कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

अ (4/4)

यदा तु वृत्तिः पुंयोगात्तदार्यी त्रिषु तु प्रभौ ।अर्वती कुम्भदास्यां च वडवायामपि स्त्रियाम् ॥ ३६१ ॥
3.361 · p. 29
अनुष्टुप्
अर्वा नान्तः कुत्सितो त्रिः पुंसि वज्रे मुनावपि ।अर्शो दुर्नाम्नि च व्याधिमात्रे सान्तं नपुंसकम् ॥ ३६२ ॥
3.362 · p. 29
अनुष्टुप्
अर्शसान्यर्शसानो द्वे विप्रेऽग्निमनसोः पुमान् ।अर्शोघ्नः सूरणे पुंसि तक्रे तु स्यान्नपुंसकम् ॥ ३६३ ॥
3.363 · p. 29
अनुष्टुप्
अर्शोघ्नी मुसलीस्तम्बे स्त्र्यथ त्रिर्घातकेऽर्शसः ।अर्हो योग्ये त्रिरर्हा तु नृ स्त्रियोरर्हणे मता ॥ ३६४ ॥
3.364 · p. 29
अनुष्टुप्
अर्हंस्तु क्षपणे बुद्धे पुंसि मान्योऽन्यलिङ्गकः ।अर्हन्तः सुगते पुंसि क्षपणेऽपि प्रयुज्यते ॥ ३६५ ॥
3.365 · p. 29
अनुष्टुप्
अलं वृश्चिकपुच्छस्थकण्टके हरितालके ।अलका पूः कुबेरस्यालकाः स्युश्चूर्णकुन्तलाः ॥ ३६६ ॥
3.366 · p. 29
अनुष्टुप्

अलङ्कारः-अवका

अलङ्कारस्तु हारादावुपमादावलङ्कृतौ ।अलंभूषणपर्याप्तिवारणेष्वव्ययं स्मृतम् ॥ ३६७ ॥
3.367 · p. 30
अनुष्टुप्
तथा निरर्थकत्वेपि प्रभुत्वेपि प्रयुज्यते ।अलम्बुसः प्रहस्ते च छर्दने राक्षसान्तरे ॥ ३६८ ॥
3.368 · p. 30
अनुष्टुप्
अलंबुसा तु मुण्डीर्यां स्वर्गवाराङ्गनान्तरे ।अलर्को गौथनृपतौ रोमारो च सितार्कके ॥ ३६९ ॥
3.369 · p. 30
अनुष्टुप्
अलर्कं प्रसवे त्वस्य शाकभेदेपि कीर्त्तितम् ।द्वयोरलर्कोऽलर्कीति प्रयुक्तं रोहिते शुनि ॥ ३७० ॥
3.370 · p. 30
अनुष्टुप्
अलसो ज्वर उष्ट्रस्याङ्घ्रिरुग्भेदे द्रुभेदयोः ।असाध्यजिह्वा रुग्भेदेऽथालस्यवति वाच्यवत् ॥ ३७१ ॥
3.371 · p. 30
अनुष्टुप्
अलसा तु स्त्रियां हंसपाद्यामेषा प्रयुज्यते ।अलातमुल्मुके क्लीबमनान्ते त्वभिधेयवत् ॥ ३७२ ॥
3.372 · p. 30
अनुष्टुप्
अलिः सुरापुष्पलिहोः पुँल्लिङ्गः परिकीर्त्तितः ।अलिङ्गं क्ली प्रधाने स्यात्संख्यानां त्रिर्विलिङ्गके ॥ ३७३ ॥
3.373 · p. 30
अनुष्टुप्
अलिन्यली वृश्चिकेऽलौ ना राशौ मेषतोष्टमे ।अलिन्दो भोजनस्थाने गृहाङ्गे प्रघणाह्वये ॥ ३७४ ॥
3.374 · p. 30
अनुष्टुप्
द्वयोरलिपको भृङ्गे कोकिले चापि हस्तिनि ।अलिप्रियः पुमांश्चूते काकजम्बूकदम्बयोः ॥ ३७५ ॥
3.375 · p. 30
अनुष्टुप्
अलिनस्तु प्रियायां स्त्री त्रिः प्रियालिन्यलौ प्रिये ।द्वयोरलिमको भेके पिकेपि भ्रमरेपि च ॥ ३७६ ॥
3.376 · p. 30
अनुष्टुप्
क्लीबं तु पद्मकिञ्जल्के मधूकेलिमकः पुमान् ।अलीकं त्वनृतेऽपि स्याल्ललाटेप्यप्रियेपि नप् ॥ ३७७ ॥
3.377 · p. 30
अनुष्टुप्
अलुमोऽग्नौ नापिते च तथा पुंसि प्रसाधने ।भवेदवकरः पुंस्यवकीर्णित्वेवचूर्णिते ॥ ३७८ ॥
3.378 · p. 30
अनुष्टुप्
सम्मार्जनीनिरस्तस्य तृणपांस्वादिवस्तुनः ।राशावुल्ककटाभिख्ये कीर्त्तितोऽवकरो बुधैः ॥ ३७९ ॥
3.379 · p. 30
अनुष्टुप्
अवकाऽम्बुतृणे चिञ्चोटिकाख्ये शैवले तथा ।वैवाहिकप्रतिसरग्रन्थौ च परिकीर्त्तिता ॥ ३८० ॥
3.380 · p. 30
अनुष्टुप्

अवकीर्णं-अवद्यम्

अवकीर्णमवज्ञानेप्यवाकीर्णेपि वाच्यवत् ।भवेदवक्रयो मूल्ये सूत्रनिर्दिष्टविक्रये ॥ ३८१ ॥
3.381 · p. 31
अनुष्टुप्
क्रयभेदेप्यदत्तार्धाधिकमूल्ये च हाटके ।स्त्री त्ववक्षेपणी घोटकुशायां क्ली तु भर्त्सने ॥ ३८२ ॥
3.382 · p. 31
अनुष्टुप्
अवखातस्तु खाते त्रिर्ना शूर्पाख्यजलाशये ।अवगाथोऽवगथवद्रथयाने तथा पथि ॥ ३८३ ॥
3.383 · p. 31
अनुष्टुप्
स्यात्प्रातः सवनेप्यक्षसंघातेपि नृलिङ्गकः ।अवगाहो जलद्रोण्यां तैलाम्ब्वाद्यवगाहने ॥ ३८४ ॥
3.384 · p. 31
अनुष्टुप्
निर्वादे क्ल्यवगीतं त्रिर्मुहुर्दृष्टे च गर्हिते ।अवग्रहो वृष्टिरोधे प्रतिबन्धे गजालिके ॥ ३८५ ॥
3.385 · p. 31
अनुष्टुप्
अवग्रहणमित्येतत्प्रतिरोधेप्यनादरे ।अवज्ञाऽनादरेपि स्यात्तथैवापह्नवे मता ॥ ३८६ ॥
3.386 · p. 31
अनुष्टुप्
अवटः स्यात्खिले गर्त्ते कूपे कुहकजीविनि ।पक्षिपोते चतुर्विंशत्यङ्गुलेऽपि च मानके ॥ ३८७ ॥
3.387 · p. 31
अनुष्टुप्
कृकाटिकायामवटुः पिण्डारीति प्रकीर्त्तिता ।अवतंसो स्त्रियामुक्तः कर्णपूरे च शेखरे ॥ ३८८ ॥
3.388 · p. 31
अनुष्टुप्
अथावतरणं भूतादिग्रहे वसनाञ्चले ।प्रयुज्यतेऽवतीर्णौ च शब्द एष नपुंसके ॥ ३८९ ॥
3.389 · p. 31
अनुष्टुप्
अवतारोवतरणे तीर्थे भूतादिके ग्रहे ।भूतादिग्रहवस्त्राञ्चलार्चनेष्ववतारणम् ॥ ३९० ॥
3.390 · p. 31
अनुष्टुप्
निवेशने गायिकानां न पुमानवतारणम् ।अवदातः सिते पीते शुद्धे मुख्य च वाच्यवत् ॥ ३९१ ॥
3.391 · p. 31
अनुष्टुप्
अवदातः सिते वर्णे पुँल्लिङ्गः परिकीर्त्तितः ।अवदानं कर्मणि स्यादितिवृत्तेऽवखण्डने ॥ ३९२ ॥
3.392 · p. 31
अनुष्टुप्
अप्रधानेऽद्भुते कर्मण्यपि स्यादपदानवत् ।ननाऽवदारणाभेदे क्ली खनित्रेऽवदारणम् ॥ ३९३ ॥
3.393 · p. 31
अनुष्टुप्
अवदाहस्तु दहनेऽथोशीरे स्यान्नपुंसकम् ।अवद्यमपशब्दे च गर्ह्ये चाप्यभिधेयवत् ॥ ३९४ ॥
3.394 · p. 31
अनुष्टुप्

अवधिः-अवष्टम्भः

अवधिस्त्ववधाने स्यात् नीलिकाले विले पुमान् ।अवध्यमवधार्हे स्यादनर्थकवचस्यपि ॥ ३९५ ॥
3.395 · p. 32
अनुष्टुप्
अवध्वंसः परित्यागे निन्दने चावचूर्णने ।अवध्वस्तः परित्यक्ते निन्दिते चूर्णिते त्रिषु ॥ ३९६ ॥
3.396 · p. 32
अनुष्टुप्
अवनं रक्षणे तृप्तौ प्रीतौ याञ्चादिषु स्मृतम् ।अवनिस्त्ववनीवत्स्यात्प्रियङ्ग्वाञ्च क्षितावपि ॥ ३९७ ॥
3.397 · p. 32
अनुष्टुप्
अवन्तिर्ना राजभेदे नीवृद्भेदे तु भूम्नि च ।स्त्रियां त्ववन्तिराजस्य स्यादवन्तीस्त्र्यपत्यके ॥ ३९८ ॥
3.398 · p. 32
अनुष्टुप्
नगरेप्युज्जयिन्याख्ये ज्येष्ठस्वसरि चेष्यते ।अवपातस्तु हस्त्यर्थे गर्त्ते छन्ने तृणादिना ॥ ३९९ ॥
3.399 · p. 32
अनुष्टुप्
गर्त्तमात्रे विपतने प्रपातेपि गिरेः पुमान् ।अथाऽवयव इत्येष एकदेशाऽप्रधानयोः ॥ ४०० ॥
3.400 · p. 32
अनुष्टुप्
पृथग्भावे पृथग्भूते तथा पुंसि प्रयुज्यते ।अवरं त्र्यप्रशस्तेऽन्त्ये जङ्घान्ते तु गजस्य नप् ॥ ४०१ ॥
3.401 · p. 32
अनुष्टुप्
अवरोधस्तिरोधाने राजदारेषु तद्ग्रहे ।तथैव स्वीकृतावेष पुँल्लिङ्गः परिकीर्त्तितः ॥ ४०२ ॥
3.402 · p. 32
अनुष्टुप्
अवरोहोऽवतरणे पादपस्य लतोद्गमे ।मूलादग्रे गतायां च लतायां किं च शाखिनाम् ॥ ४०३ ॥
3.403 · p. 32
अनुष्टुप्
शाखाजातशिफायां च पुँल्लिङ्गः परिकीर्त्तितः ।अवलग्नोस्त्रियां मध्ये त्रिषु स्याल्लग्नमात्रके ॥ ४०४ ॥
3.404 · p. 32
अनुष्टुप्
अवलेपो भूषणे च लेपे गर्वे तिरस्कृतौ ।निरीक्षिते त्रिलिङ्गो ना लोकनाथेऽवलोकितः ॥ ४०५ ॥
3.405 · p. 32
अनुष्टुप्
अवश्यमव्ययं नित्ये प्रधाने च प्रकीर्त्तितम् ।अवश्यायस्तु नीहारेप्यभिमानेपि पुंस्ययम् ॥ ४०६ ॥
3.406 · p. 32
अनुष्टुप्
अवष्टब्धस्त्रिर्विदूरेप्याक्रान्ते चावलम्बिते ।अवष्टम्भः समालम्बे स्तम्भे स्तब्धौ च हेमनि ॥ ४०७ ॥
3.407 · p. 32
अनुष्टुप्

अवसं-अविषी

पुमांस्तथैव प्रारम्भे स्तम्भादौ षस्तु नोचितः ।अवसं क्ली भवेच्चापे ना पाथेवाशनीयके ॥ ४०८ ॥
3.408 · p. 33
अनुष्टुप्
भवेदवसरः पुंसि प्रस्तावे वर्षणे क्षणे ।उपलादौ मन्त्रभेदेप्ययं शब्दः प्रयुज्यते ॥ ४०९ ॥
3.409 · p. 33
अनुष्टुप्
अवसा तु वसाहीने वाच्यवत्परिकीर्त्तिता ।अवसानस्तु शेषेपि समाप्तौ निश्चयेपि च ॥ ४१० ॥
3.410 · p. 33
अनुष्टुप्
ऋद्धे ज्ञाते समाप्ते चावसितं वाच्यवत्स्मृतम् ।निश्चिते स्यादवसितं समाप्त उषितेपि च ॥ ४११ ॥
3.411 · p. 33
अनुष्टुप्
अवस्कन्दो नगर्यादेरपहारे च सौप्तिके ।विशेषवाचि भाषायामङ्गीकृत्य च कीर्त्तितः ॥ ४१२ ॥
3.412 · p. 33
अनुष्टुप्
अवस्करस्तु विष्ठायां तथा गुह्यरहस्ययोः ।मलप्रक्षेपणस्थानेप्ययं पुँल्लिङ्ग इष्यते ॥ ४१३ ॥
3.413 · p. 33
अनुष्टुप्
अवस्कारः पुमान्गुह्ये वर्चस्केपि प्रकीर्त्तितः ।अवघातेऽवहननं मुसले हृदयेपि च ॥ ४१४ ॥
3.414 · p. 33
अनुष्टुप्
अवहारः पुमांश्चौर्ये द्यूतयुद्धादिविश्रमे ।निमन्त्रणोपनेतव्यद्रव्ये ग्राहाख्ययादसि ॥ ४१५ ॥
3.415 · p. 33
अनुष्टुप्
अवाच्यं त्रिरगर्ह्ये नाऽवाच्यमप्यकथ्यके ।अविः पुंस्यवतौ सूर्ये शैलमूषिककम्बले ॥ ४१६ ॥
3.416 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्राकाराद्रिमरुद्भाःसु स्त्री तु पुष्पवतीभुवोः ।अविद्धकर्णी पाठायां त्रित्वविद्धश्रुतौ भवेत् ॥ ४१७ ॥
3.417 · p. 33
अनुष्टुप्
अविनः पावकेऽध्वर्जौ विधाने त्वविनं मतम् ।गुप्तौ चाप्स्वथ भासाख्यविहगे च मृगे द्वयोः ॥ ४१८ ॥
3.418 · p. 33
अनुष्टुप्
अविनीतस्तूद्धते त्रिरविनीताभिसारिका ।अविलम्बितमुच्चण्डे शीघ्रे च परिकीर्त्तितम् ॥ ४१९ ॥
3.419 · p. 33
अनुष्टुप्
अविषो नाऽम्बुधौ शैले द्वे तु दिव्यविषो विषा ।अविषा निर्विषे त्रिः स्यात्स्त्रीभूमावविषी मता ॥ ४२० ॥
3.420 · p. 33
अनुष्टुप्

अविष्ठसे-अश्वा

अविष्ठसे द्वयोरश्वे पुँल्लिङ्गस्त्वपहोतरि ।अवीरा पतिपुत्रायां स्त्रीसत्त्वरहिते त्रिषु ॥ ४२१ ॥
3.421 · p. 34
अनुष्टुप्
अवेलः पुंस्यपालापे स्त्र्यवेलापूगचूर्णके ।अन्यत्र चैव वेलाया वेलाहीने तू भेद्यवत् ॥ ४२२ ॥
3.422 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तू (wrong syllable)
अव्यः स्यात्पङ्कजे पुंसि तथा रम्ये च नाविके ।अव्यक्तस्तु पुमान्विष्णौ परमात्मनि शङ्करे ॥ ४२३ ॥
3.423 · p. 34
अनुष्टुप्
क्ली तु प्रधाने सांख्यानां त्रिस्त्वस्पष्टे च बालिशे ।अव्यथः स्याद्द्वयोः सर्पे निर्व्यथे त्वभिधेयवत् ॥ ४२४ ॥
3.424 · p. 34
अनुष्टुप्
पुमान्कुरवके स्त्री तु चारटी पथ्ययोर्भवेत् ।सुखाब्ध्यर्का अव्यथिषा अव्यथिष्यौ निशाक्षिणी ॥ ४२५ ॥
3.425 · p. 34
अनुष्टुप्
अव्ययोऽस्त्री स्वराद्यर्थेष्वीश्वरे च दशस्वपि ।ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं धृतिः क्षमा ॥ ४२६ ॥
3.426 · p. 34
अनुष्टुप्
स्रष्ट्टत्वमात्मसम्बन्धो ह्यधिष्ठातृत्वमित्यपि ।एतेषु त्रि तु यस्यास्ति नाव्ययस्तत्र वस्तुनि ॥ ४२७ ॥
3.427 · p. 34
अनुष्टुप्
अशनं भोजनेपि स्यादोदनेपि नपुंसकम् ।अशित्रोऽग्नौ पुमानुक्तः क्लीरश्मिहविषोर्भवेत् ॥ ४२८ ॥
3.428 · p. 34
अनुष्टुप्
अशिरोऽग्नौ पुमानुक्तो राक्षसे भास्करेपि च ।अशोकः पुंसि कङ्केलितरौ मौर्यनृपान्तरे ॥ ४२९ ॥
3.429 · p. 34
अनुष्टुप्
अशोका कटुरोहिण्यामशोकं पारदे मतम् ।वीतशोकेत्यशोकोयं भेद्यवत्परिकीर्त्तितः ॥ ४३० ॥
3.430 · p. 34
अनुष्टुप्
अश्नोऽभ्रे भूधरे चैव पुँल्लिङ्गः परिकीर्त्तितः ।अश्मजं त्वश्मजाते त्रिः क्ली शिलाजतुनि स्मृतम् ॥ ४३१ ॥
3.431 · p. 34
अनुष्टुप्
ना सोमाभिषवग्राब्णि पाषाणेश्माऽम्बुदेपि च ।अश्मन्तमशुभे चुल्यां क्षेत्रेप्यनवधौ मृतौ ॥ ४३२ ॥
3.432 · p. 34
अनुष्टुप्
स्यादश्मन्तकमुद्धाने मल्लिकाच्छादनेपि च ।अश्रिस्तु स्त्री मता कोट्यां धारायामपि कीर्त्तिता ॥ ४३३ ॥
3.433 · p. 34
अनुष्टुप्
अश्वो विष्ण्ववतारे ना पुंजातावश्वकन्दके ।तुरङ्गे च द्वयोरश्वस्तथाऽश्वा चेति कीर्त्त्यते ॥ ४३४ ॥
3.434 · p. 34
अनुष्टुप्

अश्वतरः-असनं

भवेदश्वतरो वेसरके नागान्तरेपि च ।अश्वत्थः पिप्पलेऽश्विन्यां स्यान्मुहूर्त्तान्तरेपि च ॥ ४३५ ॥
3.435 · p. 35
अनुष्टुप्
पौर्णमास्यां त्वाश्वयुज्यामश्वत्था स्यात्स्त्रियामियम् ।अश्वयुक् त्वश्विनी ऋक्षजाते स्यादभिधेयवत् ॥ ४३६ ॥
3.436 · p. 35
अनुष्टुप्
अश्वारोहाऽश्वगन्धाभ्यां त्रिष्वश्ववाहके तथा ।अश्वी त्वश्ववति स्त्री स्याद्धनू राशौ तु पुंस्ययम् ॥ ४३७ ॥
3.437 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्व (wrong syllable)
दस्रयोश्चाश्विनी तु स्त्री नक्षत्रेऽश्वयुगाह्वये ।अश्वीयमश्ववृन्दे स्यात्त्रिस्त्वश्वस्य हिते भवेत् ॥ ४३८ ॥
3.438 · p. 35
अनुष्टुप्
अश्वीया तु स्त्रियामश्वलाञ्छने परिकीर्त्तिता ।अषाढाऽब्दैवते तद्वन्नक्षत्रे वैश्वदेवके ॥ ४३९ ॥
3.439 · p. 35
अनुष्टुप्
तद्युक्ते कालसामान्ये ताभ्यां यज्ञद्विजन्मनाम् ।अग्नित्येष्टकाभेदप्यथ स्याद्भेद्यलिङ्गकम् ॥ ४४० ॥
3.440 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 अ (syllables merged)
असोढरि तथाषाढा युक्तकालजवस्तुनि ।अष्टका स्त्री मार्गशीर्ष्याः कृष्णाष्टम्याः परत्र याः ॥ ४४१ ॥
3.441 · p. 35
अनुष्टुप्
तिस्रस्तासु च कर्त्तव्ये चासुश्राद्धेप्यसूत्रके ।अष्टावयवके क्लीबमथाष्टावयवस्य च ॥ ४४२ ॥
3.442 · p. 35
अनुष्टुप्
सङ्घस्याध्येतरि त्र्यष्टावृत्तिकाध्ययनस्य च ।अष्टमङ्गलशब्दो द्वे घोटभेदेऽस्य लक्षणम् ॥ ४४३ ॥
3.443 · p. 35
अनुष्टुप्
पुच्छोरःखुरकेशास्यैः सितैर्घोटोष्टमङ्गलः ।क्लीबं नक्ष्मगमख्याते पूर्णकुम्भादिके भवेत् ॥ ४४४ ॥
3.444 · p. 35
अनुष्टुप्
द्विगौ तु प्राप्तलिङ्गं स्यात्समास इति निर्णयः ।अष्टमी तु तिथौ रुद्रस्याष्टानां पूरणे त्रिषु ॥ ४४५ ॥
3.445 · p. 35
अनुष्टुप्
अष्टापदोऽस्त्रीकनके शारीपाफलकेपि च ।अष्टापदी चन्द्रमल्ल्यां द्वयोस्तु शरभे कपौ ॥ ४४६ ॥
3.446 · p. 35
अनुष्टुप्
स्त्री त्वष्ठी स्यात्फलस्यास्थ्नि जानुकूर्परकास्थ्नि च ।असत्सांख्यप्रधाने क्ली त्रिस्तु सत्तातियोगिनि ॥ ४४७ ॥
3.447 · p. 35
अनुष्टुप्
पुंश्चल्यां त्वसतीत्येषा स्त्रीलिङ्गे संप्रयुज्यते ।असनो ना पीतसालवृक्षे क्ली त्वसनं मतम् ॥ ४४८ ॥
3.448 · p. 35
अनुष्टुप्

असंपृक्तः-अहल्या

क्षेपणेऽपि गतौ दीप्तौ तथैव ग्रहणेपि च ।असंपृक्तस्तु रहसि श्लिष्टभिन्ने पुनस्त्रिषु ॥ ४४९ ॥
3.449 · p. 36
अनुष्टुप्
असिक्न्यतःपुग्प्रेष्या नदीभिद्रात्रिषु स्त्रियाम् ।असितः कृष्णपक्षे स्यादैक्ष्वाके च नृपान्तरे ॥ ४५० ॥
3.450 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तः (syllables merged)
मध्वासवे शनौ कृष्णेऽथ त्रि तद्वत्यसंयते ।असुः पुमान्स्यात्प्रज्ञायामसवा भूम्नि जीविते ॥ ४५१ ॥
3.451 · p. 36
अनुष्टुप्
असुरस्तु पुमान्मेघे वास्तुदेवान्तरे च यः ।कोष्ठपङ्क्तौ पश्चिमायां कोष्ठे षष्ठे हि दक्षिणात् ॥ ४५२ ॥
3.452 · p. 36
अनुष्टुप्
विडाख्यलवणे चैव कृत्रिमाद्यपराभिधे ।द्वे तु दैत्ये गजे च क्ली पुनः कांस्याख्यलोहके ॥ ४५३ ॥
3.453 · p. 36
अनुष्टुप्
असुरा रजनीराश्यौ स्त्रीलिङ्गे परिकीर्त्तिता ।असृक् स्याद्योगभेदे ना रक्ते तु स्यान्नपुंसकम् ॥ ४५४ ॥
3.454 · p. 36
अनुष्टुप्
अस्तं त्र्यवसिते क्षिप्रेऽप्यस्ताद्रौ ना ग्रहे तु नप् ।अस्तु स्यादभ्यनुज्ञानेऽप्यसूयापीडयोरपि ॥ ४५५ ॥
3.455 · p. 36
अनुष्टुप्
प्रतिक्षेपे प्रशंसायां प्रकर्षे लक्षणेऽपि च ।असंप्रत्यर्थ एतच्चाव्ययं संपरिकीर्त्तितम् ॥ ४५६ ॥
3.456 · p. 36
अनुष्टुप्
अस्त्रं प्रहरणे चापे करवाले नपुंसकम् ।अस्थानं तु त्रिषु प्रोक्तं स्थानहीने जलाश्रये ॥ ४५७ ॥
3.457 · p. 36
अनुष्टुप्
अगाधे शून्यमूले तु सैन्ये स्थानात्परे च नप् ।अस्थिमांस्त्र्यस्थिसंयुक्ते नाऽस्थिसंघातवीरुधि ॥ ४५८ ॥
3.458 · p. 36
अनुष्टुप्
अस्थिसंहननं क्ल्यस्थिसंनाहे ना लतान्तरे ।अस्रोऽङ्कुशे कचे कोणे पुंसि क्ली रुधिरेऽश्रुणि ॥ ४५९ ॥
3.459 · p. 36
अनुष्टुप्
अस्रपा तु जलौकायां डाकिन्यां राक्षसे तु ना ।अह प्रशंसाक्षिपयोर्नियोगे च विनिग्रहे ॥ ४६० ॥
3.460 · p. 36
अनुष्टुप्
अहतं वाच्यवदहिंसिते चाभिनवे पटौ ।अहिंसायां पुनः क्लीबमहतं संप्रकीर्त्तितम् ॥ ४६१ ॥
3.461 · p. 36
अनुष्टुप्
अहतिर्मांसदानव्याधिषु स्त्री नाऽहिधातुके ।अहल्या तु सरोभेदे भार्यायां गौतमस्य च ॥ ४६२ ॥
3.462 · p. 36
अनुष्टुप्

अहल्या-आकलनं

न हन्यत इति व्युत्पत्त्याऽहल्या स्यादुषस्यपि ।अहहेत्यद्भुते खेदे परिक्लेशप्रकर्षयोः ॥ ४६३ ॥
3.463 · p. 37
अनुष्टुप्
तथा संबोधनार्थेपि प्रयुक्तमिदमव्ययम् ।अहार्यः पुंसि शैले स्यादहर्त्तव्ये पुनस्त्रिषु ॥ ४६४ ॥
3.464 · p. 37
अनुष्टुप्
अहिजिन्ना हरौ शक्रे त्रिलिङ्गस्त्वहिजेतरि ।अहितो ना भवेच्छत्रावपथ्ये त्वभिधेयवत् ॥ ४६५ ॥
3.465 · p. 37
अनुष्टुप्
अहिद्विड्गरुडे पुंसि शक्रे च नकुले पुनः ।द्वे मयूरे त्रिषु पुनरहेर्द्वेषस्य कारिणि ॥ ४६६ ॥
3.466 · p. 37
अनुष्टुप्
भवेदहिभयं भीतौ स्वपक्षजभयेपि नप् ।अहिभुग्गरुडेऽथ द्वे मयूरे ध्यहिभोजिनि ॥ ४६७ ॥
3.467 · p. 37
अनुष्टुप्
यज्ञेष्वहीनः पुँल्लिङ्गः प्राक् त्रयोदशरात्रतः ।द्विरात्रादिष्वथ त्रिः स्यादन्यूनेऽहीश्वरे तथा ॥ ४६८ ॥
3.468 · p. 37
अनुष्टुप्
अहूला स्यादस्खलने भल्लातक्यामपि स्त्रियाम् ।अहो प्रश्ने वितर्के च परिकीर्त्तितमव्ययम् ॥ ४६९ ॥
3.469 · p. 37
अनुष्टुप्
अहो बतानुकम्पायां खेदे संबोधने तथा ॥ ४६९-१/२ ॥
3.470 · p. 37