All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
क (2/7)
वर्णे तुरुष्कनिर्यासे बभ्रुवर्णे ककुद्मति ।शिंशपासंज्ञके बभ्रुवर्णायां सुरभावपि ॥ १०६३ ॥
17.1063 · p. 81
अनुष्टुप्
हरेण्डभेषजे विद्युत्यग्निदिग्वासिहस्तिनः ।करिण्यां पुण्डरीकस्य ब्रह्मरीत्याख्यलोहके ॥ १०६४ ॥
17.1064 · p. 81
अनुष्टुप्
जातिभेदे तथैकस्मिन्द्वादशानां जलौकसाम् ।मनःशिला रञ्जिताभ्यां पार्श्वाभ्यामिव लक्षिता ॥ १०६५ ॥
17.1065 · p. 81
अनुष्टुप्
पृष्ठे स्निग्धा दुग्धवर्णेत्येवं यल्लक्षणं विदुः ।द्वयोस्तु कुक्कुरोऽकप्यन्तरे मूषिकभेदयोः ॥ १०६६ ॥
17.1066 · p. 81
अनुष्टुप्
कपिलाक्षस्त्रियोगे स्त्री कीर्त्तिता शिंशपान्तरे ।कपिशः श्याववर्णे ना सिल्हकेऽर्के तथा शिवे ॥ १०६७ ॥
17.1067 · p. 81
अनुष्टुप्
कपिशा कपिशीत्येतन्माधव्यां द्वितयं मतम् ।मध्यासवे तु कपिशं कपिशा तु नदीभिदि ॥ १०६८ ॥
17.1068 · p. 81
अनुष्टुप्
जनन्यां च पिशाचानां स्त्रीलिङ्गे परिकीर्त्तिता ।कपिशीर्षं कपेर्मूर्ध्नि प्राकारशिखरेऽपि नप् ॥ १०६९ ॥
17.1069 · p. 81
अनुष्टुप्
कपीतनो गर्दभाण्डप्लक्षे चाम्रातके तथा ।शिरीषाश्वत्थयोः पुंसि क्लीबे तत्प्रसवे स्मृतम् ॥ १०७० ॥
17.1070 · p. 81
अनुष्टुप्
कपीज्यः-कबरी
कपीज्यस्तु कपिश्रेष्ठे क्षीरिकापादपेऽपि च ।कपीन्द्रो जाम्बवद्विष्णुसुग्रीवहनुमत्सु च ॥ १०७१ ॥
17.1071 · p. 82
अनुष्टुप्
कपीवानृषिभेदे नद्यन्तरे तु कपीवती ।कपीष्टः स्यात्कपित्थेऽपि पुमान्राजादनेपि च ॥ १०७२ ॥
17.1072 · p. 82
अनुष्टुप्
सुवाग्रे काकपक्षेपि कपुच्छल कपुत्सले ।कपृत्तु पुंसि मेढ्रेऽपि रूप्येन्द्रेप्यृक्षु दृश्यते ॥ १०७३ ॥
17.1073 · p. 82
अनुष्टुप्
कपोतः पक्षिमात्रेऽपि द्वयोः पारावते तथा ।कुड्यालङ्कृतिभेदे तु करमुद्रान्तरे पुमान् ॥ १०७४ ॥
17.1074 · p. 82
अनुष्टुप्
कपोतसदृशे वर्णे स्यात्सौवीराञ्जनेपि च ।कपोतकः कपोताऽर्थे पारावत्यां कपोतिका ॥ १०७५ ॥
17.1075 · p. 82
अनुष्टुप्
कपोतकी स्त्री श्यामायां क्ली कपोताञ्जने मतम् ।कपोतपाको योगार्थे नृभूत्वद्रिनृजातिषु ॥ १०७६ ॥
17.1076 · p. 82
अनुष्टुप्
कपोतवर्णी सूक्ष्मैलायां योगे तु यथायथम् ।कपोताङ्घ्रिः स्त्रियां विद्रुमवल्ल्यां यौगिके तु ना ॥ १०७७ ॥
17.1077 · p. 82
अनुष्टुप्
कपोलः पुंसि गण्डे स्त्री कपोली सक्थिचक्रके ।कफघ्नी हपुषाभेदे योगे तु स्याद्यथायथम् ॥ १०७८ ॥
17.1078 · p. 82
अनुष्टुप्
पिण्डी तगरवृक्षेपि योगार्थे कफवर्धनः ।मरिचे स्यात्कफविरोधि पिप्पल्याञ्च तथा नपि ॥ १०७९ ॥
17.1079 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुलत्थेस्त्री कफहरिः श्लेमघ्ने तु त्रिषु स्मृतः ।कफी द्वयोर्गजे स्त्रीत्वे कफिनी स्यान्नदीभिदि ॥ १०८० ॥
17.1080 · p. 82
अनुष्टुप्
कफेलूः श्लेष्मातके नाच्छादिषेय तृणे स्त्रियाम् ।कबन्धोऽस्त्र्यप्सु काये च क्रियायुक्तेऽपमूर्धके ॥ १०८१ ॥
17.1081 · p. 82
अनुष्टुप्
उदरेऽप्यथ ना राहौ तथा रक्षोन्तरे मतः ।सांध्यमेद्योदरकुतू राहुरक्षोन्तरेष्वपि ॥ १०८२ ॥
17.1082 · p. 82
अनुष्टुप्
केतूनां या षण्णवतिर्वराहोक्ताऽत्र च क्वचित् ।ना तु गन्धर्वभेदेऽप्याथर्वणेऽपि क्वचिन्मतः ॥ १०८३ ॥
17.1083 · p. 82
अनुष्टुप्
कबन्धी कात्यायने स्यान्मरुतस्तु कबन्धिनः ।कबर्युमायां तुङ्ग्यां च पृथ्व्यां स्त्रीबाष्पिकौषधौ ॥ १०८४ ॥
17.1084 · p. 82
अनुष्टुप्
कबरः-कम्बुः
केशविन्यासभेदेऽथाम्ले चित्रे लवणे च ना ।कबरस्तु त्रिलिङ्गः स्यादुक्तवर्णरसान्वितौ ॥ १०८५ ॥
17.1085 · p. 83
अनुष्टुप्
कम् सुखार्थेऽपि सुष्ठ्वर्थे कुत्साभोज्यशिरोम्बुषु ।वागलंकरणे चापि प्रयुक्तं मान्तमव्ययम् ॥ १०८६ ॥
17.1086 · p. 83
अनुष्टुप्
कमठः कच्छपे शल्ये द्वयोस्त्रिषु तु वामने ।अस्त्री भिक्षाभाजनेऽथ ना वेणौ कूर्मकर्परे ॥ १०८७ ॥
17.1087 · p. 83
अनुष्टुप्
कमण्डलुः स्यात्करके न स्त्री ना प्लक्षपादपे ।चतुष्पाज्जातिभेदे तु द्वयोरेषा कमण्डलूः ॥ १०८८ ॥
17.1088 · p. 83
अनुष्टुप्
कमनो ना स्मरब्रह्माऽशोके त्रीरम्यकामिनोः ।कमनीयश्चम्पकद्रौ त्रिस्तु कामयितव्यके ॥ १०८९ ॥
17.1089 · p. 83
अनुष्टुप्
कमरः कामुके चैव तथा मूर्खेऽभिधेयवत् ।कमलं पद्मताम्राम्बुस्थौणेये रक्तपङ्कजे ॥ १०९० ॥
17.1090 · p. 83
अनुष्टुप्
क्लोम्नि चर्मणि हेमाद्यैश्चित्रिते छुरिकादिनः ।नक्षत्रसंख्याऽन्तरयोर्भेषजेऽपि नपुंसकम् ॥ १०९१ ॥
17.1091 · p. 83
अनुष्टुप्
अथ द्वयोः सारसे च कमलः स्यान्मृगान्तरे ।नागरङ्गे तु कमला लक्ष्म्याञ्चैव वरस्त्रियाम् ॥ १०९२ ॥
17.1092 · p. 83
अनुष्टुप्
पुमांस्तु ब्रह्मणि तथा संगीतध्रुवकान्तरे ।न तु ना कमली छन्दोभेदेऽपि कमले तथा ॥ १०९३ ॥
17.1093 · p. 83
अनुष्टुप्
विरिञ्चौ पुंसि कमलगर्भो योगे यथायथम् ।नाऽम्भोजपत्रे कमलच्छदो द्वे कङ्कपक्षिणि ॥ १०९४ ॥
17.1094 · p. 83
अनुष्टुप्
पद्मासने स्यात्कमलासनं ब्रह्मणि पुंस्ययम् ।कम्पनं तद्द्वयोः कम्पे कम्प्रे स्यादभिधेयवत् ॥ १०९५ ॥
17.1095 · p. 83
अनुष्टुप्
कम्बलस्तूत्तरासङ्गे गोसास्नायां तथा क्वचित् ।पार्वताभक्तभिन्नागभेदयोः क्लीबमम्बुनि ॥ १०९६ ॥
17.1096 · p. 83
अनुष्टुप्
कम्बली करिणः सज्जनायां स्यात्त्रिस्तु रल्लके ।कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् ॥ १०९७ ॥
17.1097 · p. 83
अनुष्टुप्
क्लीबं स्यात्पण्डके न स्त्री वाच्यलिङ्गस्त्वविक्रमे ।कम्बुर्गजे द्वे त्रिषु तु शङ्खे सख्यान्तरेऽपि च ॥ १०९८ ॥
17.1098 · p. 83
अनुष्टुप्
कम्बूः-करण्डः
वलये तण्डुलकणे शम्बूके च प्रकीर्त्तितः ।कम्बूः स्त्री कुरुविन्दे स्याद्भूषणे च त्सरावपि ॥ १०९९ ॥
17.1099 · p. 84
अनुष्टुप्
कम्बाजास्तु नृभून्नि स्युर्देशे ना त्वस्य राजनि ।शङ्खेऽपत्ये त्वस्य राज्ञो द्वयोस्तद्वद्गजान्तरे ॥ ११०० ॥
17.1100 · p. 84
अनुष्टुप्
कम्रा कशायां कम्रस्तु रम्ये त्रिः कमितर्यपि ।करो वर्षोपले रश्मौ पाणावंशे च शासितुः ॥ ११०१ ॥
17.1101 · p. 84
अनुष्टुप्
मुद्राविक्षेपहिंसेभशुण्डाधवलशालिषु ।प्रत्यायेऽथ करं क्लीबं मेघकार्मुक इष्यते ॥ ११०२ ॥
17.1102 · p. 84
अनुष्टुप्
करकस्तु कमण्डल्वां कर्कर्यां चास्त्रियां मतः ।करङ्के तु पुमांश्चाम्रे दाडिमेऽप्यथ तत्फले ॥ ११०३ ॥
17.1103 · p. 84
अनुष्टुप्
क्लीबं द्वयोस्तु करका पक्षिभेदेऽम्बुदोपले ।करङ्को मस्तकेशस्य नारिकेलफलास्थनि ॥ ११०४ ॥
17.1104 · p. 84
अनुष्टुप्
पुँल्लिङ्गो मांसरहिते ताम्बूलादेश्च भाजने ।करच्छदा तु सिन्दूरपुष्प्यां शाखोटके तु ना ॥ ११०५ ॥
17.1105 · p. 84
अनुष्टुप्
करजो ना नखे चैव करञ्जाख्यतरावपि ।करजं क्ली तत्प्रसवे तथा व्याघ्रनखौषधौ ॥ ११०६ ॥
17.1106 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
करज्जो वृक्षभेदेऽपि दैत्यभेदेऽपि कीर्त्तितः ।करञ्जिका करञ्जे द्वे भृङ्गराजे करञ्जकः ॥ ११०७ ॥
17.1107 · p. 84
अनुष्टुप्
करटो गजगण्डे ना बिल्वे श्राद्धे च नूतने ।वाद्यभेदेऽथ करटं कुङ्कुमे क्लीबमुच्यते ॥ ११०८ ॥
17.1108 · p. 84
अनुष्टुप्
द्वयोस्तु काके त्रिर्दुर्दुरूटे कुत्सितजीवने ।करटा तु स्त्रियां दुःखदोह्यायां स्मर्यते गवि ॥ ११०९ ॥
17.1109 · p. 84
अनुष्टुप्
करणं कारणे काये साधने कर्मणीन्द्रिये ।क्षेत्रेऽपि साधकतमे नाट्यगीतिप्रभेदयोः ॥ १११० ॥
17.1110 · p. 84
अनुष्टुप्
रतबन्धे तथा ज्योतिःशास्त्रज्ञानाञ्च कुत्रचित् ।ग्रहवारर्क्षयोगेषु तथा पद्मासनादिषु ॥ ११११ ॥
17.1111 · p. 84
अनुष्टुप्
स्पृष्टाद्युच्चारणभिदि द्वे तु शूद्रविशोः सुते ।करण्डो मधुककोशासिसमुद्गेषु दलाढके ॥ १११२ ॥
17.1112 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
करण्डी-करी
स्त्री करण्डी पुटीसंज्ञपात्रे द्वे विहगान्तरे ।करपत्रं क्ली क्रकचे करपात्रेऽपि कीर्त्तितम् ॥ १११३ ॥
17.1113 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्ली (wrong syllable)
करपर्णो भवेद्रक्तैरण्डे भिण्डाद्रुमेऽपि च ।करपल्लव उक्तो ना बाहावस्त्री मृदौ करे ॥ १११४ ॥
17.1114 · p. 85
अनुष्टुप्
करपालो मतः खड्गे करस्य त्रिषु पालके ।करपाली स्त्रियामीलीसंज्ञे शस्त्रे पुमान्पुनः ॥ १११५ ॥
17.1115 · p. 85
अनुष्टुप्
करभो मणिबन्धादिकनिष्ठान्ते करस्य ना ।आतपे धान्यपवने द्वे बालोष्ट्रे च गर्दभे ॥ १११६ ॥
17.1116 · p. 85
अनुष्टुप्
कपित्थे पीलुवृक्षे च भवेत्करभवल्लभः ।करभी स्यादुष्ट्रपत्न्यां वृश्चिकाल्यामपि स्त्रियाम् ॥ १११७ ॥
17.1117 · p. 85
अनुष्टुप्
करमर्दः कृष्णपाकवृक्षे तत्प्रसवे तु नप् ।करमर्दी स्त्रियां कृष्णपाकजात्यन्तरेऽल्पके ॥ १११८ ॥
17.1118 · p. 85
अनुष्टुप्
करम्बः सेकमिश्रान्ने ना त्रि मिश्रे सुमे तु नप् ।करम्भी पात्रभेदे स्यात्करम्भो दधिसक्तुषु ॥ १११९ ॥
17.1119 · p. 85
अनुष्टुप्
करवीरः कृपाणे ना दैत्यभेदाश्वमारयोः ।करवीर्यदितिश्रेष्ठगवी पुत्रवतीषु च ॥ ११२० ॥
17.1120 · p. 85
अनुष्टुप्
मनः शिलायां तु भवेत्करवीरा स्त्रियां तथा ।आढकीसंज्ञधान्येश्वमारद्रुप्रसवे तु नप् ॥ ११२१ ॥
17.1121 · p. 85
अनुष्टुप्
करहाटः पद्मशिफाकन्दे च मदनद्रुमे ।पुष्पजातौ देशभेदे नृभूम्नि प्रसवे तु नप् ॥ ११२२ ॥
17.1122 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
करालो दन्तुरे तुङ्गे विशाले विकृतेऽपि च ।कडारवर्णयुक्ते च भीषणे चाभिधेयवत् ॥ ११२३ ॥
17.1123 · p. 85
अनुष्टुप्
ससर्जरसतैले तु कालमाले गुणे च ना ।कडाराख्येऽथ तत्क्लीबं मतं कृष्णकुठेरके ॥ ११२४ ॥
17.1124 · p. 85
अनुष्टुप्
चर्मकोशे कराली तु दंष्ट्राभेदे च भोगिनः ।अग्निजिह्वाविशेषे च पार्वत्यां च स्त्रियां भवेत् ॥ ११२५ ॥
17.1125 · p. 85
अनुष्टुप्
करालिको द्रुभेदेऽसौ दुर्गायां तु करालिका ।करी गजे मनुष्ये च द्वयोः कर्त्तरि तु त्रिषु ॥ ११२६ ॥
17.1126 · p. 85
अनुष्टुप्
करीरः-कर्करुः
करीरः कुकुराख्ये ना वृक्षे वंशाङ्कुरे घटे ।करीरी चीरिकायां स्त्री दन्तमूले च दन्तिनः ॥ ११२७ ॥
17.1127 · p. 86
अनुष्टुप्
प्रेरके तु गजस्यैष करीरो वाच्यवन्मतः ।करुणा क्लेशवल्लोकालोकजे तु भवे मुनेः ॥ ११२८ ॥
17.1128 · p. 86
अनुष्टुप्
करुणो रसभेदे च छागवृक्षे पुमान्मतः ।दैन्यं तु करुणं क्लीबं करुणाविषये त्रिषु ॥ ११२९ ॥
17.1129 · p. 86
अनुष्टुप्
करूशस्तण्डुलकणे कुसूले क्षत्रियान्तरे ।नीवृद्भेदे तु पुंभूम्नि करूशा इति कीर्त्तिताः ॥ ११३० ॥
17.1130 · p. 86
अनुष्टुप्
करूषको मनोर्वैवस्वतस्य तनयान्तरे ।करूषकं क्लीबलिङ्गं फलभेदे प्रकीर्त्तितम् ॥ ११३१ ॥
17.1131 · p. 86
अनुष्टुप्
करेणुः कर्णिकारद्रौ गजेऽपि च पुमान्मतः ।करेणुरिभ्यां स्त्री प्रोक्ता तथैव स्याल्लतान्तरे ॥ ११३२ ॥
17.1132 · p. 86
अनुष्टुप्
करोटं वस्त्रकोशेऽथ द्वयोर्भृत्ये प्रयुज्यते ।करोटं च करोटी च कपाले शिरसो भवेत् ॥ ११३३ ॥
17.1133 · p. 86
अनुष्टुप्
करोटी स्त्री घनाम्लायाञ्चाङ्गुल्यां परिकीर्त्तिता ।कर्कः कर्के राशिभेदे शुक्लाऽश्वे दर्पणे घटे ॥ ११३४ ॥
17.1134 · p. 86
अनुष्टुप्
कर्को नाऽग्नौ सितेऽश्वस्य वर्णे द्वे तु सिते हये ।कर्कटो द्वे कुलीरे स्यात्कङ्कसंज्ञे च पक्षिणि ॥ ११३५ ॥
17.1135 · p. 86
अनुष्टुप्
कर्कटी देवदाल्यां स्त्री वालूक्यां शाल्मलीफले ।राशौ तु मेषतस्तुर्ये पुँलिङ्गः कर्कटो मतः ॥ ११३६ ॥
17.1136 · p. 86
अनुष्टुप्
आरोह्यायास्तुलायाश्च तथैवावयवान्तरे ।कर्कटाह्वा कर्कटशृङ्ग्यां बिल्वे तु पुमानयम् ॥ ११३७ ॥
17.1137 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कर्कन्धूः पुंस्त्रियोः क्रोष्टुकदर्याम्परिकीर्त्तिता ।व्रणे बदर्यां विष्टम्भे रथादीनां युगे तथा ॥ ११३८ ॥
17.1138 · p. 86
अनुष्टुप्
स्त्री तु मध्वाज्यसंसिक्तयवलाजजतर्पणे ।कर्करो भाण्डभेदेऽस्थ्नि पाषाणे दर्पणेऽपि ना ॥ ११३९ ॥
17.1139 · p. 86
अनुष्टुप्
दृढे तु भेद्यलिङ्गोऽथ कर्करी करके स्त्रियाम् ।कूष्माण्डकालिङ्गयोर्ना कर्करुस्तत्फले तु नप् ॥ ११४० ॥
17.1140 · p. 86
अनुष्टुप्
कर्कशः-कर्त्तृ
कर्कशः काशमर्दासिकाम्पिल्येक्षुपटोलके ।कर्कशी बदरीभेदे नरकोलीति विश्रुते ॥ ११४१ ॥
17.1141 · p. 87
अनुष्टुप्
त्रि तु क्रूरे खरस्पर्शे दये साहसिके दृढे ।पटोले कर्कशफलो दग्धावृक्षे स्त्रियामसौ ॥ ११४२ ॥
17.1142 · p. 87
अनुष्टुप्
कर्काटो नवनीते ना मिश्रे नवविलोलिते ।तक्रे महीरुहे चैव पुँल्लिङ्गः परिकीर्त्तितः ॥ ११४३ ॥
17.1143 · p. 87
अनुष्टुप्
कर्कोटो नागभेदेऽपि सविषौषधभिद्यपि ।कर्कोटकः स्यान्मालूरकाद्रवेयप्रभेदयोः ॥ ११४४ ॥
17.1144 · p. 87
अनुष्टुप्
कर्कोटकी पीतघोषा तथा कटुफला स्मृता ।कर्णः क्षेत्रान्तरे श्रोत्रे क्षुद्रे निःश्रोत्रके पशौ ॥ ११४५ ॥
17.1145 · p. 87
अनुष्टुप्
नौकापृष्ठस्थिताऽरित्रे राधेये कनकावलौ ।कर्णपूरं तु कथितं क्ली सौगन्धिक उत्पले ॥ ११४६ ॥
17.1146 · p. 87
अनुष्टुप्
शिरीषतिलकाशोककर्णालंकरणेषु ना ।कर्णपूरणमुक्तं क्ली मुस्ते च श्रोत्रपूरणे ॥ ११४७ ॥
17.1147 · p. 87
अनुष्टुप्
अर्थे पूरयतेः कर्णपूरणा क्लीस्त्रियोर्मता ।कर्णान्धूरुत्क्षिप्तिकाख्ये कर्णालङ्करणान्तरे ॥ ११४८ ॥
17.1148 · p. 87
अनुष्टुप्
तथैव कर्णपाल्यामप्येषा स्त्रीलिङ्ग इष्यते ।कर्णिका मध्यमाङ्गुल्यां कर्णालङ्करणेऽपि च ॥ ११४९ ॥
17.1149 · p. 87
अनुष्टुप्
करिहस्ताङ्गुलौ वप्रबीजकोश्यामपि स्त्रियाम् ।क्रमुकादिच्छटांशे स्त्री रोगभेदेऽपि कीर्त्तिता ॥ ११५० ॥
17.1150 · p. 87
अनुष्टुप्
कर्णिकारः पुमानारग्वधद्रौ च द्रुमोत्पले ।कर्णी तु पशुबन्धार्था रज्जुभेदे स्त्रियां मता ॥ ११५१ ॥
17.1151 · p. 87
अनुष्टुप्
कर्त्तनं छेदनेऽश्वस्य लुठने सूत्रनिर्मितौ ।नापितस्योपकरणे कर्त्तनी कर्भिकाभिधे ॥ ११५२ ॥
17.1152 · p. 87
अनुष्टुप्
स्यात्क्रियायां कर्त्तयतेः कर्त्तनं कर्त्तनेति च ।कर्त्तरी स्त्री कृपाण्यां च बाणपुङ्खे च कीर्त्तिता ॥ ११५३ ॥
17.1153 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क (wrong syllable)
कर्त्ता ब्रह्मणि भव्यद्रौ ना स्वतन्त्रेऽपि कारके ।कारके तु त्रिषु प्रोक्तः कर्त्तृ भव्यफले नपि ॥ ११५४ ॥
17.1154 · p. 87
अनुष्टुप्
कर्दटः-कर्षः
कर्दटः करहाटे स्यात्पङ्कपङ्कारयोरपि ।कर्दनी चैत्रपूर्णायां कर्दनं कुत्सिते रवे ॥ ११५५ ॥
17.1155 · p. 88
अनुष्टुप्
कर्दमोऽस्त्री मनःपङ्के पङ्कारेऽप्ययमिष्यते ।कर्परो ना घटादीनां शकले च शिरोऽस्थनि ॥ ११५६ ॥
17.1156 · p. 88
अनुष्टुप्
कपालाख्ये कटाहे च द्रुमाङ्गे चायुधान्तरे ।रजाञ्जने कर्परीति स्त्रियामेषा प्रयुज्यते ॥ ११५७ ॥
17.1157 · p. 88
अनुष्टुप्
कर्बुदारः काञ्चनारे नीलझिण्ट्यां तथा पुमान् ।कर्बुरं क्ली जले हेम्नि ना तु चित्रे हरित्सिते ॥ ११५८ ॥
17.1158 · p. 88
अनुष्टुप्
पापे रक्षसि शट्यां च त्रि तु तद्वर्णयोगिनि ।तथा तद्वर्णसुरभौ पुनः स्त्री कर्बुरा तथा ॥ ११५९ ॥
17.1159 · p. 88
अनुष्टुप्
जलौकाजातिभेदे च सविषे यस्य लक्षणम् ।या छिन्नोन्नतकुक्षिः स्याद्वर्मिमत्स्यवदायता ॥ ११६० ॥
17.1160 · p. 88
अनुष्टुप्
सविषा कर्बुरा नाम जलौका सा प्रकीर्त्तिता ।अथ कर्मकरो भृत्ये वेतनाजीविनि त्रिषु ॥ ११६१ ॥
17.1161 · p. 88
अनुष्टुप्
ना कीनाशेऽथ मूर्वायां बिम्बिकायामपि स्त्रियाम् ।कर्मण्या स्त्री भृतौ कर्मसाधुसंपादिनोस्त्रिषु ॥ ११६२ ॥
17.1162 · p. 88
अनुष्टुप्
कर्मास्त्र्यर्थप्रयोगे च क्रियायां तनये मखे ।शिल्पे पापे च पुण्ये च कर्त्रेप्सिततमादिके ॥ ११६३ ॥
17.1163 · p. 88
अनुष्टुप्
कारके भव्यवृक्षे च फले त्वस्य नपुंसकम् ।अथ कर्मफलं कर्मरङ्गकर्मविपाकयोः ॥ ११६४ ॥
17.1164 · p. 88
अनुष्टुप्
कर्मारो ना कर्मरङ्गे तथा वेणावयस्कृति ।कर्मी हाटकपुत्र्यां स्त्री तथा शालापलालयोः ॥ ११६५ ॥
17.1165 · p. 88
अनुष्टुप्
कर्वः कामे पुमानुक्तो निष्पत्रिक्षेत्र एव च ।कर्वटोऽस्त्री भवेत्क्षुद्रग्रामे द्रोणमुखाभिधे ॥ ११६६ ॥
17.1166 · p. 88
अनुष्टुप्
कर्वरी स्त्री शिवाभूम्योः कर्वरः शबले त्रिषु ।द्वे व्याघ्ररक्षसोर्ना तु देशे पापेऽञ्जलावपि ॥ ११६७ ॥
17.1167 · p. 88
अनुष्टुप्
कर्शनो नाशने त्रि स्यादग्नौ पुंसि प्रकीर्त्तितः ।कर्षोऽस्त्री पलतुर्येऽथ कर्षणे ना बिभीतके ॥ ११६८ ॥
17.1168 · p. 88
अनुष्टुप्
कर्षकः-कलशिः
कर्षकोऽङ्गारके ना त्रिः क्रष्टर्यपि कृषीबले ।बिभीतके कर्षफलोऽथामलक्यां स्त्रियामियम् ॥ ११६९ ॥
17.1169 · p. 89
अनुष्टुप्
कर्षी त्रिः कर्षके चैव हारिण्यपि च वाच्यवत् ।कृषके द्वे कर्षिणौ तु क्षीरिण्यां कर्षणी तथा ॥ ११७० ॥
17.1170 · p. 89
अनुष्टुप्
कर्षूः पुमान्करीषाग्नौ स्त्रियां कुल्येष्टिखातयोः ।कलस्त्वङ्गुष्ठसंस्पर्शे वीणातन्त्रीषु सौरभे ॥ ११७१ ॥
17.1171 · p. 89
अनुष्टुप्
पुष्पस्थे तिलकस्याथ त्र्यव्यक्तमधुरध्वनौ ।मूकेप्यजीर्णे शुक्रे तु कलं क्लीबमुदीरितम् ॥ ११७२ ॥
17.1172 · p. 89
अनुष्टुप्
कलकण्ठः पिके हंसे कपोते द्वे त्रियौगिके ।कोलाहले कलकलः सालनिर्यासके शिवे ॥ ११७३ ॥
17.1173 · p. 89
अनुष्टुप्
कलक्काणस्तु दात्यूहे भ्रमरे द्वे त्रि यौगिके ।कलङ्कषः स्यात्सिंहेऽपि करताल्यां तथा पुमान् ॥ ११७४ ॥
17.1174 · p. 89
अनुष्टुप्
कलञ्जो ना तमाखौ च दिग्धबाणाहते पशौ ।कलत्रं दुर्गदेशे भूपादेश्च श्रोणिभार्ययोः ॥ ११७५ ॥
17.1175 · p. 89
अनुष्टुप्
कलधौतं सुवर्णे च रजते च नपुंसकम् ।कलध्वनिः पुमान्पारावते पिकमयूरयोः ॥ ११७६ ॥
17.1176 · p. 89
अनुष्टुप्
कलभः करिपोते च करभेऽपि द्वयोर्मतः ।स्त्रियां तु कलभी प्रोक्ता धुस्तूरे चञ्चुभेषजे ॥ ११७७ ॥
17.1177 · p. 89
अनुष्टुप्
कलमः शालिभिच्चौराङ्कुरलेखनिकासु ना ।कलम्बः शाकनाले च बाणे चाऽपि पुमान्मतः ॥ ११७८ ॥
17.1178 · p. 89
अनुष्टुप्
कलम्बी शाकभेदे त्र्यस्त्रीस्तम्बे शतपर्वणि ।पिके कलरवः पारावते च द्वे त्रियौगिके ॥ ११७९ ॥
17.1179 · p. 89
अनुष्टुप्
कललं चर्मकोशेऽस्थ्नि क्लीबमस्त्री त्वयोमले ।उल्बे ताम्रघटे किट्टे गर्भावस्थान्तरेऽपि च ॥ ११८० ॥
17.1180 · p. 89
अनुष्टुप्
कलविङ्को द्वे चटके तद्भेदे पीतमुण्डके ।कलशः कलशी कुम्भे द्वे ना द्रोणाख्यमानके ॥ ११८१ ॥
17.1181 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वे (wrong syllable)
स्थाल्यां तु दधिमन्थन्यां कलशी परिकीर्त्तिता ।कलशिर्भेषजस्तम्बे पृश्निपर्णीति विश्रुते ॥ ११८२ ॥
17.1182 · p. 89
अनुष्टुप्