All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
ग (1/2)
गः पुंसि गरुडे नस्त्री गान्धारगुरुवर्णयोः ।त्र्युत्तरस्थो गन्तृमात्रे न ना गतिप्रभेदके ॥ १८०७ ॥
19.1807 · p. 134
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
गगनं क्लीबमाकाशे सपर्यायं तथाभ्रके ।गङ्गापुत्रस्तु भीष्मे ना स्यात्काशीघट्टपूजके ॥ १८०८ ॥
19.1808 · p. 134
अनुष्टुप्
द्वयोः संकरभेदेऽपि शवनिर्हारिणि स्मृतः ।गच्छो वृक्षे कुटुम्बेऽपि श्रेढीसंख्यान्तरेऽपि च ॥ १८०९ ॥
19.1809 · p. 134
अनुष्टुप्
गजः-गणः
गजो द्वे वारणेऽथाऽष्टस्वपि हस्तयुगायतौ ।वास्तुस्थानान्तरे पुंसि पार्श्वयोः प्रवणे गजः ॥ १८१० ॥
19.1810 · p. 135
अनुष्टुप्
सूर्यानुगासुरभिदोर्गर्ते गजपुटाभिधे ।तालभेदेऽप्यथ गजा गजी वीथ्याम्प्रकीर्त्तिता ॥ १८११ ॥
19.1811 · p. 135
अनुष्टुप्
रोहिण्यादित्रिकात्मा या पुनर्वस्वादिकाऽपि वा ।गजच्छाया स्त्रियां सूर्यग्रहे योगान्तरे तथा ॥ १८१२ ॥
19.1812 · p. 135
अनुष्टुप्
कृष्णत्रयोदशीहस्तस्थिते सूर्ये मघायुते ।इति लक्षणके चेभच्छाये तु क्लीस्त्रियोर्भवेत् ॥ १८१३ ॥
19.1813 · p. 135
अनुष्टुप्
गजता तु गजत्वेऽपि समूहे चाऽपि हस्तिनाम् ।गजदन्तो हस्तिरदे गणेशे नागदन्तके ॥ १८१४ ॥
19.1814 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ह (wrong syllable)
करमुद्राविशेषेऽपि पुँल्लिङ्गः परिकीर्त्तितः ।गजप्रिया तरौ रम्भाभेदेऽपि गजवल्लभा ॥ १८१५ ॥
19.1815 · p. 135
अनुष्टुप्
गजस्कन्धो हस्तिसैन्ये चक्रमर्दे तथा पुमान् ।गजारिस्तु पुमान्सिंहे शिवे वृक्षान्तरेऽपि च ॥ १८१६ ॥
19.1816 · p. 135
अनुष्टुप्
गजाशनोऽश्वत्थवृक्षे स्त्रियान्तु स्याद्गजाशना ।सल्लक्याम्पद्मकन्देऽपि केचिदेताम्प्रचक्षते ॥ १८१७ ॥
19.1817 · p. 135
अनुष्टुप्
गजाह्वा गजपिप्पल्यां गजाह्वं हस्तिनापुरे ।गजाह्वयं हास्तिनपुर्यथ नृभ्वस्य वासिषु ॥ १८१८ ॥
19.1818 · p. 135
अनुष्टुप्
गञ्जो खनौ सुरागेहे कोशे चाप्याकरेऽपि च ।गञ्जः स्यात्पुंसि रीढायाम्भाण्डागारे तु न स्त्रियाम् ॥ १८१९ ॥
19.1819 · p. 135
अनुष्टुप्
ना पल्ल्यापणयोः क्वापि गञ्जाकिन्याम्पुनः स्त्रियाम् ।गडो मीनेऽन्तराये च वृतो खाते नृलिङ्गकः ॥ १८२० ॥
19.1820 · p. 135
अनुष्टुप्
गडुः स्यात्पृष्ठगग्रन्थौ वैश्योरः स्थकिणे तथा ।घाटामस्तकयोर्मध्ये मांसपिण्डेऽप्ययम्पुमान् ॥ १८२१ ॥
19.1821 · p. 135
अनुष्टुप्
कुब्जे तु गडुपृष्ठान्यनाम्नि स्याद्वाच्यवद्गडुः ।गडेरस्तु प्रस्रवणशीले स्यादभिधेयवत् ॥ १८२२ ॥
19.1822 · p. 135
अनुष्टुप्
अथ पुंसि प्रस्रवणभूमावेष प्रकीर्त्तितः ।गणो बहुत्वे गणने धूनौ च प्रमथे व्रजे ॥ १८२३ ॥
19.1823 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
गणकः-गतिः
गुल्मतस्त्रिगुणे सैन्ये चण्डायामृषिभिद्यपि ।गणकः पुंसि दैवज्ञे गणनाकर्त्तरि त्रिषु ॥ १८२४ ॥
19.1824 · p. 136
अनुष्टुप्
स्याद्गणाधिपतिः पुंसि शङ्करे च गजानने ।गणिका यूथिकावैश्यातर्कारीभीषु कीर्त्तिता ॥ १८२५ ॥
19.1825 · p. 136
अनुष्टुप्
गणेरुः कर्णिकारद्रौ करिणीवेश्ययोः स्त्रियाम् ।गण्डः कपोले गर्वे च वीथ्यङ्गे पिटकेऽपि च ॥ १८२६ ॥
19.1826 · p. 136
अनुष्टुप्
चिह्ने वीरे बुद्बुदे च हयकण्ठविभूषणे ।ज्योतिःशास्त्रेषु ये योगाः सप्तविंशतिरीरिताः ॥ १८२७ ॥
19.1827 · p. 136
अनुष्टुप्
विष्कम्भप्रीतिरित्याद्यास्तेषामन्यतमेऽप्यसौ ।चतुष्टये कपर्दानान्द्वे तु खड्गाह्वये मृगे ॥ १८२८ ॥
19.1828 · p. 136
अनुष्टुप्
गण्डकस्तु द्वयोः खड्गमृगे ना शिशुभूषणे ।अवच्छेदेऽन्तराये च संख्याविद्याप्रभेदयोः ॥ १८२९ ॥
19.1829 · p. 136
अनुष्टुप्
अस्त्रियां तूपधानेऽथ गण्डकी सरिदन्तरे ।गण्डशैलो ललाटे स्याच्च्युतस्थूलोपले गिरेः ॥ १८३० ॥
19.1830 · p. 136
अनुष्टुप्
गण्डीरस्तु पुमान्कन्दजातिभेदे समष्ठिला ।इति संज्ञान्तरं यस्य बहुभेषजसाधिते ॥ १८३१ ॥
19.1831 · p. 136
अनुष्टुप्
उपयोग्यद्रवद्रव्ये क्ली तु स्यात्तण्डुलीयके ।चव्ये च स्त्री तु गण्डीरी विपन्नायां स्नुहि स्मृता ॥ १८३२ ॥
19.1832 · p. 136
अनुष्टुप्
गण्डूषा द्वे वक्त्रपूर्त्तौ तथोक्ता करिपुष्करे ।आस्यरोध्रद्रवे तद्वत्प्रसृतोन्मितवस्तुनि ॥ १८३३ ॥
19.1833 · p. 136
अनुष्टुप्
गण्डोलस्तु पुमान्पिण्डे गजस्य मुखपार्श्वयोः ।ऊर्ध्वप्रदेशयोश्चापि क्रिमिभेदे तु स द्वयोः ॥ १८३४ ॥
19.1834 · p. 136
अनुष्टुप्
गतन्तु क्ली गतौ ना तु प्रकारेऽथ च ढौकिते ।ग्रामादौ ढौकितवति तथाऽतीतेऽपि वाच्यवत् ॥ १८३५ ॥
19.1835 · p. 136
अनुष्टुप्
गीतिप्रकृतिशब्देषु ये तालव्याः स्थिता अचः ।तेषामपीति शब्दोऽयं विकारो यत्र गीयते ॥ १८३६ ॥
19.1836 · p. 136
अनुष्टुप्
गीतिकाले स शब्दोऽयञ्च्छन्दोगैरुच्यते गतः ।गतिर्नाडीव्रणे मार्गेऽपि शब्दे सामगीतिगे ॥ १८३७ ॥
19.1837 · p. 136
अनुष्टुप्
गदः-गम्भीरम्
उपायदशयोर्ज्ञाने प्रस्थाने शरणेऽपि च ।गन्तव्ये पुण्यपापाभ्यां प्रागूर्ध्वादिक्रिया गतिः ॥ १८३८ ॥
19.1838 · p. 137
अनुष्टुप्
गदः कृष्णाऽनुजे रोगे गदा स्यादायुधान्तरे ।गदयित्नुः स्मरे मेघे ना त्रिर्जल्पककामिनोः ॥ १८३९ ॥
19.1839 · p. 137
अनुष्टुप्
गद्गदस्वर इत्येष कीर्त्तितो महिषे द्वयोः ।गद्यन्त्वपादे ग्रन्थेऽथ गदितव्ये त्रिलिङ्गकम् ॥ १८४० ॥
19.1840 · p. 137
अनुष्टुप्
गन्तुः स्यादतिथौ चापि पथिके चाभिधेयवत् ।गन्ता तु गन्तरि त्रि स्याद्गन्त्री स्त्री शकटान्तरे ॥ १८४१ ॥
19.1841 · p. 137
अनुष्टुप्
गन्धः पुमांश्चन्दनादौ लेशे सम्बन्धगर्वयोः ।गन्धके घ्राणविषये भूगुणे प्रतिवेशिनि ॥ १८४२ ॥
19.1842 · p. 137
अनुष्टुप्
गन्धनं गन्धनाऽन्यस्योत्साहनेऽपि प्रयुज्यते ।न ना प्रकाशने चापि हिंसायै सूचनेऽपि च ॥ १८४३ ॥
19.1843 · p. 137
अनुष्टुप्
अथ गन्धफली पृथ्व्याञ्चम्पकस्य च कोरके ।प्रियङ्गौ गिरिकर्ण्याञ्च विशेषात्सिततद्भिदि ॥ १८४४ ॥
19.1844 · p. 137
अनुष्टुप्
द्वे गन्धमादनो भृङ्गे गन्धके तु कपौ च ना ।स्त्री सुरायां शैलभेदे न स्त्रियां गन्धमादनः ॥ १८४५ ॥
19.1845 · p. 137
अनुष्टुप्
गन्धर्वस्तु द्वयोर्गोलपुसनाम्नि मृगान्तरे ।अन्तरार्णवसत्त्वेऽश्वे गायने दिव्यगायने ॥ १८४६ ॥
19.1846 · p. 137
अनुष्टुप्
पुमांस्तु पुंस्कोकिलके वासुदेवान्तरेऽपि च ।कोष्ठपंक्तौ दक्षिणस्याम्प्रोक्तः षष्ठपदस्थिते ॥ १८४७ ॥
19.1847 · p. 137
अनुष्टुप्
गन्धवांस्त्रिगन्धयुते स्त्रियां गन्धवती मता ।भुवि योजनगन्धायां सुरायां च पुरान्तरे ॥ १८४८ ॥
19.1848 · p. 137
अनुष्टुप्metre not read in every line
स्त्री तु गन्धवहा घ्राणे ना तु वायौ मृगे द्वयोः ।गन्धवाहस्तु ना वायौ योगार्थे तु त्रिषु स्मृतः ॥ १८४९ ॥
19.1849 · p. 137
अनुष्टुप्
गन्धाली तु स्त्रियां भद्राशट्योरेषा प्रकीर्त्तिता ।गभस्तिरंशौ द्वे स्त्री तु स्वाहायां ना रवौ भुजे ॥ १८५० ॥
19.1850 · p. 137
अनुष्टुप्
गभीरं त्रिषु निम्नेऽथ गभीरा वाच्यसौ स्त्रियाम् ।गभीरन्तु जले क्लीबं गभीरे इति रोदसी ॥ १८५१ ॥
19.1851 · p. 137
अनुष्टुप्
गमः-गर्दभः
गमो नाऽक्षविवर्त्ते स्यादपर्यालोचनेऽध्वनि ।गमथस्तु पथि ज्ञेयो जलधाने तथा पुमान् ॥ १८५२ ॥
19.1852 · p. 138
अनुष्टुप्
गम्भीरो नाऽर्णवे कामे जम्बीरे च तमस्यपि ।क्लीबन्तु जम्बीरफले गम्भीरं सलिलेऽपि च ॥ १८५३ ॥
19.1853 · p. 138
अनुष्टुप्
द्यावापृथिव्योर्गम्भीरे गम्भीरा वाच्यसौ स्त्रियाम् ।निम्ने दुरवगाहे च गम्भीरमभिधेयवत् ॥ १८५४ ॥
19.1854 · p. 138
अनुष्टुप्
गयः स्यात्पशुराजर्ष्योर्भेदे दैत्यान्तरेऽपि च ।गया तीर्थान्तरे द्वे त्वपत्ये ना सुगृहे धने ॥ १८५५ ॥
19.1855 · p. 138
अनुष्टुप्
गरो निगरणे चर्षिभेदे क्ल्युपविषेविषे ।गरन्तु क्ली जले देवताडवल्ल्यां गरी गरा ॥ १८५६ ॥
19.1856 · p. 138
अनुष्टुप्
गरी करणभेदेऽपि स्त्रियामेषा प्रकीर्त्तिता ।गरलन्तृणपूले च विषे माने नपुंसकम् ॥ १८५७ ॥
19.1857 · p. 138
अनुष्टुप्
मदनद्रौ तु गरलः पुंसि तत्प्रसवे तु नप् ।गरुडः क्ष्वेडमन्त्रे ना वैनतेये हरिन्मणौ ॥ १८५८ ॥
19.1858 · p. 138
अनुष्टुप्
द्वे तु पक्ष्यन्तरे स्त्री तु जटायां गरुडा मता ।गरुत् तेजसि संघाते पक्षिपक्षे जवे पुमान् ॥ १८५९ ॥
19.1859 · p. 138
अनुष्टुप्
गरुत्मांस्तु पुमान्वैनतेये तु पक्षिणि द्वयोः ।गर्गरी दधिमन्थन्यां क्षेत्रपल्ल्यामपि स्त्रियाम् ॥ १८६० ॥
19.1860 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 तु (wrong syllable)
द्वे तु मीनान्तरे चोग्रीवैदेहजनरान्तरे ।गर्जो द्वयोर्गजेगर्जा त्वक्ली गर्जनवाचिनी ॥ १८६१ ॥
19.1861 · p. 138
अनुष्टुप्
गर्जनो ना गृञ्जनाख्यपलाण्डुभिदि कीर्त्तितः ।गर्जनं गर्जना चेति न ना गर्जित उच्यते ॥ १८६२ ॥
19.1862 · p. 138
अनुष्टुप्
गर्जितं स्तनिते क्लीबं गर्जितो मत्तकुञ्जरे ।गर्त्तस्तु स्यात्सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥ १८६३ ॥
19.1863 · p. 138
अनुष्टुप्
त्रिगर्त्तभेदेऽपि पुमांस्तथैव स्यात्कुकुन्दरे ।गर्दोऽस्त्री द्रवधारायान्धमनीषु च वाचि ना ॥ १८६४ ॥
19.1864 · p. 138
अनुष्टुप्
गर्दभः पशुभेदे द्वे रासभाख्येऽथ गर्दभम् ।कुमुदे श्वेतमुकुदे रूप्ये च स्यान्नपुंसकम् ॥ १८६५ ॥
19.1865 · p. 138
अनुष्टुप्
गर्दभः-गह्वरं
गर्दभस्तु पुमान्गन्धभेदेऽयम्परिकीर्त्तितः ।गर्दभी स्त्री क्षुद्ररोगे कीटभेदे च कीर्त्तिता ॥ १८६६ ॥
19.1866 · p. 139
अनुष्टुप्
गर्भोऽपवरकागारेऽन्नेऽग्नौ पनसकण्टके ।शिशावपत्ये शुक्रे च समूहे सारबीजयोः ॥ १८६७ ॥
19.1867 · p. 139
अनुष्टुप्
कुक्षौ कुक्षिस्थजन्तौ च सन्धौ चापि पुमान्मतः ।गर्मुत्तु गरुडे सूर्ये तेजस्यपि पुमानथ ॥ १८६८ ॥
19.1868 · p. 139
अनुष्टुप्
द्वयोः स्यान्मक्षिकाभेदे पक्षिमात्रेऽप्यथ स्त्रियाम् ।तृणधान्यविशेषेऽथ काञ्चने स्यान्नृशण्डयोः ॥ १८६९ ॥
19.1869 · p. 139
अनुष्टुप्
गर्मुदी गर्मुदाख्ये स्त्री तृणधान्यान्तरे मता ।श्वपाक्यान्तु निषादेन जनिते गर्मुदो द्वयोः ॥ १८७० ॥
19.1870 · p. 139
अनुष्टुप्
गर्वः पुंस्यभिमाने चाऽवलेपे च प्रकीर्त्तितः ।गर्वरः पुंस्यहङ्कारे महिषे तु द्वयोर्मतः ॥ १८७१ ॥
19.1871 · p. 139
अनुष्टुप्
गर्वरी तु स्त्रियामेषा सन्ध्यायां परिकीर्त्तिता ।गलः सर्जरसे तद्वत्कण्ठे चापि पुमान्मतः ॥ १८७२ ॥
19.1872 · p. 139
अनुष्टुप्
कर्कर्यां स्त्री गलन्ती त्रि भुञ्जानच्यवमानयोः ।गलस्तनी तु छाग्यां स्याद्योगे लिङ्गादि चार्थतः ॥ १८७३ ॥
19.1873 · p. 139
अनुष्टुप्
गवलं माहिषे शृङ्गेऽथारण्यमहिषे द्वयोः ।गवाक्षो जालके पुंसि सुग्रीवसचिवेऽप्यथ ॥ १८७४ ॥
19.1874 · p. 139
अनुष्टुप्
गवाक्षी गिरिकर्णीन्द्रवारुणीमल्लिकासु च ।गवादनी स्त्री गिरिकर्ण्यभिधानलतान्तरे ॥ १८७५ ॥
19.1875 · p. 139
अनुष्टुप्
यौगिके त्वर्थवशतो लिङ्गादिकमिहोन्नयेत् ।गवीथुका तु स्त्री क्षुद्रधान्यभेदे पुरे तु नप् ॥ १८७६ ॥
19.1876 · p. 139
अनुष्टुप्
गव्यं रागद्रव्यभेदे मौर्व्यां गव्या तु गोगणे ।गव्यूत्याख्याऽध्वमानेऽथ त्रि दुग्धादौ च गोहिते ॥ १८७७ ॥
19.1877 · p. 139
अनुष्टुप्
गहनं क्ली जलेऽरण्ये दुःखगह्वरयोर्मतम् ।दुष्प्रवेशे तु गहना वाच्यवत्सम्प्रयुज्यते ॥ १८७८ ॥
19.1878 · p. 139
अनुष्टुप्
गह्वरं तु गुहादम्भरहोवारिषु नप् स्मृतम् ।त्रिर्दुष्प्रवेशे भीष्मे च निकुञ्जे तु पुमानयम् ॥ १८७९ ॥
19.1879 · p. 139
अनुष्टुप्
गाङ्गः-गार्भिणं
गाधातुर्गमने गाने त्र्युत्तरस्थः सगन्तरि ।गाङ्गस्तु गङ्गासम्भूते त्रि भीष्मे तु गुहे च ना ॥ १८८० ॥
19.1880 · p. 140
अनुष्टुप्
गाङ्गेयस्तु पुमान्स्कन्दे भीष्मे चाथाभिधेयवत् ।अपत्यमात्रे गङ्गायाः क्ली तु हेमकशेरुणोः ॥ १८८१ ॥
19.1881 · p. 140
अनुष्टुप्
गाढमुष्टिः कृपाणे ना कृपणेत्वभिधेयवत् ।गाण्डीवो गाण्डिवश्चाऽस्त्री कार्मुकेऽर्जुनकार्मुके ॥ १८८२ ॥
19.1882 · p. 140
अनुष्टुप्
गातुर्द्वे कोकिले भृङ्गे गन्धर्वे त्रिषु रोषणे ।पुमांस्तु गातुरन्ने स्याद्वसुधायामपि स्त्रियाम् ॥ १८८३ ॥
19.1883 · p. 140
अनुष्टुप्
गात्रं गजाग्रजङ्घादिभागेऽङ्गे च कलेवरे ।द्वयोस्तु गात्रसङ्कोची जाहकाख्येषु जन्तुषु ॥ १८८४ ॥
19.1884 · p. 140
अनुष्टुप्
गाथा तु वाण्यामार्यायाम्पिङ्गलानुक्तनामसु ।वृत्तेष्वनुष्टुबाद्येषु यानि वृत्तानि पञ्चसु ॥ १८८५ ॥
19.1885 · p. 140
अनुष्टुप्
पादैश्चतुर्भिः षड्भिर्वा तेष्वप्यृषिकृतेष्वसौ ।गानं गीतौ च शब्देऽथ गानी भाद्रस्य पूर्णिमा ॥ १८८६ ॥
19.1886 · p. 140
अनुष्टुप्
गान्धर्वस्तु द्वयोरेष गन्धर्वे खे तु नप्यदः ।गीतभेदेऽथ वाचि स्त्री गान्धर्वी परिकीर्त्तिता ॥ १८८७ ॥
19.1887 · p. 140
अनुष्टुप्
गान्धारन्नपि सिन्दूरे राजदेशभिदोस्तु ना ।गान्धिको लेखके त्रिश्च सुगन्धिव्यवहारिणि ॥ १८८८ ॥
19.1888 · p. 140
अनुष्टुप्
गायत्री त्रिपदा देव्यां स्त्री तथा खदिरद्रुमे ।स्त्रीनपोस्तु चतुर्विंशत्यक्षरप्रभृतिष्वसौ ॥ १८८९ ॥
19.1889 · p. 140
अनुष्टुप्
छन्दः स्वार्षादिष्वथ ना गायत्री ब्रह्मचारिणि ।उपकुर्वाणनाम्न्येवं प्रगाथेषु च तेष्वपि ॥ १८९० ॥
19.1890 · p. 140
अनुष्टुप्
गायत्रीसंज्ञकच्छन्दो येषामादेर्ऋचो भवेत् ।गारित्रस्तु पुमानुक्त आचार्ये गहने तु नप् ॥ १८९१ ॥
19.1891 · p. 140
अनुष्टुप्
गारुडं स्यान्मरकतनाम्नि रत्ने च हेम्नि च ।विषशास्त्रप्रभेदे चाऽथ त्रिर्गरुडयोगिनि ॥ १८९२ ॥
19.1892 · p. 140
अनुष्टुप्
गार्भिणं गर्भिणीनां सम्बन्धिनि त्रिर्व्रजे तु नप् ।सीमन्तोन्नयनाख्ये च स्त्रीणां संस्कारकर्मणि ॥ १८९३ ॥
19.1893 · p. 140
अनुष्टुप्
गार्हपत्यः-गुणः
गार्हपत्यः पश्चिमाग्नौ नप्तु स्याद्भावकर्मणोः ।गालो मदनवृक्षे स्याद्गालनेऽपि पुमानयम् ॥ १८९४ ॥
19.1894 · p. 141
अनुष्टुप्
गालं मदनवृक्षस्य फलेऽपि वडिशेऽपि च ।गालवो मुनिभेदे च पुंसि लोध्रतरावपि ॥ १८९५ ॥
19.1895 · p. 141
अनुष्टुप्
गिर् शब्दः स्त्री सरस्वत्याम्भाषायामपि कीर्त्तितः ।गिरिर्गिरीयकक्रीडागुडके कन्दुके नगे ॥ १८९६ ॥
19.1896 · p. 141
अनुष्टुप्
गोरुग्भेदेऽम्बुदे प्लक्षे गृणातौ गिरतावपि ।नेत्ररोगे तथा गीर्णौ त्रि तु पूज्ये गिरिर्मतः ॥ १८९७ ॥
19.1897 · p. 141
अनुष्टुप्
गिरिजस्त्वभ्रके लोहे शिलाजतुनि चापि नप् ।गिरिजा तु नदीगौरीमातुलुङ्गीष्वियं स्त्रियाम् ॥ १८९८ ॥
19.1898 · p. 141
अनुष्टुप्
गिरिणो जलदे ग्रामे तथा चार्ये पुमान्मतः ।गिरिप्रिया स्त्रियां क्षुद्रफलवातिङ्गनान्तरे ॥ १८९९ ॥
19.1899 · p. 141
अनुष्टुप्
सन्धानीसंज्ञकेऽर्थात्तु लिङ्गाद्यं यौगिके मतम् ।गिरिसारः पुमांल्लोहे वङ्गे मलयपर्वते ॥ १९०० ॥
19.1900 · p. 141
अनुष्टुप्
गिरीशोऽद्रिपतौ वाचस्पतिशङ्करयोः पुमान् ।गिरेरीशे त्रिलिङ्गोऽयं गिरीशः परिकीर्त्तितः ॥ १९०१ ॥
19.1901 · p. 141
अनुष्टुप्
गीतन्नपुंसकं गाने त्रि तु गानस्य कर्मणि ।गीता कृष्णादिगीतासु योगपट्टेऽपि च स्त्रियाम् ॥ १९०२ ॥
19.1902 · p. 141
अनुष्टुप्
गीतिश्छन्दोविशेषे च गाने चापि स्त्रियाम्मता ।स्याद्गुच्छस्तबके धान्यस्तम्बे वीरुत्सु सप्तसु ॥ १९०३ ॥
19.1903 · p. 141
अनुष्टुप्
एकस्यां हारभेदे च द्वात्रिंशद्यष्टिके पुमान् ।गुच्छा स्त्री माषधान्ये च गवीथौ च प्रकीर्त्तिता ॥ १९०४ ॥
19.1904 · p. 141
अनुष्टुप्
गुञ्जोऽक्ली गुञ्जने गुञ्जा कृष्णलावाद्यभेदयोः ।गुड इक्षुविकारे च वकुले पिण्डगोलयोः ॥ १९०५ ॥
19.1905 · p. 141
अनुष्टुप्
पुमांस्तु हस्तिनादेऽथ स्नुहीगुलिकयोर्गुडा ।गुडूची स्त्र्यमृतानाम्न्यां वल्ल्यां कुस्तुम्बुरुण्यपि ॥ १९०६ ॥
19.1906 · p. 141
अनुष्टुप्
गुणो मौर्व्यामप्रधाने वट्यामपि पुमान्मतः ।उपकारे सूपकारे तन्तुरज्ज्विन्द्रियेषु च ॥ १९०७ ॥
19.1907 · p. 141
अनुष्टुप्
गुणनिका-गूढं
सत्त्वादौ भाग आवृत्तौ सन्ध्यादौ द्रव्यमाश्रिते ।महाभूतेषु शौर्यादौ दोषस्य प्रतियोगिनि ॥ १९०८ ॥
19.1908 · p. 142
अनुष्टुप्
स्त्रियां गुणनिका नृत्यशून्याङ्के पाठनिश्चितौ ।प्रधानतत्त्वे सांख्यानां गुणसामान्यमिष्यते ॥ १९०९ ॥
19.1909 · p. 142
अनुष्टुप्
गुण्डको मलिने धूलौ कलोक्तिस्नेहपात्रयोः ।गुन्द्रा फलिन्यां स्त्री भद्रमुस्तके क्षुद्रधान्यके ॥ १९१० ॥
19.1910 · p. 142
अनुष्टुप्
गवेथुसंज्ञे ना त्वेष स्तम्बभेदे शराह्वये ।गुप्तन्तु रक्षितेऽपि स्यान्निगूढेऽप्यभिधेयवत् ॥ १९११ ॥
19.1911 · p. 142
अनुष्टुप्
गुप्तिः स्त्र्यवकरस्थाने कारागारे च रक्षणे ।गुम्फो ना गुम्फने बाहोरलङ्कारे च कीर्त्तितः ॥ १९१२ ॥
19.1912 · p. 142
अनुष्टुप्
गुरुर्बृहस्पतौ बुद्धमुनौ पित्रादिके तथा ।पुरोहिते च गोधूमेऽप्युपनीत्यादिकारिणि ॥ १९१३ ॥
19.1913 · p. 142
अनुष्टुप्
स्त्री तु मातृप्रभृतिषु गुर्वी दध्नि तु तन्नपि ।लग्नान्नवमराशौ च प्राहुः सांवत्सरा इदम् ॥ १९१४ ॥
19.1914 · p. 142
अनुष्टुप्
नीलिकासंज्ञलोहे च त्रिषु तु स्याच्चतुर्ष्वपि ।दुर्जरे बृहति ख्याते लघुनः प्रतियोगिनि ॥ १९१५ ॥
19.1915 · p. 142
अनुष्टुप्
एष्वर्थेषु यदास्त्र्यर्थस्तदा गुर्वीति वा गुरुः ।गुलः स्यादैक्षवे पुंसि स्नुह्यां तु स्त्री गुला स्मृता ॥ १९१६ ॥
19.1916 · p. 142
अनुष्टुप्
गुली तु गुटिकायाञ्च रोगभिद्यपि कीर्त्तिता ।गुल्मोऽस्त्रियां हृद्ग्रन्थ्याख्यव्याधौ सभ्येऽपि वीरुधि ॥ १९१७ ॥
19.1917 · p. 142
अनुष्टुप्
रक्षिस्थाने सैन्यभेदे घट्टेऽपि बलसञ्जने ।शुल्केऽथ गुल्म्यामलक्येलावतीवस्त्रवेश्मसु ॥ १९१८ ॥
19.1918 · p. 142
अनुष्टुप्
गुहः स्कन्दे निषादे च शृङ्गिवेरपुरेश्वरे ।गुहा तु पृश्निपर्ण्याञ्च गर्त्ते गिर्यादिगह्वरे ॥ १९१९ ॥
19.1919 · p. 142
अनुष्टुप्
गुहाशयो द्वे ऋक्षाखुसिंहकूर्मे त्रियौगिके ।गुह्यं त्रिगोप्यरहसोः क्ल्युपस्थे कमठे द्वयोः ॥ १९२० ॥
19.1920 · p. 142
अनुष्टुप्
गूर्मले पुंसि गूरेषा गुदे स्त्री परिकीर्त्तिता ।गूढं रहसि गुह्ये च न द्वयोः संवृते त्रिषु ॥ १९२१ ॥
19.1921 · p. 142
अनुष्टुप्
गृञ्जनः-गैरिकम्
गृञ्जनो मधुशिग्र्वाख्ये शिग्रुभेदेऽथ न स्त्रियाम् ।भेदे पलाण्डुजातीनान्देशानामपि कुत्रचित् ॥ १९२२ ॥
19.1922 · p. 143
अनुष्टुप्
विषदिग्धपशोस्त्वेतन्मांसे क्ली गृञ्जनम्मतम् ।गृत्सो द्वे कुक्कुरे विप्रे त्रिस्तु मेधाविनि स्मृतः ॥ १९२३ ॥
19.1923 · p. 143
अनुष्टुप्
गृधुर्द्वयोः पशौ पुंसि त्वभिलाषे प्रकीर्त्तितः ।गृध्रः खगान्तरे पुंसि वाच्यलिङ्गस्तु लोभिनि ॥ १९२४ ॥
19.1924 · p. 143
अनुष्टुप्
गृष्टिः सकृत्प्रसूतायां गवि काष्मर्यपादपे ।विष्वक्सेनप्रियासंज्ञस्थावरे बदरे स्त्रियाम् ॥ १९२५ ॥
19.1925 · p. 143
अनुष्टुप्
गृहं गृहाश्च पुंभूम्नि कलत्रेऽपि च सद्मनि ।पुमान्गृहपतिर्गार्हपत्याग्नावपि मन्त्रिणि ॥ १९२६ ॥
19.1926 · p. 143
अनुष्टुप्