कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

प (5/7)

सरस्वत्यां च केषाञ्चिद्भोगवत्यामपीष्यते ।पूत्यण्डस्तु द्वयोरण्डकारकाख्येऽल्पपक्षिणि ॥ ३५४७ ॥
37.3547 · p. 263
अनुष्टुप्
गन्धकीटेऽपि पूत्यण्डा द्वयोः कस्तूरिकामृगे ।पूरः पुनर्नवायां च नद्यादेर्जलबृंहणे ॥ ३५४८ ॥
37.3548 · p. 263
अनुष्टुप्
खाद्यान्तरे व्रणस्यापि संशुद्धौ पुंसि कीर्त्तितः ।प्राणायामे पूरकाख्ये बीजपूरद्रुमेऽपि च ॥ ३५४९ ॥
37.3549 · p. 263
अनुष्टुप्
पूरी स्त्री वंशवाद्येऽपि खाद्यभेदे प्रकीर्त्तिता ।प्रपूरणे तु पूरो ना पूरापि स्त्रीत्व इष्यते ॥ ३५५० ॥
37.3550 · p. 263
अनुष्टुप्
स्यात्पूरयितपूरित्रोः पूरको भेद्यलिङ्गकः ।पूरकस्तु कलाये ना पूरेऽपि गुणकेऽपि च ॥ ३५५१ ॥
37.3551 · p. 263
अनुष्टुप्
प्राणायामान्तरे पिण्डभेदे स्याद्बीजपूरके ।अपूपभेदे तु स्त्रीत्वे पूरिकेति प्रकीर्त्तिता ॥ ३५५२ ॥
37.3552 · p. 263
अनुष्टुप्

पूरणं-पृतना

पूरणं पूर्त्तिकर्मण्यना पूरयतेर्युचि ।पूरणा पूरणी तु स्त्री शाल्मलौ च तथाल्पके ॥ ३५५३ ॥
37.3553 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पुनर्नवाजातिभेदे त्रि तु स्यात्पूर्त्तिसाधने ।[समुद्रसेतौ तु] पुमान्पूरणः परिकीर्त्तितः ॥ ३५५४ ॥
37.3554 · p. 264
अनुष्टुप्
पूर्णं क्लीबं जले पूर्त्तौ पूर्णा स्त्री पूर्णिमातिथौ ।पञ्चमी दशमी पञ्चदशीष्वपि तिथिष्वथ ॥ ३५५५ ॥
37.3555 · p. 264
अनुष्टुप्
पूरिते त्रि समग्रे च शरस्याकर्णकर्षणे ।पूर्णं शक्ते समग्रे ना पूरिते त्वभिधेयवत् ॥ ३५५६ ॥
37.3556 · p. 264
अनुष्टुप्
पूर्णकः स्वर्णपुच्छे स्यान्नासाच्छिन्यां तु पूर्णिका ।पूर्णिमायां चाथ पूर्णसुखादौ त्रिषु पूर्णकः ॥ ३५५७ ॥
37.3557 · p. 264
अनुष्टुप्
पूर्णकूटो द्वयोः कूटपूरिचाषविहङ्गयोः ।पूर्णकोशस्त्वपूपे ना पूर्णकोशौषधिभिदि ॥ ३५५८ ॥
37.3558 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 धि (wrong syllable)
पूर्णपात्रोऽस्त्रियां मित्रैर्वस्त्रमाल्यादि यद्बलात् ।आच्छिद्योत्सवकालेषु गृह्यते तत्र कीर्त्तितः ॥ ३५५९ ॥
37.3559 · p. 264
अनुष्टुप्
यस्य प्रमाणं मुष्टीनां षट्पञ्चाशच्छ्तद्वयम् ।तत्रापि तण्डुलाद्येऽथ त्रिस्तु स्यात्पूर्णभाजने ॥ ३५६० ॥
37.3560 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पूर्णानकं तूत्सवेषु बलादाकृष्य गृह्यते ।वस्त्रमाल्यादियन्मित्रैस्तत्र स्त्री त्वानके मृते ॥ ३५६१ ॥
37.3561 · p. 264
अनुष्टुप्
पूर्त्तं त्रि रक्षिते चूर्णे क्ली तु खातादिकर्मणि ।पूर्वा प्राच्यां स्त्रियां पूर्वस्त्र्यपरप्रतियोगिनि ॥ ३५६२ ॥
37.3562 · p. 264
अनुष्टुप्
दिग्देशकालविषये पुराणेऽग्रे तथाऽऽदिमे ।पूर्वाः पितामहाद्येषु पूर्वजेषु नृभूमनि ॥ ३५६३ ॥
37.3563 · p. 264
अनुष्टुप्
पूर्वेद्युः [स्तु प्रभाते] स्यात्तथैव धर्मवासरे ।पूषा वृद्धौ द्वयोः पूषो ब्रह्मदारुद्रुमे पुमान् ॥ ३५६४ ॥
37.3564 · p. 264
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
पृक्षोन्नेपि च संग्रामे पुँल्लिङ्गः परिकीर्त्तितः ।पृतना तु स्त्रियां युद्धे सेनायामपि कीर्त्तिता ॥ ३५६५ ॥
37.3565 · p. 264
अनुष्टुप्

पृतना-पृश्निः

सेनाभेदेपि वाहिन्याः पृतना त्रिगुणात्मनि ।पृथो हस्ततले पुंसि पृथा कुन्त्यां स्त्रियां मता ॥ ३५६६ ॥
37.3566 · p. 265
अनुष्टुप्
त्रयोदशाङ्गुलमिते मानेऽपि परिकीर्त्तिता ।पृथग्जनस्तु मूर्खेऽपि नीचेऽपि च पुमान्मतः ॥ ३५६७ ॥
37.3567 · p. 265
अनुष्टुप्
पृथिवी तु स्त्रियां भूमावाकाशेऽपि प्रकीर्त्तिता ।पृथिवीपतिरुक्तो ना ऋषभाभिधभेषजे ॥ ३५६८ ॥
37.3568 · p. 265
अनुष्टुप्
धर्मराजे च भूपाले तथैव नरकासुरे ।पृथुर्वैन्ये त्रिशङ्कोश्च जनकेऽप्यनरण्यजे ॥ ३५६९ ॥
37.3569 · p. 265
अनुष्टुप्
राजान्तरे कृष्णपक्ष्येऽग्नौ विस्तीर्णे तु स त्रिषु ।तत्र स्त्रियां पृथुः पृथ्वी द्वयं तत्कृष्णजीरके ॥ ३५७० ॥
37.3570 · p. 265
अनुष्टुप्
पृथ्वी तु स्त्री पृथिव्यां स्यात्पृथुर्वाष्प्यौषधेऽस्त्रियाम् ।स्त्रीपुंसयोः पृथुरयम् वानरे परिकीर्त्तितः ॥ ३५७१ ॥
37.3571 · p. 265
अनुष्टुप्
पृथुकः पुंसि चिपिटे शिशौ स्यादभिधेयवत् ।पृथुचित्रः कुण्ठमितः धान्यसंग्राहके पुमान् ॥ ३५७२ ॥
37.3572 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
गृहस्थे स्थूलचित्रे तु वाच्यवत्परिकीर्त्तितः ।पृथुच्छदः शाकवृक्षे स्थूलपर्णे पुनस्त्रिषु ॥ ३५७३ ॥
37.3573 · p. 265
अनुष्टुप्
पृथुरोमा द्वयोर्मत्स्ये स्थूलरोम्णि त्रिषु स्मृतः ।पृथुहस्तस्त्रिषु स्थूलकरे पुंसि तु हस्तिनः ॥ ३५७४ ॥
37.3574 · p. 265
अनुष्टुप्
ये करस्याङ्गुलेरूर्ध्वं सप्तांशास्तेषु सप्तमे ।पृथ्वी भूमौ महत्यां च त्वक्पत्र्यां कृष्णजीरके ॥ ३५७५ ॥
37.3575 · p. 265
अनुष्टुप्
पृथ्वीका पुनरेलायां तथा स्यात्कृष्णजीरके ।पृदाकुर्गोत्रकदृष्यन्तरे पुंसि प्रकीर्त्तितः ॥ ३५७६ ॥
37.3576 · p. 265
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
पृदाकुर्वृश्चिके व्याघ्रे सर्पचित्रकयोरनप् ।पृश्निर्ना किरणे स्वर्गे सूर्ये देवान्तरेषु च ॥ ३५७७ ॥
37.3577 · p. 265
अनुष्टुप्
क्लीबं तुन्ने च साम्नोश्च बृहद्भिरिति गीतयोः ।त्रिषु त्वल्पवपुर्जन्तौ बिन्दुचित्रपशावपि ॥ ३५७८ ॥
37.3578 · p. 265
अनुष्टुप्

पृश्नयः-पेशः

विराजः पृश्नय इति त्वत्रवर्णनिबन्धनः ।बिन्दुमत्त्वनिमित्तो वा प्रयोग इति संशयः ॥ ३५७९ ॥
37.3579 · p. 266
अनुष्टुप्
पृषत्पुण्ड्रे च बिन्दौ च पशुगात्रादिबिन्दुषु ।तथा दध्युपसिक्ताज्ये कुविन्दस्य च तन्त्रके ॥ ३५८० ॥
37.3580 · p. 266
अनुष्टुप्
अथ द्वे मृगभिद्येष त्रिस्तु स्याच्छ्वेतबिन्दुके ।पृषतः पृश्निसंज्ञे स्यात्पुँल्लिङ्गो देहवैकृते ॥ ३५८१ ॥
37.3581 · p. 266
अनुष्टुप्
श्वेतबिन्दुयुते तु त्रिर्मृगभेदे द्वयोर्मतः ।शम्बरस्तु सबिन्दुश्चेत्पृषतो साविति स्मृते ॥ ३५८२ ॥
37.3582 · p. 266
अनुष्टुप्
पृषातको दध्नि साज्ये घृतदुग्धे पृषातकम् ।पृष्ठमन्त्यांशमात्रेऽपि पश्चादंशे तनोरपि ॥ ३५८३ ॥
37.3583 · p. 266
अनुष्टुप्
चतुर्षु सामस्तोत्रेषु क्रतोः सामान्तरे कुशे ।पृष्ठशृङ्गी पुमान्दंशभीरौ षण्डे वृकोदरे ॥ ३५८४ ॥
37.3584 · p. 266
अनुष्टुप्
स्यात्पृष्ठहायनो धान्यान्तरे द्वे तु मतङ्गजे ।पेचको ना हस्तिपुच्छमूलोपान्ते द्वयोः पुनः ॥ ३५८५ ॥
37.3585 · p. 266
अनुष्टुप्
उलूके पेचिका तु स्त्री पिङ्गलासंज्ञपक्षिणि ।पेटकः पेटिकावृन्दे द्वयोर्ना पिटके स्मृतः ॥ ३५८६ ॥
37.3586 · p. 266
अनुष्टुप्
पेटा दास्यां स्त्री त्रि पेटी पेडायां पेटके त्रिषु ।पेत्वस्तप्ते भुवोंऽशे ना पशौ गालितमुष्कके ॥ ३५८७ ॥
37.3587 · p. 266
अनुष्टुप्
मेषे तु पेत्वः पेत्वीति मिथुने परिकीर्त्यते ।पेयस्तु त्रिषु पातव्ये रक्षितव्ये च कीर्त्तितः ॥ ३५८८ ॥
37.3588 · p. 266
अनुष्टुप्
पेया तु विरलायां स्त्री यवाग्वां परिकीर्त्तिता ।पेयं पातव्यपयसोः पेया श्राणाच्छमण्डयोः ॥ ३५८९ ॥
37.3589 · p. 266
अनुष्टुप्
पेरुर्नाऽब्धौ रवौ शैले कलविङ्के त्वयं द्वयोः ।पेलवन्तु त्रिषु मृदौ मरिचे तु नपुंसकम् ॥ ३५९० ॥
37.3590 · p. 266
अनुष्टुप्
पेशलस्तु मतश्चारौ दक्षे चाप्यभिधेयवत् ।पेशो रूपे सुवर्णेऽपि सकारान्तं नपुंसकम् ॥ ३५९१ ॥
37.3591 · p. 266
अनुष्टुप्

पेशी-पौषः

पेशी सुपक्वकलिके मांस्यां खड्गपिधानके ।मांसपिण्ड्यां तथैवाण्डभेदेप्येषा स्त्रियाम्मता ॥ ३५९२ ॥
37.3592 · p. 267
अनुष्टुप्
पोगण्डस्तु द्वयोर्यूनि विकलाङ्गे तु भेषवत् ।भवेत्पोटगलः काशे स्तम्बेऽपि नडसंज्ञके ॥ ३५९३ ॥
37.3593 · p. 267
अनुष्टुप्
पोटा दास्यां राज्यकर्त्यां स्त्रीपुंसाङ्कनपुंसके ।पुमान्पोडगलः काशे नडे मत्स्यान्तरेऽपि च ॥ ३५९४ ॥
37.3594 · p. 267
अनुष्टुप्
वैकरञ्जाख्यसर्पाणां त्रयाणां च क्वचिन्मतः ।पोतोऽपत्ये दशाऽब्देभे शिशौ द्वे तरुणे पशौ ॥ ३५९५ ॥
37.3595 · p. 267
अनुष्टुप्
यानपात्रे तु पोतो ना गृहस्थाने च वाससि ।पोत्रं वज्रे मुखाग्रे च सूकरस्य हलस्य च ॥ ३५९६ ॥
37.3596 · p. 267
अनुष्टुप्
पोला तु परिखायाञ्च द्वारयन्त्रणतालके ।पोषयित्नुः पुमान्मेघे कोकिले तु द्वयोर्मतः ॥ ३५९७ ॥
37.3597 · p. 267
अनुष्टुप्
पौंस्नं पुंसवने क्लीबं पुंसः सम्बन्धिनि त्रिषु ।पौंस्यं बले च युद्धे च नपुंसकमुदीरितम् ॥ ३५९८ ॥
37.3598 · p. 267
अनुष्टुप्
पौरः पुमाञ्श्वेतशालौ बलदेवे च कीर्त्तितः ।पुरसम्बन्धिनि त्रि स्यात्क्लीबं तु ध्यामकौषधे ॥ ३५९९ ॥
37.3599 · p. 267
अनुष्टुप्
पौरुषं नपि भावे च पुंसः कर्मणि चोच्यते ।शौर्ये रेतसि च त्रिस्तु पुंसम्बन्धिन्युदीर्यते ॥ ३६०० ॥
37.3600 · p. 267
अनुष्टुप्
ऊर्ध्वविस्तृतदोःपाणि नृमानेपि तथा भवेत् ।पौरुषेयः कृते पुंसा विकारे पुरुषस्य च ॥ ३६०१ ॥
37.3601 · p. 267
अनुष्टुप्
त्रिषु ना सङ्खवधयोः पुरुषस्य पदान्तरे ।पौरोहितमथर्वस्वप्यथ पौरोधसे त्रिषु ॥ ३६०२ ॥
37.3602 · p. 267
अनुष्टुप्
पौर्णमासी पूर्णिमायां पौर्णमासो मखान्तरे ।पौलस्त्यस्तु कुबेरेऽपि रावणेऽपि पुमान्मतः ॥ ३६०३ ॥
37.3603 · p. 267
अनुष्टुप्
द्वयोः पुलस्त्यवंशे स्यात्क्लीबं युद्धे प्रकीर्त्तितम् ।पौषस्तु तैषमासे स्यात्पौषे सामान्तरे मतम् ॥ ३६०४ ॥
37.3604 · p. 267
अनुष्टुप्

पौषी-प्रखरः

पौषी तु पुष्यनक्षत्रयुक्तायां पूर्णिमातिथौ ।प्र प्रकर्षे गताद्यर्थेऽप्यव्ययं परिकीर्त्तितम् ॥ ३६०५ ॥
37.3605 · p. 268
अनुष्टुप्
प्रकरः स्यात्पुमान्सङ्घे विशीर्णकुसुमादिषु ।नपुंसकं जोङ्गके स्त्री नाट्याङ्गे चत्वरावनौ ॥ ३६०६ ॥
37.3606 · p. 268
अनुष्टुप्
प्रघट्टके प्रकरणं प्रकीर्णौ रूपकान्तरे ।प्रकाण्डः पादपस्योक्तो मूलस्कन्धान्तरेऽपि च ॥ ३६०७ ॥
37.3607 · p. 268
अनुष्टुप्
विटपेऽपि प्रशस्तेऽपि पुंनपुंसकलिङ्गकः ।प्रकारः पुंसि सादृश्ये भेदेऽपि परिकीर्त्तितः ॥ ३६०८ ॥
37.3608 · p. 268
अनुष्टुप्
प्रकाशोऽर्चिषि दीप्तौ ना तुल्ये स्फुटेऽपि त्रिषु ।प्रकीर्णकं त्रिः संकीर्णे चामरे क्ली द्वयोर्हये ॥ ३६०९ ॥
37.3609 · p. 268
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 4 टेऽ (syllables merged)
प्रकीर्यः पूतिकरजे विनिकीर्णे तु वाच्यवत् ।प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे ॥ ३६१० ॥
37.3610 · p. 268
अनुष्टुप्
कारणे शिश्नयोन्योश्च जन्त्वमात्यादिमातृषु ।प्रत्ययात्पूर्वभागे च छन्दस्यष्टस्वरेऽपि च ॥ ३६११ ॥
37.3611 · p. 268
अनुष्टुप्
अत्युक्ताख्यं च चतुरशीत्यब्दे सलिलाभिधे ।स्यात्प्रकोष्ठस्तु हस्तस्य कफोणिमणिबन्धयोः ॥ ३६१२ ॥
37.3612 · p. 268
अनुष्टुप्
मध्येऽलिके च भूपालसद्मकक्ष्यान्तरेऽपि च ।अथ प्रक्रम आरम्भेऽवसरेऽपि क्रमेऽपि च ॥ ३६१३ ॥
37.3613 · p. 268
अनुष्टुप्
प्रमाणभेदेऽप्युक्तोऽसौ द्विपदस्त्रिपदोऽपि वा ।प्रक्रिया चाधिकारेऽपि प्रकारे शब्दसाधने ॥ ३६१४ ॥
37.3614 · p. 268
अनुष्टुप्
प्रक्षरं क्ली तुरङ्गादेः संनाहे प्रखराह्वये ।त्रिषु त्वतिक्षरितरि प्रक्षरः परिकीर्त्तितः ॥ ३६१५ ॥
37.3615 · p. 268
अनुष्टुप्
प्रखरोऽस्त्री तुरङ्गादेः संनाहे प्रक्षराह्वये ।द्वे कुक्कुरे चाश्वतरे खलातिखरयोस्त्रिषु ॥ ३६१६ ॥
37.3616 · p. 268
अनुष्टुप्

प्रगाढः-प्रज्ञानं

प्रगाढस्तु भृशे चापि कृच्छ्रे चाप्यभिधेयवत् ।प्रग्रहस्तु तुलासूत्रे वन्द्यामारग्वधद्रुमे ॥ ३६१७ ॥
37.3617 · p. 269
अनुष्टुप्
अश्वादिरश्मौ रश्मौ च तथा नियमनेऽर्चने ।प्रग्राहस्तु तुलासूत्रे तथैवाश्वादिरश्मिषु ॥ ३६१८ ॥
37.3618 · p. 269
अनुष्टुप्
प्रग्रीवमस्त्री कलशे ग्रीवाप्रासादयोरपि ।प्रघणस्ताम्रकुम्भे स्यादलिन्दे लोहमुद्गरे ॥ ३६१९ ॥
37.3619 · p. 269
अनुष्टुप्
प्रघाणस्तु तरुस्कन्धेप्यलिन्देऽपि पुमान्मतः ।प्रचण्डो दुर्वहे श्वेतकरवीरे प्रतापिनि ॥ ३६२० ॥
37.3620 · p. 269
अनुष्टुप्
प्रचलाको मयूरस्य शिखण्डे पुंसि कीर्त्तितः ।बिम्बाख्यकृकलासे तु नानावर्णकरे द्वयोः ॥ ३६२१ ॥
37.3621 · p. 269
अनुष्टुप्
प्रचलाकी मयूरे च सर्पे चापि द्वयोर्मतः ।प्रचारः पुंसि खड्गे च स्यात् प्रायश्चरणेपि च ॥ ३६२२ ॥
37.3622 · p. 269
अनुष्टुप्
प्रचेताः वरुणेग्नौ ना त्रिषु तूत्कृष्टचेतसि ।प्रचोदनी कण्टकार्यां स्त्रीलिङ्गे परिकीर्त्तिता ॥ ३६२३ ॥
37.3623 · p. 269
अनुष्टुप्
प्रचोदना प्रेरणायां तथैव स्यात्प्रचोदनम् ।प्रच्छन्नं छादिते त्रि स्यादन्तर्द्वारे गृहस्य नप् ॥ ३६२४ ॥
37.3624 · p. 269
अनुष्टुप्
क्लीबं प्रजननं प्रोक्तं प्रजातावप्युपस्थयोः ।प्रजा जने च संताने स्त्रियामेषा प्रकीर्त्तिता ॥ ३६२५ ॥
37.3625 · p. 269
अनुष्टुप्
प्रजाकरस्तु खड्गे ना योगार्थे तु यथायथम् ।प्रजागमस्तु पुंसि स्यात् प्रजाया आगमे तथा ॥ ३६२६ ॥
37.3626 · p. 269
अनुष्टुप्
एकाहाहीनसत्राख्ययज्ञक्रतुषु च स्मृतः ।प्रजापतिश्च दक्षादौ महीपाले विधातरि ॥ ३६२७ ॥
37.3627 · p. 269
अनुष्टुप्
प्रजावती भ्रातृपत्न्यां प्रजावत्तु त्रि सप्रजे ।प्रज्ञस्तु पण्डिते त्रि स्यात्प्रज्ञाबुद्धौ स्त्रियां मता ॥ ३६२८ ॥
37.3628 · p. 269
अनुष्टुप्
प्रज्ञानं तु मतौ चिह्ने नपुंसकमुदीरितम् ।त्रिषु प्रज्वलितं दग्धे दीप्ते दीपित एव च ॥ ३६२९ ॥
37.3629 · p. 269
अनुष्टुप्

प्रणयः-प्रतिग्राहः

प्रणयः स्यात्परिचये विस्रम्भे प्रसरेऽपि च ।याञ्चासौहृदनिर्माणेष्वपि पुंसि प्रकीर्त्तितः ॥ ३६३० ॥
37.3630 · p. 270
अनुष्टुप्
प्रणवस्तु पुमान्स्तुत्यामोंकारेऽपि प्रकीर्त्तितः ।प्रणादस्तु पुमांस्तारशब्दे च श्रवणामये ॥ ३६३१ ॥
37.3631 · p. 270
अनुष्टुप्
प्रणाप्यो सम्मते चापि निष्कामे चाभिधेयवत् ।प्रणिधानं प्रयत्ने स्यात्समाधौ च प्रवेशने ॥ ३६३२ ॥
37.3632 · p. 270
अनुष्टुप्
प्रणिधिः प्रणिधाने च प्रार्थनेऽपि चरेऽपि च ।त्रिषु प्रणिहितं प्राप्ते न्यस्तेऽपि च समाहिते ॥ ३६३३ ॥
37.3633 · p. 270
अनुष्टुप्
प्रणीतः संस्कृताग्नौ ना यज्ञपात्रान्तरे स्त्रियाम् ।त्रिषु क्षिप्तोपसंपन्नविहितेषु प्रवेशिते ॥ ३६३४ ॥
37.3634 · p. 270
अनुष्टुप्
प्रततं वितते चापि क्षुण्णे चाप्यभिधेयवत् ।प्रततिर्वल्लिविस्तारवीरुत्सु स्त्री प्रकीर्त्तिता ॥ ३६३५ ॥
37.3635 · p. 270
अनुष्टुप्
प्रतलं पातालभेदे तताङ्गुलिकरे पुमान् ।प्रतापो ना प्रभावेऽपि भृशतापे प्रकीर्त्तितः ॥ ३६३६ ॥
37.3636 · p. 270
अनुष्टुप्
प्रतापसो ना श्वेतार्के मृदुशृङ्गमृगे द्वयोः ।प्रतारिका स्त्रियां नाभौ वञ्चके ना प्रतारकः ॥ ३६३७ ॥
37.3637 · p. 270
अनुष्टुप्
प्रति प्रतिनिधावित्थम्भूताख्यानाभिमुख्ययोः ।मात्राऽर्थभागवीप्सासु लक्षणप्रतिदानयोः ॥ ३६३८ ॥
37.3638 · p. 270
अनुष्टुप्
प्रतिकाशः प्रतीकाशस्तुल्यार्थावुत्तरे पदे ।मूलस्याधःप्रदेशेपि गजानां पूर्वपादयोः ॥ ३६३९ ॥
37.3639 · p. 270
अनुष्टुप्
स्त्रियां प्रतिकृतिः प्रोक्ता प्रतिमाप्रतिकारयोः ।तथा प्रतिनिधावेषा प्रतिकृतिः परिकीर्त्तिता ॥ ३६४० ॥
37.3640 · p. 270
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 प्रति (syllable split)
प्रतिकृष्टं मतं गुह्यो द्विरावृत्या च कर्षिते ।प्रतिग्रहः क्रियाकारे सैन्यपृष्ठे पतद्ग्रहे ॥ ३६४१ ॥
37.3641 · p. 270
अनुष्टुप्
द्विजेभ्यो विधिवद्देये तद्ग्रहे स्वीकृतावपि ।प्रतिग्राहयतेस्त्वर्थे प्रतिग्राहश्च तद्ग्रहे ॥ ३६४२ ॥
37.3642 · p. 270
अनुष्टुप्

प्रतिग्राहः-प्रतिष्ठा

प्रतिग्राहः स्वीकरणे सैन्यपृष्ठे पतद्ग्रहे ।द्विजेभ्यो विधिवद्देये तद्ग्रहे च ग्रहान्तरे ॥ ३६४३ ॥
37.3643 · p. 271
अनुष्टुप्
प्रतिघस्तु प्रतिहतौ स्यात्क्रोधवधयोरपि ।प्रतिदानं परीवर्त्तन्यासद्रव्यस्य चार्पणे ॥ ३६४४ ॥
37.3644 · p. 271
अनुष्टुप्
पुंसि प्रतिदिवाऽह्नि स्यादपराह्णेऽपि च स्मृतः ।प्रतिपत्तिः प्रवृत्तौ च प्रतिभाज्ञानयोः स्त्रियाम् ॥ ३६४५ ॥
37.3645 · p. 271
अनुष्टुप्
प्रागल्भ्ये गौरवे प्राप्तौ विश्वासेऽपि प्रकीर्त्तिता ।प्रतिपत् स्त्री मता बोधे पक्षस्याद्यतिथावपि ॥ ३६४६ ॥
37.3646 · p. 271
अनुष्टुप्
स्याद्बहिष्पवमानस्य प्रथमायां तथा ऋचि ।प्रतिपन्नोऽन्यलिङ्गः स्याद्विज्ञानेऽङ्गीकृतेऽपि च ॥ ३६४७ ॥
37.3647 · p. 271
अनुष्टुप्
बोधके त्रिषु खट्वाङ्ग्याधारे स्यात्प्रतिपादकम् ।स्त्रीनपुंसकयोर्दाने ज्ञापने प्रतिपादना ॥ ३६४८ ॥
37.3648 · p. 271
अनुष्टुप्
प्रतिभा प्रतिभासे स्त्री प्रतिभो ना विदूषके ।अथाऽभिधेयवत्प्रोक्तः प्रतिभः प्रतिभातरि ॥ ३६४९ ॥
37.3649 · p. 271
अनुष्टुप्
क्लीबं प्रतिभयं भीतौ त्रिषु तु स्याद्भयानके ।प्रतिमा तु प्रतिकृतौ गजानां दन्तबन्धने ॥ ३६५० ॥
37.3650 · p. 271
अनुष्टुप्
प्रतिमानं प्रतिकृतौ गजदन्तद्वयान्तरे ।प्रतियत्नस्तु संस्कार उपग्रहणलिप्सयोः ॥ ३६५१ ॥
37.3651 · p. 271
अनुष्टुप्
प्रतिशिष्टं निरस्ते चाप्याहूय प्रेषिते त्रिषु ।प्रतिश्रयस्तु विज्ञेयः स्थाने गोष्ठ्यां तथा पुमान् ॥ ३६५२ ॥
37.3652 · p. 271
अनुष्टुप्
प्रत्याहारे तथा सत्रशाले मण्डप आश्रये ।प्रतिष्कशस्त्रिः सहाये प्रष्ठे च प्रतिगन्तरि ॥ ३६५३ ॥
37.3653 · p. 271
अनुष्टुप्
प्रतिष्कशस्त्वयं द्यूते पुँल्लिङ्गः परिकीर्त्तितः ।प्रतिष्ठा स्थितिमाहात्म्यस्थानगौरवभूमिषु ॥ ३६५४ ॥
37.3654 · p. 271
अनुष्टुप्

प्रतिसरः-प्रत्यक्च्छ्रेणी

यागसिद्धौ तथाच्छन्दविशेषे षोडशाक्षरे ।अस्त्री प्रतिसरः सैन्यजघने हस्तसूत्रके ॥ ३६५५ ॥
37.3655 · p. 272
अनुष्टुप्
पुमांस्तु व्रणशुद्धौ चाप्यारक्षे चैव मण्डले ।अथासतीच्छद्मदूत्यामेकदेशे च वेश्मनः ॥ ३६५६ ॥
37.3656 · p. 272
अनुष्टुप्
स्त्रियां प्रतिसरा त्रिर्नियोज्ये प्रतिसरो मतः ।प्रतिसृष्टः प्रेषिते स्यात्प्रत्याख्याते च वाच्यवत् ॥ ३६५७ ॥
37.3657 · p. 272
अनुष्टुप्
प्रतिस्पर्शः सहाये स्याद्वार्त्ताहरपुरोगयोः ।भवेत्प्रतिहतं द्विष्टे प्रतिस्खलितरुद्धयोः ॥ ३६५८ ॥
37.3658 · p. 272
अनुष्टुप्
प्रतिहर्त्ता त्रिषु ज्ञेयः प्रतिनेतरि तस्करे ।प्रतिहारो द्वारपाले द्वारे प्रतिहृतावपि ॥ ३६५९ ॥
37.3659 · p. 272
अनुष्टुप्
साम्नस्तृतीयभक्तौ च ना स्त्री तु प्रतिहार्यथ ।तत्र या पृथिवीपालं सम्भावयति सर्वदा ॥ ३६६० ॥
37.3660 · p. 272
अनुष्टुप्
प्रतीकोऽवयवे दीपे नानुकूलाऽनुरूपयोः ।प्रतिकूले प्रतीकं त्रि [र्देवमूर्त्त्यादिषूच्यते] ॥ ३६६१ ॥
37.3661 · p. 272
अनुष्टुप्
प्रतीकारो नृपाणां स्याद्वैरनिर्यातने पुमान् ।अपि प्रतिक्रियामात्रे प्रोक्तः स प्रतिकारवत् ॥ ३६६२ ॥
37.3662 · p. 272
अनुष्टुप्
प्रतीकाशः समासान्ते तुल्यार्थः प्रतिकाशवत् ।मूलस्याधःप्रदेशेऽपि गजानां पूर्वपादयोः ॥ ३६६३ ॥
37.3663 · p. 272
अनुष्टुप्
प्रतीक्ष्यः प्रतिपाल्ये च पूज्ये चाप्यभिधेयवत् ।प्रतीतः प्रतियाते च हृष्टे ख्याते च सादरे ॥ ३६६४ ॥
37.3664 · p. 272
अनुष्टुप्
ज्ञाते बुधे प्रत्ययिते वाच्यवत्परिकीर्त्तितः ।प्रतीहारः प्रतीहारी द्वे द्वाःस्थे चापि कच्छपे ॥ ३६६५ ॥
37.3665 · p. 272
अनुष्टुप्
प्रतीहारस्तु पुँल्लिङ्गो द्वारे स्यात्प्रतिहारवत् ।प्रतोदः पुंसि तोत्रे च तथैवोक्तः प्रतोदने ॥ ३६६६ ॥
37.3666 · p. 272
अनुष्टुप्