All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
श (2/4)
करवीरे तु धत्तूरे ना क्लीबं प्रसवेऽनयोः ।शातकौम्भं सुवर्णे क्ली स्यात्सौवर्णे तु वाच्यवत् ॥ ५९१९ ॥
46.5919 · p. 439
अनुष्टुप्
शातनं तु भवेन्नाशे तेजनेऽपि नपुंसकम् ।शात्रवः पुंसि शत्रौ त्रि शत्रुयोगिनि शात्रवम् ॥ ५९२० ॥
46.5920 · p. 439
अनुष्टुप्
नपुंसकं तु शत्रूणां समूहे वैर एव च ।शादस्तु शष्पे पङ्के च शदने स्वर्णबन्धयोः ॥ ५९२१ ॥
46.5921 · p. 439
अनुष्टुप्
अथ शन्तरि तद्वच्च शदसम्बन्धिनि त्रिषु ।गृह्यकारस्य शादाभिरित्युक्तेश्चिन्त्यतां गतिः ॥ ५९२२ ॥
46.5922 · p. 439
अनुष्टुप्
इष्टकार्थे गोभिलस्य प्रयोग इति केचन ।शाद्वलः शातहरिते त्रिरस्त्रीघासवत्स्थले ॥ ५९२३ ॥
46.5923 · p. 439
अनुष्टुप्
अयं शाड्वलवत्प्रोक्तः पुँल्लिङ्गस्तु वृषे मतः ।शानस्तु पुंसि शाते स्त्री शानी स्यात्कर्कटीभिदि ॥ ५९२४ ॥
46.5924 · p. 439
अनुष्टुप्
शानपादः पारिपानेऽपि चन्दनकषाश्मनि ।शान्तः शमवति त्रिः स्यान्निशातेऽवसिते शुभे ॥ ५९२५ ॥
46.5925 · p. 439
अनुष्टुप्
क्ली तु शान्तौ पुमाञ्शान्तः सुनिषण्णे रसान्तरे ।शान्ता तु श्रुतिभेदे चाऽप्यामलक्यामपीष्यते ॥ ५९२६ ॥
46.5926 · p. 439
अनुष्टुप्
दूर्वान्तरे रेणुकाख्यौषधे रामस्वसर्यपि ।सप्तमार्हद्देवतायां शक्तिभेदेऽपि कीर्त्तिता ॥ ५९२७ ॥
46.5927 · p. 439
अनुष्टुप्
वर्षभेदे पुनर्जम्बूद्वीपस्थे शान्तमिष्यते ।भीष्मे शान्तनवस्तद्वत् फिट्सूत्राणां प्रणेतरि ॥ ५९२८ ॥
46.5928 · p. 439
अनुष्टुप्
द्वीपान्तरे पुनः क्लीबमिदं शान्तनवं मतम् ।शान्तनुर्धान्यभे शान्तनौ भीष्मपितर्यपि ॥ ५९२९ ॥
46.5929 · p. 439
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शान्तिः शमे चिकित्सायां धर्मपत्न्यां च मङ्गले ।स्त्री ना दशममन्वन्तरेन्द्रेऽपि तुषितान्तरे ॥ ५९३० ॥
46.5930 · p. 439
अनुष्टुप्
अर्हद्भेदेऽपि च तथा शान्तिनाथाऽभिधान्तरे ।शापः शपथ आक्रोशे तरत्काष्ठादिके पुमान् ॥ ५९३१ ॥
46.5931 · p. 439
अनुष्टुप्
शाबरं-शारदः
शाबरं त्वपराधेऽघे क्ली लोध्रे ना त्रियौगिके ।जाल्मेऽपि शाबरी त्वात्मगुप्ताशबरभाषयोः ॥ ५९३२ ॥
46.5932 · p. 440
अनुष्टुप्
शाबरं ताम्रतमसोस्तथा शम्बरचन्दने ।रोध्रे शाबरकः शाबरिका स्याद्रक्तपान्तरे ॥ ५९३३ ॥
46.5933 · p. 440
अनुष्टुप्
शाबल्यं शबलत्वे शाबल्या स्याद्बन्धुलस्त्रियाम् ।शाबस्ती पुरभेदे शाबस्तस्तत्कर्त्तृभूपतौ ॥ ५९३४ ॥
46.5934 · p. 440
अनुष्टुप्
शाब्दी स्त्रीत्वे सरस्वत्यां शाब्दस्त्रिशब्दयोगिनि ।शाब्दिकस्त्रिः शब्दयोगिन्यपि शब्दविदि स्मृतः ॥ ५९३५ ॥
46.5935 · p. 440
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)
शामनस्त्रिः शान्तिकृति शामनस्तु यमे पुमान् ।शामित्रः शमितुर्यागपशुकर्त्तनकारिणः ॥ ५९३६ ॥
46.5936 · p. 440
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
सम्बन्धिनि त्रिरग्नौ तु ना यागपशुवाचके ।शामित्रं क्ली वधस्थाने तथा शामित्रकर्मणि ॥ ५९३७ ॥
46.5937 · p. 440
अनुष्टुप्
शामीलस्त्रिः शमीयोगिन्यथ क्ली भस्मनि स्मृतम् ।अथ स्त्रियामियं माल्ये शामीली परिकीर्त्तिता ॥ ५९३८ ॥
46.5938 · p. 440
अनुष्टुप्
स्याच्छाम्बरी स्त्री मायायां त्रि तु शम्बरयोगिनि ।शाम्बरं शम्बररणे तथा शबरचन्दने ॥ ५९३९ ॥
46.5939 · p. 440
अनुष्टुप्
शाम्भवस्त्रिः शम्भुयोगिन्यपत्ये स्याच्छिवस्य च ।शिवभक्तेऽप्यथ पुमान् [कर्पूरविषभेदयोः] ॥ ५९४० ॥
46.5940 · p. 440
अनुष्टुप्
स्त्री शाम्भवी स्याद्दुर्गायां शाम्भवो देवदारुणि ।शाम्यं शान्तौ मतं क्लीबे शाम्यस्तद्योगिनि त्रिषु ॥ ५९४१ ॥
46.5941 · p. 440
अनुष्टुप्
शायकः कर्त्तरि त्रि स्याच्छयनस्याऽथ शायिका ।शयनस्यैव पर्यायादौ स्त्रीत्वे परिकीर्त्तिता ॥ ५९४२ ॥
46.5942 · p. 440
अनुष्टुप्
शारो वायौ हिंसने च शबले त्रि तु तद्वति ।शारः शारी द्यूतशारावक्ली शारी पुनः स्त्रियाम् ॥ ५९४३ ॥
46.5943 · p. 440
अनुष्टुप्
शारिकाख्ये पक्षिभेदे कुशेयं त्रिः शरादणि ।[अथ शारक इत्येष हिंसके वाच्यवन्मतः ] ॥ ५९४४ ॥
46.5944 · p. 440
अनुष्टुप्
शारदस्तु पुमान्पीतमुद्गे संवत्सरेऽपि च ।त्रिस्त्वधृष्टे च शुद्धे च शरत्पक्वादिकेषु च ॥ ५९४५ ॥
46.5945 · p. 440
अनुष्टुप्
शारदः-शार्दूलः
शारस्य दातरि नवरोगे चाप्यप्रतिभेऽप्यथ ।शारदः शारदीति द्वे सप्तपर्णतरौ भवेत् ॥ ५९४६ ॥
46.5946 · p. 441
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शारदी तोयपिप्पल्यां कार्त्तिकाश्विनपूर्णयोः ।शारदं तु शरच्छस्ये क्लीबं श्वेतोत्पलेऽपि च ॥ ५९४७ ॥
46.5947 · p. 441
अनुष्टुप्
शारदा सारिवाब्राह्मीदुर्गावाग्देवतासु च ।पुंसि शारदको दूर्वाभेदे शारदिका स्त्रियाम् ॥ ५९४८ ॥
46.5948 · p. 441
अनुष्टुप्
शारिपुत्रे द्रोणपुत्रे शारद्वतीपुत्र इष्यते ।शारिः स्त्री शारिकासंज्ञविहङ्गे नृस्त्रियोः पुनः ॥ ५९४९ ॥
46.5949 · p. 441
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना ।[तिष्यपत्न्यान्तथा बाणे कपटे च स्त्रियामियम् ] ॥ ५९५० ॥
46.5950 · p. 441
अनुष्टुप्
शारिका पक्षिभेदे च वाद्यवादनदण्डके ।द्यूतक्रीडाविशेषे च दुर्गायां तु स्त्रियां मता ॥ ५९५१ ॥
46.5951 · p. 441
अनुष्टुप्
शारीरः पुंसि जीवात्मन्यथ त्रिः काययोगिनि ।शारीरं कायघटनाऽऽयुर्वेदस्थानभेदयोः ॥ ५९५२ ॥
46.5952 · p. 441
अनुष्टुप्
वृषेऽपि पुंसि शारीरं विद्वांसः केचिदूचिरे ।शारीरको ना जीवात्मन्यथ त्रिः काययोगिनि ॥ ५९५३ ॥
46.5953 · p. 441
अनुष्टुप्
शारीरके इति द्वित्वे स्यात्कायसुखदुःखयोः ।शार्करो मधुमद्ये माध्वीकाख्ये दुग्धफेनयोः ॥ ५९५४ ॥
46.5954 · p. 441
अनुष्टुप्
साम्नोस्तु योनौ वर्गोत्थयोः क्ली शर्करिले त्रिषु ।शार्ङ्गन्तु विष्णुचापेऽपि चापे शृङ्गकृतेऽपि च ॥ ५९५५ ॥
46.5955 · p. 441
अनुष्टुप्
केषुचित्सामभेदेषु यदुक्तं तद्वदार्द्रके ।चापमात्रेऽपि च क्लीबं वाच्यवच्छृङ्गयोगिनि ॥ ५९५६ ॥
46.5956 · p. 441
अनुष्टुप्
तथा शृङ्गविकारेऽपि द्वे तु पक्ष्यन्तरे स्मृतः ।शार्ङ्गाष्ठं चर्मपर्ण्याख्यलताभेदे नपुंसकम् ॥ ५९५७ ॥
46.5957 · p. 441
अनुष्टुप्
शार्ङ्गाष्ठा तु स्त्रियां दासी षडश्राद्याख्यकौषधे ।शार्ङ्गी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु ॥ ५९५८ ॥
46.5958 · p. 441
अनुष्टुप्
शार्दूलो द्वे व्याघ्रसिंहशरभेष्वपि चूर्णके ।पक्ष्यन्तरेऽप्युत्तरस्थः पुंसि कोष्ठार्थको मतः ॥ ५९५९ ॥
46.5959 · p. 441
अनुष्टुप्
शार्दूली-शालावृकाः
नृभूम्नि शाखाभेदे ना छन्दोभिच्चित्रकौषधे ।स्याच्छार्दूली तु व्याघ्र्यादौ तथाश्वापदमातरि ॥ ५९६० ॥
46.5960 · p. 442
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तु (wrong syllable)
शार्वरोऽस्त्र्यन्धतमसे घातुके तु त्रिषु स्मृतः ।शालस्तु पुंसि प्राकारेऽश्वकर्णे लकुचेऽपि च ॥ ५९६१ ॥
46.5961 · p. 442
अनुष्टुप्
स्यात्सातवाहने वृक्षसामान्ये द्वे झषान्तरे ।शाला तु गेहे गेहैकदेशे च स्त्री तरोस्तथा ॥ ५९६२ ॥
46.5962 · p. 442
अनुष्टुप्
स्कन्धसञ्जातशाखायां सूक्ष्मैलायां त्रि गन्तरि ।शालोऽस्त्र्यर्धर्चादिषु च वाच्यवद्गन्तरि स्मृतः ॥ ५९६३ ॥
46.5963 · p. 442
अनुष्टुप्
अथ शाली स्त्रियां कृष्णजीरे पत्नीस्वसर्यपि ।शालग्रामो ग्रामभेदे गण्डकीतीरसंस्थिते ॥ ५९६४ ॥
46.5964 · p. 442
अनुष्टुप्
शालवृक्षावृते विष्णौ शालग्रामशिलास्थिते ।अस्त्री तु तद्ग्रामभवे पूजार्हे स्याच्छिलान्तरे ॥ ५९६५ ॥
46.5965 · p. 442
अनुष्टुप्
शालग्रामी तु गण्डक्यां स्त्रीत्व एव प्रकीर्त्तिता ।शालङ्कायन इत्येष ऋषिभित्प्रमथान्तरे ॥ ५९६६ ॥
46.5966 · p. 442
अनुष्टुप्
शालपुष्पं त्वश्वकर्णपुष्पे [क्लीबं प्रकीर्त्तितम् ] ।क्रीडान्तरे दारुपुत्र्यां वेश्यायां शालभञ्जिका ॥ ५९६७ ॥
46.5967 · p. 442
अनुष्टुप्
शालसारस्तु वृक्षेऽपि हिङ्गुन्यपि पुमान्मतः ।शालाकस्तु शलाकानां वृन्दे तत्पावकेऽपि च ॥ ५९६८ ॥
46.5968 · p. 442
अनुष्टुप्
शालाकी शल्यवैद्येऽपि तथा स्यात्कुन्तधारिणि ।शालाक्यस्त्वक्षिवैद्येऽथ क्लीबं शल्यचिकित्सिते ॥ ५९६९ ॥
46.5969 · p. 442
अनुष्टुप्
कुर्वादित्याच्छलाकाया अपत्ये तु भवेत्त्रिषु ।शालाद्वार्यो यागवह्न्यन्तरे त्रिर्गृहाग्रगे ॥ ५९७० ॥
46.5970 · p. 442
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (syllables merged)
शालामुखं गृहद्वारे शालिभेदे तु पुंस्ययम् ।शालामुखीयो योगे त्रिः शालाद्वार्याऽनले तु ना ॥ ५९७१ ॥
46.5971 · p. 442
अनुष्टुप्
शालामृगः कुक्कुरेऽपि केषाञ्चिज्जम्बुके द्वयोः ।शालारं क्ली हस्तिनखे सोपाने पक्षिपञ्जरे ॥ ५९७२ ॥
46.5972 · p. 442
अनुष्टुप्
नागदन्तेऽपि भित्तिस्थे शालारं केचिदूचिरे ।शालावृकाः कपिक्रोष्टुश्वविडालादयो मताः ॥ ५९७३ ॥
46.5973 · p. 442
अनुष्टुप्
शालिः-शाल्मली
शालिर्दशविधे पुंसि तण्डुले क्वापि च स्त्रियाम् ।खट्टाशे तु द्वयोर्यक्षान्तरे सिंहाकृतौ पुमान् ॥ ५९७४ ॥
46.5974 · p. 443
अनुष्टुप्
शालिकस्त्रिषु शालाजे शालायां शालिका मता ।शालिकस्त्रिः शालियोगिन्यस्य चूर्णे नपुंसकम् ॥ ५९७५ ॥
46.5975 · p. 443
अनुष्टुप्
शाली फलाढ्ये च तथा शालिमत्येष वाच्यवत् ।तथा शालावति प्रोक्तः शोभने तूत्तरस्थितः ॥ ५९७६ ॥
46.5976 · p. 443
अनुष्टुप्
शालिनी तु स्त्रियामेषाछन्दोभेदे प्रकीर्त्तिता ।शालिपिष्टं शालिचूर्णे क्लीबं काचमणावपि ॥ ५९७७ ॥
46.5977 · p. 443
अनुष्टुप्
शालिवाहः शालिवहमाने शाल्यूहि वा वृषे ।शालिहोत्रः पुमानश्वायुर्वेदकृन्मुनिभिद्यथ ॥ ५९७८ ॥
46.5978 · p. 443
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
शालिहोत्रं तु शास्त्रेऽस्य नपुंसकमुदीरितम् ।शालीनो गृहसम्बन्धिन्यधृष्टक्लीबयोस्त्रिषु ॥ ५९७९ ॥
46.5979 · p. 443
अनुष्टुप्
पुमानाढ्यगृहस्थेऽथ शालीनं विनये भवेत् ।शालुश्चोराख्यगन्धे ना कषाये त्रिस्तु तद्वति ॥ ५९८० ॥
46.5980 · p. 443
अनुष्टुप्
उदीच्यफलभेदे तु पद्मकन्देऽपि नब्द्वयोः ।अथ स्त्रीपुंसयोः शालुर्दर्दुरे परिकीर्त्तितः ॥ ५९८१ ॥
46.5981 · p. 443
अनुष्टुप्
शालूकं कण्ठगडुके तथा जातिफलेऽपि नप् ।अथ द्वयोस्तु शालूको दर्दुरे परिकीर्त्तितः ॥ ५९८२ ॥
46.5982 · p. 443
अनुष्टुप्
शालूरो दर्दुरे द्वे स्याच्छन्दोभेदे पुमान्मतः ।शालेयः पुंसि मिश्रेयौषधे चाणक्यमूलके ॥ ५९८३ ॥
46.5983 · p. 443
अनुष्टुप्
शालिक्षेत्रे तु शालेयं शालेयः पर्वतान्तरे ।शाल्मलो द्वीपभेदे स्यान्निर्यासे शाल्मलेरपि ॥ ५९८४ ॥
46.5984 · p. 443
अनुष्टुप्
उत्तरस्थः शाल्मलिवत्तूलवृक्षान्तरे मतः ।शाल्मलिस्तु द्वयोस्तूलद्रुभेदे द्वीपभिद्यपि ॥ ५९८५ ॥
46.5985 · p. 443
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
यदावृतिर्घृताम्भोधिस्तथैव नरकान्तरे ।स्त्रियां रूपद्वयं तस्य शाल्मलिः शाल्मलीत्यपि ॥ ५९८६ ॥
46.5986 · p. 443
अनुष्टुप्
शाल्मली स्त्री सरिद्भेदे नारकीयाऽऽपगान्तरे ।विष्णुशक्त्यन्तरेऽपीति विद्वांसः केचिदूचिरे ॥ ५९८७ ॥
46.5987 · p. 443
अनुष्टुप्
शाल्मलिकः-शिक्षा
रोहिद्रुमे शाल्मलिकः शाल्मलेश्च कनि स्मृतः ।शाल्मली गरुडे द्वे स्त्री शाल्मलौ शाल्मलिन्यपि ॥ ५९८८ ॥
46.5988 · p. 444
अनुष्टुप्
शाल्मलिस्थस्तु गृध्रेऽपि गरुडेऽपि तथा द्वयोः ।शाल्वो वृक्षान्तरे शाल्वा नृभूम्नि क्षत्रियान्तरे ॥ ५९८९ ॥
46.5989 · p. 444
अनुष्टुप्
तेषां वासेऽपि विषये शाल्वस्तेषां नृपे मतः ।शाल्वा तु स्त्री सरिद्भेदे शाल्वद्रुप्रसवे तु नप् ॥ ५९९० ॥
46.5990 · p. 444
अनुष्टुप्
शावोऽस्त्री मृतके पुंसि शिशौ त्रिर्मृतयोगिनि ।नपुंसकं तु मृतकाशौचे शावमुदीरितम् ॥ ५९९१ ॥
46.5991 · p. 444
अनुष्टुप्
शाश्वतो ना शिवे व्यासे वाच्यवत्तु सनातने ।शाश्वतं तु सदात्वेऽपि व्योम्नि स्त्री शाश्वती भुवि ॥ ५९९२ ॥
46.5992 · p. 444
अनुष्टुप्
शष्कुलीयोगिनि त्रिः शाष्कुलिकं क्ली तदुच्चये ।शासस्त्रिः शासकेऽथाज्ञाऋषिसूक्तान्तरेषु ना ॥ ५९९३ ॥
46.5993 · p. 444
अनुष्टुप्
शासको दण्डयितरि शिक्षके पालके त्रिषु ।शासनः शासके त्रि स्याच्छिक्षिकायां तु शासनी ॥ ५९९४ ॥
46.5994 · p. 444
अनुष्टुप्
शासनं दण्डने क्लीबमाज्ञायामपि पालने ।आज्ञापत्रे लेखशास्त्रसन्देशात्मयमादिषु ॥ ५९९५ ॥
46.5995 · p. 444
अनुष्टुप्
शास्तिः स्त्री शासुधातौ च शासनार्थेषु कीर्त्तिता ।शास्ता बुद्धे गुरौ भूपे जिने खड्गे तथा पुमान् ॥ ५९९६ ॥
46.5996 · p. 444
अनुष्टुप्
शास्त्रं तु क्लीबमाज्ञायां विद्यायां च नपुंसकम् ।शास्त्रचक्षुर्व्याकरणं शास्त्रनेत्रे पुनस्त्रिषु ॥ ५९९७ ॥
46.5997 · p. 444
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्व्या (wrong syllable)
शास्त्रशिल्पी तु कश्मीरदेशे भूम्नि तु तज्जने ।शास्त्रार्थः शास्त्रवाच्ये स्याद्वादेऽपि विदुषाम्मतः ॥ ५९९८ ॥
46.5998 · p. 444
अनुष्टुप्
शास्त्री शास्त्रवति त्रि स्यात्पुँल्लिङ्गो बुद्ध इष्यते ।शाहाः कश्मीरभागेषु शाट्टो वैदेशिके नृपे ॥ ५९९९ ॥
46.5999 · p. 444
अनुष्टुप्
शिर्ना शान्तौ शिवे भाग्येऽप्यादेशे जश्शसोर्मतः ।शिक्यं शिक्या तुलारज्जौ रज्जुपाशान्तरेऽपि च ॥ ६००० ॥
46.6000 · p. 444
अनुष्टुप्
शिक्षाऽभ्यासे चिकीर्षायां पाठे विनयदण्डयोः ।साहाय्येऽध्यापने वेदाङ्गभित्पाटलभूरुहोः ॥ ६००१ ॥
46.6001 · p. 444
अनुष्टुप्
शिक्षः-शिखा
पुमांस्तु शिक्षो गन्धर्वराजभेदे प्रकीर्त्तितः ।शिक्षाकरोऽध्यापके त्रिरथ व्यासे पुमान्मतः ॥ ६००२ ॥
46.6002 · p. 445
अनुष्टुप्
शिखण्डो बर्हिबर्हेऽपि चूडायां (वृक्षभिद्यपि) ।शिखण्डी तु शिखायां स्त्री पुमांस्तु शिखिपुच्छके ॥ ६००३ ॥
46.6003 · p. 445
अनुष्टुप्metre not read in every line
शिखण्डकः काकपक्षे चूडायां बर्हिबर्हके ।तथा शैवविशेषाणां प्राप्तमोक्षे यतौ पुमान् ॥ ६००४ ॥
46.6004 · p. 445
अनुष्टुप्
नितम्बाधोभागयोस्तु क्ली द्वित्वे स्तः शिखण्डके ।शिखण्डिकः कुक्कुटेऽपि मयूरेऽपि द्वयोर्मतः ॥ ६००५ ॥
46.6005 · p. 445
अनुष्टुप्
शिखण्डिका शिखायां स्त्री पद्मरागे शिखण्डिकम् ।शिखण्डी तु द्वयोर्ज्ञयो मयूरेऽपि च कुक्कुटे ॥ ६००६ ॥
46.6006 · p. 445
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 र्ज्ञ (wrong syllable)
शिखण्डिनी तु यूथ्याञ्च गुञ्जायां चाप्सरोभिदि ।नारायणे तथा बाणे कस्मिंश्चित्पर्वतान्तरे ॥ ६००७ ॥
46.6007 · p. 445
अनुष्टुप्
कलायसंज्ञे धान्ये च शिखण्डवति तु त्रिषु ।शिखरोऽस्त्री गिरेः शृङ्गे वृक्षाग्रे पुलकेऽपि च ॥ ६००८ ॥
46.6008 · p. 445
अनुष्टुप्
पक्वदाडिमबीजाभमाणिक्यशकलेऽप्यथ ।शिखरं शोभने चापि वर्त्तुले वाच्यवन्मतम् ॥ ६००९ ॥
46.6009 · p. 445
अनुष्टुप्
शिखरं शोभने प्रोक्तमित्यसत्तदमूलकम् ।मल्लिकाकुड्मले पाणिमुद्राभेदास्त्रभेदयोः ॥ ६०१० ॥
46.6010 · p. 445
अनुष्टुप्
शिखरा तु गदाभेदे मूर्वायां शिखरी पुनः ।स्त्रीत्वे कर्कटशृङ्ग्यां स्याल्लवङ्गे शिखरं मतम् ॥ ६०११ ॥
46.6011 · p. 445
अनुष्टुप्
शिखरी पुंस्यपामार्गस्तम्बे चापि तरौ गिरौ ।स्याद्वाच्यवत्तु तीक्ष्णाग्रे मल्लीकोरकसन्निभे ॥ ६०१२ ॥
46.6012 · p. 445
अनुष्टुप्
अत्यष्टिवृत्तभेदे तु स्त्रियां शिखरिणी मता ।मार्जितासंज्ञके तक्रभेदे चापि सुसंस्कृते ॥ ६०१३ ॥
46.6013 · p. 445
अनुष्टुप्
नायिकोत्तमभिद्रोमावलीद्राक्षान्तरेष्वपि ।शिखा मता शिफाशाखाघृणिज्वालासु मूर्धनि ॥ ६०१४ ॥
46.6014 · p. 445
अनुष्टुप्
चूडायां केकिचूडायां चूचुकेऽप्यग्रमात्रके ।प्रधानेऽपि तथा वृक्षस्याग्रे छन्दोन्तरे स्त्रियाम् ॥ ६०१५ ॥
46.6015 · p. 445
अनुष्टुप्
शिखी-शिञ्जिनी
ना तु सर्पान्तरे सर्पसत्रयाजि फणाभृताम् ।शिखी स्त्रियामिन्द्रजालविद्यान्तरनदीभिदोः ॥ ६०१६ ॥
46.6016 · p. 446
अनुष्टुप्
शिखाकन्दं तु लशुने पलाण्डावपि कीर्त्तितम् ।शिखाधरो ना मञ्जुश्रीबुद्धे बर्हिणि तु द्वयोः ॥ ६०१७ ॥
46.6017 · p. 446
अनुष्टुप्
शिखामणिः शिरोरत्ने ना श्रेष्ठे तूत्तरस्थितः ।शिखामूलं तु लशुने पलाण्डौ गृञ्जनेऽपि च ॥ ६०१८ ॥
46.6018 · p. 446
अनुष्टुप्
शिखावान्दीपके केतावग्नौ स्याच्चित्रके पुमान् ।त्रिः सचूडेऽपि तीक्ष्णाग्रे स्त्रियां तु स्याच्छिखावती ॥ ६०१९ ॥
46.6019 · p. 446
अनुष्टुप्
शिखावलो मयूरे द्वे तच्छिखायां शिखावला ।शिखी नाग्न्यंशुवृक्षेषु शरे केतुग्रहे द्विजे ॥ ६०२० ॥
46.6020 · p. 446
अनुष्टुप्
दीपे गिरौ धूमकेतौ कपिकच्छ्वां सितावरे ।भिक्षौ नामान्तरे शक्रे तामसान्तरसम्भवे ॥ ६०२१ ॥
46.6021 · p. 446
अनुष्टुप्
द्वितीयबुद्धे बौद्धानां ब्रह्मण्यपि तथा मतः ।परिव्राजिवृषे वृक्षविशेषेऽश्मन्तकाह्वये ॥ ६०२२ ॥
46.6022 · p. 446
अनुष्टुप्
शिखावति त्वयं त्रि स्याद्द्वे कुक्कुटमयूरयोः ।यति मुक्तशिखावत्सु त्रिर्द्वे चैव बकाश्वयोः ॥ ६०२३ ॥
46.6023 · p. 446
अनुष्टुप्
तथाग्निपर्यायतया त्रिसंख्यायामपीष्यते ।शिक्रुः शिक्येऽपि जालेऽपि स्त्रीत्व एव प्रकीर्त्तिता ॥ ६०२४ ॥
46.6024 · p. 446
अनुष्टुप्
शिग्रुर्भोजनशाके स्त्री ना तु शोभाञ्जनद्रुमे ।नृभूम्नि शिग्रवो मर्त्त्ये ज्ञातिभेदेऽपि वैदिके ॥ ६०२५ ॥
46.6025 · p. 446
अनुष्टुप्
शिङ्गो वृक्षे किशोरेऽपि पुँल्लिङ्गः परिकीर्त्तितः ।शिङ्घाणः कोशवृद्धावप्यब्धिफेने तथा पुमान् ॥ ६०२६ ॥
46.6026 · p. 446
अनुष्टुप्
शिङ्घाणा त्रिषु नासाया मले क्लीबं त्वयोमले ।काचपात्रेऽपि कूर्चेऽपि शिङ्घाणं परिकीर्त्तितम् ॥ ६०२७ ॥
46.6027 · p. 446
अनुष्टुप्
शिञ्जा धनुर्गुणे स्त्री स्यान्नूपुरादिध्वनावपि ।शिञ्जितं क्ली नूपुरादिध्वनौ तद्वति तु त्रिषु ॥ ६०२८ ॥
46.6028 · p. 446
अनुष्टुप्
शिञ्जी शिञ्जावति त्रि स्याच्छिञ्जिनी स्त्री चतुर्गुणे ।वृत्तचापेऽपि गणिते नूपुरेऽपि तथा मता ॥ ६०२९ ॥
46.6029 · p. 446
अनुष्टुप्
शितं-शिम्बलः
शितं त्रि तेजिते ना तु विश्वामित्रसुते शरे ।क्लीबं शिता मदोष्णि स्याद्योनौ यकृति मेदसि ॥ ६०३० ॥
46.6030 · p. 447
अनुष्टुप्
शितिः स्त्री तेजने ना तु वर्णयोः शुक्लकृष्णयोः ।ऋजावप्यथ च त्रि स्यादुक्तवर्णयुते शितिः ॥ ६०३१ ॥
46.6031 · p. 447
अनुष्टुप्
भूर्जवृक्षेऽपि सारेऽथ त्रिस्तद्वर्णयुते ऋजौ ।शितिकण्ठः शिवे पुंसि तथा नागान्तरे मतः ॥ ६०३२ ॥
46.6032 · p. 447
अनुष्टुप्
नीलकण्ठखगे तु द्वे तथा दात्यूहकेकिनोः ।चन्दने क्ली शितौ कस्तूर्यां च स्याच्छितिचन्दनम् ॥ ६०३३ ॥
46.6033 · p. 447
अनुष्टुप्
शितिपृष्ठस्त्रियोगार्थे पुमान्नागपुरोहिते ।शित्पुटो भ्रमरे च द्वे जन्तौ मार्जारसन्निभे ॥ ६०३४ ॥
46.6034 · p. 447
अनुष्टुप्
शिथिलं त्वदृढे त्रि स्याच्छिथिली तु स्त्रियामियम् ।वम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ ६०३५ ॥
46.6035 · p. 447
अनुष्टुप्
शिपिर्नब्रश्मिशेफेषु द्वे पशुप्राणिनोः शिपि ।शैत्याच्छयनयोगाच्च शिपि वारि प्रचक्षते ॥ ६०३६ ॥
46.6036 · p. 447
अनुष्टुप्
शिपिविष्टस्तु खलतौ शिवे विष्णौ पुमान्मतः ।त्रिर्दुश्चर्मणि शेफाग्रचर्महीनेऽपि निर्धने ॥ ६०३७ ॥
46.6037 · p. 447
अनुष्टुप्
शिप्रो हनौ स्याच्छिप्रा तु नासायां च नदीभिदि ।शिप्रे कपोलौ शिप्रा तु शिरस्त्राणे प्रकीर्त्तितम् ॥ ६०३८ ॥
46.6038 · p. 447
अनुष्टुप्