कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

न (1/2)

नः-नदी

नः पुमान्सुगते बन्धे द्विरण्डे प्रस्तुतेऽपि च ॥ २८४८ ॥
36.2848 · p. 211
नकुलस्तु द्वयोर्बभ्रौ सहदेवाग्रजे तु ना ।ऋषिभेदे बभ्रुवर्णे त्रि तु तद्वर्णसंयुते ॥ २८४९ ॥
36.2849 · p. 211
अनुष्टुप्
नकुली तु स्त्रियां मांस्यां कुक्कुट्याञ्च प्रकीर्त्तिता ।नकूबारो देवरे ना त्रिषु तु स्यान्निराश्रये ॥ २८५० ॥
36.2850 · p. 211
अनुष्टुप्
नक्तञ्चरो रात्रिचरे त्रि द्वे तूलूकरक्षसोः ।नक्रो द्वयोः स्यात्कुम्भीरग्राहसंज्ञकयादसोः ॥ २८५१ ॥
36.2851 · p. 211
अनुष्टुप्
नक्षत्रनेमिः स्त्री रेवत्याम्पुमान्विष्णुचन्द्रयोः ।नक्षत्रमाला स्त्री प्रोक्ता हस्तिमस्तकभूषणे ॥ २८५२ ॥
36.2852 · p. 211
अनुष्टुप्
स्थासकाख्ये तथा सप्तविंशत्या मौक्तिकैः कृते ।एकयष्टौ हारभेदे नक्षत्राणां तथाऽवलौ ॥ २८५३ ॥
36.2853 · p. 211
अनुष्टुप्
नखोऽस्त्री नखरे क्ली स्त्री नखी शुक्त्याख्यभेषजे ।नखरायुध इत्युक्तो विडाले त्रि तु यौगिके ॥ २८५४ ॥
36.2854 · p. 211
अनुष्टुप्
नगस्तु पर्वते पुंसि तरावप्यगवन्मतः ।नगभूषणमित्येतद्धरितालेऽपि यौगिके ॥ २८५५ ॥
36.2855 · p. 211
अनुष्टुप्
नगौकाः पुंसि शरभे पक्षिपञ्चास्ययोरपि ।नग्नो वन्दिक्षपणयोस्त्रित्वनग्ने दिगम्बरे ॥ २८५६ ॥
36.2856 · p. 211
अनुष्टुप्
नग्निका तु कुमार्यान्नग्नकः क्षपणवन्दिनोः ।नञभावे निषेधे च स्वरूपार्थेऽप्यतिक्रमे ॥ २८५७ ॥
36.2857 · p. 211
अनुष्टुप्
ईषदर्थे च सादृश्ये तद्विहीनतदन्ययोः ।नटष्टुण्डुद्रुमेऽशोके शैलूषे तु नटो नटी ॥ २८५८ ॥
36.2858 · p. 211
अनुष्टुप्
नटी नल्यपराख्यायां स्त्री विद्रुमलतौषधौ ।नतन्नमस्कृते वक्त्रे बन्धुरे चाभिधेयवत् ॥ २८५९ ॥
36.2859 · p. 211
अनुष्टुप्
नपुंसकं तु नमने नगरेऽप्यगुरौ मतम् ।नदी धुन्यान्नदस्तु स्यात्स्तोतर्यपि सरस्वति ॥ २८६० ॥
36.2860 · p. 211
अनुष्टुप्

नदनुः-नन्दिनी

नदनुस्तु मृधे मेघे पुँल्लिङ्गः परिकीर्त्तितः ।नदीकान्तः समुद्रे ना हिज्जले सिन्दुवारके ॥ २८६१ ॥
36.2861 · p. 212
अनुष्टुप्
नदीकान्ता तु जम्ब्वां स्त्री काकजङ्घौषधावपि ।नदीभवं क्ली लवणे सैन्धवे त्रिसरिद्भवे ॥ २८६२ ॥
36.2862 · p. 212
अनुष्टुप्
नदीष्णः कुशलेऽपि स्यात्तरौ तु कुशले त्रिषु ।नद्धो बद्धे तथोद्वृत्तेऽप्यभिधेयवदिष्यते ॥ २८६३ ॥
36.2863 · p. 212
अनुष्टुप्
ननु स्यादव्ययं प्रश्नदुष्टोक्त्योश्च विनिग्रहे ।अनुप्रश्ने परकृतावधिकारे च संभ्रमे ॥ २८६४ ॥
36.2864 · p. 212
अनुष्टुप्
आमन्त्रणेऽप्यनुनये प्रश्नाऽनुज्ञाऽवधारणे ।नन्दकः पुंसि कृष्णस्य खड्गेऽसौ परिकीर्त्तितः ॥ २८६५ ॥
36.2865 · p. 212
अनुष्टुप्
नन्दको वाच्यवत्प्रोक्तो हर्षके कुलपालके ।नन्दनो नन्दना पुत्रे दुहितर्यपि च द्वयोः ॥ २८६६ ॥
36.2866 · p. 212
अनुष्टुप्
इन्द्रोद्याने नन्दनं स्यान्नन्दथौ च नपुंसकम् ।न ना नन्दयतेरर्थे त्रिषु नन्दयितर्ययम् ॥ २८६७ ॥
36.2867 · p. 212
अनुष्टुप्
नन्दन्तस्तु पुमान्सख्यौ नन्दन्ती स्यात्सखीजने ।नन्दतामिति यत्राशीर्नन्दन्तस्त्रिषु तत्र सः ॥ २८६८ ॥
36.2868 · p. 212
अनुष्टुप्
नन्दयन्तः पुमान्राज्ञि नन्दयन्ती सुखेऽपि च ।सुवर्णेऽपि च पार्वत्यां त्रि तु नन्दयितर्यपि ॥ २८६९ ॥
36.2869 · p. 212
अनुष्टुप्
नन्दा तु प्रतिपत्षष्ठ्येकादशीषु स्नुहीतरौ ।अलिञ्जरे च पार्वत्यान्नन्दः पूर्वनृपेषु च ॥ २८७० ॥
36.2870 · p. 212
अनुष्टुप्
निधिभेदे यशोदेशे द्वे तु नन्दनकर्मणि ।नन्दिः स्त्री स्यात्सुखे भेरीवाद्ये द्यूताङ्गभिद्यपि ॥ २८७१ ॥
36.2871 · p. 212
अनुष्टुप्
पुमांस्तु नन्दतौ धातौ प्रतीहारे शिवस्य च ।नन्दी नन्दीश्वरे माषे नाट्यनान्द्याश्च पाठके ॥ २८७२ ॥
36.2872 · p. 212
अनुष्टुप्
वनद्रुमे गर्दभाण्डे तथा पुँल्लिङ्ग इष्यते ।नन्दिनी पार्वती गङ्गाधेनुभेदननान्दृषु ॥ २८७३ ॥
36.2873 · p. 212
अनुष्टुप्

नन्दिवर्धनः-नरेन्द्रः

शस्तवास्तुस्थलेऽयोध्याहरीतक्युपकुञ्चिषु ।नन्दिवर्धन ईशाने चन्द्रवंश्यनृपान्तरे ॥ २८७४ ॥
36.2874 · p. 213
अनुष्टुप्
पुत्रे च पञ्चदश्याञ्च योगार्थे तु यथायथम् ।नन्द्यावर्त्तस्तु वेश्मादेः स्याद्विन्यासान्तरे पुमान् ॥ २८७५ ॥
36.2875 · p. 213
अनुष्टुप्
तगराख्ये पुष्पगुल्मेऽप्यथ तत्प्रसवे तु नप् ।नपात्द्वयोस्तकारान्तः पौत्रानन्तरवंशजे ॥ २८७६ ॥
36.2876 · p. 213
अनुष्टुप्
नप्ता द्वे पौत्रदौहित्रतत्पुत्रादिषु कीर्त्तितः ।नभश्चरो घने वाते द्वे तु विद्याधरे खगे ॥ २८७७ ॥
36.2877 · p. 213
अनुष्टुप्
नभा वृद्धे त्रि खस्वर्गाम्बुषु तु क्ली नभोऽस्त्रियाम् ।अभ्रश्रावणवर्षासु घ्राणे सूर्ये पतद्ग्रहे ॥ २८७८ ॥
36.2878 · p. 213
अनुष्टुप्
विसतन्तावथ द्यावापृथिव्योर्नभसी इति ।नभसस्तु पुमान्व्योम्नि ऋतावपि सरित्पतौ ॥ २८७९ ॥
36.2879 · p. 213
अनुष्टुप्
नभाका चक्रवाके स्त्री नभाको वायसे द्वयोः ।नमतः पुंसि धूमे च तथा दिनकरे मतः ॥ २८८० ॥
36.2880 · p. 213
अनुष्टुप्
क्लीबन्तूर्णास्तरणके ह्रस्वे तु नमतस्त्रिषु ।नमसः पुंसि वेत्रे च प्रणामे च प्रकीर्त्तितः ॥ २८८१ ॥
36.2881 · p. 213
अनुष्टुप्
त्रिर्नमस्योऽर्चनीये स्त्री नमस्याऽर्चन इष्यते ।नमस्कारी खदिर्यां स्त्री नमस्कारो नतौ पुमान् ॥ २८८२ ॥
36.2882 · p. 213
अनुष्टुप्
नमिर्नमतिधातौ च जैनतीर्थे करान्तरे ।विद्याधरेश्वरेऽप्येष कस्मिंश्चित्पुंसि कीर्त्तितः ॥ २८८३ ॥
36.2883 · p. 213
अनुष्टुप्
नमुचिस्तु पुमान्दैत्यभेदे पुष्पशरेऽपि च ।नयो नीतौ तथा द्यूतभेदेऽपि च पुमान्मतः ॥ २८८४ ॥
36.2884 · p. 213
अनुष्टुप्
नरः पुंस्यर्जुने विष्णोरवताराऽन्तरे नये ।मनुष्यजातौ तु द्वे स्यात्स्त्र्यर्थे नारीति तत्र च ॥ २८८५ ॥
36.2885 · p. 213
अनुष्टुप्
नरन्तु रामकर्पूरे सलिले च नपुंसकम् ।नरकः पुंसि निरये तथा स्यादसुरान्तरे ॥ २८८६ ॥
36.2886 · p. 213
अनुष्टुप्
नराङ्गं मेहने क्लीबं नराङ्गो ना वरण्डके ।नरेन्द्रो विषवैद्ये च मन्त्रवादिनि भूमिपे ॥ २८८७ ॥
36.2887 · p. 213
अनुष्टुप्

नरेन्द्रपत्नी-नाकुली

नरेन्द्रपत्नी भूमौ च राजपत्न्यामपि स्त्रियाम् ।नर्त्तकश्चारणे पुंसि नटे पोटगलेऽपि च ॥ २८८८ ॥
36.2888 · p. 214
अनुष्टुप्
नर्त्तकी लासिकायाञ्च करेण्वाञ्च स्त्रियां मता ।नर्त्तनप्रिय इत्युक्तो मयूरे त्रि तु यौगिके ॥ २८८९ ॥
36.2889 · p. 214
अनुष्टुप्
नर्मठः पुंसि षिङ्गे च चूचुके च प्रकीर्त्तितः ।नर्मदः केलिसचिवे रेवायां नर्मदा मता ॥ २८९० ॥
36.2890 · p. 214
अनुष्टुप्
नर्मरा नीरजे स्त्री भान्दुदरीमुरलासु च ।नर्मरं द्रुमकर्पूरे नाराचे मानवेऽर्जुने ॥ २८९१ ॥
36.2891 · p. 214
अनुष्टुप्
नलः पोटगले राज्ञि पितृदेवे कपीश्वरे ।नलन्तु कमले क्लीबं नलीनट्याम्प्रकीर्त्तिता ॥ २८९२ ॥
36.2892 · p. 214
अनुष्टुप्
नलदं स्यादुशीरेऽपि मांस्यां पुष्परसेऽपि नप् ।नलिनं नलिकायां क्ली पद्मे तु नलिनी त्रिषु ॥ २८९३ ॥
36.2893 · p. 214
अनुष्टुप्
सरसीस्वर्धुनीपद्मस्तम्बेषु नलिनी स्त्रियाम् ।नवः स्तुतौ ना त्रिर्नव्ये कार्पास्यान्तु नवा स्त्रियाम् ॥ २८९४ ॥
36.2894 · p. 214
अनुष्टुप्
नवनीतन्तु योगार्थे घृतस्य प्रकृतावपि ।नवनम्पूरणार्थे त्रिर्नवमी स्यादुमातिथौ ॥ २८९५ ॥
36.2895 · p. 214
अनुष्टुप्
सप्तलायान्नवायाञ्च मालायान्नवमालिका ।नश्वरं नाशशीलादौ त्रि दैन्यान्वितवाचि च ॥ २८९६ ॥
36.2896 · p. 214
अनुष्टुप्
नष्टः पलायितमृततिरोभूतेषु वाच्यवत् ।स्पृष्टमैथुनकन्यायां नष्टा स्त्रीलिङ्ग इष्यते ॥ २८९७ ॥
36.2897 · p. 214
अनुष्टुप्
नस्रो नासापुटेऽपि स्यादृषावपि पुमानयम् ।नहुषो द्वे मनुष्ये ना नागभेदे नृपान्तरे ॥ २८९८ ॥
36.2898 · p. 214
अनुष्टुप्
नाकः सूर्ये पुमानस्त्री स्वर्व्योम्नोर्द्वे तु पुत्रयोः ।दुःखाभाववति त्वेष वाच्यवन्नाक इष्यते ॥ २८९९ ॥
36.2899 · p. 214
अनुष्टुप्
नाकुर्मुन्यन्तरे शैले वल्मीके ना वनस्पतौ ।नाकुली कुक्कुटीकन्दे स्त्री रास्नाचव्ययोरपि ॥ २९०० ॥
36.2900 · p. 214
अनुष्टुप्

नाकुलम्-नाडी

यवतिक्तासर्पगन्धानामोषध्योरपि स्मृता ।ऊर्ध्वज्ञोरुपविष्टस्य भुजाभ्याञ्जङ्घयोर्द्वयम् ॥ २९०१ ॥
36.2901 · p. 215
अनुष्टुप्
बद्धावस्थानरूपे चासने क्ली नाकुलम्मतम् ।अथो नकुलसम्बन्धिन्यप्येतत्त्रिषु नाकुलम् ॥ २९०२ ॥
36.2902 · p. 215
अनुष्टुप्
नागो मेघे नागदन्त्याम्पुन्नागे नागकेसरे ।देहाऽनिलान्तरे मुस्ते नागवल्ल्याम्पुमान्मतः ॥ २९०३ ॥
36.2903 · p. 215
अनुष्टुप्
नागोऽस्त्री सीसके वङ्गे क्ली तु स्त्रीकारणान्तरे ।द्वयोर्गजे च सर्पे च तथा ग्राहाख्ययादसि ॥ २९०४ ॥
36.2904 · p. 215
अनुष्टुप्
स्थूले तु वाच्यवन्नागः क्रूराचारिणि च स्मृतः ।स्त्रियां तत्र च नागी स्यात् श्रेष्ठे पुंस्युत्तरस्थितः ॥ २९०५ ॥
36.2905 · p. 215
अनुष्टुप्
नागदन्तः पुमान्भित्तिशङ्कौ निर्यूहनामनि ।नागस्य च रदे नागदन्ती त्वौषधगुल्मके ॥ २९०६ ॥
36.2906 · p. 215
अनुष्टुप्
कुम्भानिकुम्भाद्यभिधे श्रीहस्तिन्यामपीष्यते ।नपुंसके नागदन्तमासनान्तर इष्यते ॥ २९०७ ॥
36.2907 · p. 215
अनुष्टुप्
यदूर्ध्वज्ञोः प्रसृतयोर्भुजयोर्जानुसंस्थयोः ।नागपाशः पुमान्स्त्रीणां करणे वरुणायुधे ॥ २९०८ ॥
36.2908 · p. 215
अनुष्टुप्
नागपुष्पस्तु पुन्नागे चम्पके नागकेसरे ।नागभूषणमित्येतद्धरितालेऽपि यौगिके ॥ २९०९ ॥
36.2909 · p. 215
अनुष्टुप्
नागरं मुस्तके शुण्ट्याञ्चुक्रे राजकशेरुणि ।नागरस्तु त्रिलिङ्गः स्याद्विदग्धे नगरोद्भवे ॥ २९१० ॥
36.2910 · p. 215
अनुष्टुप्
स्यान्नागवारिकस्तार्क्ष्ये गणस्थे राजकुञ्जरे ।हस्तिपे च मयूरे तु स द्वयोः परिकीर्त्तितः ॥ २९११ ॥
36.2911 · p. 215
अनुष्टुप्
नागोदर्युदरत्राणे भटानां त्रि तु यौगिके ।नाटकं रूपकभिदि नाटिका तूपरूपके ॥ २९१२ ॥
36.2912 · p. 215
अनुष्टुप्
नाटको नाटयितरि नतितर्यपि वाच्यवत् ।नाट्यं घोषाख्यलोहे क्ली नृत्ते तौर्यत्रिके तथा ॥ २९१३ ॥
36.2913 · p. 215
अनुष्टुप्
अथ नाट्यन्नाटयितव्येऽभिधेयवदिष्यते ।नाडी नाडीव्रणे ताले धमन्यर्धमुहूर्त्तयोः ॥ २९१४ ॥
36.2914 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्ना (wrong syllable)

नाली-नारं

सच्छिद्रदीर्घद्रव्येऽपि चर्यायां कुहनस्य च ।नक्षत्रे नासिकायां स्त्री नाली नाडिश्च नाटिवत् ॥ २९१५ ॥
36.2915 · p. 216
अनुष्टुप्
नाडीतरङ्गः काकोले हिण्डके रतहिण्डके ।नाथस्त्विन्द्रे पुमानेष स्यात्प्रभौ त्वभिधेयवत् ॥ २९१६ ॥
36.2916 · p. 216
अनुष्टुप्
द्वयोस्तु नाथो नाथेति याच्ञैश्वर्यादिके भवेत् ।नाथात उक्त आहारे पुमांश्चैव प्रजापतौ ॥ २९१७ ॥
36.2917 · p. 216
अनुष्टुप्
नादो ध्वनौ स्तोतरि ना नदसम्बन्धिनि त्रिषु ।नादेयो नागरङ्गे स्यान्नादेयी जलवेतसे ॥ २९१८ ॥
36.2918 · p. 216
अनुष्टुप्
कर्कर्याम्भूमिजम्ब्वाञ्च महोदर्याख्यमुस्तके ।कङ्गुष्ठेप्यथ नादेयं क्ली सिन्धुलवणे मतम् ॥ २९१९ ॥
36.2919 · p. 216
अनुष्टुप्
नदीसम्बन्धिनि त्वेष स्यन्नादेयोऽभिधेयवत् ।नानाऽव्ययं विनार्थेऽपि तथाऽनेकोभयार्थयोः ॥ २९२० ॥
36.2920 · p. 216
अनुष्टुप्
नाना स्त्रियां स्याद्भारत्यां जनन्यान्दुहितर्यपि ।नान्दिः कल्याणवृद्धौ स्त्री नाट्यारम्भार्चनान्तरे ॥ २९२१ ॥
36.2921 · p. 216
अनुष्टुप्
नापितस्तु द्वयोर्विप्रवैश्याजे व्यभिचारतः ।मर्त्यजात्यन्तरेऽम्बष्ठक्षत्रियासम्भवेऽपि च ॥ २९२२ ॥
36.2922 · p. 216
अनुष्टुप्
नाभिर्द्वयोः स्याज्जन्त्वङ्गे यस्य संज्ञा प्रतारिका ।रथचक्रस्य मध्यस्थपिण्डिकायाञ्च ना पुनः ॥ २९२३ ॥
36.2923 · p. 216
अनुष्टुप्
आद्यक्षत्रियभेदेऽन्त्यमनौ मुख्यमहीपतौ ।नाभि क्ली भारते वर्षे स्त्रियां कस्तूरिकामदे ॥ २९२४ ॥
36.2924 · p. 216
अनुष्टुप्
नामाऽस्त्री प्रातिपदिके संज्ञायां क्ली तु वारिणि ।अव्ययं त्वभ्युपगमरोषस्मरणविस्मये ॥ २९२५ ॥
36.2925 · p. 216
अनुष्टुप्
सम्भाव्यकुत्साप्राकाश्यविकल्ये नाम कीर्त्तितम् ।नायस्त्रि नेतरि प्राप्तौ ना नायी तु दिशि स्त्रियाम् ॥ २९२६ ॥
36.2926 · p. 216
अनुष्टुप्
नायको नायिका द्वे नेतरि स्त्रीपुंसयोर्भवेत् ।नायकस्त्रिः प्रभौ श्रेष्ठे हारमध्यमणौ तु ना ॥ २९२७ ॥
36.2927 · p. 216
अनुष्टुप्
नारं क्ली भारताद्वर्षाद्दक्षिणे प्रतिजानते ।कस्मिंश्चिदन्तरद्वीपे त्रि तु स्यान्नरयोगिनि ॥ २९२८ ॥
36.2928 · p. 216
अनुष्टुप्

नारी-नि

नारी तु योषित्तिन्तिड्योर्नारस्तर्णकतीरयोः ।आपो नारा इति प्रोक्तास्वप्सु लिङ्गं न निश्चितम् ॥ २९२९ ॥
36.2929 · p. 217
अनुष्टुप्
नारको नरके ना त्रिलिङ्गो नरकयोगिनि ।नारकीटोऽश्वकीटे स्यात्स्वदत्ताशाविहन्तरि ॥ २९३० ॥
36.2930 · p. 217
अनुष्टुप्
नारङ्गो नारङ्गद्रौ विटे ना पिप्पलीरसे ।यमजे तु द्वयोः क्ली तु नागरङ्गफले मतम् ॥ २९३१ ॥
36.2931 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ना (syllables merged)
नाराच्येषणिकायां स्त्री नाऽयोबाणाम्बुहस्तिनोः ।नारायणः पुमान्विष्णौ नरस्य सहचारिणि ॥ २९३२ ॥
36.2932 · p. 217
अनुष्टुप्
तस्यावतारभेदे च स्त्री तु नारायणी श्रियाम् ।पार्वत्याञ्च शतावर्यां गण्डक्याख्यसरित्यपि ॥ २९३३ ॥
36.2933 · p. 217
अनुष्टुप्
सुपार्श्वाख्यशिवस्थानस्थशिवायां विशेषतः ।नाराशंसः पुमान्यज्ञे चाग्नौ मन्त्रान्तरेऽपि च ॥ २९३४ ॥
36.2934 · p. 217
अनुष्टुप्
नाली त्रयी धान्यकाण्डे नाला चाब्जादिदण्डके ।नालन्तु रन्ध्रे शेफे च नपुंसकमुदीरितम् ॥ २९३५ ॥
36.2935 · p. 217
अनुष्टुप्
नालिका स्त्री चतुर्हस्तप्रमाणे युगसंज्ञके ।नवहस्तप्रमाणे च स्याद्रन्ध्रे नालकालयोः ॥ २९३६ ॥
36.2936 · p. 217
अनुष्टुप्
वेणुपात्रान्तरे चुल्लीरन्ध्रे शाकलतान्तरे ।कलम्बीशतपर्वादिशब्दैः ख्याते जलोद्भवे ॥ २९३७ ॥
36.2937 · p. 217
अनुष्टुप्
नालीकमम्बुजे क्लीबं नालीकस्तु शरे पुमान् ।नालीकिनी स्त्री पद्मिन्यान्नालीकवति तु त्रिषु ॥ २९३८ ॥
36.2938 · p. 217
अनुष्टुप्
नाविकस्तारयितरि त्रि तरीतरि नौकया ।अम्बष्ठाद्ब्राह्मणीजाते मर्त्त्यजात्यन्तरे द्वयोः ॥ २९३९ ॥
36.2939 · p. 217
अनुष्टुप्
नाशः पलायनध्वंसमरणानुपलब्धिषु ।नासा स्त्री नासिकायाञ्च गृहद्वारोर्ध्वदारुणि ॥ २९४० ॥
36.2940 · p. 217
अनुष्टुप्
नासिक्यावश्विनौ नासिक्या तु नासाभवे त्रिषु ।नाहस्तु बन्धने पुंसि कूटेऽपि परिकीर्त्तितः ॥ २९४१ ॥
36.2941 · p. 217
अनुष्टुप्
नि निवेशे भृशार्थे च नित्याऽर्थे संशयेऽव्ययम् ।क्षेपकौशलसामीप्याश्रयदानेषु बन्धने ॥ २९४२ ॥
36.2942 · p. 217
अनुष्टुप्

निकरः-निदाघः

राश्यधोभावविन्यासे मोक्षेऽन्तर्भाव एव च ।निकरो निवहे सारे न्यायदेयधने निधौ ॥ २९४३ ॥
36.2943 · p. 218
अनुष्टुप्
निकषः शाणफलके निकषा यातुमातरि ।निकायस्तु शरव्ये स्यात्समूहेऽपि सधर्मणाम् ॥ २९४४ ॥
36.2944 · p. 218
अनुष्टुप्
गृहे बहूनामेकत्र करणे परमात्मनि ।निकारस्तु तिरस्कारे धान्यस्योत्क्षेपणेऽपि च ॥ २९४५ ॥
36.2945 · p. 218
अनुष्टुप्
निकुम्भः कुम्भकर्णस्य तनये दन्तिकौषधौ ।निकुरुम्बं समूहे चाङ्कुरेऽपि च नपुंसकम् ॥ २९४६ ॥
36.2946 · p. 218
अनुष्टुप्
निकृतो विप्रलब्धेऽपि हते विप्रकृते त्रिषु ।निकृन्तिर्भर्त्सने क्षेपे शठे शाठ्येऽपि च स्त्रियाम् ॥ २९४७ ॥
36.2947 · p. 218
अनुष्टुप्
निक्षेपस्तु निधाने स्वात्तथैवोपनिधावपि ।निगमो नगरे वेदे निश्चये च वणिक्पथे ॥ २९४८ ॥
36.2948 · p. 218
अनुष्टुप्
मार्गे वणिज्यपि कटे ग्रन्थभेदेऽर्थशासके ।भोजने क्ली निगरणं गले निगरणः पुमान् ॥ २९४९ ॥
36.2949 · p. 218
अनुष्टुप्
निग्रहो भर्त्सने पुंसि मर्यादायाञ्च बन्धने ।निघातस्त्वनुदात्ताख्यस्वरे निहननेऽपि ना ॥ २९५० ॥
36.2950 · p. 218
अनुष्टुप्
निघातिका लौहकारैर्यत्र निक्षिप्य हन्यते ।कूटेन लोहं तत्र स्त्री त्रिषु तु स्यान्निहन्तरि ॥ २९५१ ॥
36.2951 · p. 218
अनुष्टुप्
निचुम्पुणस्तु चन्द्रेऽपि समुद्रेऽवभृथे पुमान् ।निचुलस्तु निचोले स्यादिञ्जलाख्यद्रुमेऽपि च ॥ २९५२ ॥
36.2952 · p. 218
अनुष्टुप्
निचोलः प्रच्छदपटे कञ्चुके च प्रकीर्त्तितः ।निजं त्रि नित्ये चात्मीये क्ली स्वभावेऽथवाऽऽत्मनि ॥ २९५३ ॥
36.2953 · p. 218
अनुष्टुप्
कृत्तिकायान्तृतीयस्यान्दूर्वायां स्त्री नितत्निवाक् ।नितम्बो रोधसि स्कन्धे स्त्रियाः पश्चात्कटावपि ॥ २९५४ ॥
36.2954 · p. 218
अनुष्टुप्
कटके पर्वतस्यापि तथैव कटिमात्रके ।नित्यं तु सन्ततेऽपि स्यात् शाश्वते चाभिधेयवत् ॥ २९५५ ॥
36.2955 · p. 218
अनुष्टुप्
नित्यशङ्की मृगे द्वे स्यात्रिस्तु स्यान्नित्यशङ्किते ।निदाघो ग्रीष्मकाले स्यादुष्णस्वेदाम्बुनोरपि ॥ २९५६ ॥
36.2956 · p. 218
अनुष्टुप्

निदानं-निरञ्जना

निदानमवदानेऽपि खण्डनेऽप्यादिकारणे ।पतञ्जलेः सूत्रभेदे कारणे वत्सदाम्नि च ॥ २९५७ ॥
36.2957 · p. 219
अनुष्टुप्
निदिग्धिका स्त्रियामुक्ता कण्टकार्यां तथैव च ।गिरिप्रियेति विख्याते क्षुद्रवातिङ्गिनान्तरे ॥ २९५८ ॥
36.2958 · p. 219
अनुष्टुप्
निदेशः शासनेऽपि स्यात्कथनोपातन्योरपि ।निदेशनस्तु पुंसि स्याद्दशहस्तप्रमाणके ॥ २९५९ ॥
36.2959 · p. 219
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त (wrong syllable)
क्ली त्वाज्ञायाञ्च दाने च न तु ना ण्यन्तकर्मणि ।निन्द्रालुः सुनिषण्णाख्यजलशाके पुमान्मतः ॥ २९६० ॥
36.2960 · p. 219
अनुष्टुप्
निद्राशीले तु निद्रालुरभिधेयवदिष्यते ।निधनोऽस्त्री सामभक्तौ पञ्चम्यां कुलनाशयोः ॥ २९६१ ॥
36.2961 · p. 219
अनुष्टुप्
निधा स्त्रियां निधाने स्यात्तथा पाशकदम्बके ।भवेन्निधुवनं कम्पे सुरते च नपुंसकम् ॥ २९६२ ॥
36.2962 · p. 219
अनुष्टुप्
निन्दा स्यादपवादेऽपि कुत्सायाञ्च तथा स्त्रियाम् ।निपातः पुंस्यधःपाते चादिप्रभृतिकेष्वपि ॥ २९६३ ॥
36.2963 · p. 219
अनुष्टुप्
निभं व्याजेऽथ सदृशे स्यादुत्तरपदं त्रिषु ।निमित्तं लक्ष्यहेत्वोश्च शुभादेः सूचकेऽपि नप् ॥ २९६४ ॥
36.2964 · p. 219
अनुष्टुप्
निमीलनं निमेषे च मुकुलीभाव इष्यते ।निमेषनिमिषौ काष्ठाऽष्टादशांशे निमीलने ॥ २९६५ ॥
36.2965 · p. 219
अनुष्टुप्
निम्नगा तु स्त्रियान्नद्यान्त्रि तु स्यान्निम्नगन्तरि ।नियतिर्नियमे च स्त्री दैवे च परिकीर्त्तिता ॥ २९६६ ॥
36.2966 · p. 219
अनुष्टुप्
नियन्ता सारथौ पुंसि भेद्यवत्तु नियामके ।नियमस्तु प्रतिज्ञायामाज्ञायां च नियन्त्रणे ॥ २९६७ ॥
36.2967 · p. 219
अनुष्टुप्