All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
प (6/7)
सामप्रभेदयोश्चापि परीतेत्यृचिगीतयोः ।प्रतोली गोपुरेऽपि स्त्री रथ्यायाञ्च प्रकीर्त्तिता ॥ ३६६७ ॥
37.3667 · p. 272
अनुष्टुप्
प्रत्नं छन्दसि पञ्चाशद्वर्णे त्रि तु पुरातने ।प्रत्यक्च्छ्रेणी नागदन्त्यां गिरिकर्ण्यामपि स्मृता ॥ ३६६८ ॥
37.3668 · p. 272
अनुष्टुप्
प्रत्यग्दृष्टिः-प्रदाकुः
तथा मूषिकपर्ण्यां च सा प्रत्यक्छ्रेणिवन्मता ।प्रत्यग्दृष्टिस्तु मीमांसायां योगे तु यथायथम् ॥ ३६६९ ॥
37.3669 · p. 273
अनुष्टुप्
प्रत्यक् प्रतीच्येऽभिमुखे प्रतीच्यभिमुखे त्रिषु ।देशे पुंसि प्रतीची तु पश्चिमायां दिशि स्त्रियाम् ॥ ३६७० ॥
37.3670 · p. 273
अनुष्टुप्
प्रथमापञ्चमीसप्तम्यर्थेष्वेषोऽपि चाव्ययम् ।प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु ॥ ३६७१ ॥
37.3671 · p. 273
अनुष्टुप्
रन्ध्रे च प्रथितत्वे चाप्याचारप्रतियातयोः ।सनादिशब्दावयवे तथैव स्यात्सुबादिषु ॥ ३६७२ ॥
37.3672 · p. 273
अनुष्टुप्
प्रत्यर्थी पुंसि शत्रौ स्याद्भेद्यवत्प्रतियोगिनि ।शत्रो ना प्रत्यवस्थानः परिस्पर्धिजने त्रिषु ॥ ३६७३ ॥
37.3673 · p. 273
अनुष्टुप्
प्रत्याकारः पुमान्प्रत्याकृतावायुधकोशके ।प्रत्यालीढं तु चरणन्यासभेदेऽशिते त्रिषु ॥ ३६७४ ॥
37.3674 · p. 273
अनुष्टुप्
प्रत्यासारो व्यूहपार्ष्णौ प्रत्यासरणकर्मणि ।चमूकट्यामपि तथा पुँल्लिङ्गः परिकीर्त्तितः ॥ ३६७५ ॥
37.3675 · p. 273
अनुष्टुप्
प्रत्याहारोऽक्षरसमाम्नायेऽपि स्यादणादिषु ।स्यात्प्रत्यानयनेऽर्थेभ्यश्चेन्द्रियाणां समाहृतौ ॥ ३६७६ ॥
37.3676 · p. 273
अनुष्टुप्
वाद्यवादकसामग्रीविन्यासे नाट्यगोचरे ।धौतांशुकद्वये प्रत्युद्गमतीयं नपुंसकम् ॥ ३६७७ ॥
37.3677 · p. 273
अनुष्टुप्
स्यात्प्रत्युद्गमतीयस्तूपस्थातव्येऽभिधेयवत् ।प्रत्यूषोऽस्त्री प्रभाते स्यात्त्रिः प्रत्यूषितरि स्मृतः ॥ ३६७८ ॥
37.3678 · p. 273
अनुष्टुप्
प्रथनः पुंसि मुद्गे स्याद्विसृतौ प्रथनं नपि ।प्रकाशनायां प्रथना न नापि च विसारणे ॥ ३६७९ ॥
37.3679 · p. 273
अनुष्टुप्
प्रथमं त्रि प्रधाने चादिमेऽथ प्रथमा स्त्रियाम् ।आद्यायां सुब्बिभक्तौ स्यात्तथैव प्रतिपत्तिथौ ॥ ३६८० ॥
37.3680 · p. 273
अनुष्टुप्
प्रथमस्तु पुमानाद्यत्रितये तिङ्विभक्तिषु ।प्रदाकुस्तु द्वयोर्व्याघ्रे भेकाजगरयोरपि ॥ ३६८१ ॥
37.3681 · p. 273
अनुष्टुप्
प्रदीप्तं-प्रभासः
प्रदीप्तं भासिते चापि दग्धे चाप्यभिधेयवत् ।प्रदेश उपदेशैकदेशप्रादेशदत्रिषु ॥ ३६८२ ॥
37.3682 · p. 274
अनुष्टुप्
प्रदेशनं प्रदिष्टौ च दाने च प्राभृतेऽपि च ।प्रदोषस्तु पुमान्दोषे रात्रेर्यामेऽपि चादिमे ॥ ३६८३ ॥
37.3683 · p. 274
अनुष्टुप्
प्रकृष्टदोषादौ त्वेष प्रदोषो वाच्यवन्मतः ।प्रद्युम्नो मन्मथे पुंसि प्रकृष्टद्युम्नके त्रिषु ॥ ३६८४ ॥
37.3684 · p. 274
अनुष्टुप्
प्रद्योतनस्तु वा सूर्ये क्लीबं दीप्तौ प्रकीर्त्तितम् ।प्रधनं तु समे क्लीबं त्रि प्रकृष्टधने मतम् ॥ ३६८५ ॥
37.3685 · p. 274
अनुष्टुप्
प्रधानन्तु प्रकृत्याख्ये सांख्यतत्त्वे परात्मनि ।महामात्रे च बुद्धौ च मुख्ये तु क्ली च वाच्यवत् ॥ ३६८६ ॥
37.3686 · p. 274
अनुष्टुप्
प्रधूपिता स्त्रियां सूर्यगन्तव्यदिशि कीर्त्तिता ।अथाभिधेयवच्चैष क्लेशिते स्यात्प्रधूपितः ॥ ३६८७ ॥
37.3687 · p. 274
अनुष्टुप्
प्रपञ्चः पुंसि विस्तारे संचये च विपर्यये ।प्रपदन्तु पदाग्रेऽपि निगदाख्ययजुः षु च ॥ ३६८८ ॥
37.3688 · p. 274
अनुष्टुप्
प्रपातस्तु प्रपतने भृगौ सौप्तिकरोधसोः ।प्रपितामह इत्येष विधौ पितृपितामहे ॥ ३६८९ ॥
37.3689 · p. 274
अनुष्टुप्
प्रबुद्धो विरतस्वापे पण्डितेऽवहिते त्रिषु ।प्रबोधना तु पुमाञ्ज्ञापनेप्यनुबोधने ॥ ३६९० ॥
37.3690 · p. 274
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आलेपविषये चापि प्रबुद्धौ तु प्रबोधनम् ।प्रभञ्जनो ना मरुति योगार्थे तु यथायथम् ॥ ३६९१ ॥
37.3691 · p. 274
अनुष्टुप्
प्रभवः स्यादपांमूले विक्रमे जन्मकारणे ।आद्योपलब्धिस्थानेऽपि पुँल्लिङ्गः परिकीर्त्तितः ॥ ३६९२ ॥
37.3692 · p. 274
अनुष्टुप्
प्रभा भास्यर्चिषि स्त्री स्यात्सूर्यपत्न्यन्तरेऽपि च ।प्रभाकरस्तु सूर्येऽपि पावकेऽपि प्रकीर्त्तितः ॥ ३६९३ ॥
37.3693 · p. 274
अनुष्टुप्
प्रभावस्तु प्रतापे च माहात्म्ये च पुमान्मतः ।प्रभासस्तीर्थभेदे च पुँल्लिङ्गः स्यात्प्रभासने ॥ ३६९४ ॥
37.3694 · p. 274
अनुष्टुप्
प्रभिन्नः-प्रलम्बः
स्यात्प्रभिन्नो मत्तगजे वाच्यवच्च विदारिते ।प्रभूतमुद्गते प्राज्येऽपि प्रोक्तमभिधेयवत ॥ ३६९५ ॥
37.3695 · p. 275
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
स्त्री तु प्रभृतिरादौ त्रि प्रकृष्टभृतिकादिके ।प्रमथा स्त्री हरीतक्यां प्रमथो ना शिवानुगे ॥ ३६९६ ॥
37.3696 · p. 275
अनुष्टुप्
क्लीबे प्रमथनं हिंसामन्थनक्रिययोर्मतम् ।प्रमदा स्त्रीविशेषे च कीर्त्तिता चोत्तमस्त्रियाम् ॥ ३६९७ ॥
37.3697 · p. 275
अनुष्टुप्
हर्षे तु प्रमदः पुंसि त्रिप्रकृष्टमदादिके ।प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ॥ ३६९८ ॥
37.3698 · p. 275
अनुष्टुप्
सम्यग्वक्तरि नित्ये स्यादेकताबोधयोरपि ।छन्दोवृत्तविशेषेऽपि नपुंसकमुदीरितम् ॥ ३६९९ ॥
37.3699 · p. 275
अनुष्टुप्
प्रमाणना तु न पुमाञ्ज्ञापनेऽपि वधेऽपि च ।प्रमन्थने च हिंसायां प्रमाथो लस्तकाहे ॥ ३७०० ॥
37.3700 · p. 275
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रमीढो मूत्रिते चापि स्याद्घनेप्यभिधेयवत् ।प्रमीतस्तु मृते तद्वत्प्रोक्षितेऽप्यभिधेयवत् ॥ ३७०१ ॥
37.3701 · p. 275
अनुष्टुप्
प्रमुखं तु प्रधानेऽपि तथाद्यग्रेऽपि कीर्त्तितम् ।प्रयतः संस्कृते प्रोक्तः पूते चाप्यभिधेयवत् ॥ ३७०२ ॥
37.3702 · p. 275
अनुष्टुप्
प्रयागस्तीर्थराजे स्याद्यज्ञे शतमखाश्वयोः ।प्रयाणं करिदृक्पूर्वप्रदेशे गमने मृतौ ॥ ३७०३ ॥
37.3703 · p. 275
अनुष्टुप्
प्रयाम उक्तो नीवाके प्रायत्येऽपि पुमानयम् ।प्रयोक्ता तूत्तमर्णेऽपि भेद्यवत्स्यात्प्रयोजके ॥ ३७०४ ॥
37.3704 · p. 275
अनुष्टुप्
प्रयोगः स्यात्कर्मविधौ सुरतर्णप्रतानयोः ।शब्दस्योच्चारणे चोच्चारितशब्दे प्रवर्त्तने ॥ ३७०५ ॥
37.3705 · p. 275
अनुष्टुप्
प्रयोजनं तु कार्येऽपि हेतौ चापि नपुंसकम् ।वाणौ प्ररीत्वा नार्यां तु विधिज्ञायां प्ररीत्वरी ॥ ३७०६ ॥
37.3706 · p. 275
अनुष्टुप्
प्ररूहः सप्तरोहे त्रिः पुँल्लिङ्गस्तु महायवे ।प्ररोहस्तु पुमानिष्टोऽङ्कुरे चैव प्ररोहणे ॥ ३७०७ ॥
37.3707 · p. 275
अनुष्टुप्
प्रलम्बो दैत्यभेदे स्यात्त्रपुषेऽपि पयोधरे ।लताङ्कुरे च शाखायां हारभेदे प्रलम्बने ॥ ३७०८ ॥
37.3708 · p. 275
अनुष्टुप्
प्रलयः-प्रष्टः
प्रलयस्तु पुमान्मृत्यौ क्षये चास्पन्दनस्थितौ ।मूर्च्छायामपि कल्पान्ते श्लेषे च परिकीर्त्तितः ॥ ३७०९ ॥
37.3709 · p. 276
अनुष्टुप्
प्रलोभी किङ्किराते स्याल्लोभशीले तु स त्रिषु ।प्रवङ्गमः कपौ भेके प्लवङ्गमवदिष्यते ॥ ३७१० ॥
37.3710 · p. 276
अनुष्टुप्
अथ प्रवचनं वेदे व्याख्याने च प्रकीर्त्तितम् ।प्रशस्तवचने च स्याच्छास्त्रेऽपि च नपुंसकम् ॥ ३७११ ॥
37.3711 · p. 276
अनुष्टुप्
त्रिषु प्रवचनीयं स्यात्प्रवक्तव्ये प्रवक्तरि ।प्रवणः क्रमनिम्ने त्रिः प्रह्वे ना तु चतुष्पथे ॥ ३७१२ ॥
37.3712 · p. 276
अनुष्टुप्
प्रवरः कृष्णमुद्गेऽब्धिलवणे च पुमान्मतः ।प्रवरं सन्ततौ गोत्रे क्लीबं श्रेष्ठे तु वाच्यवत् ॥ ३७१३ ॥
37.3713 · p. 276
अनुष्टुप्
प्रवहो वायुभेदे स्याद्वायुमात्रे बहिर्गतौ ।क्लीबं प्रवहणं कर्णीरथे वहन उत्तमे ॥ ३७१४ ॥
37.3714 · p. 276
अनुष्टुप्
प्रवारणं निषेधे स्यात्काम्यदाने च न द्वयोः ।प्रवालस्त्वस्त्रियां वृक्षे पल्लवस्याङ्कुरे मतः ॥ ३७१५ ॥
37.3715 · p. 276
अनुष्टुप्
वीणादण्डे विद्रुमे च तथैव नवपल्लवे ।प्रवासना वधेऽपि स्यान्न ना तद्वद्विवासने ॥ ३७१६ ॥
37.3716 · p. 276
अनुष्टुप्
प्रवाहस्तु प्रकृष्टाऽश्वे तथा स्रोतसि वारिणः ।परम्परायामपि च प्रवृत्तौ च पुमान्मतः ॥ ३७१७ ॥
37.3717 · p. 276
अनुष्टुप्
स्त्रीनपुंसकयोर्भेदे युद्धे क्ली प्रविदारणम् ।वधे विकीर्णीकरणे नप्स्त्रियोः प्रविसारणा ॥ ३७१८ ॥
37.3718 · p. 276
अनुष्टुप्
प्रवृत्तिः स्त्री प्रवारोच्चारयोर्व्यापारवार्त्तयोः ।कुलत्थसंज्ञधान्ये चावन्त्यादौ हस्तिनां मदे ॥ ३७१९ ॥
37.3719 · p. 276
अनुष्टुप्
प्रवृद्ध एधिते चापि प्रसृते चाभिधेयवत् ।प्रवेणी स्त्री कुथायां च वेण्यां च स्यात्प्रवेणित् ॥ ३७२० ॥
37.3720 · p. 276
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रवेष्टस्तु भुजे पुंसि गजदन्तस्य मूलतः ।करीर्याख्यात्प्रदेशेऽपि परस्मिन्परिकीर्त्तितः ॥ ३७२१ ॥
37.3721 · p. 276
अनुष्टुप्
अथ प्रव्रजिता मांसीमुण्डीरीतापसीषु च ।प्रष्ठस्त्रिष्वग्रगे श्रेष्ठे पुंसि चाण्डालिकौषधौ ॥ ३७२२ ॥
37.3722 · p. 276
अनुष्टुप्
प्रसत्त्वा-प्रसूतिः
प्रसत्त्वा पवने मातृप्रतिपत्त्योः प्रसत्त्वरी ।प्रसन्ना तु सुरायां स्त्री स्वच्छसन्तुष्टयोस्त्रिषु ॥ ३७२३ ॥
37.3723 · p. 277
अनुष्टुप्
प्रसभं तु बलात्कारे दत्तस्य स्यान्नपुंसकम् ।प्रसभः पुंसि वेगे स्यात्त्रिप्रकृष्टसभादिके ॥ ३७२४ ॥
37.3724 · p. 277
अनुष्टुप्
प्रसरः प्रणये वेगे पुँल्लिङ्गः परिकीर्त्तितः ।न ना प्रसरणी ख्यात आसारे युद्धकारिणाम् ॥ ३७२५ ॥
37.3725 · p. 277
अनुष्टुप्
अथ प्रसरणं क्लीबलिङ्गं विसरणे मतम् ।प्रसर्पको दर्शनाय यज्ञस्थानमुपागते ॥ ३७२६ ॥
37.3726 · p. 277
अनुष्टुप्
प्रसर्प्तरि पुनर्वाच्यलिङ्गकोऽयं प्रसर्पकः ।प्रसवो जननानुज्ञापुत्रेषु फलपुष्पयोः ॥ ३७२७ ॥
37.3727 · p. 277
अनुष्टुप्
पारम्पर्ये प्रसङ्गेऽपि प्राणिनां गर्भमोचने ।प्रेरणे प्रसृतौ चापि पुँल्लिङ्गः परिकीर्त्तितः ॥ ३७२८ ॥
37.3728 · p. 277
अनुष्टुप्
प्रसव्यं प्रतिकूले चानुकूले च प्रकीर्त्तितम् ।आयत्ते दक्षिणे चापि सव्ये चाप्यभिधेयवत् ॥ ३७२९ ॥
37.3729 · p. 277
अनुष्टुप्
नपुंसकं प्रसहनं भङ्गे चाभिभवे मतम् ।लताबृहत्यां तु स्त्रीत्वे मता प्रसहनीति सा ॥ ३७३० ॥
37.3730 · p. 277
अनुष्टुप्
प्रसादस्तु प्रसत्तौ च स्वच्छत्वेप्यनुरोधने ।काव्यस्यौजोमुखानां च गुणानामेकके मतः ॥ ३७३१ ॥
37.3731 · p. 277
अनुष्टुप्
प्रसादनस्तु प्रासाद ओदने स्यात्प्रसादनम् ।प्रसन्नीकरणे त्वेषा न ना प्रोक्ता प्रसादना ॥ ३७३२ ॥
37.3732 · p. 277
अनुष्टुप्
प्रसाधना तु न पुमानभ्यङ्गप्रतिकर्मणोः ।शुश्रूषायां च नृ स्त्री तु कङ्कते स्यात्प्रसाधनी ॥ ३७३३ ॥
37.3733 · p. 277
अनुष्टुप्
प्रसिद्धो भूषिते ख्याते सिद्धे चाप्यभिधेयवत् ।प्रसूरश्वाजनन्योश्च कन्दली वीरुधो स्त्रियाम् ॥ ३७३४ ॥
37.3734 · p. 277
अनुष्टुप्
प्रसूतं प्रेरिते जाते स्यात्कृतप्रसवे त्रिषु ।ना सारथौ क्ली प्रसूने प्रसूता सूतिमस्त्रियाम् ॥ ३७३५ ॥
37.3735 · p. 277
अनुष्टुप्
प्रसूतो वाच्यवज्जाते क्लीबे तु फलपुष्पयोः ।प्रसूतिः स्त्री प्रजनने प्रजायां जननेऽपि च ॥ ३७३६ ॥
37.3736 · p. 277
अनुष्टुप्
प्रसृता-प्राक्
प्रसृता तु स्त्रियां जङ्घासंज्ञाऽङ्गे पुंनपोः पुनः ।द्विमुष्टिकेऽर्धकुडबमाने स्याद्वेणुपर्पटे ॥ ३७३७ ॥
37.3737 · p. 278
अनुष्टुप्
निकुब्जपाणौ च त्रिस्तु वेगिते विस्तृतेऽपि च ।प्रसृतिः स्त्री वचोजालबन्धतात्पर्यतन्तुषु ॥ ३७३८ ॥
37.3738 · p. 278
अनुष्टुप्
प्रसेकः सेचने चापि श्च्युतावपि पुमान्मतः ।प्रसेवः पुंसि वीणाङ्गे स्यूते च परिकीर्त्तितः ॥ ३७३९ ॥
37.3739 · p. 278
अनुष्टुप्
प्रसेवकस्तु ककुभे त्रिषु सेवापरायणे ।प्रस्तारस्तु प्रस्तरणे वृत्तविन्यसनेऽपि च ॥ ३७४० ॥
37.3740 · p. 278
अनुष्टुप्
प्रस्तावोऽवसरे चैवाऽधिकारे सामवेदिनाम् ।साम्नः प्रथमभक्तौ च पुँल्लिङ्गः परिकीर्त्तितः ॥ ३७४१ ॥
37.3741 · p. 278
अनुष्टुप्
प्रस्तुता सुरभौ स्त्री स्यात्प्रस्तुतम्प्रकृते त्रिषु ।प्रस्तोता प्रस्तावभक्तेः साम्नो गातरि ऋत्विजि ॥ ३७४२ ॥
37.3742 · p. 278
अनुष्टुप्
पुँल्लिङ्गो वाच्यवत्त्वेष मतः प्रस्तावकर्त्तरि ।प्रस्थोऽस्त्री स्यात् कुडबचतुष्कैतन्मितेषु च ॥ ३७४३ ॥
37.3743 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रस्फोटनं तु शूर्पे स्यात्ताडने च विकाशने ।भवेत्प्रस्रवणं क्लीबं प्रस्रुतावुत्स एव च ॥ ३७४४ ॥
37.3744 · p. 278
अनुष्टुप्
माल्यवानितिविख्याते पर्वते तु पुमान्मतः ।प्रस्रावः प्रस्रुतौ मूत्रे भक्तमण्डे तथा पुमान् ॥ ३७४५ ॥
37.3745 · p. 278
अनुष्टुप्
प्रहतस्तु मतः क्षुण्णे व्युत्पन्नेऽप्यभिधेयवत् ।क्लीबं प्रहरणं शस्त्रे युद्धे चाघातकर्मणि ॥ ३७४६ ॥
37.3746 · p. 278
अनुष्टुप्
क्लीबं प्रहसनं हासे रूपकान्यतमेऽपि च ।प्रहितः प्रेषिते चास्य स्याल्लिङ्गमभिधेयवत् ॥ ३७४७ ॥
37.3747 · p. 278
अनुष्टुप्
मुद्गादिभिन्ननिवृत्ते तु सूपे प्रहितोऽस्त्रियाम् ।प्रहृष्टस्तु सरोमाञ्चे प्रहर्षवति विस्मिते ॥ ३७४८ ॥
37.3748 · p. 278
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
तथा प्रतिहते चापि वाच्यवत्परिकीर्त्तितः ।प्राकाशः कुण्डले पुंसि स्यात्प्रकाशयुजि त्रिषु ॥ ३७४९ ॥
37.3749 · p. 278
अनुष्टुप्
प्राग्भारो गिरिशृङ्गाग्रे तथैवातिशये पुमान् ।प्राक् प्राग्भवे प्राङ्मुखे च पूर्वेऽर्वाचि च भेद्यवत् ॥ ३७५० ॥
37.3750 · p. 278
अनुष्टुप्
प्राची-प्रान्तरं
दिग्देशकालविषये प्राची तु स्त्री हेरर्दिशि ।प्रथमा-पञ्चमी-सप्तम्यर्थेष्वव्यय एव वा ॥ ३७५१ ॥
37.3751 · p. 279
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 हे (wrong syllable)
सर्वेषु पूर्वोक्तार्थेष्वित्येवं प्राक्छब्द ईरितः ।प्राचिका सल्लकीवृक्षे शाके पालङ्क्यभिख्यके ॥ ३७५२ ॥
37.3752 · p. 279
अनुष्टुप्
अरण्यमक्षिकायां च श्येनसंज्ञे च पक्षिणि ।प्राचीनबर्हिर्वह्नौ ना शक्रे चैव नृपान्तरे ॥ ३७५३ ॥
37.3753 · p. 279
अनुष्टुप्
प्राचेतसो ना वाल्मीकौ प्रचेतोयोगिनि त्रिषु ।प्राच्यः प्राचि शरावत्यां देशे प्राग्दक्षिणे त्रिषु ॥ ३७५४ ॥
37.3754 · p. 279
अनुष्टुप्
प्राजापत्यं सामभित्सु गर्भाधानाख्यसंस्कृतौ ।द्वादशाहकृते कृच्छ्रे भावे चैव प्रजापतेः ॥ ३७५५ ॥
37.3755 · p. 279
अनुष्टुप्
विवाहभेदे तु तथा कृतोद्वाहद्विजे च ना ।प्रजापतेस्त्वपत्ये द्वे तत्सम्बन्धिनि तु त्रिषु ॥ ३७५६ ॥
37.3756 · p. 279
अनुष्टुप्
प्राज्ञस्तु धीमज्ज्ञात्रोस्त्रि प्राज्ञा प्राज्ञी स्त्रियां क्रमात् ।प्राणो बलेऽनिले पुंसि तथा कायानिलान्तरे ॥ ३७५७ ॥
37.3757 · p. 279
अनुष्टुप्
द्वन्द्वानां प्रथमे साम्नीन्द्रियेषु शशभेषजे ।प्राणाश्चाऽसुषु पुंभूम्नि त्रिः पूर्णे क्ली तु पूरणे ॥ ३७५८ ॥
37.3758 · p. 279
अनुष्टुप्
प्राणकः सत्त्वजातीये जीवकद्रुमचोलयोः ।प्राणथो मदनाख्ये च वृक्षे चैव प्रजापतौ ॥ ३७५९ ॥
37.3759 · p. 279
अनुष्टुप्
प्राणदा तु हरीतक्यां स्त्रियामृद्ध्यौषधेऽपि च ।प्राणदः पुंसि वैद्ये स्यात्त्रिषु तु प्राणदातरि ॥ ३७६० ॥
37.3760 · p. 279
अनुष्टुप्
प्राणनाथस्तु विज्ञेयो यमराजे प्रियेऽपि च ।प्राणिद्यूतोऽस्त्रियां युद्धे पश्वाद्यैर्युद्ध एव च ॥ ३७६१ ॥
37.3761 · p. 279
अनुष्टुप्
प्रातिः पूर्त्तौ मता स्त्रीत्वे प्रादेशेऽपि प्रकीर्त्तिता ।प्राध्वं स्याद्दूरमार्गे च बन्धने च नपुंसकम् ॥ ३७६२ ॥
37.3762 · p. 279
अनुष्टुप्
प्रवेशे त्र्यव्ययं प्राध्वमानुकूल्ये च नर्मणि ।प्रान्तरं तु वने दूरशून्यवर्त्मनि कोटरे ॥ ३७६३ ॥
37.3763 · p. 279
अनुष्टुप्
प्राप्तं-प्रीतं
प्राप्तं समञ्जसेऽपि स्याल्लब्धे चाप्यभिधेयवत् ।प्राप्तरूपो वाच्यवत्स्यात्सुन्दरे च विचक्षणे ॥ ३७६४ ॥
37.3764 · p. 280
अनुष्टुप्
प्राप्तिः स्त्रियामधिगमेऽप्युदये च प्रकीर्त्तिता ।प्रायो मृत्यौ प्रगमने बाहुल्येऽनशनेऽपि ना ॥ ३७६५ ॥
37.3765 · p. 280
अनुष्टुप्
बाल्यादिवयसि प्रोक्तस्तुल्यार्थे तु त्रिषु स्मृतः ।प्रायश्चित्तं चिकित्सायां रोगस्याप्यघनिष्क्रये ॥ ३७६६ ॥
37.3766 · p. 280
अनुष्टुप्
प्रार्थितं याचिते शत्रुसंरुद्धेऽभिहते त्रिषु ।प्रार्दितन्त्वभियुक्तेऽपि याचिते च हते त्रिषु ॥ ३७६७ ॥
37.3767 · p. 280
अनुष्टुप्
प्रालम्बमृजुलम्बिन्यां कण्ठात्स्यात्कुसुमस्रजि ।प्रालम्बी तु स्त्रियां स्वर्णललन्त्यां परिकीर्त्तिता ॥ ३७६८ ॥
37.3768 · p. 280
अनुष्टुप्
पुनर्नवाशूकशिम्ब्योः स्त्रियां स्यात्प्रावृषायणी ।प्रावृषेण्यः कदम्बद्रौ त्रि तु प्रावृद्भवादिषु ॥ ३७६९ ॥
37.3769 · p. 280
अनुष्टुप्
प्रासः कुन्ताख्यशस्त्रे ना तथाऽनुप्रास एव च ।प्रासादस्तु प्रकृष्टासादे देवाढ्यनृपालये ॥ ३७७० ॥
37.3770 · p. 280
अनुष्टुप्
प्रियः करुणवृक्षे ना बृद्धिनामौषधे धवे ।वल्लभे सुन्दरे त्रिः स्त्री प्रियाऽभीप्सितयोषिति ॥ ३७७१ ॥
37.3771 · p. 280
अनुष्टुप्
प्रियको ना फलाध्यक्षफलिन्यसननीपके ।तेषां तु प्रसवे क्लीबं मृगभेदे तु स द्वयोः ॥ ३७७२ ॥
37.3772 · p. 280
अनुष्टुप्
घनैर्मृदूच्चमसृणै रोमभिश्चापि संयुते ।नीलपाण्डुररेखावत्यपि वा श्वेतचन्द्रके ॥ ३७७३ ॥
37.3773 · p. 280
अनुष्टुप्
प्रियङ्गुः स्त्री कणायां च राजिकायां च कीर्त्तिता ।फलिन्यां कङ्गुसस्येऽथ क्ली प्रियङ्ग्वपि कुङ्कुमे ॥ ३७७४ ॥
37.3774 · p. 280
अनुष्टुप्
प्रियंवदा स्त्री मालत्यां त्रि तु स्यात्प्रियवक्तरि ।प्रियंवदः कथायां ना श्रुते विद्याधरान्तरे ॥ ३७७५ ॥
37.3775 · p. 280
अनुष्टुप्
स्त्रियां मङ्गलवाद्यस्य निर्घोषे प्रियवादिका ।प्रियवक्तरि तु प्रोक्तो भेद्यवत्प्रियवादकः ॥ ३७७६ ॥
37.3776 · p. 280
अनुष्टुप्
प्रियापत्यो द्वयोः कङ्कुखगे प्रियसुते त्रिषु ।प्रीतं त्रिषु स्याद्धषितेऽथ नर्मणि नपुंसकम् ॥ ३७७७ ॥
37.3777 · p. 280
अनुष्टुप्
प्रीतिः-प्लवनं
प्रीतिर्योगान्तरे प्रेम्णि स्मरपत्नीमुदोः स्त्रियाम् ।धकारेऽपि त्रयोदश्यां कलायां शशिनो मता ॥ ३७७८ ॥
37.3778 · p. 281
अनुष्टुप्
प्रुक्षिः पुमान्यावके चाप्युदपाने च कीर्त्तितः ।प्रेक्षा बुद्धौ तथा नृत्तदर्शनेऽपि स्त्रियाम्मता ॥ ३७७९ ॥
37.3779 · p. 281
अनुष्टुप्
प्रेङ्खो दासे द्वयोः प्रेङ्खाऽऽसन्यां प्रेङ्खोलने तथा ।स्त्रियां पर्यटने प्रोक्ता घोटकस्य गतावपि ॥ ३७८० ॥
37.3780 · p. 281
अनुष्टुप्
प्रेतो भूतान्तरे द्वे स्यान्मृते प्रेतोऽभिधेयवत् ।प्रेतालयो ना शाकोटद्रुमे योगे यथायथम् ॥ ३७८१ ॥
37.3781 · p. 281
अनुष्टुप्
प्रेमा ना वासवे वाते प्रेमा स्त्री स्नेहनर्मणोः ।प्रेरित्वा तु समुद्रे ना स्त्री तु प्रेरित्वरी पुरी ॥ ३७८२ ॥
37.3782 · p. 281
अनुष्टुप्
प्रेष्यो दासे द्वयोरेष प्रेषणीयेऽभिधेयवत् ।प्रैषः प्रेषण उन्मादे क्लेशे मर्दन इष्यते ॥ ३७८३ ॥
37.3783 · p. 281
अनुष्टुप्
प्रोक्षणं तु वधे यज्ञपशोश्चाऽभ्युक्षणोऽम्भसा ।प्रोक्षण्यो यज्वनां कास्वप्यप्सु तासां च भाजने ॥ ३७८४ ॥
37.3784 · p. 281
अनुष्टुप्
प्रोक्षितं निहिते सिक्ते वाच्यवत्परिकीर्त्तितम् ।प्रोतं नपुंसकं वस्त्रे खचिते वाच्यलिङ्गकम् ॥ ३७८५ ॥
37.3785 · p. 281
अनुष्टुप्
प्रोथोऽस्त्री हयघोणायां ना कट्यामध्वगे त्रिषु ।प्रोष्ठः पुंस्यृषभे स्त्री तु शफर्यां प्रोष्ट्युदीरिता ॥ ३७८६ ॥
37.3786 · p. 281
अनुष्टुप्