रिषु ॥ २४८१ ॥
32.2481 · p. 184
अनुष्टुप्
स्यात्तुलापुरुषः पुंसि त्र्यहमेकैकभोजनात् ।पिण्याकाचामतक्राम्बुसक्तूनां च व्रतान्तरे ॥ २४८२ ॥
32.2482 · p. 184
अनुष्टुप्
तुवरो ना कषायाख्यरसे त्रिषु तु तद्वति ।तुवरी तु स्त्रियां धान्य आढकीसंज्ञके तथा ॥ २४८३ ॥
32.2483 · p. 184
अनुष्टुप्
सुराष्ट्रकाह्वये चापि भेषजे परिकीर्त्तिता ।तुषो धान्यत्वचि स्वर्णादिखण्डेऽपि च तत्समे ॥ २४८४ ॥
32.2484 · p. 184
अनुष्टुप्
विभीतकतरौ च स्यात्तत्फले तु तुषं नपि ।तुषारः शीकरे शैत्ये प्रालेये च हिमान्तरे ॥ २४८५ ॥
32.2485 · p. 184
अनुष्टुप्
शैत्यधर्मवति त्वेष तुषारो वाच्यवन्मतः ।तुष्टस्तु नान्दीवृक्षे ना तुष्टौ क्ली तद्वति त्रिषु ॥ २४८६ ॥
32.2486 · p. 184
अनुष्टुप्
तुस्तः प्रदीपने चैव जटायामपि कीर्त्तितः ।तूकः पर्वतजातौ स्यादुपस्थेऽपि तथा पुमान् ॥ २४८७ ॥
32.2487 · p. 184
अनुष्टुप्
तूणी नील्यां स्त्रियामुक्ता निषङ्गे तूण एष ना ।तूबरो प्रौढशृङ्गे स्याद्गव्यश्मश्रौ च पूरुषे ॥ २४८८ ॥
32.2488 · p. 184
अनुष्टुप्
पुरुषव्यञ्जनत्यक्ते स्यात्कषायरसेऽपि च ।तूयं नपुंसकं तोये वाच्यवत्तु द्रुते मतम् ॥ २४८९ ॥
32.2489 · p. 184
अनुष्टुप्
तूरा गतिस्त्वराहिंसयोस्तूरो वाद्यनिस्वने ।तूर्णं त्रिषु स्यात्त्वरिते हिंसिते क्ली तु हिंसने ॥ २४९० ॥
32.2490 · p. 184
अनुष्टुप्
तूर्योऽस्त्री वाद्यनिर्घोषे वाद्ये तूर्यं नपुंसकम् ।तूलोऽस्त्री स्यात्पिचौ क्ली तु ब्रह्मदारुविहायसोः ॥ २४९१ ॥
32.2491 · p. 184
अनुष्टुप्
तूलपुष्पो बकद्रौ स्थाद्यौगिके तु यथायथम् ।तूलिः शय्यान्तरे चित्रकूर्चिकायामपि स्त्रियाम् ॥ २४९२ ॥
32.2492 · p. 184
अनुष्टुप्
तूलिका कूर्चिकायां च शय्योपकरणेऽपि च ।तूषं वासोदशायां क्ली तूषा तुष्टौ द्वयोर्मता ॥ २४९३ ॥
32.2493 · p. 184
अनुष्टुप्
तृणं-तेवनं
तृणं स्यान्मल्लिकाभेदे सुरूपाख्येऽथ न स्त्रियाम् ।दूर्वायवेक्षुप्रभृतिक्षुद्रस्थावरजातिषु ॥ २४९४ ॥
32.2494 · p. 185
अनुष्टुप्
तृणगोधा चित्रकोले कृकलासेऽपि च स्त्रियाम् ।तृणता तु स्त्रियामुक्ता तृणत्वे च शरासने ॥ २४९५ ॥
32.2495 · p. 185
अनुष्टुप्
तृणराजस्तु हिन्ताले तालेऽपि च प्रकीर्त्तितः ।तृणशून्यं मल्लिकायां तथा स्यात्केतकीफले ॥ २४९६ ॥
32.2496 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
तृतीया स्त्री तृतीयस्यां विभक्तौ च तथा तिथौ ।गौर्याश्चाथ त्रयाणान्तु तृतीयः पूरणे त्रिषु ॥ २४९७ ॥
32.2497 · p. 185
अनुष्टुप्
तृपत्समुद्रे चन्द्रे च तृणभूमौ तथा पुमान् ।तृप्तं तु तृप्तौ षट्षष्टिस्वरे छन्दोऽन्तरे च नप् ॥ २४९८ ॥
32.2498 · p. 185
अनुष्टुप्
प्रीते तु सुहिते चैव तृप्तं स्यादभिधेयवत् ।तृप्तः पुमान्पुरोडाशे क्ली तृप्तं पापदुःखयोः ॥ २४९९ ॥
32.2499 · p. 185
अनुष्टुप्
तृप्तिः सुखे च तोये च सौहित्ये च स्त्रियां मता ।तृफलं शुष्कपर्णे च क्लीबं शुष्कतृणेऽपि च ॥ २५०० ॥
32.2500 · p. 185
अनुष्टुप्
तृफला तु स्त्रियामेषा लतायाम्परिकीर्त्तिता ।तृट् स्त्री कान्ता कामपुत्र्यां स्याल्लिप्सोदन्ययोरपि ॥ २५०१ ॥
32.2501 · p. 185
अनुष्टुप्
तृषा तृष्णावदिच्छायां पिपासायामपि स्त्रियाम् ।ते शब्दः क्रीडने स्त्री स्यात्क्रीडके तु त्रिषु स्मृता ॥ २५०२ ॥
32.2502 · p. 185
अनुष्टुप्
तेजनो ना शरस्तम्बे वेणौ स्यात्स्त्री तु तेजनी ।तृणपूले च मूर्वायां ज्योतिष्मत्यां तथाऽसृजि ॥ २५०३ ॥
32.2503 · p. 185
अनुष्टुप्
आकर्णकर्षणाच्चापि यदर्धाध्यधिकाङ्गुलम् ।आकर्षणमथाकृष्टधनुष्कैर्यदिषोर्भवेत् ॥ २५०४ ॥
32.2504 · p. 185
अनुष्टुप्
सन्धानं तेजना तत्र निशाने च तथास्त्रियाम् ।तेजोबलाम्बुधर्माग्निरेतोर्चिर्ज्योतिरात्मसु ॥ २५०५ ॥
32.2505 · p. 185
अनुष्टुप्
प्रभावे नवनीतेऽन्ने सत्त्वे ज्वलति पौरुषे ।तेमनं व्यञ्जने क्लेदेऽपि क्लीबं परिकीर्त्तितम् ॥ २५०६ ॥
32.2506 · p. 185
अनुष्टुप्
तेरः कतकवृक्षे स्यात्तेरं तत्फलवक्त्रयोः ।तेवनं स्यात्केलिवने क्रीडायाञ्च नपुंसकम् ॥ २५०७ ॥
32.2507 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्के (wrong syllable)
तैतिलः-त्रसी
तैतिलो गणके पुंसि तैतिलं करणान्तरे ।ज्योतिःशास्त्रप्रसिद्धे स्यात्तथैव तिलपिञ्जके ॥ २५०८ ॥
32.2508 · p. 186
अनुष्टुप्
तैतिलास्तु कलिङ्गाख्ये नीवृद्भेदे नृभूमनि ।तैलो न स्त्री तिलस्नेहे त्रि तु स्यात्तिलयोगिनि ॥ २५०९ ॥
32.2509 · p. 186
अनुष्टुप्
तैलपर्णी सिल्हकेऽपि श्रीवेष्टे श्वेतचन्दने ।तोकं पुत्रे च पुत्र्यां च नपुंसकमपत्यवत् ॥ २५१० ॥
32.2510 · p. 186
अनुष्टुप्
तोक्मं कर्णमले पुंसि ह्ररिते च हरिद्यवे ।तोग्मो हरिद्यवे पुंसि ह्ररिद्वर्णेऽथ तद्वति ॥ २५११ ॥
32.2511 · p. 186
अनुष्टुप्
त्रिषु क्लीबं तु तोग्मं स्यात्कर्णमूलाभ्रयोरिदम् ।तोडोऽपनयने पुंसि तोडं सशिखमुण्डने ॥ २५१२ ॥
32.2512 · p. 186
अनुष्टुप्
तोत्रं नपुंसकं प्रोक्तं प्राजने वेणुकेऽपि च ।तोदकस्तोत्तरि त्रि स्यात्पुमांस्तु सितसर्षपे ॥ २५१३ ॥
32.2513 · p. 186
अनुष्टुप्
तोदनं व्यथने क्लीबं तोत्रेऽपि परिकीर्त्तितम् ।तोयदो मुस्तके मेघे तोयदं धनुराज्ययोः ॥ २५१४ ॥
32.2514 · p. 186
अनुष्टुप्
अथ तोयधरो मुस्ता सुनिषण्णौषधीघने ।तोयप्रसादनः पुंसि कतके तत्फले तु नप् ॥ २५१५ ॥
32.2515 · p. 186
अनुष्टुप्
तोरणं त्वस्त्रियां गेहबहिर्द्वारे नपि त्वदः ।तरुप्रभेदेऽस्य फले त्वरायामपि तोरणम् ॥ २५१६ ॥
32.2516 · p. 186
अनुष्टुप्
तोषणी स्त्री हरिद्रायान्तुष्टौ क्ली तोषणं मतम् ।तोषणं तोषणेत्येते अर्थे तोषयतेर्मते ॥ २५१७ ॥
32.2517 · p. 186
अनुष्टुप्
त्यागः समुज्झने पुंसि दानेऽपि परिकीर्त्तितः ।त्यागी दातरि शूरे च वाच्यवत्परिकीर्त्तितः ॥ २५१८ ॥
32.2518 · p. 186
अनुष्टुप्
त्रपा तु कुलटायां च लज्जायां च स्त्रियां मता ।त्रपुर्वङ्गे च सीसे च नपुंसकमुदीरितम् ॥ २५१९ ॥
32.2519 · p. 186
अनुष्टुप्
त्रयी त्रिवेद्यां स्त्र्यपुमांस्त्रिवृन्दे त्रितये त्रिषु ।त्रयोदशी पूरणे त्रिरथ कामतिथौ तथा ॥ २५२० ॥
32.2520 · p. 186
अनुष्टुप्
स्त्री त्रयोदशतन्त्रीके वीणाभेदे त्रयोदशी ।त्रासं त्रिजङ्गमे स्त्री तु त्रसी दिग्भ्रमदे भये ॥ २५२१ ॥
32.2521 · p. 186
अनुष्टुप्
त्रसरः-त्रिपदः
त्रसरो वर्णकौशेयसूत्रके स्यात्पुमानथ ।शलाकामण्डने सूत्रवेष्टने त्रसरोऽस्त्रियाम् ॥ २५२२ ॥
32.2522 · p. 187
अनुष्टुप्
त्रसरेणुः प्रभाख्यायां सूर्यपत्न्यां स्त्रियां मता ।त्रसरेणुस्त्रि रजसि जालान्तःसूर्यरश्मिगे ॥ २५२३ ॥
32.2523 · p. 187
अनुष्टुप्
त्राकः शरणदे शीये त्रिर्धर्मे तु पुमान्मतः ।त्राणं तु त्रायमाणायां रक्षणे त्रि तु रक्षिते ॥ २५२४ ॥
32.2524 · p. 187
अनुष्टुप्
त्राता त्रिः पातरि पुमांस्त्वयं स्यात्सितसर्षपे ।त्रापुषं रजते क्लीबं विकारे त्रपुणस्त्रिषु ॥ २५२५ ॥
32.2525 · p. 187
अनुष्टुप्
त्रायमाणस्त्रिरक्षितृरक्ष्ययोर्वार्षिके स्त्रियाम् ।त्रासः पुमान्मणेर्दोषे भयेऽपि परिकीर्त्तितः ॥ २५२६ ॥
32.2526 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्षि (wrong syllable)
त्रिकं त्रिनिवहे त्रि स्यात्पृष्ठवंशधरे तु नप् ।मुन्यन्तरेषुशालङ्कायनाख्येषु नृभूमनि ॥ २५२७ ॥
32.2527 · p. 187
अनुष्टुप्
त्रिका तु नेमौ कूपस्य स्त्रियामेषा प्रकीर्त्तिता ।त्रिककुत्पुंसि विष्णौ च त्रिकूटाख्ये च पर्वते ॥ २५२८ ॥
32.2528 · p. 187
अनुष्टुप्
त्रिकण्टको निपत्रायां स्नुह्यामपि च गोक्षुरे ।त्रिकूटो ना सुवेलाद्रौ क्ली सिन्धुलवणे स्मृतम् ॥ २५२९ ॥
32.2529 · p. 187
अनुष्टुप्
त्रिकेतुस्तु शुके ना त्रिः केतुत्रयसमन्विते ।भवेत्त्रिगन्धमेलात्वक्पत्राणां क्ली समुच्चये ॥ २५३० ॥
32.2530 · p. 187
अनुष्टुप्
त्रिगर्त्तास्तु नृभूम्नि स्युर्देशे ना गणितान्तरे ।स्यात्त्रिगर्त्ता घुर्घुरिकाकामुकाङ्गतयोः स्त्रियाम् ॥ २५३१ ॥
32.2531 · p. 187
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 घु (wrong syllable)
त्रिदिवो व्योम्नि च स्वर्गे पुंनपुंसकयोर्मतः ।त्रिदिवा तु नदीभेद एलायां च स्त्रियां मता ॥ २५३२ ॥
32.2532 · p. 187
अनुष्टुप्
त्रिधामा वासुदेवे च पुँल्लिङ्गः पावकेऽप्यथ ।त्रिलिङ्गोऽयं यौगिकार्थे त्रिधामा परिकीर्त्तितः ॥ २५३३ ॥
32.2533 · p. 187
अनुष्टुप्
त्रिपक्षी श्राद्धभेदे स्यादन्ते पक्षत्रयस्य यः ।पक्षत्रये च स्त्री त्रिस्तु बहुव्रीहौ प्रकीर्त्तिता ॥ २५३४ ॥
32.2534 · p. 187
अनुष्टुप्
त्रिपदी गजपद्बन्ध रज्जावपि पदत्रये ।पदत्रयवति त्वेष त्रिपदो वाच्यवन्मतः ॥ २५३५ ॥
32.2535 · p. 187
अनुष्टुप्
त्रिपुटा-त्रैष्टुभं
त्रिपुटा त्रिपुटी च स्त्री त्रिवृद्वल्ल्यां प्रकीर्त्तिता ।सूक्ष्मैलायां मल्लिकायां ना तु तीरसतीनयोः ॥ २५३६ ॥
32.2536 · p. 188
अनुष्टुप्
त्रिपुरी त्रिपुरं चैव क्ली स्त्रियोः स्यात्पुरत्रये ।त्रिपुरी मदमत्ताख्यधूर्धुरे परिकीर्त्तिता ॥ २५३७ ॥
32.2537 · p. 188
अनुष्टुप्
आदन्ता त्रिपुरा स्त्रीत्वे पुरभेदे प्रकीर्त्तिता ।त्रिमार्गा त्रिर्बहुव्रीहौ गङ्गायां स्त्री प्रकीर्त्तिता ॥ २५३८ ॥
32.2538 · p. 188
अनुष्टुप्
त्रिरेखस्तु पुमाञ्छङ्खे चिक्रोडाखौ पुनर्द्वयोः ।त्रिवर्गो धर्मकामार्थे त्रिफलायां कटुत्रिके ॥ २५३९ ॥
32.2539 · p. 188
अनुष्टुप्
वृद्धिस्थानक्षये सत्त्वरजस्तमसि चेष्यते ।त्रिवर्णकं गोक्षुरके त्रिफलायां कटुत्रये ॥ २५४० ॥
32.2540 · p. 188
अनुष्टुप्
त्रिगन्धेऽपि तथैवेतन्नपुंसकमुदीरितम् ।त्रिवलीकमपाने क्ली बलित्रययुते त्रिषु ॥ २५४१ ॥
32.2541 · p. 188
अनुष्टुप्
त्रिविक्रमोऽवतारान्तरे हरेस्त्रि तु यौगिके ।त्रिवृत्स्त्री त्रिवृतासंज्ञलताभेदेऽथ पुंसि सः ॥ २५४२ ॥
32.2542 · p. 188
अनुष्टुप्
नवसंख्यात्मके स्तोमे त्रि तु स्तोत्रे च तद्वति ।तद्युक्तेऽप्यहरादौ स्याद्रज्ज्वादौ त्रिगुणेऽपि च ॥ २५४३ ॥
32.2543 · p. 188
अनुष्टुप्
त्रिवृता श्वेतवल्ल्यां स्त्री त्रिगुणे त्वभिधेयवत् ।त्रिशङ्कुर्द्वे विडालेऽपि शलभेऽपि प्रकीर्त्तितः ॥ २५४४ ॥
32.2544 · p. 188
अनुष्टुप्
राजान्तरे तु तार्क्ष्ये च त्रिशङ्कुः पुंसि कीर्त्तितः ।त्रिशिखं तु त्रिशूलेऽपि स्याच्छिरोभूषणान्तरे ॥ २५४५ ॥
32.2545 · p. 188
अनुष्टुप्
त्रिशिखस्तु पुमानेष कीर्त्तितो राक्षसान्तरे ।त्रिशिरास्तु कुबेरे च पुमान्स्याद्राक्षसान्तरे ॥ २५४६ ॥
32.2546 · p. 188
अनुष्टुप्
त्रिष्टुभा सर्षपे गौरे त्रिष्टुभः सितसर्षपे ।त्रिसुगन्धं तु जानीयादेलात्वक्पत्रसंयुते ॥ २५४७ ॥
32.2547 · p. 188
अनुष्टुप्
त्रिस्रोतास्तु नदीभेदे गङ्गायां च स्त्रियां मता ।त्रुटिः स्त्री लेशसूक्ष्मैलार्धमात्राकालसंशये ॥ २५४८ ॥
32.2548 · p. 188
अनुष्टुप्
त्रेताऽग्नित्रितये चैव द्वितीये च युगे स्त्रियाम् ।त्रैष्टुभं तु नपि व्योम्नि त्रिष्टुप्छन्दसि च त्रिषु ॥ २५४९ ॥
32.2549 · p. 188
अनुष्टुप्
त्रोटिः-दंशी
त्रिष्टुप्सम्बन्धिनि स्याच्च प्रगाथे त्रिष्टुबादिके ।त्रोटिः स्त्री कट्फले चञ्च्वां खगे मीनान्तरेऽपि च ॥ २५५० ॥
32.2550 · p. 189
अनुष्टुप्
त्र्यङ्कटं शिक्यभेदेऽपि धौताञ्जन्याञ्च न द्वयोः ।त्र्यङ्गटः शिक्यभेदेऽपि विधौ जन्यां च कीर्त्तितः ॥ २५५१ ॥
32.2551 · p. 189
अनुष्टुप्
त्र्यश्रा स्त्रियां त्रिवृत्संज्ञवल्ल्यां त्र्यश्रौ पुनस्त्रिषु ।त्वशब्दोऽर्थे पुमांस्त्रिस्तु युष्मदेकार्थयोर्मतः ॥ २५५२ ॥
32.2552 · p. 189
अनुष्टुप्
त्वक् स्त्री चर्मणि वल्केऽपि चान्ता स्याच्च गुडत्वचि ।त्वक्पत्रं क्ली वराङ्गे स्त्री त्वक्पत्री वाष्पिकोषधौ ॥ २५५३ ॥
32.2553 · p. 189
अनुष्टुप्
त्वक्सारः पुंसि वेणौ च स्यात्तालादितृणद्रुषु ।क्ली तु तत्प्रसवे स्त्री तु त्वक्सारा वल्लिषु स्मृता ॥ २५५४ ॥
32.2554 · p. 189
अनुष्टुप्
त्वचा द्वे वल्कले क्ली सूत्कटाख्ये गन्धवस्तुनि ।त्वरितन्तु त्वरायां क्ली स्याच्छीघ्रे त्वभिधेयवत् ॥ २५५५ ॥
32.2555 · p. 189
अनुष्टुप्
त्वष्टा प्रजापतौ वह्नौ देवतक्षणि तक्षणि ।विष्ण्वग्रजे माध्यमिकदेवे दिनकरे च ना ॥ २५५६ ॥
32.2556 · p. 189
अनुष्टुप्
त्वष्टा तु त्वक्षितर्येष भेद्यवत्परिकीर्त्तितः ।त्वाष्ट्री तु सूर्यपत्नी भेदे त्वष्टुः पुनस्त्रिषु ॥ २५५७ ॥
32.2557 · p. 189
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सम्बन्धिमात्रे यस्यापि त्वष्टा स्याद्देवतात्र च ।अपत्ये तु द्वयोस्त्वष्टुस्त्वाष्ट्रस्तु क्षपके पुमान् ॥ २५५८ ॥
32.2558 · p. 189
अनुष्टुप्
अरत्नीनां च यूपस्य स्यादरत्नौ चतुर्दशे ।त्विड्ज्वालादीप्तिशोभासु वाचि चैव स्त्रियां मता ॥ २५५९ ॥
32.2559 · p. 189
अनुष्टुप्