कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ज (2/2)

जूर्णः पुमान् यावनाले तथा वज्रे प्रकीर्त्तितः ।वृद्धे तु भेद्यवज्जूर्णे जूर्णा स्त्री बल्बजेष्वियम् ॥ २३१७ ॥
24.2317 · p. 171
अनुष्टुप्
जूर्णिः स्त्रियां ज्वरे क्रोधे शरीरे च प्रकीर्त्तिता ।जूर्णिर्नाग्नौ रवौ वायौ ब्रह्मणि त्रिस्तु सत्वरे ॥ २३१८ ॥
24.2318 · p. 171
अनुष्टुप्
जृम्भितं करणे स्त्रीणां जृम्भणे च विचेष्टिते ।उत्फुल्ले तु विवृद्धे च जृम्भितं वाच्यवन्मतम् ॥ २३१९ ॥
24.2319 · p. 171
अनुष्टुप्
जैत्रं क्ली जयने द्यूते जयशीले तु भेद्यवत् ।जैत्र्यां स्फोताख्यवल्ल्यां स्त्री विष्णुक्रान्तान्यनामनि ॥ २३२० ॥
24.2320 · p. 171
अनुष्टुप्
जैवातृको ना परिघे परिखाचन्द्रयोरपि ।शुके तु द्वे धने त्वेतत्क्लीबे जैवातृकं मतम् ॥ २३२१ ॥
24.2321 · p. 171
अनुष्टुप्

जोन्तालः-ज्योत्स्ना

त्रिस्तु स्याद्भिषगायुष्मत्कृषीबलकृशेष्वयम् ।जोन्तालः पुंसि वर्णे स्यान्नीललोहितमिश्रके ॥ २३२२ ॥
24.2322 · p. 172
अनुष्टुप्
त्रि तद्वत्यथ जोन्ताला यावनालाख्यधानके ।जोषः प्रीतौ च सेवायामपि पुंसि प्रकीर्त्तितः ॥ २३२३ ॥
24.2323 · p. 172
अनुष्टुप्
जोषं सुखे प्रशंसायां मौने स्याल्लङ्घनेऽव्ययम् ।ज्ञो ज्ञातरि त्रिष्वथ नात्मनि चान्द्रमसावनौ ॥ २३२४ ॥
24.2324 · p. 172
अनुष्टुप्
ज्ञातिस्ताते सगोत्रे चैक्ष्वाकराजान्तरे पुमान् ।ज्ञानी स्यात्पुंसि दैवज्ञे ज्ञानयुक्तेऽन्यलिङ्गकः ॥ २३२५ ॥
24.2325 · p. 172
अनुष्टुप्
ज्याशब्दस्तु स्त्रियां भूमौ मौर्व्यां मातरि चोच्यते ।ज्यानिस्तु हानौ बुद्धौ च जीर्णत्वे च सरिद्रुजोः ॥ २३२६ ॥
24.2326 · p. 172
अनुष्टुप्
ज्यायान्वृद्धतरे चातिप्रशस्ते पूर्वजे त्रिषु ।ज्येष्ठस्तु पूर्वजे वृद्धतमे शस्ततमे त्रिषु ॥ २३२७ ॥
24.2327 · p. 172
अनुष्टुप्
त्रपुह्रीबेरयोस्तु क्ली नीलिकाख्ये च लोहके ।द्वयोस्तु हंसेऽपि ज्येष्ठो ज्येष्ठा स्त्री शम्भुशक्तिषु ॥ २३२८ ॥
24.2328 · p. 172
अनुष्टुप्
नवस्वेकत्र चालक्ष्मीगृहगोधिकयोरपि ।इन्द्रदैवतनक्षत्रेऽपि ज्येष्ठा स्त्रीत्व इष्यते ॥ २३२९ ॥
24.2329 · p. 172
अनुष्टुप्
ज्यैष्ठः पुमाञ्छुक्रमासे ज्येष्ठसम्बन्धिनि त्रिषु ।ज्यैष्ठी ज्येष्ठायुतायां च पौर्णमास्यां स्त्रियां मता ॥ २३३० ॥
24.2330 · p. 172
अनुष्टुप्
ज्योतिरात्मनि सूर्ये च हविर्होमार्चिदीप्तिषु ।ग्रहनक्षत्रतारासु नक्षत्रेऽपि विशेषतः ॥ २३३१ ॥
24.2331 · p. 172
अनुष्टुप्
विलोचने धने पुत्रे सामभेदेषु चापि नप् ।ज्योतिष्टोमाख्ययागे च तथाग्नौ ज्योतिरस्त्रियाम् ॥ २३३२ ॥
24.2332 · p. 172
अनुष्टुप्
ज्योतिषाम्पतिरर्के च चन्द्रे चापि पुमान्मतः ।ज्योतिष्मज्ज्योतिषा युक्ते त्रिषु ज्योतिष्मती पुनः ॥ २३३३ ॥
24.2333 · p. 172
अनुष्टुप्
पिण्ड्याख्यस्थावरे क्षुद्रधान्ये यस्याह्वयान्तरम् ।गवीथुरिति तत्र स्याज्ज्योतिषो मासि कुत्रचित् ॥ २३३४ ॥
24.2334 · p. 172
अनुष्टुप्
ज्योतिःसम्बन्धिनि त्वेतन्त्रिलिङ्गं परिकीर्त्तितम् ।ज्योत्स्ना चन्द्रातपेऽपि स्याज्ज्योत्स्नायुक्तनिशि स्त्रियाम् ॥ २३३५ ॥
24.2335 · p. 172
अनुष्टुप्

ज्यौत्स्नी-ञः

ज्यौत्स्नी तु स्त्री पटोल्यां स्याज्ज्योतिष्मद्रजनावपि ।ज्योत्स्नावति त्वय ज्यौत्स्नस्त्रिलिङ्गः परिकीर्त्तितः ॥ २३३६ ॥
24.2336 · p. 173
अनुष्टुप्
ज्वरो व्याधौ हरक्रोधोद्भूतायां च महारुजि ।ज्वरघ्नस्तु गुडूच्यां स्याच्छाकभेदे च वास्तुके ॥ २३३७ ॥
24.2337 · p. 173
अनुष्टुप्
ज्वलनोऽग्नावथ क्लीबे ज्वलनं दीपने स्मृतम् ।ज्वलनं ज्वलना चेति न ना ज्वलन इष्यते ॥ २३३८ ॥
24.2338 · p. 173
अनुष्टुप्
ज्वलितं वाच्यवद्दग्धेप्युज्ज्वलेऽपि प्रकीर्त्तितम् ॥ २३३८-१/२ ॥
24.143 · p. 173