All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
म (2/4)
अथ तुत्थाञ्जने क्लीबं मयूरञ्चासवान्तरे ।क्वचिद्द्वयोः कुक्कुटेऽथ मयूर्यप्यौषधान्तरे ॥ ४१९६ ॥
41.4196 · p. 312
अनुष्टुप्
मयूरकः सुगन्धौ मञ्जीरकाख्ये फणिर्जके ।अपामार्गेऽप्यथ मयूरकन्तुत्थाञ्जने मतम् ॥ ४१९७ ॥
41.4197 · p. 312
अनुष्टुप्
मयूरचूडं स्त्रीत्वे तु स्यान्मयूरशिखौषधौ ।मरो मृत्यौ मर्त्यलोके नारकेषु त्वनी नृभू ॥ ४१९८ ॥
41.4198 · p. 312
अनुष्टुप्
मरकः-मरुः
मरको जनमार्यां नृ जातिभेदे पुनर्नुभू ।मरतोऽग्नौ पुमाञ्जन्तौ द्वयोर्मरत इष्यते ॥ ४१९९ ॥
41.4199 · p. 313
अनुष्टुप्
मरणन्तु मृतौ स्थानेऽप्यष्टमे गरलान्तरे ।मरायो मृत एकाह ऋतुभेदकुसूलयोः ॥ ४२०० ॥
41.4200 · p. 313
अनुष्टुप्
नपुंसकं मरायं स्यादुभयोः सामभेदयोः ।अग्निं नरो दीधितिभिरित्यस्यामृचि गीतयोः ॥ ४२०१ ॥
41.4201 · p. 313
अनुष्टुप्
मरायी घातके दीप्ते कैश्चित्संज्ञान्तरे स्मृतः ।मरालः पुंसि वर्णेऽल्पपीतरक्ते त्रि तद्वति ॥ ४२०२ ॥
41.4202 · p. 313
अनुष्टुप्
मरालः कज्जले जाल्मे मेघे दाडिमकुञ्जके ।मृदौ शुभे विशालेऽथ द्वे तु हंसाश्वहस्तिषु ॥ ४२०३ ॥
41.4203 · p. 313
अनुष्टुप्
मरिचस्तु मरीचेऽपि कतके तुलसीभिदि ।मरिचं तु मरीचस्य फले कक्कोलकेऽपि च ॥ ४२०४ ॥
41.4204 · p. 313
अनुष्टुप्
मरीचौ च मरीचं तु मरिचस्य फले मतम् ।मरीचिर्मृगतृष्णायां किरणे च द्वयोर्मतः ॥ ४२०५ ॥
41.4205 · p. 313
अनुष्टुप्
अष्टके त्रसरेणूनां लिक्षाख्यपरिमाणके ।ना तु सप्तर्षिभेदेऽपि कृपणे तु त्रिषु स्मृतः ॥ ४२०६ ॥
41.4206 · p. 313
अनुष्टुप्
मरीचिका स्त्री लिक्षाख्ये त्रसरेणुभिरष्टभिः ।सम्मिते मानभेदेऽपि मृगतृष्णाख्यतेजसि ॥ ४२०७ ॥
41.4207 · p. 313
अनुष्टुप्
मरीचिकस्तु पुँल्लिङ्गो लोकभेदे प्रकीर्त्तितः ।मरीचिगर्भो लोकेऽपि हरिवंशादिवर्णिते ॥ ४२०८ ॥
41.4208 · p. 313
अनुष्टुप्
नृभूम्नि दाक्षसावर्णिमन्वन्तरसुरेष्वपि ।मरीचिपस्त्रिर्योगार्थे किरणेषु नृभूमनि ॥ ४२०९ ॥
41.4209 · p. 313
अनुष्टुप्
मरुस्तु निर्जले देशे शैले चेक्ष्वाकुवंशजे ।पितामहेऽम्बरीषस्य हर्यश्वतनयेऽपि च ॥ ४२१० ॥
41.4210 · p. 313
अनुष्टुप्
सोमवंश्येऽथ पुंभूम्नि स्युर्दाशेरकनीवृति ।तन्निवासिष्वपि तथा द्वयोस्तु हरिणे मरुः ॥ ४२११ ॥
41.4211 · p. 313
अनुष्टुप्
मरुः-मरुन्माला
क्वाप्युद्भिदन्तरे पुंसि स्यान्निरम्बूपवासके ।वसुभेदे तथा दैत्यभेदे चापि मरुर्मतः ॥ ४२१२ ॥
41.4212 · p. 314
अनुष्टुप्
मरुकस्तु मयूरेऽपि हरिणेऽपि द्वयोर्मतः ।मरुजा तु स्त्रियामुच्चमृदुपाण्डुररोमिका ॥ ४२१३ ॥
41.4213 · p. 314
अनुष्टुप्
रोमराजिमती मध्ये द्वादशाङ्गुलसम्मिता ।इत्युक्ते मृगभेदे स्यादथ त्रिर्मरुसम्भवे ॥ ४२१४ ॥
41.4214 · p. 314
अनुष्टुप्
नखाख्यगन्धखदिरभिदोः स्त्री त्विन्द्रवारुणी ।मरुजो हंसभेदे द्वे श्वापदेऽप्यथ नब्जले ॥ ४२१५ ॥
41.4215 · p. 314
अनुष्टुप्
मरुण्डोच्चललाटा स्त्री नृभूम्नि तु जनान्तरे ।मरुन्ना पवने शैलशिखरे चामरान्तरे ॥ ४२१६ ॥
41.4216 · p. 314
अनुष्टुप्
बृहद्रथे साध्यभेदे स्यात्तथैवोद्भिदन्तरे ।मरुदेशे च रूपे चत्विर्जि स्वर्णे तु नप्स्मृतम् ॥ ४२१७ ॥
41.4217 · p. 314
अनुष्टुप्
द्बे देवमात्रे स्पृक्कायां स्त्री क्लीबं ग्रन्थिपर्णके ।मरुतस्तु सुरे द्वे स्याद्वायुपाटलयोः पुमान् ॥ ४२१८ ॥
41.4218 · p. 314
अनुष्टुप्
मरुत्तो नृपभेदेऽपि क्वचिद्वायौ प्रकीर्त्तितः ।मरुत्पुत्रस्य पर्यायाभीमेऽपि च हनूमति ॥ ४२१९ ॥
41.4219 · p. 314
अनुष्टुप्
मरुत्वान्वा मरुत्मान् वा मेघेन्द्रहनुमत्सु च ।मरुत्सखोऽग्नाविन्द्रे च पुँल्लिङ्गः परिकीर्त्तितः ॥ ४२२० ॥
41.4220 · p. 314
अनुष्टुप्
मरुद्बद्धो यागपात्रभित्सामांशभिदोर्हरौ ।मरुद्भवा ताम्रमूलाकार्पास्योः परिकीर्त्तिता ॥ ४२२१ ॥
41.4221 · p. 314
अनुष्टुप्
मरुद्रथोऽश्वे देवानां स्यन्दने च प्रकीर्त्तितः ।मरुद्वधा नदीभेदे मरुद्वर्धिनि तु त्रिषु ॥ ४२२२ ॥
41.4222 · p. 314
अनुष्टुप्
मरुद्वहस्तु धूमेऽपि तथाऽग्नौ च पुमान्मतः ।मरुन्माला हि रक्तेऽपि स्पृक्कायां च प्रकीर्त्तिता ॥ ४२२३ ॥
41.4223 · p. 314
अनुष्टुप्
मरुबकः-मर्दनः
भवेन्मरुबकः पुंसि मदनद्रौ फणिर्जके ।राहौ भयानके तु त्रि द्वयोर्व्याघ्रे बकेऽपि च ॥ ४२२४ ॥
41.4224 · p. 315
अनुष्टुप्
महेन्द्रवारुण्यायासभेदयोर्मरुसम्भवः ।अथ मूलकभेदेऽयं पुमान्स्यान्मरुसम्भवः ॥ ४२२५ ॥
41.4225 · p. 315
अनुष्टुप्
मरूकः केकिहरिणभेकेषु च पुमानयम् ।मर्कोऽभ्रार्कमरुद्ब्रह्मेन्दुमनोदेवदारुषु ॥ ४२२६ ॥
41.4226 · p. 315
अनुष्टुप्
सूर्योपरागे शुक्रस्य पुत्रे बालग्रहान्तरे ।द्वयोः सर्पेऽथ विघ्नस्य कर्त्तरि त्रिषु कीर्त्तितः ॥ ४२२७ ॥
41.4227 · p. 315
अनुष्टुप्
प्राणवायावपि तथा मर्को यक्षान्तरे क्वचित् ।मर्कटस्तु कपौ द्वे स्याल्लूतायां चाथ नप्स्त्रियोः ॥ ४२२८ ॥
41.4228 · p. 315
अनुष्टुप्
कपाटबन्धनार्थायाः सूचेर्विष्कम्भयन्त्रके ।मर्कटं मर्कटी चेति स्यात्स्त्रियां त्वेव मर्कटी ॥ ४२२९ ॥
41.4229 · p. 315
अनुष्टुप्
कपिकच्छ्वाख्यवल्ल्याञ्च करञ्जद्रुमभिद्यथ ।तुरुष्कनिर्यासे वन्याख्यमुद्गेपि च मर्कटः ॥ ४२३० ॥
41.4230 · p. 315
अनुष्टुप्
विषभेदेऽपि च स्त्रीणां पुमान्स्यात्करणान्तरे ।धान्यभेदे मर्कटको द्वे तु मत्स्यान्तरे मतः ॥ ४२३१ ॥
41.4231 · p. 315
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
मर्करो भृङ्गराजे ना मर्करा वन्ध्ययोषिति ।क्षितेर्गर्भे च गर्त्ते च भाजनेऽपि स्त्रियां मता ॥ ४२३२ ॥
41.4232 · p. 315
अनुष्टुप्
मर्जूः सम्मार्जनीशुद्ध्योर्नद्यां तीरे नदीतटे ।शिलायां च स्त्रियामुक्ता रजके तु द्वयोर्मता ॥ ४२३३ ॥
41.4233 · p. 315
अनुष्टुप्
पुमांस्तु पीठमर्देऽपि स्त्रीधर्मिपुरुषे क्वचित् ।मर्त्तृस्त्वृष्यन्तरे मर्त्त्यलोके ना मनुजे द्वयोः ॥ ४२३४ ॥
41.4234 · p. 315
अनुष्टुप्
मर्त्तव्यो मरणार्हे त्रिरवश्यमरणे तु नप् ।मर्त्त्यो द्वयोर्मनुष्ये भेद्यवन्मरणधर्मिणि ॥ ४२३५ ॥
41.4235 · p. 315
अनुष्टुप्
मर्त्त्यलोके पुमान्मर्त्त्या मृत्यौ स्त्री क्ली पुनः स्तनौ ।मर्दो ना मर्दने बाधे पीडायां त्रिस्तु मर्दके ॥ ४२३६ ॥
41.4236 · p. 315
अनुष्टुप्
मर्दनी तु स्त्रियां योधपादरक्षार्थयन्त्रके ।युचि स्यान्मर्दनः प्राय उत्तरस्थः प्रबाधके ॥ ४२३७ ॥
41.4237 · p. 315
अनुष्टुप्
मर्दनम्-मलनम्
नपुंसकं तु मृद्नातेरर्थे मर्दनमिष्यते ।स्यात्प्रसाधनसंवाहनादितद्बाधनादि च ॥ ४२३८ ॥
41.4238 · p. 316
अनुष्टुप्
मर्दिनी गीतभेदे स्याद्योगार्थे तूत्तरस्त्रिषु ।मर्म व्रणार्हस्थानेऽङ्गसन्धौ गोप्ये नपुंसकम् ॥ ४२३९ ॥
41.4239 · p. 316
अनुष्टुप्
मर्मरो वस्त्रपर्णादिस्वनिते त्रिस्तु तद्वति ।मर्मरा भक्ष्यभेदे स्त्री मौडी (ढी) संज्ञेऽथ मर्मरी ॥ ४२४० ॥
41.4240 · p. 316
अनुष्टुप्
श्रुतिशष्कुलितानाडीभिद्यपि स्त्री देवदारुणि ।मर्मरीकोऽनले शूरे ना द्वे श्येनेऽधमे त्रिषु ॥ ४२४१ ॥
41.4241 · p. 316
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मर्यो मर्त्त्येपि तरुणे वरणीयेऽश्व उष्ट्रके ।मर्या तु चिह्ने सीमान्तेऽपि च स्त्रीत्वे प्रकीर्त्तिता ॥ ४२४२ ॥
41.4242 · p. 316
अनुष्टुप्
मर्यादा स्त्री व्यवस्थासीमयो रक्षाङ्गुलीयके ।क्वाप्यथर्वेऽपदिष्टेऽथ न्यायनिर्णेतरि त्रिषु ॥ ४२४३ ॥
41.4243 · p. 316
अनुष्टुप्
अर्वाचीनस्य वैदर्भ्याम्पत्न्यां देवातिथेरपि ।विदेहजायां भार्यायां मर्यादा नाम दृश्यते ॥ ४२४४ ॥
41.4244 · p. 316
अनुष्टुप्
मर्शः क्षुताभिजनने चोपदेशे पुमानयम् ।मर्शनं घर्षणे स्पर्शे स्याद्व्याख्याने परीक्षणे ॥ ४२४५ ॥
41.4245 · p. 316
अनुष्टुप्
मर्षितं क्ली क्षमायां तद्युक्ते स्यान्मर्षितर्यपि ।मलः पापे च वातादावस्त्रियां किट्टविष्ठयोः ॥ ४२४६ ॥
41.4246 · p. 316
अनुष्टुप्
ममुद्रफेने कर्पूरे क्ली तु स्यात्कांस्यलोहयोः ।वृश्चिकस्य च शूकेपि तथा चर्मणि शोधिते ॥ ४२४७ ॥
41.4247 · p. 316
अनुष्टुप्
मला तु भूम्यामल्यां स्त्री त्रिः स्यान्मलिनपापिनोः ।द्वयोस्तु मालुकीशूद्रसम्भवे वर्णसङ्करे ॥ ४२४८ ॥
41.4248 · p. 316
अनुष्टुप्
मलघ्नः शाल्मलेर्मूले मलघ्नी नागमर्दिनी ।तथायं स्यात्त्रिलिङ्गस्तु मलघ्नम्मलहन्तरि ॥ ४२४९ ॥
41.4249 · p. 316
अनुष्टुप्
मलजं तु मतं पूये नृभूमलदजातिषु ।मलदो माषधान्ये ना मलदास्तु नृभूमनि ॥ ४२५० ॥
41.4250 · p. 316
अनुष्टुप्
स्थौराख्यनीवृद्भेदे स्युस्त्रिष्वयं मलदातरि ।मलनः पटवासे ना मलनं मर्दने नपि ॥ ४२५१ ॥
41.4251 · p. 316
अनुष्टुप्
मलपु-मलूकः
मलपु क्ली नले शृङ्ग्यां त्रिस्तु स्यान्मलमार्जके ।काकोदुम्बरिकाक्षीरविदार्योर्मलपू स्त्रियाम् ॥ ४२५२ ॥
41.4252 · p. 317
अनुष्टुप्
मलयो देश आरामे शैलांशे पर्वतान्तरे ।उपद्वीपान्तरे नन्दनोद्यानोद्यानयोः क्वचित् ॥ ४२५३ ॥
41.4253 · p. 317
अनुष्टुप्
तालभेदेपि न स्त्री स्यात् त्रि वृतायां तु योषिति ।चन्दने क्ली मलयजं राहौ मलयजः पुमान् ॥ ४२५४ ॥
41.4254 · p. 317
अनुष्टुप्
मलवान्मलिने त्रिः सार्त्तवायां मलवत्यसौ ।स्त्रियां तु मलवद्वासा उदक्यायां त्रियौगिके ॥ ४२५५ ॥
41.4255 · p. 317
अनुष्टुप्
मलहारक इत्येष मलहर्त्तरि वाच्यवत् ।गजोपचारकुशले पुंसि स्यान्मलहारकः ॥ ४२५६ ॥
41.4256 · p. 317
अनुष्टुप्
मलाका स्वैरिणीदूतीकरेणुष्विष्यते स्त्रियाम् ।मलिना मलिनी पुष्पवत्यां स्त्री मलिनं नपि ॥ ४२५७ ॥
41.4257 · p. 317
अनुष्टुप्
पापटङ्कणतुच्छेऽप्सु त्रिस्तु कृष्णे मलीमसे ।मलिनस्तु पुमांस्तंसुपुत्रे पाशुपते यतौ ॥ ४२५८ ॥
41.4258 · p. 317
अनुष्टुप्
क्रूरे त्रिर्ना तु मलिनमुखोऽग्नौ प्रेतभिद्यपि ।गोलाङ्गूले तु मलिनमुखः स्त्रीपुंसयोर्मतः ॥ ४२५९ ॥
41.4259 · p. 317
अनुष्टुप्
मलिम्लुचोऽयञ्च यज्ञे गृहस्थे पावकेऽपि च ।अधिमासेऽपि पुंसि स्याच्चौरे तु त्रिष्वथ स्मृतः ॥ ४२६० ॥
41.4260 · p. 317
अनुष्टुप्
मशके शावके चापि चातके रजके द्वयोः ।मलिष्ठो मलिने त्रि स्त्री मलिष्ठा सार्तवस्त्रियाम् ॥ ४२६१ ॥
41.4261 · p. 317
अनुष्टुप्
मलीकन्त्वञ्जने क्लीबम्मलीकः पुंसि विद्विषि ।मलीमसस्तु मलिने पुष्पकाशीशलोहयोः ॥ ४२६२ ॥
41.4262 · p. 317
अनुष्टुप्
मलुको जठरे पुंसि द्वयोस्तु स्याच्चतुष्पदे ।मलूकः कृमिभेदे द्वे सरोजशकुनौ खगे ॥ ४२६३ ॥
41.4263 · p. 317
अनुष्टुप्
मल्लः-मल्लिकाकुसुमः
मल्लो योधे बलिष्ठे च श्रेष्ठे स्यादुत्तरस्थितः ।स्यान्नारायणराजेऽर्हत्येकविंशे भविष्यति ॥ ४२६४ ॥
41.4264 · p. 318
अनुष्टुप्
हविःशेषासुरभिदोर्हनौ पात्रान्तरे पुनः ।मल्लो मल्ली कपाल्याख्यमत्स्यभेदेऽपि च द्वयोः ॥ ४२६५ ॥
41.4265 · p. 318
अनुष्टुप्
व्रात्यपूर्वक्षत्रियाजे व्रात्याज्जाते द्वयोर्मतः ।मल्लनागः पत्रवाहे वात्स्यायनसुरेभयोः ॥ ४२६६ ॥
41.4266 · p. 318
अनुष्टुप्
मल्लरिस्तु पुमान्कृष्णे शिवेऽपि परिकीर्त्तितः ।मल्लकस्तु पुमान्दन्ते नृभूम्नि तु जनान्तरे ॥ ४२६७ ॥
41.4267 · p. 318
अनुष्टुप्
मल्ला तु प्रमदायां स्त्री मल्लिकायां तु मल्ल्यपि ।मल्ला मल्लिश्च पीठे तु पत्रवल्लीविभूषणे ॥ ४२६८ ॥
41.4268 · p. 318
अनुष्टुप्
द्वे तु पत्रपुटे पात्रे नारिकेलास्थिभाजने ।मल्लारो रागभेदेऽथ मल्लारी रागिणीभिदि ॥ ४२६९ ॥
41.4269 · p. 318
अनुष्टुप्
मल्लिः स्त्री मस्त्यभेदेऽपि स्यात्कपालकरङ्कयोः ।मल्लिकायां च मृत्पात्रेऽथासनेप्यथ मल्लतौ ॥ ४२७० ॥
41.4270 · p. 318
अनुष्टुप्
धातावर्हत्यूनविंशेपि च मल्लिः पुमान्मतः ।मल्लिको नृस्त्रियोर्दीपाधारे स्याद्धंसभिद्यपि ॥ ४२७१ ॥
41.4271 · p. 318
अनुष्टुप्
मल्लिका भूपदीनाम्न्यां पुष्पवल्ल्यां स्त्रियां मता ।मल्लिका तृणशून्येऽपि मीनमृत्पात्रभेदयोः ॥ ४२७२ ॥
41.4272 · p. 318
अनुष्टुप्
मल्लिकाकुसुमः पुंसि करुणाख्ये फलद्रुमे ।योगार्थे त्वस्य लिङ्गादि तर्कणीयं यथायथम् ॥ ४२७३ ॥
41.4273 · p. 318
अनुष्टुप्
मल्लिकाक्षः-मस्तुलुङ्गः
मल्लिकाक्षः सितैर्नेत्रेर्लक्षितेऽश्वे शुनि द्वयोः ।हंसे च चञ्चुचरणैर्मलिनैरुपलक्षिते ॥ ४२७४ ॥
41.4274 · p. 319
अनुष्टुप्
मल्लिकाक्षी श्वेतचिह्ननेत्रशुन्यां क्वचिन्मता ।मशः शब्देऽपि कोपे ना मशके तु द्वयोर्मतः ॥ ४२७५ ॥
41.4275 · p. 319
अनुष्टुप्
मशकस्त्वृषिभेदे ना चर्मरोगान्तरे दृतौ ।शाकदीप्ये जनपदे द्वयोस्तु स्यान्मलिम्लुचे ॥ ४२७६ ॥
41.4276 · p. 319
अनुष्टुप्
वस्त्रैः कृते स्यान्मशकहरी मशकरुद्धये ।मशकं क्षिपते योन्यस्तत्र वाच्यवदिष्यते ॥ ४२७७ ॥
41.4277 · p. 319
अनुष्टुप्
मसनं हिंसने माने सोमराज्याञ्च कीर्त्तितम् ।मसारो नीलरत्ने स्यात्तथा जनपदान्तरे ॥ ४२७८ ॥
41.4278 · p. 319
अनुष्टुप्
मसिः कृपणतृष्णायां शस्त्र्यां मष्याञ्च काण्डके ।मसिकः सर्पविवरे शेफाली मसिका स्मृता ॥ ४२७९ ॥
41.4279 · p. 319
अनुष्टुप्
मसूरः पुंसि मङ्गल्यधान्ये चर्मासनान्तरे ।मसूरी व्रीहिकङ्काख्यधान्ये स्त्री मारिवेश्ययोः ॥ ४२८० ॥
41.4280 · p. 319
अनुष्टुप्
मसूरो मसुरी चापि ह्रस्वमध्यावपि स्मृतौ ।मसूरी पापरोगे स्यादुपधाने पुनः पुमान् ॥ ४२८१ ॥
41.4281 · p. 319
अनुष्टुप्
मसृणी तु स्त्रियामेषा क्षुमाधान्ये प्रकर्त्तिता ।अथाप्यकर्कशे स्निग्धे मसृणो वाच्यवन्मतः ॥ ४२८२ ॥
41.4282 · p. 319
अनुष्टुप्
मस्तं माने त्रिषु क्लीबं मस्तके देवदारुणि ।मस्तकोऽस्त्री शिरःपूर्वभागमध्ये शिरस्यपि ॥ ४२८३ ॥
41.4283 · p. 319
अनुष्टुप्
शिवस्य रूपभेदेऽपि तरुगिर्यादिकस्य च ।मस्तिष्कोऽस्त्री शिरःस्नेहे तच्चिकित्साक्षमौषधे ॥ ४२८४ ॥
41.4284 · p. 319
अनुष्टुप्
मस्तुः स्त्रीपुंसयोर्मुष्टौ पिण्डिताङ्गुलिरूपके ।दधिमण्डे तु तन्मस्तु नपुंसकमुदीरितम् ॥ ४२८५ ॥
41.4285 · p. 319
अनुष्टुप्
दधिवारिण्यपि क्लीबं प्रयुक्तं मस्तु सुश्रुते ।मस्तुलुङ्गः शिरःस्नेहे न स्त्री क्ली दधिमण्डके ॥ ४२८६ ॥
41.4286 · p. 319
अनुष्टुप्
महः-महानीलः
महः पुंस्युत्सवे स्त्री तु मही वाचि गवि क्षितौ ।नदीभेदेऽप्यथ द्वित्वे द्यावाभूम्योर्मही इति ॥ ४२८७ ॥
41.4287 · p. 320
अनुष्टुप्
महद्राज्ये च वृन्दे च जले चापि नपुंसकम् ।त्रिर्बृहत्यपि पूज्येऽथ महर्लोके मतौ च ना ॥ ४२८८ ॥
41.4288 · p. 320
अनुष्टुप्
महती तु त्रिबृहद्वल्ल्यां वीणायां नारदस्य च ।निशोऽन्तिमे त्रिभागे वा यामे वाऽज्ञातलिङ्गकः ॥ ४२८९ ॥
41.4289 · p. 320
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
महत्तरी तु स्त्री राज्ञो वृद्धा या परिचारिका ।आशीः स्वस्तयनाभिज्ञा तस्यां त्रिस्तु बृहत्तरे ॥ ४२९० ॥
41.4290 · p. 320
अनुष्टुप्
महो नपुंसकं सान्तं जले तेजसि चोत्सवे ।महाकच्छस्तु पुंसि स्यात्समुद्रे च प्रचेतसि ॥ ४२९१ ॥
41.4291 · p. 320
अनुष्टुप्
महाकन्दं तु शुण्ठ्यां क्ली लशुने त्वस्त्रियां मतम् ।महाकायो बृहद्देहे त्रिष्वथ स्याद्गजे द्वयोः ॥ ४२९२ ॥
41.4292 · p. 320
अनुष्टुप्
महाकालः प्रमथकिपाकबाणासुरे शिवे ।महाग्रीवो द्वयोरुष्ट्रे वाच्यवद्दीर्घकन्दरे ॥ ४२९३ ॥
41.4293 · p. 320
अनुष्टुप्
महाघोषोऽतिघोषे ना क्लीबं हट्टे प्रकीर्त्तितम् ।अथ कर्कटशृङ्ग्यां स्त्री महाघोषाऽभिधीयते ॥ ४२९४ ॥
41.4294 · p. 320
अनुष्टुप्
महाजाली स्त्रियां पीतघोषवल्लौ त्रि यौगिके ।महादंष्ट्रो द्वयोर्व्याघ्रे चित्राङ्गाख्ये त्रि यौगिके ॥ ४२९५ ॥
41.4295 · p. 320
अनुष्टुप्
महादिवाकीर्त्त्यं सामभेदे त्रिषु तु यौगिके ।पार्वत्यामपि राज्ञश्चाभिषिक्तायां च योषिति ॥ ४२९६ ॥
41.4296 · p. 320
अनुष्टुप्
महाधनं युधि स्वर्णे सिल्हे त्रिस्तु महार्हके ।महानटः शिवे पुंसि योगार्थे तु यथायथम् ॥ ४२९७ ॥
41.4297 · p. 320
अनुष्टुप्
महानद्युत्कलनदीभेदे स्यात्फल्गुगङ्गयोः ।ततो गयाप्रदेशे तु पूर्वतोऽस्ति महानदी ॥ ४२९८ ॥
41.4298 · p. 320
अनुष्टुप्
महानर्मा द्वयोर्वैश्याक्षत्रपुत्रे त्रि यौगिके ।महानसं तु शकटे पाकस्थानेऽपि कीर्त्तितम् ॥ ४२९९ ॥
41.4299 · p. 320
अनुष्टुप्
महानादो द्वयोः सिंहेभयोर्ना वर्षुकाम्बुदे ।महानीलो भृङ्गराजे मणिनागविशेषयोः ॥ ४३०० ॥
41.4300 · p. 320
अनुष्टुप्
महापक्षः-महावीरः
महापक्षस्त्रियोगार्थे द्वे कारण्डवपक्षिणि ।महापक्षी तु घूके द्वे यौगिके तु यथायथम् ॥ ४३०१ ॥
41.4301 · p. 321
अनुष्टुप्
महापत्रस्तालवृक्षे योगार्थे तु त्रिषु स्मृतः ।महापद्मो द्वयोः षड्वंशतिर्दर्वीकरोरगाः ॥ ४३०२ ॥
41.4302 · p. 321
अनुष्टुप्
ये तेषामेकभेदे ना झाटे शोथारिनाम्नि च ।क्लीबं तु रक्तकमले महापद्मं प्रकीर्त्तितम् ॥ ४३०३ ॥
41.4303 · p. 321
अनुष्टुप्
महाफला तु कूष्माण्डे महाजम्ब्वामपि स्त्रियाम् ।महाबलं सीसके तु बलायां तु महाबला ॥ ४३०४ ॥
41.4304 · p. 321
अनुष्टुप्
महाबलस्त्वतिबले वाच्यवत्परिकीर्त्तितः ।महाबुसो यवे चापि धान्ये हायनसंज्ञके ॥ ४३०५ ॥
41.4305 · p. 321
अनुष्टुप्
महामात्रः समृद्धे चामात्ये हस्तिपकाधिपे ।महामुखो द्वयोर्नक्रे बृहद्वक्त्रे च वाच्यवत् ॥ ४३०६ ॥
41.4306 · p. 321
अनुष्टुप्
महामुनिस्तु रुद्राक्षेऽगस्त्ये चापि महत्यृषौ ।अथ कुस्तुम्बुरुण्येतन्महामुनि नपुंसकम् ॥ ४३०७ ॥
41.4307 · p. 321
अनुष्टुप्
महामूल्यः पद्मरागे ना महार्हे तु वाच्यवत् ।महारजतमुद्दिष्टं शातकुम्भकुसुम्भयोः ॥ ४३०८ ॥
41.4308 · p. 321
अनुष्टुप्
महारसा द्रोणपुष्पीनील्योषध्योः स्त्रियां मता ।महारसस्तु खर्जूरवृक्षे चेक्षे तथा पुमान् ॥ ४३०९ ॥
41.4309 · p. 321
अनुष्टुप्
महाराजः कररुहे कुबेरे च महानृपे ।महार्घस्त्रिर्महामूल्ये द्वे तु लावकपक्षिणि ॥ ४३१० ॥
41.4310 · p. 321
अनुष्टुप्
महालयो धनिगृहभेदेऽपि परमात्मनि ।तीर्थे विहारे चामायामाश्विनस्य प्रकीर्त्तितः ॥ ४३११ ॥
41.4311 · p. 321
अनुष्टुप्
महावीरो महादेवे पावके गरुडे पुमान् ।सोमवंशसमुद्भूते बृहद्रथसुते नृपे ॥ ४३१२ ॥
41.4312 · p. 321
अनुष्टुप्
वर्द्धमानजिने सोमवंश्ये बार्हद्रथौ नृपे ।प्रवर्ग्यपात्रे सुभटे वीरे वज्रेऽप्यपत्रिषु ॥ ४३१३ ॥
41.4313 · p. 321
अनुष्टुप्
प्रवरे द्वे तु हंसे च श्वेताश्वे च खगेऽपि च ।यौगिकार्थे तु लिङ्गादि तर्कणीयं यथायथम् ॥ ४३१४ ॥
41.4314 · p. 321
अनुष्टुप्
महावेगः-महेश्वरी
महावेगः कपौ द्वे स्याद्वाच्यवत्तु महारये ।महाव्रतः शिवे पुंसि क्ली त्वेकाहमखान्तरे ॥ ४३१५ ॥
41.4315 · p. 322
अनुष्टुप्