कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (4/8)

वानम्-वामकम्

वातेर्धातोः क्रियायां च कटे वानं प्रकीर्त्तितम् ।वानकं ब्रह्मचर्ये क्ली त्रि तु स्याद्वनितर्यपि ॥ ५३०७ ॥
45.5307 · p. 395
अनुष्टुप्
वानप्रस्थो मधूके च वैखानसपलाशयोः ।नपुंसकं तु प्रसवे स्यान्माधूकपलाशयोः ॥ ५३०८ ॥
45.5308 · p. 395
अनुष्टुप्
वानरो ना तुरुष्काख्यनिर्यासेऽथ कपौ द्वयोः ।कपिकच्छ्वौ पुनः स्त्रीत्वे वानरी परिकीर्त्तिता ॥ ५३०९ ॥
45.5309 · p. 395
अनुष्टुप्
वानस्पत्यः शिवे पुंसि फलात्पुष्पवति द्रुमे ।क्ली द्रुमाणां फले कुञ्जे त्रिर्वनस्पतियोगिनि ॥ ५३१० ॥
45.5310 · p. 395
अनुष्टुप्
वानायुस्तु द्वयोरश्वे वनायुविषयोद्भवे ।नृभूम्नि तद्देशजने वातायौ कस्यचिद्द्वयोः ॥ ५३११ ॥
45.5311 · p. 395
अनुष्टुप्
वानीरो वेतसे पुंसि तथा चित्रक इष्यते ।वानीरकस्तु वानीरे मुञ्जेऽपि च पुमान्मतः ॥ ५३१२ ॥
45.5312 · p. 395
अनुष्टुप्
वानीरजस्तु मुञ्जे वनीरजं कुष्ठभेषजे ।वानेयं मुस्तके क्लीबं त्रिषु स्याद्वनसम्भवे ॥ ५३१३ ॥
45.5313 · p. 395
अनुष्टुप्
वान्तादः कुक्कुरेऽपि द्वे तथा पक्ष्यन्तरे मतः ।वापन्योदनभिक्षायां ग्रासमात्र्यां स्त्रियां मता ॥ ५३१४ ॥
45.5314 · p. 395
अनुष्टुप्
अथ वापयतेरर्थे वापनं वापना नना ।वापितं तु मतं बीजाकृतमुण्डितयोस्त्रिषु ॥ ५३१५ ॥
45.5315 · p. 395
अनुष्टुप्
वापी तु दीर्घिकायां स्याज्ज्योतिर्योगान्तरेऽपि च ।वामस्तु प्रतिकूले च त्रिषु सुन्दरसव्ययोः ॥ ५३१६ ॥
45.5316 · p. 395
अनुष्टुप्
द्वयोस्तूष्ट्रेऽथ पुँल्लिङ्गो वामः स्याद्वरुणे स्मरे ।पयोधरे हरे वान्तौ रुद्रभिद्वामहस्तयोः ॥ ५३१७ ॥
45.5317 · p. 395
अनुष्टुप्
वामा स्त्री नवशक्तीनां शिवस्यैकत्र योषिति ।योषिद्भेदेऽपि दुर्गायां सरस्वत्यां श्रियामपि ॥ ५३१८ ॥
45.5318 · p. 395
अनुष्टुप्
नदीभेदे पार्श्वनाथमातर्यपि तथा मता ।वामी शृगालीवडबारासभीवेसरीषु च ॥ ५३१९ ॥
45.5319 · p. 395
अनुष्टुप्
वामकस्त्रिर्मतो वामे द्वे तु स्यात्सङ्करान्तरे ।अथ मुद्राविशेषे तु वामकं स्यान्नपुंसकम् ॥ ५३२० ॥
45.5320 · p. 395
अनुष्टुप्

वामदेवः-वाराहं

वामदेवः शिवेऽमात्ये तथा दशरथस्य च ।शाल्मलिद्वीपगिरिभिदृषिभिद्व्याधिभित्सु च ॥ ५३२१ ॥
45.5321 · p. 396
अनुष्टुप्
ब्रह्ममासतृतीयां वामदेवी तु पार्वती ।वामनस्तु त्रिषु ह्रस्वे पुमांस्तु मदनद्रुमे ॥ ५३२२ ॥
45.5322 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अवतारान्तरे विष्णोस्तथा दक्षिणदिग्गजे ।स्त्री वामलोचनेत्येषा स्त्रीभेदे परिकीर्त्तिता ॥ ५३२३ ॥
45.5323 · p. 396
अनुष्टुप्
क्ली कर्मधारये चाथ बहुव्रीहौ तु भेद्यवत् ।वायसोऽगुरुवृक्षे च श्रीवत्सध्वाङ्क्षयोः पुमान् ॥ ५३२४ ॥
45.5324 · p. 396
अनुष्टुप्
वयः सम्बन्धिनि तथा वायसस्त्रिषु कीर्त्तितः ।काकोदुम्बरिकायां तु काकमाच्यां च वायसी ॥ ५३२५ ॥
45.5325 · p. 396
अनुष्टुप्
क्लीबं वायुफलं शक्रकार्मुके करकेऽपि च ।वारः क्रियाभ्यावृत्तौ च समूहेऽवसरे क्षणे ॥ ५३२६ ॥
45.5326 · p. 396
अनुष्टुप्
द्वारे हरे कुब्जवृक्षे चारे सूर्यादिवासरे ।वारी स्याद्गजबन्धन्यां कलस्यामपि योषिति ॥ ५३२७ ॥
45.5327 · p. 396
अनुष्टुप्
वारकोऽश्वगतौ पुंसि वाच्यवत्स्यान्निषेधके ।वारकीरस्तु पुंसि स्याद्भारग्राहिणि वाडवे ॥ ५३२८ ॥
45.5328 · p. 396
अनुष्टुप्
यूकायां वेणिवेधन्यां नीराजितहयेऽपि च ।वारङ्गः पक्षिणि द्वे स्यात्खड्गैकावयवे तु ना ॥ ५३२९ ॥
45.5329 · p. 396
अनुष्टुप्
वारणो हस्तिनि द्वे स्यात्पुंसि सेतौ प्रकीर्त्तितः ।स्त्रियां पुंसि तथैवेयं वारणा स्यान्निवारणे ॥ ५३३० ॥
45.5330 · p. 396
अनुष्टुप्
वरणद्रोस्तु विकृतौ त्रि स्याद्वरणयोगिनि ।वारवाणोऽस्त्रियामुक्तः कञ्चुके कवचेऽपि च ॥ ५३३१ ॥
45.5331 · p. 396
अनुष्टुप्
वाराहं सामभेदे क्ली वाराही तु स्त्रियां मता ।विष्वक्सेनप्रियानाम्न्यामोषधौ च लतान्तरे ॥ ५३३२ ॥
45.5332 · p. 396
अनुष्टुप्
वाराहवृन्दसंज्ञे स्यादन्यस्यां क्वचिदोषधौ ।सप्तानां चैव मातृणामेकस्यामपि मातरि ॥ ५३३३ ॥
45.5333 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 तृ (wrong syllable)
वाराहं सामभेदेषु वराहमुनिना पुनः ।कृते वराहसन्बन्धिन्यपि त्रिषु समीरितम् ॥ ५३३४ ॥
45.5334 · p. 396
अनुष्टुप्

वारिः-वार्धीणसः

वारिः स्त्री हस्तिनो यत्र गृह्यन्ते तत्र कीर्त्तिता ।अथ वारिकलश्यां च जलेऽपि च नपुंसकम् ॥ ५३३५ ॥
45.5335 · p. 397
अनुष्टुप्
वारिजं त्वब्धिलवणे पद्मे शङ्खे तु वारिजः ।वारिणिस्तु पशौ द्वे स्यात्पशुवृत्त्यां तु सा स्त्रियाम् ॥ ५३३६ ॥
45.5336 · p. 397
अनुष्टुप्
वारिपिण्डस्तु मण्डूके द्वयोः पाषाणगर्भजे ।यौगिके त्वस्य लिङ्गादि तर्कणीयं यथायथम् ॥ ५३३७ ॥
45.5337 · p. 397
अनुष्टुप्
वारुः शुष्कफले पुंसि जङ्घायां स्त्री हये द्वयोः ।वारुण्युमाप्रतीच्योश्च सुरायाञ्च लतान्तरे ॥ ५३३८ ॥
45.5338 · p. 397
अनुष्टुप्
वरुणस्य तु सम्बन्धिन्युदितं वारुणं त्रिषु ।वारूढस्तु कपाटे च तथा वस्त्राऽञ्चलेऽपि च ॥ ५३३९ ॥
45.5339 · p. 397
अनुष्टुप्
पावके पञ्जरे चैव शम्बलेऽपि पुमान्मतः ।वार्क्षं क्लीबं वने वृक्षसम्बन्धिनि पुनस्त्रिषु ॥ ५३४० ॥
45.5340 · p. 397
अनुष्टुप्
वार्त्ता तु वर्त्तनोदन्तकृषिप्रभृतिवृत्तिषु ।वार्त्ताक्यां च स्त्रियां वार्तं निःसारारोग्ययोरथ ॥ ५३४१ ॥
45.5341 · p. 397
अनुष्टुप्
त्रिर्वृत्तवृत्तिसम्बन्धिन्यपि स्यादवृत्तिमत्यपि ।वार्त्ताकी त्रिः शब्दफलस्तम्बे वातिङ्गनाह्वये ॥ ५३४२ ॥
45.5342 · p. 397
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रसहाख्ये क्षुद्रफले स्तम्बे तत्प्रसवे तु नप् ।वार्त्तिकस्तु द्वयोर्दूते व्याख्याग्रन्थान्तरे तु नप् ॥ ५३४३ ॥
45.5343 · p. 397
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्षु (wrong syllable)
तथा विवाहविख्यातधूलिभक्तेऽपि कीर्त्तितम् ।वार्दूरं कृष्णलाबीजदक्षिणावर्त्तशङ्खयोः ॥ ५३४४ ॥
45.5344 · p. 397
अनुष्टुप्
काकचिञ्चीभवे बीजे वारिक्रिमिजनीरयोः ।वार्धकं वृद्धसङ्घाते वृद्धत्वे वृद्धकर्मणि ॥ ५३४५ ॥
45.5345 · p. 397
अनुष्टुप्
वार्धुषिस्त्वृणवृद्धौ स्त्री वृद्ध्या जीवे तु भेद्यवत् ।वार्ध्रीणसः खड्गमृगे मतः स्त्रीपुंसयोरयम् ॥ ५३४६ ॥
45.5346 · p. 397
अनुष्टुप्
कृष्णग्रीवे रक्तशीर्षे श्वेतपक्षे विहङ्गमे ।त्रिविधे त्विन्द्रियक्षीणे श्वेते चाजापतौ पुमान् ॥ ५३४७ ॥
45.5347 · p. 397
अनुष्टुप्

वार्वटीरः-वाशिता

वार्वटीरो नक्र आम्रास्थ्न्यकुरे गणिकासुते ।वार्षिकं त्रायमाणाख्यभेषजे नप्यथ त्रिषु ॥ ५३४८ ॥
45.5348 · p. 398
अनुष्टुप्
वर्षासु भवजातादौ निर्वृत्तं यच्च किञ्चन ।वर्षणं वर्षाभिर्वा स्यात्तत्राधीष्टादिकेऽपि तत् ॥ ५३४९ ॥
45.5349 · p. 398
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्षा (wrong syllable)
वालस्तु ना संवरणे चलने केशपुच्छयोः ।विशेषादश्वकरिणोः पुच्छे ह्रीबेरके तु नप् ॥ ५३५० ॥
45.5350 · p. 398
अनुष्टुप्
वाली हर्षुलकन्या स्यात्स्त्रियां स्याज्जतुकाहला ।नारिकेले हरिद्रायां मल्लिकाभिदि वालधौ ॥ ५३५१ ॥
45.5351 · p. 398
अनुष्टुप्
वाच्यलिङ्गोऽर्भके मूर्खे तथाऽलङ्कारभिद्यपि ।वालकं त्वस्त्रियां ज्ञेयं वलये चाङ्गुलीयके ॥ ५३५२ ॥
45.5352 · p. 398
अनुष्टुप्
ह्रीबेरे क्ली शिशौ द्वे स्त्री वालिका सिकतासु च ।ऊर्मौ च कर्णपृष्ठस्थे विज्ञेया भूषणान्तरे ॥ ५३५३ ॥
45.5353 · p. 398
अनुष्टुप्
वालवायः पुमाञ्शैलविशेषे परिकीर्त्तितः ।वालैः कार्यस्य वस्त्रस्य यः कर्त्ता त्रिषु तत्र च ॥ ५३५४ ॥
45.5354 · p. 398
अनुष्टुप्
वालि नावश्विनी ऋक्षे वाली सुग्रीवपूर्वजे ।केशह्रीबेरपुच्छादियुक्तार्थे त्वभिधेयवत् ॥ ५३५५ ॥
45.5355 · p. 398
अनुष्टुप्
वालुका सिकतासु स्त्री क्ली त्वेलावालुकौषधे ।पुण्डरीकसमाख्ये च वालुकं स्याद्विषान्तरे ॥ ५३५६ ॥
45.5356 · p. 398
अनुष्टुप्
वावीर उत्पत्तिक्षेत्रेऽप्यमोघे परिकीर्त्तितः ।वाशा स्त्रियामाटरूषे वाशी वाचि प्रकीर्त्तिता ॥ ५३५७ ॥
45.5357 · p. 398
अनुष्टुप्
हिमसृष्ट्यै च सूर्यस्य रश्मीनां यच्छतत्रयम् ।तत्रैकत्राऽथ वाशी स्याद्वशसम्बन्धिनि त्रिषु ॥ ५३५८ ॥
45.5358 · p. 398
अनुष्टुप्
वाशा तु पुंसि स्त्रीत्वे च वाशिते परिकीर्त्तिता ।वाशं तु सामभेदे क्ली क इ वेदेत्यृचि स्थिते ॥ ५३५९ ॥
45.5359 · p. 398
अनुष्टुप्
वाशिरग्नौ वाशयतौ वाशतौ वाश्यतावपि ।द्वे गोमायौ प्रजननप्राप्तायां स्त्री चतुष्पदि ॥ ५३६० ॥
45.5360 · p. 398
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
अथ भीरावयं वाशिर्भेद्यवत्परिकीर्त्तितः ।वाशिता तु करिण्यां च स्त्रीत्वे योषिति च स्मृता ॥ ५३६१ ॥
45.5361 · p. 398
अनुष्टुप्

वाशुरः-वाहनी

वाशुरः पक्षिणि द्वे स्याद्वाशुरा तु स्त्रियां निशि ।वाश्रा चाप्यथ वाश्रस्तु पुरुषे शब्दवृन्दयोः ॥ ५३६२ ॥
45.5362 · p. 399
अनुष्टुप्
वाश्रो ना दिवसे क्लीबं मन्दिरे च चतुष्पथे ।वासतेयी तु रात्र्यां स्त्री साधौ तु वसतौ त्रिषु ॥ ५३६३ ॥
45.5363 · p. 399
अनुष्टुप्
वासनस्तु पुमान्गेहावयवे बिन्दुसंज्ञके ।वारिधान्यां च वस्त्रे च प्रत्याशाज्ञानयोः स्त्रियाम् ॥ ५३६४ ॥
45.5364 · p. 399
अनुष्टुप्
वासना तु न ना गन्धधूपाद्यैर्भावनाविधौ ।तथा निवासयत्यर्थे वस्तेर्हेतुकृतावपि ॥ ५३६५ ॥
45.5365 · p. 399
अनुष्टुप्
वासनीयं कुङ्कुमे क्ली त्रि तु वासयितव्यके ।वासन्तो ना कुरवके त्रिषु त्ववहिते तथा ॥ ५३६६ ॥
45.5366 · p. 399
अनुष्टुप्
जाते वसन्तात्तद्योगिन्यपि तत्पुष्पजातिषु ।वासन्ती माधवीयूथ्योः [कोकिलायामपीष्यते] ॥ ५३६७ ॥
45.5367 · p. 399
अनुष्टुप्
वासरो दिवसे न स्त्री ना त्वग्नौ प्रावृषि स्मरे ।वासवो वसुसम्बन्धिन्यथ त्रिर्ना पुरन्दरे ॥ ५३६८ ॥
45.5368 · p. 399
अनुष्टुप्
यूपस्यारत्नयः सप्तदशद्वादश एष्वपि ।वासिका स्त्री माल्यदाम्नि वासिकं तु नपुंसकम् ॥ ५३६९ ॥
45.5369 · p. 399
अनुष्टुप्
गृहच्छदिष्काष्ठभेदे सन्धिकाष्ठाह्वये स्मृतम् ।वासिता करिणीनार्योर्वासितं भाविते रुते ॥ ५३७० ॥
45.5370 · p. 399
अनुष्टुप्
वासुकं रौमकाख्ये क्ली लवणेऽर्कद्रुमे तु ना ।वासुदेवस्तु ना विष्णौ द्वयोस्तु स्यात्तुरङ्गमे ॥ ५३७१ ॥
45.5371 · p. 399
अनुष्टुप्
वासुरा वासितायां स्याद्वासतेयभुवि स्त्रियाम् ।वास्तुरस्त्री गृहे सीम्नि सुरुङ्गागृहभूपुरे ॥ ५३७२ ॥
45.5372 · p. 399
अनुष्टुप्
वाहस्तु ना बलीवर्दे वहने त्वंसयुग्मके ।प्रस्थद्वयेऽर्धखार्यां स्यात्तथाखारीचतुष्टये ॥ ५३७३ ॥
45.5373 · p. 399
अनुष्टुप्
स्त्रीपुंसयोस्तु वाहोऽयं मतो गर्दभघोटयोः ।वाहसो जलनिर्याणे शयालौ सुनिषण्णके ॥ ५३७४ ॥
45.5374 · p. 399
अनुष्टुप्
क्ली तु स्याद्वाहनं युग्ये वाहनी तु स्त्रियामियम् ।पुरस्य राजमार्गे स्यादुपनिष्करसंज्ञके ॥ ५३७५ ॥
45.5375 · p. 399
अनुष्टुप्

वाहनम्-विकृतम्

अना तु वाहयत्यर्थे वाहनं वाहनाऽपि च ।ना त्वग्नौ सुनिषण्णाख्यशाके च जलनिर्गमे ॥ ५३७६ ॥
45.5376 · p. 400
अनुष्टुप्
भेद्यलिङ्गस्तु वहनकर्म्मजीवे प्रकीर्त्तितः ।वाहिकाः पुंसि भूम्नि स्युष्टर्कनामनि नीवृति ॥ ५३७७ ॥
45.5377 · p. 400
अनुष्टुप्
तुलासंज्ञोन्मानभेदादृक्षं दशगुणं स्मृतम् ।वृद्ध्या दशगुणं तस्मात्स्थितेष्वाचितकादिषु ॥ ५३७८ ॥
45.5378 · p. 400
अनुष्टुप्
अष्टासु परिमाणेषु षट्को वाहिकमुच्यते ।वाहिनी स्यात्तरङ्गिण्यां सेनासैन्यप्रभेदयोः ॥ ५३७९ ॥
45.5379 · p. 400
अनुष्टुप्
वाह्यं वाहयितव्ये त्रिर्वोढव्ये वाहसाधुनि ।नपुंसकं तु वाह्यं तद्वाहने परिकीर्त्तितम् ॥ ५३८० ॥
45.5380 · p. 400
अनुष्टुप्
विगन्तरि त्रिषु खगे द्वयोर्ना परमात्मनि ।विनिग्रहे नियोगे च विज्ञाने पादपूरणे ॥ ५३८१ ॥
45.5381 · p. 400
अनुष्टुप्
निश्चयेऽसहने हेतावव्याप्तिविनियोगयोः ।ईषदर्थे परिभवे शुद्धावालम्बनेऽपि च ॥ ५३८२ ॥
45.5382 · p. 400
अनुष्टुप्
विकचः क्षपणे केतौ नाऽकेशे स्फुटितेऽन्यवत् ।विकटा वज्रवाराह्यां त्रिषूरुविकरालयोः ॥ ५३८३ ॥
45.5383 · p. 400
अनुष्टुप्
विकर्त्तनो रवौ पुंसि कर्त्तने तु विकर्त्तनम् ।अथ कर्त्तयतेरर्थे न पुंसि स्याद्विकर्त्तना ॥ ५३८४ ॥
45.5384 · p. 400
अनुष्टुप्
विकल्पः पुंसि भ्रान्तौ च कल्पने (संशयेऽपि च) ।विकसुको ना परिस्रोतो रसे त्रि गुणवादिनि ॥ ५३८५ ॥
45.5385 · p. 400
metre not recognised
विकारस्त्वन्यथाभावे रागे च परिकीर्त्तितः ।विकाशः पुंसि विजने प्रकाशे (च प्रकीर्त्तितः) ॥ ५३८६ ॥
45.5386 · p. 400
अनुष्टुप्metre not read in every line
विकुस्रस्तु समुद्रेऽपि चन्द्रेऽपि परिकीर्त्तितः ।विकृतो न स्त्रियामुक्तो रसे बीभत्सनामनि ॥ ५३८७ ॥
45.5387 · p. 400
अनुष्टुप्
त्रि तद्वति विकारेणान्विते पक्षिकृतेऽपि च ।तथा वीतकृतेऽपि स्याद्रोगिदूरूपयोरपि ॥ ५३८८ ॥
45.5388 · p. 400
अनुष्टुप्
नानाविधक्रिये क्ली तु विकृतं विविधं कृते ।त्रपाद्यैरुचितस्याप्यनुक्तौ भावान्तरे स्त्रियाः ॥ ५३८९ ॥
45.5389 · p. 400
अनुष्टुप्

विक्रमः-विटङ्कः

विक्रमः शक्तिसम्पत्तौ क्रान्तौ क्षान्तौ तथा पुमान् ।विक्लिन्नो रजसा जीर्णे शीर्णे चार्द्रे च वाच्यवत् ॥ ५३९० ॥
45.5390 · p. 401
अनुष्टुप्
विगतं निष्प्रभे वीतेऽप्यभिधेयवदिष्यते ।विगूढो गर्हितेऽपि स्याद्गुप्ते च त्रिषु (कीर्त्तितः) ॥ ५३९१ ॥
45.5391 · p. 401
अनुष्टुप्metre not read in every line
विग्रस्तु गतनासेऽपि तथा मेधाविनि त्रिषु ।तत्तु मेधाविनि न्याय्यं गतनासे त्वसाम्प्रतम् ॥ ५३९२ ॥
45.5392 · p. 401
अनुष्टुप्
यस्मात्स्मृतिर्वेर्घ इति नतु वेर्ग्र इतीदृशम् ।विग्रहो व्यासवाक्येऽपि विस्तारे युद्धदेहयोः ॥ ५३९३ ॥
45.5393 · p. 401
अनुष्टुप्
वेर्ग्रहे च पुमानुक्तस्त्रि तु स्याद्विगतग्रहे ।विघ्नकारी स्मृतो घोरदर्शनेऽपि विद्यातिनि ॥ ५३९४ ॥
45.5394 · p. 401
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 वि (wrong syllable)
भवेद्विचकिलो मल्लीप्रभेदे मदने पुमान् ।विचक्षणः कृष्णशिम्बौ पण्डिते त्रिर्विचक्षणः ॥ ५३९५ ॥
45.5395 · p. 401
अनुष्टुप्
विचिकित्सा संशये स्याद्योगार्थे तु यथायथम् ।स्त्री विच्छित्तिस्तु विच्छेदे भावभेदे च योषिताम् ॥ ५३९६ ॥
45.5396 · p. 401
अनुष्टुप्
स चायं वस्त्रमाल्यादेर्न्यासे ना स्थोपशोभितः ।हारभेदेऽङ्गरागे च शब्दोऽयमपि च स्त्रियाम् ॥ ५३९७ ॥
45.5397 · p. 401
अनुष्टुप्
विच्छिन्नं तु समालब्धे वाच्यवत्स्याद्द्विधाकृते ।विजन्मा गर्ह्यजन्मन्यप्यभिधेयवदिष्यते ॥ ५३९८ ॥
45.5398 · p. 401
अनुष्टुप्
शूद्रपूर्वकवैश्यायां व्रात्याज्जाते द्वयोरयम् ।विजयस्तु जये खड्गे चार्जुनेऽपि पुमान्मतः ॥ ५३९९ ॥
45.5399 · p. 401
अनुष्टुप्
विजया तु हरीतक्यां भङ्गायां [तिथिभिद्यपि] ।विजिज्ञासा तु मीमांसने स्त्री योगे यथायथम् ॥ ५४०० ॥
45.5400 · p. 401
अनुष्टुप्
विजृम्भणं सुचेष्टायां क्लीबं त्रिषु विकस्वरे ।विजृम्भितं जृम्भणे क्ली त्रि सजृम्भे विकस्वरे ॥ ५४०१ ॥
45.5401 · p. 401
अनुष्टुप्
विज्ञानं [क्लीबलिङ्गं स्याच्चेतनाज्ञानकर्म्मसु] ।विटोद्रौ लवणे षिड्गे मूषिके खदिरेऽपि च ॥ ५४०२ ॥
45.5402 · p. 401
अनुष्टुप्
विटकान्ता हरिद्रायां योगार्थे तु यथायथम् ।विटङ्कः पादपाङ्गे च गृहस्यावयवेऽपि च ॥ ५४०३ ॥
45.5403 · p. 401
अनुष्टुप्

विटपः-विदितम्

विटपो न स्त्रियां स्तम्बशाखाविस्तारपल्लवे ।विट्पतिर्द्वे सुरे ना जामातरि त्रिर्विशांपतौ ॥ ५४०४ ॥
45.5404 · p. 402
अनुष्टुप्
विडङ्गस्त्रिष्वभिज्ञे स्यात्कृमिघ्ने पुंनपुंसकम् ।विडालो नेत्रपिण्डे स्याद्वृषदंशकके पुमान् ॥ ५४०५ ॥
45.5405 · p. 402
अनुष्टुप्
वितण्डा [करवीर्यां स्यात्] कच्छी शाकेऽ[पि च स्त्रियाम् ] ।स्वपक्षस्थापनाहीने वादे तार्किकविश्रुते ॥ ५४०६ ॥
45.5406 · p. 402
अनुष्टुप्
वितर्क आशङ्कायां स्याद्वीततर्के तु भेद्यवत् ।वितर्कस्तु पुमानूहे संशये च निगद्यते ॥ ५४०७ ॥
45.5407 · p. 402
अनुष्टुप्
वितानो यज्ञ उल्लोचे विस्तारे पुन्नपुंसकम् ।क्लीबं वृत्तविशेषे स्यात्त्रिलिङ्गो मत्ततुच्छयोः ॥ ५४०८ ॥
45.5408 · p. 402
अनुष्टुप्
वितुन्नस्त्वामलक्यां वितुन्नं तुत्थाञ्जने मतम् ।वितुन्नं सुनिषण्णे च शैवाले च नपुंसकम् ॥ ५४०९ ॥
45.5409 · p. 402
अनुष्टुप्
वितुन्नकस्तु धान्याके झाटामलमयूरके ।वितुन्नकं तु भूधात्र्यां कुस्तुम्बुर्यां [नपुंसकम्] ॥ ५४१० ॥
45.5410 · p. 402
अनुष्टुप्
वित्तं धने क्ली त्रिषु तु प्रथिते च विचारिते ।वित्तिः सम्भावनायां स्याद्विचारे लाभ एव च ॥ ५४११ ॥
45.5411 · p. 402
अनुष्टुप्
विज्ज्ञातरि त्रिषु ज्ञाने स्त्रियां ना तु बुधग्रहे ।विदण्डो मार्गरोधार्थार्गले त्रिस्तु वियष्टिके ॥ ५४१२ ॥
45.5412 · p. 402
अनुष्टुप्
विदथो योगिकृतिनोः [पुँलिल्ङ्गः परिकीर्त्तितः] ।विदाज्ञाने च निर्दिष्टा मनीषायाञ्च योषिति ॥ ५४१३ ॥
45.5413 · p. 402
अनुष्टुप्
विदारो ना जलोच्छावासो [तथा स्यात्प्रविदारणे] ।विदारी शालपर्ण्यां च रोगभेदेक्षुगन्धयोः ॥ ५४१४ ॥
45.5414 · p. 402
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विदारणा ननाभेदे तथैव स्याद्विडम्बने ।विदारणं विडम्बे च भेदे क्लीबं रणे द्वयोः ॥ ५४१५ ॥
45.5415 · p. 402
अनुष्टुप्
विदारिका च काश्मर्यां शृगाल्याञ्च [स्त्रियाम्मता] ।विदितं संश्रुतेऽपि स्याज्ज्ञाते चाप्यभिधेयवत् ॥ ५४१६ ॥
45.5416 · p. 402
अनुष्टुप्

विदुरः-विधुरः

विदुरो नागरे धीरे कौरवाणां च मन्त्रिणि ।विदुलस्तु पुमानम्बुवेतसे वेतसेऽपि च ॥ ५४१७ ॥
45.5417 · p. 403
अनुष्टुप्
विदूषकश्चाटुवटौ परनिन्दाकरेऽपि च ।विदेहास्तीरभुक्तौ नृ भूम्नि वीततनौ त्रिषु ॥ ५४१८ ॥
45.5418 · p. 403
अनुष्टुप्
विदेहः कायशून्ये स्याज्जनकान्वयभूमिपे ।विद्धं सूच्यादिभिर्भिन्ने सदृशे [बाधितेऽपि च] ॥ ५४१९ ॥
45.5419 · p. 403
अनुष्टुप्
क्षिप्ते च त्रिषु तज्जातं ज्योतिर्विद्वीक्षितेऽपि च ।विद्या शास्त्रेऽपि विज्ञाने मन्त्रेष्वपि मता तथा ॥ ५४२० ॥
45.5420 · p. 403
अनुष्टुप्
शैवागमप्रसिद्धेषु तत्त्वभेदेषु केषुचित् ।महाविद्याख्यदेवीषु [सरस्वत्यामपि स्त्रियाम्] ॥ ५४२१ ॥
45.5421 · p. 403
अनुष्टुप्
विद्युत्तु तडिति स्त्री स्याद्दीप्ते विद्युत्त्रिषु स्मृतः ।[शिलायाञ्चैव] सन्ध्यायां स्त्रियां त्रिषु तु निष्प्रभे ॥ ५४२२ ॥
45.5422 · p. 403
अनुष्टुप्
विद्रवो विद्रुतौ [पुंसि बुद्धावपि तथा मतः] ।विद्रुतं विद्रवे क्ली त्रिर्विलीने च पलायिते ॥ ५४२३ ॥
45.5423 · p. 403
अनुष्टुप्
विद्रुमः पल्लवे वृक्षे प्रवाले मणिभूरुहे ।विद्वान् विदद्बुधात्मज्ञेष्वपि स्याद्विदुरे त्रिषु ॥ ५४२४ ॥
45.5424 · p. 403
अनुष्टुप्
विधर्मा त्वहिते पुंसि व्यतीचारे च कीर्त्तितः ।सामप्रभेदे तु क्लीबं त्रि स्याद्विगतधर्मके ॥ ५४२५ ॥
45.5425 · p. 403
अनुष्टुप्
उच्चारणप्रभेदे च स्पृष्टताद्ये विधं मतम् ।विधा गजान्ने ऋद्धौ च प्रकारे वेतने विधौ ॥ ५४२६ ॥
45.5426 · p. 403
अनुष्टुप्