कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

व (1/8)

वः-वकत्रः

वः सान्त्वने च वाते च वरुणे वन्दने [शुभे] ।[मन्त्रणे] वसतौ बाहौ वस्त्रेऽपि वरुणालये ॥ ४९४७ ॥
45.4947 · p. 369
अनुष्टुप्
शार्दूले चैव शालूके बलवत्यपि पुंसि च ।वं बीजे वरुणस्य स्यादिवार्थे तु तदव्ययम् ॥ ४९४८ ॥
45.4948 · p. 369
अनुष्टुप्
वा स्त्री वयनहिंसेषु गमे ना तन्तुवायके ।वंशः पृष्ठास्थ्नि गेहोर्ध्वकाष्ठे वेणौ गणे कुले ॥ ४९४९ ॥
45.4949 · p. 369
अनुष्टुप्
नासोर्ध्वास्थ्नीक्षुभेदे च शाले विंशतिहस्तके ।रागभेदे तुगाक्षीर्यां विष्णौ वंशः प्रकीर्त्तितः ॥ ४९५० ॥
45.4950 · p. 369
अनुष्टुप्
वंशकस्त्विक्षुवण्वोऽस्थ्नोर्द्वे तु मत्स्यान्तरे मतः ।स्त्री वंशिका मुरल्यां च वंशके त्वगुरौ न ना ॥ ४९५१ ॥
45.4951 · p. 369
अनुष्टुप्
वंशजः कुलजे त्रि स्याद्वंशबीजे पुमानयम् ।वंशजा तु तुगाक्षीर्यां स्त्रीत्वे क्लीबेऽपि च क्वचित् ॥ ४९५२ ॥
45.4952 · p. 369
अनुष्टुप्
[वंशपत्रं मतं क्लीबं हरिताले स्त्रियामपि ।पुंसि मीनेक्षुभेदे च वंशपत्रक इष्यते] ॥ ४९५३ ॥
45.4953 · p. 369
अनुष्टुप्
वंशर्णवस्तु चणकधान्ये ना त्रि तु यौगिके ।वंशिकस्त्वध्वमाने ना दशस्तोमात्मके मतः ॥ ४९५४ ॥
45.4954 · p. 369
अनुष्टुप्
वंशिका वंशवाद्ये च वंशजालेऽपि च स्त्रियाम् ।वंशिकं भेद्यवत्तुच्छे क्लीबं त्वगुरुणि स्मृतम् ॥ ४९५५ ॥
45.4955 · p. 369
अनुष्टुप्
वंशि तु दैर्घ्यमाने तुगाक्षीरीवीणयोरपि ।रक्ताशये चतुष्कर्षमाने चापि स्त्रियां मता ॥ ४९५६ ॥
45.4956 · p. 369
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 तु (wrong syllable)
वंश्यां कुस्तुम्बुरीसंज्ञधान्ये स्त्री वंशजे त्रिषु ।वक्तव्यः कुत्सिते नीचे वाच्येऽधीने तथा त्रिषु ॥ ४९५७ ॥
45.4957 · p. 369
अनुष्टुप्
वक्तव्यवाक्ये वक्तव्यपुरुषे च तथा मतः ।वक्ता तु पण्डितेऽपि स्याद् वाग्मिन्यप्यन्यलिङ्गकः ॥ ४९५८ ॥
45.4958 · p. 369
अनुष्टुप्
वक्त्रोऽस्त्री स्यान्मुखेऽनुष्टुप्छन्दो वृत्तान्तरेषु च ।वस्त्रभेदेऽपि तगरमूलेऽपि परिकीर्त्तितः ॥ ४९५९ ॥
45.4959 · p. 369
अनुष्टुप्

वक्रः-वचनं

वक्रो विष्णौ शनावङ्गारके पर्पटभेषजे ।रुद्रे वाणासुरे पुंसि तगरे तु नपुंसकम् ॥ ४९६० ॥
45.4960 · p. 370
अनुष्टुप्
वक्रा वीणान्तरे चापि कुटिलक्रूरयोस्त्रिषु ।वक्रकण्टस्तु बदरे खदिरेऽपि मतः पुमान् ॥ ४९६१ ॥
45.4961 · p. 370
अनुष्टुप्
वक्रतुण्डो गणेशे ना शुके स्त्रीपुंसयोर्मतः ।वक्रदंष्ट्रो वराहे द्वे योगार्थे तु त्रिषु स्मृतः ॥ ४९६२ ॥
45.4962 · p. 370
अनुष्टुप्
वक्रदन्तो [वराहे स्याद्] दन्तवक्र नृपे तु ना ।वक्रनक्रस्तु पिशुने तथैव शुकपक्षिणि ॥ ४९६३ ॥
45.4963 · p. 370
अनुष्टुप्
वक्रपुष्पो बकागस्त्यपलाशतरुषु स्मृतः ।वक्रशल्या कुटुम्बिन्यां गुञ्जायाञ्च प्रकीर्त्तिता ॥ ४९६४ ॥
45.4964 · p. 370
अनुष्टुप्
वक्रिः पर्शुसमाख्येऽस्थ्नि पार्श्वस्य स्त्री पुमान्पुनः ।दिवसे त्रिस्तु कुटिले शल्यके तु द्वयोरयम् ॥ ४९६५ ॥
45.4965 · p. 370
अनुष्टुप्
वक्षणा वक्षसि तथा तदादावपि कीर्त्तिता ।वक्षाः पुँल्लिङ्ग उक्ष्णि स्याद्वक्षः क्लीबमुरस्थले ॥ ४९६६ ॥
45.4966 · p. 370
अनुष्टुप्
वग्नुः पुमान्स्याद्वचने वाचाले त्वभिधेयवत् ।वङ्का पर्याणभागे द्वे ना नदीपात्रभङ्गुरे ॥ ४९६७ ॥
45.4967 · p. 370
अनुष्टुप्
वङ्किर्वाद्यविशेषे स्त्री कण्टके तु पुमान् मतः ।वङ्कुर्मुनिविशेषे ना वङ्क्तरि त्वभिधेयवत् ॥ ४९६८ ॥
45.4968 · p. 370
अनुष्टुप्
वङ्गाः पौरस्त्यजनपदान्तरे तज्जनेषु च ।नृभूम्नि ना तु वङ्गः स्यादृक्षे वृक्षान्तरेऽप्यथ ॥ ४९६९ ॥
45.4969 · p. 370
अनुष्टुप्
न स्त्री वृन्ताककार्पास्योः क्ली सीसे यशदेऽपि च ।गतौ तु वङ्गो वङ्गा च पुंसि स्त्रीत्वे तथा भवेत् ॥ ४९७० ॥
45.4970 · p. 370
अनुष्टुप्
वचः कीरे द्वयोः स्त्री तु शारिकौषधयोर्वचा ।पुमांसं करणे सूर्ये चापि केचिद्द्वयं विदुः ॥ ४९७१ ॥
45.4971 · p. 370
अनुष्टुप्
वचक्नुः श्रोत्रिये पुंसि तथाचार्ये प्रकीर्त्तितः ।त्रिषु वाग्मिनि विप्रे तु वचक्नुः कीर्त्तितो द्वयोः ॥ ४९७२ ॥
45.4972 · p. 370
अनुष्टुप्
वचण्डा च वचण्डी च छुरिका सारिकाऽनयोः ।वचनं वाक्य उक्तौ च संख्याशुण्ठ्योस्तथेष्यते ॥ ४९७३ ॥
45.4973 · p. 370
अनुष्टुप्

वचनीयं-वञ्चकः

वचनीयं तु वाक्येऽपि तथा दोषे नपुंसकम् ।वचरः कुक्कुटे द्वे स्याच्छठे पुँल्लिङ्ग इष्यते ॥ ४९७४ ॥
45.4974 · p. 371
अनुष्टुप्
वचलुस्तु पुमान्प्रेतेऽपराधेऽपि प्रकीर्त्तितः ।वचिस्तु वचधातौ ना वचने तु स्त्रियाम्भवेत् ॥ ४९७५ ॥
45.4975 · p. 371
अनुष्टुप्
वचुष्यो वक्तरि त्रि स्यान्नकुले तु द्वयोर्मतः ।वज्रोऽस्त्री कुलिशे शस्त्रेऽप्यशनौ मणिवेधके ॥ ४९७६ ॥
45.4976 · p. 371
अनुष्टुप्
हीरकेऽभ्रकभेदेऽपि चासने यस्य लक्षणम् ।जङ्घे पद्मासनावस्थे तत्सन्धिनिहितौ करौ ॥ ४९७७ ॥
45.4977 · p. 371
अनुष्टुप्
ताभ्यामेव स्थितौ भूमावन्तरिक्षासनं च तत् ।व्रतभेदे च गोमूत्रे दम्भे यावकजीवने ॥ ४९७८ ॥
45.4978 · p. 371
अनुष्टुप्
वज्रं स्याद्बालके धात्र्यां योगयज्ञभिदोस्तु ना ।वज्रा स्नुह्यां गुडूच्यां च वज्री दुर्गास्नुहीभिदोः ॥ ४९७९ ॥
45.4979 · p. 371
अनुष्टुप्
वाग्वज्रेऽपि च शल्येऽपि ग्रहस्थित्यन्तरेऽपि च ।तिलपुष्पे श्वेतकुशे कोकिलाक्षे च निष्ठुरे ॥ ४९८० ॥
45.4980 · p. 371
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्वे (wrong syllable)
स्नुह्यां च कोकिलाक्षे च पुमान्स्याद्वज्रकण्टकः ।वज्रतुण्डो द्वयोर्गृध्रे दंशेऽपि गरुडे तु ना ॥ ४९८१ ॥
45.4981 · p. 371
अनुष्टुप्
वज्रदन्तः सूकरेऽपि मूषिकेऽपि द्वयोर्मतः ।शतपुष्प्यां वज्रपुष्पा स्त्री क्ली तु तिलपुष्पके ॥ ४९८२ ॥
45.4982 · p. 371
अनुष्टुप्
वज्रवृक्षः पत्रहीनस्नुहीद्रौ ना क्वचिन्मतः ।वज्रशल्यः शल्यके द्वे वज्रशल्यौषधान्तरे ॥ ४९८३ ॥
45.4983 · p. 371
अनुष्टुप्
वज्रहस्तः पुमानिन्द्रे वज्रहस्ता समिद्भिदि ।वज्राङ्गस्तु द्वयोः सर्पे वज्राङ्गी च गवेधुका ॥ ४९८४ ॥
45.4984 · p. 371
अनुष्टुप्
वज्री तु वज्रयुक्ते त्रिः पुमानिद्रे तथागते ।ग (र) ति-लक्षणमप्युक्तं यस्य नामान्तरं तथा ॥ ४९८५ ॥
45.4985 · p. 371
अनुष्टुप्
वज्रीन्द्रबुद्ध्योः पुंसि स्यात् विश्वेदेवान्तरेऽपि च ।वज्रिणी तु स्त्रियामिष्टकान्तरे परिकीर्त्तिता ॥ ४९८६ ॥
45.4986 · p. 371
अनुष्टुप्
वञ्चकस्तु खले चापि धूर्त्ते वाच्यवदिष्यते ।द्वयोस्तु गृहबभ्रौ च जम्बुके चापि वञ्चकः ॥ ४९८७ ॥
45.4987 · p. 371
अनुष्टुप्

वञ्चितः-वणिक्पथः

वञ्चितो विप्रलब्धे त्रिर्वञ्चिता नायिकाभिदि ।वञ्चुथः कोकिले कारौ द्वे ना दम्भेऽध्वकालयोः ॥ ४९८८ ॥
45.4988 · p. 372
अनुष्टुप्
वञ्चुलस्तिमिशेऽशोके वेतसेऽपि मतः पुमान् ।वञ्जुलस्तिमिशेऽशोके वेतसेऽथापगान्तरे ॥ ४९८९ ॥
45.4989 · p. 372
अनुष्टुप्
द्वे स्त्री गवि सुदोह्यायां न क्ली नदनदीभिदोः ।वटो न्यग्रोधवृक्षेऽपूपान्तरे गन्धके पुमान् ॥ ४९९० ॥
45.4990 · p. 372
अनुष्टुप्
साम्ये चाथ द्वे कपर्दे पक्षिभेदे तथा वटी ।वेणुकीवैश्यजे चाथ स्त्री क्रीडागुटिकार्थिका ॥ ४९९१ ॥
45.4991 · p. 372
अनुष्टुप्
वृक्षान्तरेऽपि गाढायां रज्जौ तु स्याद्वटी त्रिषु ।वटकः पुंसि मानस्य भेदे स्यादष्टमाषके ॥ ४९९२ ॥
45.4992 · p. 372
अनुष्टुप्
वटिका तु स्त्रियां क्रीडागुटिका गुलिकाऽर्थिका ।वटपत्रस्तु तुलसीभेदे शुक्ले पुमान्मतः ॥ ४९९३ ॥
45.4993 · p. 372
अनुष्टुप्
वटपत्रा पुनः स्त्रीत्वे कीर्त्तिता मल्लिकान्तरे ।वटपत्री त्विरावत्यां स्त्रीत्व एव प्रकीर्त्तिता ॥ ४९९४ ॥
45.4994 · p. 372
अनुष्टुप्
वटम्बस्तृणपुञ्जे च शैले च परिकीर्त्तितः ।वटरः कुक्कुरे वस्त्रे शठे त्रिश्चौरचञ्चले ॥ ४९९५ ॥
45.4995 · p. 372
अनुष्टुप्
वटिरुद्देहिकाशूननाभ्योः कल्केऽपि च स्त्रियाम् ।पुमांस्तु वटतौ धातौ वेष्टनार्थे वटिः स्मृतः ॥ ४९९६ ॥
45.4996 · p. 372
अनुष्टुप्
वटी तु रज्जुके नान्तो कर्त्तुलेऽप्यभिधेयवत् ।चतुरङ्गादिगुलिकार्थे तु पुंसि वटी स्मृतः ॥ ४९९७ ॥
45.4997 · p. 372
अनुष्टुप्
वठरस्तु शठे स्थूले मन्दे वक्रेऽपि च त्रिषु ।अथाम्बष्ठे शब्दकारे वर्षे च वठरः पुमान् ॥ ४९९८ ॥
45.4998 · p. 372
अनुष्टुप्
स्त्रियां तु वडवाऽश्वायां कुम्भदास्यां द्विजस्त्रियाम् ।कामतन्त्रप्रसिद्धे स्त्रीभेदे तत्र तु ना वृषे ॥ ४९९९ ॥
45.4999 · p. 372
अनुष्टुप्
गावः पुमांसं यंसन्तमारोहन्ति यियप्सवः ।वडवामुखमश्वाया मुखे क्ली च रसातले ॥ ५००० ॥
45.5000 · p. 372
अनुष्टुप्
वडवामुख इत्येष पुमान्स्यादौर्वपावके ।वणिक्पथस्तुलाराशौ वणिग्वर्त्मनि चेष्यते ॥ ५००१ ॥
45.5001 · p. 372
अनुष्टुप्

वणिक्-वत्सादनी

वणिक्कर्मणि केषाञ्चित् वणिज्यपि पुमान्मतः ।वणिक् स्त्रियां वणिज्यायां क्रयविक्रयिके त्रिषु ॥ ५००२ ॥
45.5002 · p. 373
अनुष्टुप्
तुलाराशौ तु करणभेदे ना वणिजो वणिक् ।वण्टो भागे दात्रमुष्टावथो विभजने द्वयोः ॥ ५००३ ॥
45.5003 · p. 373
अनुष्टुप्
वण्टालो युद्धभेदे च नौकायां च खनित्रके ।वण्ठः स्यादकृतोद्वाहे खर्वे कुन्तायुधेऽपि च ॥ ५००४ ॥
45.5004 · p. 373
अनुष्टुप्
वण्ठरस्तु स्तने तालाङ्कुरे मेघे श्वपुच्छके ।करीरकोशे स्थगिकारज्जौ द्वे ना तु कुक्कुरे ॥ ५००५ ॥
45.5005 · p. 373
अनुष्टुप्
वण्डो ना मृतभार्येऽथाभिनिविष्टे त्रिषु स्मृतः ।अल्पे दुश्चर्मणि तथा छिन्नपुच्छपशावपि ॥ ५००६ ॥
45.5006 · p. 373
अनुष्टुप्
वण्डं निष्कुषितत्वच्यग्रशिश्ने शिश्नमात्रके ।वण्डालः शूरयोर्युद्धे नौकायां च खनित्रके ॥ ५००७ ॥
45.5007 · p. 373
अनुष्टुप्
वतंसः शेखरे कर्णपूरे वीतंसके क्वचित् ।वतामन्त्रणसन्तोषखेदानुक्रोशविस्मये ॥ ५००८ ॥
45.5008 · p. 373
अनुष्टुप्
वतूर्देवनदीसत्यवाक्पथ्यक्षिरुजि स्त्रियाम् ।वत्सः संवत्सरे वृक्षभेदे कुटजसंज्ञके ॥ ५००९ ॥
45.5009 · p. 373
अनुष्टुप्
ऋषिभेदे च तद्वंश्यपुरुषेषु तु भूमनि ।फले तु कुटजस्य क्ली द्वे तु तर्णकसंज्ञके ॥ ५०१० ॥
45.5010 · p. 373
अनुष्टुप्
गोमहिष्यादिपोतेऽपि बालेऽपि तनयादिके ।वर्ये तु वाच्यवद्वत्सो न तु स्त्री वक्षसि स्मृतः ॥ ५०११ ॥
45.5011 · p. 373
अनुष्टुप्
वत्सको वत्सवाच्येऽथ पीततुत्थे नपुंसकम् ।तथैव वत्सनाभेऽपि वत्सकं क्लीबमिष्यते ॥ ५०१२ ॥
45.5012 · p. 373
अनुष्टुप्
वत्सनाभो वृक्षभेदे विषभेदेऽपि दृश्यते ।वत्सरस्तु पुमान्वर्षे पञ्चषान्यतमेऽपि च ॥ ५०१३ ॥
45.5013 · p. 373
अनुष्टुप्
वत्सलो हरिणादौ द्वे त्रिषु प्रेमवति स्मृतः ।गवि सा वत्सकामायां वत्सला स्त्रीत्व इष्यते ॥ ५०१४ ॥
45.5014 · p. 373
अनुष्टुप्
पुमांस्तु रसभेदेऽपि तृणाग्नावपि वत्सलः ।वत्सादनी गुडूच्यां स्त्री द्वयोस्तु वृक इष्यते ॥ ५०१५ ॥
45.5015 · p. 373
अनुष्टुप्

वदः-वनप्रियः

वदो वक्तर्यपि त्रिः स्यान्मगवेदादिमे पुमान् ।वदनं स्यान्मुखेऽप्युक्तावग्रेऽपि शिखरेऽपि च ॥ ५०१६ ॥
45.5016 · p. 374
अनुष्टुप्
वदान्यो वल्गुवाचि स्यात्त्रिषु वाग्मिनि दातरि ।सहस्रदंष्ट्रे पाठीने वदालो मत्स्ययोर्द्वयोः ॥ ५०१७ ॥
45.5017 · p. 374
अनुष्टुप्
वधो ना हनने वज्रे बले त्रिषु तु हिंसके ।वधस्तु हनने वज्रे बलेऽपि गुणनेऽपि च ॥ ५०१८ ॥
45.5018 · p. 374
अनुष्टुप्
वधा तु स्त्री कलम्ब्याख्यजलशाके प्रकीर्त्तिता ।वधकं पद्मबीजे क्ली ना व्याधौ त्रि तु घातके ॥ ५०१९ ॥
45.5019 · p. 374
अनुष्टुप्
वधत्रमायुधे तन्तुवायदण्डे च कीर्त्तितम् ।शूरे धवयिमर्माख्ये कन्दुके च नपुंसकम् ॥ ५०२० ॥
45.5020 · p. 374
अनुष्टुप्
वधिको घातके त्रिः स्यात्कस्तूर्यां क्लीबमिष्यते ।वधूः स्त्री शारि [वायाञ्च नदीपूर्वजभार्ययोः] ॥ ५०२१ ॥
45.5021 · p. 374
अनुष्टुप्
स्नुषाशटीनवोढासु चार्णस्पृक्काङ्गनासु च ।वधूटी तु नवोढायां पुत्रपत्न्यां तथेष्यते ॥ ५०२२ ॥
45.5022 · p. 374
अनुष्टुप्
वध्यस्तु हननीये त्रिर्वध्या हत्या प्रकीर्त्तिता ।वध्री वध्रं वरत्रायां नपि त्रपुणि कीर्त्तितम् ॥ ५०२३ ॥
45.5023 · p. 374
अनुष्टुप्
वध्रिका तु वरत्रायां वध्रिकः स्यान्नपुंसके ।वनं यज्ञे जलेऽरण्ये गहनेंऽशौ धने मुदि ॥ ५०२४ ॥
45.5024 · p. 374
अनुष्टुप्
काष्ठे मुस्ते निवासे च वनी स्त्री गहने मता ।वनकन्दस्तु धरणीकन्देऽपि वनशूरणे ॥ ५०२५ ॥
45.5025 · p. 374
अनुष्टुप्
अगुरौ देवदारौ च वनचन्दनमिष्यते ।वनजो द्वे गजे ना तु मुस्तेऽपि वनशूरणे ॥ ५०२६ ॥
45.5026 · p. 374
अनुष्टुप्
जम्बीरेऽपि च धान्याके वनजा तु वनार्द्रके ।अश्वगन्धाहरिद्राभिद्वनकार्पासिकासु च ॥ ५०२७ ॥
45.5027 · p. 374
अनुष्टुप्
मुद्गपर्ण्यां लताभेदे क्ली कंसोत्पलपद्मयोः ।वनतिक्तो हरीतक्यां वनतिक्ता पुनः स्त्रियाम् ॥ ५०२८ ॥
45.5028 · p. 374
अनुष्टुप्
वनद्रुमस्त्वगुरुणि वनस्थविटपिन्यपि ।वनप्रियः कोकिले द्वे तथैव हरिणान्तरे ॥ ५०२९ ॥
45.5029 · p. 374
अनुष्टुप्

वनमाली-वन्दनीया

वनमाली हरौ तालभेदे स्त्री वनमालिनी ।वराह्यां द्वारकापुर्यामपि चैव प्रकीर्त्तिता ॥ ५०३० ॥
45.5030 · p. 375
अनुष्टुप्
वनवासी तु काके द्वे नृभूम्नि वनवासिनः ।दाक्षिणात्येषु देशेषु केषुचित्परिकीर्त्तितः ॥ ५०३१ ॥
45.5031 · p. 375
अनुष्टुप्
पुमांस्तु वानप्रस्थे स्याद्वनवस्तरि च त्रिषु ।वनश्वा गन्धमार्जारे द्वे व्याघ्रे जम्बुकेऽपि च ॥ ५०३२ ॥
45.5032 · p. 375
अनुष्टुप्
वनस्थो द्वे वनगजे हरिणेऽप्यथ च स्त्रियाम् ।वनस्थाऽत्यम्लपर्ण्याञ्च क्षुद्राश्वत्थे तथा मता ॥ ५०३३ ॥
45.5033 · p. 375
अनुष्टुप्
वनस्पतिर्ना द्रुमात्रे विनापुष्पं फलिद्रुमे ।सोमे वटे पाटले च धृतपृष्ठस्य चात्मजे ॥ ५०३४ ॥
45.5034 · p. 375
अनुष्टुप्
वनहासस्तु काशेऽपि तथा स्यान्मल्लिकान्तरे ।वनायवो जनपदभेदे तद्वासिनृष्वपि ॥ ५०३५ ॥
45.5035 · p. 375
अनुष्टुप्
वनायुस्तु सुते पुंसि स्यात्पुरूरवसः क्वचित् ।वनिः सनुनि चाग्नौ च याच्ञायां च पुमान्मतः ॥ ५०३६ ॥
45.5036 · p. 375
अनुष्टुप्
वनिः स्त्रियां स्यादिच्छायां पुमान्कामे वनिर्मतः ।वनतौ च वनोतौ च शकुनौ तु द्वयोर्मतः ॥ ५०३७ ॥
45.5037 · p. 375
अनुष्टुप्
वनिता स्त्रीमात्रकेऽपि जातरागस्त्रियामपि ।अथ प्रिये याचिते च सेवितेऽप्यभिधेयवत् ॥ ५०३८ ॥
45.5038 · p. 375
अनुष्टुप्
वनिष्ठुस्तु गुदे नाऽश्वे सम्भक्ते त्वभिधेयवत् ।वनी वृक्षे मतौ मेघे सोमे त्रिष्वभिलाषिणि ॥ ५०३९ ॥
45.5039 · p. 375
अनुष्टुप्
वनोद्भवा मुद्गपर्ण्यां वन्ये स्याद्बीजपूरके ।वनदार्वासिफायां च योगे तु स्याद्यथायथम् ॥ ५०४० ॥
45.5040 · p. 375
अनुष्टुप्
वनौका वनवास्तव्ये त्रि द्वयोर्वानरे मतः ।वन्दकस्तु द्वयोर्वन्दावृक्षे ना श्रमणान्तरे ॥ ५०४१ ॥
45.5041 · p. 375
अनुष्टुप्
वन्दथस्तु पुमान्स्तुत्ये तथा स्तोतरि कीर्त्तितः ।वन्दना तु न ना स्तुत्यामभिवादन एव च ॥ ५०४२ ॥
45.5042 · p. 375
अनुष्टुप्
वन्दनी नतिजीवातुवटीयाचनकर्मसु ।वन्दनीयस्त्रिषु स्तुत्ये वन्दनीया तु भिक्षुकी ॥ ५०४३ ॥
45.5043 · p. 375
अनुष्टुप्

वन्दा-वमनः

वन्दा वन्दाकवृक्षेऽपि भिक्षुक्यां च स्त्रियां मता ।वन्दारुः स्तोतरि त्रि स्याद्वन्दारु क्ली स्तुतौ मतम् ॥ ५०४४ ॥
45.5044 · p. 376
अनुष्टुप्
वन्दिः स्त्री प्रग्रहे ना तु वन्दतौ त्रि तु वन्दिनि ।वन्दी त्रिस्तावके द्वे तु वैदेहे मागधेऽपि च ॥ ५०४५ ॥
45.5045 · p. 376
अनुष्टुप्
वन्दी तु निगृहीते स्यात्स्त्रीत्वे चैव प्रयुज्यते ।वन्दीकस्तोरणस्तम्भे तथैव स्यात्पुरन्दरे ॥ ५०४६ ॥
45.5046 · p. 376
अनुष्टुप्
वन्द्यः स्तुत्ये त्रि वन्द्या स्त्री भिक्षुकीवन्दयोर्मता ।वन्ध्यं त्रिर्निष्फले शून्ये वन्ध्या तु स्त्रीत्व इष्यते ॥ ५०४७ ॥
45.5047 · p. 376
अनुष्टुप्
गन्धद्रव्यान्तरे गर्भधृत्ययोग्यस्त्रियामपि ।वन्यस्तु पुंसि वेत्रे च धान्ये मर्कटकाह्वये ॥ ५०४८ ॥
45.5048 · p. 376
अनुष्टुप्
वनशूरणकन्देऽपि रक्तालौ… ।नवबौद्धोपासके तु द्वे वन्या तु जलाप्लवे ॥ ५०४९ ॥
45.5049 · p. 376
metre not recognised
अरण्यान्यां तिक्तकोशातकी वल्ल्यश्वगन्धयोः ।क्ली तु कंसोत्पले वन्यं वनसाधौ तु वाच्यवत् ॥ ५०५० ॥
45.5050 · p. 376
अनुष्टुप्
वन्यं त्रिषु वनोद्भूते स्त्री वनाम्बुसमूहयोः ।वपनं बीजनिक्षेपे क्लीबं स्यात् क्षौरकर्मणि ॥ ५०५१ ॥
45.5051 · p. 376
अनुष्टुप्
खरुकुट्याख्यवपनशास्त्रायां वपनी स्त्रियाम् ।वपनी तु स्त्रियां क्षौरशालायां परिकीर्त्तिता ॥ ५०५२ ॥
45.5052 · p. 376
अनुष्टुप्
वपा मेदसि रन्ध्रे च स्त्रीलिङ्गे परिकीर्त्तिता ।वपुः शरीरे लावण्ये दीप्तिप्रकृतिवारिषु ॥ ५०५३ ॥
45.5053 · p. 376
अनुष्टुप्
वप्ता पितरि ना त्रिर्मुण्डके व्रीह्यादिवापके ।वप्रोऽस्त्री वास्तुभूक्षेत्ररोधःप्राकारसानुषु ॥ ५०५४ ॥
45.5054 · p. 376
अनुष्टुप्
प्राकारमूले क्ली सीसे मञ्जिष्ठायां स्त्रियामथ ।निष्ठुरे वनजे वाजिकायां पाटीर इष्यते ॥ ५०५५ ॥
45.5055 · p. 376
अनुष्टुप्
रेणौ चये पुंसि तटे जनके च प्रजापतौ ।वप्रिः समुद्रे क्षेत्रे ना दुर्गतौ तु स्त्रियां मता ॥ ५०५६ ॥
45.5056 · p. 376
अनुष्टुप्
वमथुर्वमने मेघे गजहस्तोत्थशीकरे ।वमनोऽङ्कोठवृक्षेऽपि भङ्गायां च पुमान्मतः ॥ ५०५७ ॥
45.5057 · p. 376
अनुष्टुप्

वमनी-वरा

वमनी तु जलौकायां कार्पास्यां योगिनीभिदि ।अना तु छर्दने तद्वदर्दनेऽप्याहुतावपि ॥ ५०५८ ॥
45.5058 · p. 377
अनुष्टुप्
नृजातिभेदे वमना नृबहुत्वे प्रकीर्त्तिता ।वमिर्नाऽग्नौ च धत्तूरे वान्तौ स्त्री वमतौ तु ना ॥ ५०५९ ॥
45.5059 · p. 377
अनुष्टुप्
वम्रः पुंस्युषिभेदे स्याद्धूमवर्णप्रभेदयोः ।उपदीका जातिमात्रे वम्रो वम्री च नृस्त्रियोः ॥ ५०६० ॥
45.5060 · p. 377
अनुष्टुप्
वयो धनेऽन्ने बाल्यादौ वत्सरे जीविते खगे ।जातौ च यौवने चैव सान्तं क्लीबमुदीरितम् ॥ ५०६१ ॥
45.5061 · p. 377
अनुष्टुप्
वयस्यस्तरुणे त्रि द्वे मित्रे ब्राह्म्यां पुनः स्त्रियाम् ।काकोलीक्षीरकाकोल्यत्यम्लपर्णीगुडूचिषु च ॥ ५०६२ ॥
45.5062 · p. 377
अनुष्टुप्
सूक्ष्मैलायां हरीतक्यां वयस्या परिकीर्त्तिता ।वया स्त्री तरुशाखायां ना तु गत्यशनादिषु ॥ ५०६३ ॥
45.5063 · p. 377
अनुष्टुप्
वयुनं मन्दिरे शस्ते वैदुष्येऽपि मखे तु ना ।वयुना कान्तिबुद्ध्योः स्त्री द्वे तु स्याद्देवविप्रयोः ॥ ५०६४ ॥
45.5064 · p. 377
अनुष्टुप्
वयोधास्तु द्वयोर्यूनि वयसो धातरि त्रिषु ।आकारान्तोऽपिदृशेऽर्थे तु वयोधाः परिकीर्त्तितः ॥ ५०६५ ॥
45.5065 · p. 377
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वरो ना भूपजामात्रोर्देवादेरीप्सिते क्रुधि ।संभक्तौ चानिरोधे च वृङ्वृञोर्भाववाचकः ॥ ५०६६ ॥
45.5066 · p. 377
अनुष्टुप्