All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
स (2/4)
सम्मर्दो मर्दने पुंसि तथा युद्धे प्रकीर्त्तितः ।सम्मर्शस्तु पुमांस्तर्के तथा सम्मर्शने मतः ॥ ६३३० ॥
48.6330 · p. 468
अनुष्टुप्
सम्मार्जनी तु शोधन्यां स्त्रीलिङ्गे परिकीर्त्तिता ।सम्मार्जना सम्मृष्टौ संशोधनायामपीष्यते ॥ ६३३१ ॥
48.6331 · p. 468
अनुष्टुप्
सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि च ।येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ ६३३२ ॥
48.6332 · p. 468
अनुष्टुप्
शास्तियश्चाज्ञया राज्ञस्तत्र सम्राट् पुनः स्त्रियाम् ।षडिंशत्यक्षरेऽन्तस्था छन्दोभेदे प्रकीर्त्तिता ॥ ६३३३ ॥
48.6333 · p. 468
अनुष्टुप्
सरो वायौ पुमान्क्ली तु सरं क्षीरे प्रकीर्त्तितम् ।निषादशुनकीजे द्वे त्रिस्थिरप्रतियोगिनि ॥ ६३३४ ॥
48.6334 · p. 468
अनुष्टुप्
सरकः-सर्पराजः
सरकोऽस्त्री मणौ शीथुपाने चषकशीथुनोः ।भेद्यवत्सरकः साधुसर्त्तर्येष प्रकीर्त्तितः ॥ ६३३५ ॥
48.6335 · p. 469
अनुष्टुप्
सरघा तु शुनीभेदे देवानां परिकीर्त्तिता ।मधुनिर्माणशीले च स्त्रियां स्यान्मक्षिकान्तरे ॥ ६३३६ ॥
48.6336 · p. 469
अनुष्टुप्
सरटी नीलिकालोहे द्वयोस्तु कृकलासके ।सरणिस्तु स्त्रियाम्मार्गे श्रेणौ च परिकीर्त्तिता ॥ ६३३७ ॥
48.6337 · p. 469
अनुष्टुप्
सरण्डस्तृणसङ्घाते कृमिभेदे तु स द्वयोः ।सरण्युर्नाऽनिले मेघे सूर्यपत्न्यां स्त्रियामियम् ॥ ६३३८ ॥
48.6338 · p. 469
अनुष्टुप्
सरधिः स्त्री सिरापङ्क्तिसङ्घाताऽध्वसु ना रवौ ।सरलः पूतिकाष्ठाख्यद्रुमे पुंसि प्रकीर्त्तितः ॥ ६३३९ ॥
48.6339 · p. 469
अनुष्टुप्
सरलस्त्रिर्विदग्धे च ऋजौ च प्रियवादिनि ।सरस्तु सलिले क्लीबं तटाके सरसी नना ॥ ६३४० ॥
48.6340 · p. 469
अनुष्टुप्
महासरःसु सरसी दाक्षिणात्याः प्रयुञ्जते ।क्लीबं सरस्वदाकाशे सरस्वान्नाऽम्बुधौ नदे ॥ ६३४१ ॥
48.6341 · p. 469
अनुष्टुप्
सरस्वती नदीमात्रे वाग्देव्यां च नदीभिदि ।गङ्गायां गवि मेदिन्यां स्त्रीरत्ने च वचस्यपि ॥ ६३४२ ॥
48.6342 · p. 469
अनुष्टुप्
तथा तृणलतास्तम्बे मत्स्याक्षीनाम्नि कीर्त्तिता ।ब्राह्मीति विश्रुताख्येऽथ सरस्वान् रसिकेऽपि च ॥ ६३४३ ॥
48.6343 · p. 469
अनुष्टुप्
सरोयुक्ते तथा भेद्यलिङ्गोऽयं परिकीर्त्तितः ।सरिन्नद्यां तथा छन्दोभेदे द्वासप्ततिस्वरे ॥ ६३४४ ॥
48.6344 · p. 469
अनुष्टुप्
सरीसृपस्तु सर्प द्वे तथैवोदरसर्पिषु ।सर्गोऽध्याये स्वभावे च निर्माणे च समुज्झने ॥ ६३४५ ॥
48.6345 · p. 469
अनुष्टुप्
उत्साहे निश्चये चापि पुँल्लिङ्गः परिकीर्त्तितः ।सर्जकं त्वतिबाले स्याद्दध्नि [स्रष्टरि भेद्यवत् ] ॥ ६३४६ ॥
48.6346 · p. 469
अनुष्टुप्
सर्जूर्वनस्पतौ विद्युत्यपि स्त्री वणिजि द्वयोः ।सर्पदंष्ट्री वृश्चिकाल्योषध्यां योगे यथायथम् ॥ ६३४७ ॥
48.6347 · p. 469
अनुष्टुप्
सर्पराजो वासुकौ ना द्वे तु राजिलभोगिनाम् ।त्रयोदशानामेकत्र सर्पराजः प्रकीर्त्तितः ॥ ६३४८ ॥
48.6348 · p. 469
अनुष्टुप्
सर्पलोचनाः-सवनम्
स्यात्सर्पलोचना रास्नासंज्ञके भेषजे स्त्रियाम् ।सर्पिर्जले घृते चैव क्लीबलिङ्गं प्रकीर्त्तितम् ॥ ६३४९ ॥
48.6349 · p. 470
अनुष्टुप्
सर्वगन्धं तु तक्कोलागरुकर्पूरसंयुताः ।एलालवङ्गत्वक्पत्रनागकेसरसिल्हकाः ॥ ६३५० ॥
48.6350 · p. 470
अनुष्टुप्
ऋद्धिसंज्ञकभैषज्यभेदे सर्वजनप्रिया ।सर्वज्ञो ना शिवे बुद्धे त्रि तु स्यात्सर्ववेदिनि ॥ ६३५१ ॥
48.6351 · p. 470
अनुष्टुप्
अथ ना सर्वतोभद्रो गृहविच्छन्दकान्तरे ।निम्बवृक्षे च विषमकाव्यालङ्कारभेदके ॥ ६३५२ ॥
48.6352 · p. 470
अनुष्टुप्
स्त्रियां तु सर्वतोभद्रा काश्मर्याभिख्यपादपे ।यत्तु सर्वप्रकारेण भद्रं तत्र त्रिषु स्मृतम् ॥ ६३५३ ॥
48.6353 · p. 470
अनुष्टुप्
सर्वतोमुखमप्सु क्ली ना ब्रह्मक्रतुभेदयोः ।सर्वभक्षा त्वजायां स्याद्यौगिके तु यथायथम् ॥ ६३५४ ॥
48.6354 · p. 470
अनुष्टुप्
स्त्री सर्वमङ्गला शैलतनयायां च यौगिके ।सर्वसन्नाह इत्युक्तः सन्नद्धौ सर्ववर्मिणाम् ॥ ६३५५ ॥
48.6355 · p. 470
अनुष्टुप्
सर्वात्मनाप्ययं शब्दः पुँल्लिङ्गः परिकीर्त्तितः ।सर्वौघः सर्वसन्नाहे राज्ञां पुंसि प्रकीर्त्तितः ॥ ६३५६ ॥
48.6356 · p. 470
अनुष्टुप्
मधुभेदे तु सर्वौघं यौगिके तु यथायथम् ।सर्षपस्त्वोषधीभेदे तुन्दभाख्ये पुमान्मतः ॥ ६३५७ ॥
48.6357 · p. 470
अनुष्टुप्
सर्षपी फलिनीवृक्षे स्त्रियां व्याध्यन्तरेऽपि च ।सलो भृङ्गिरिटे पुंसि क्ली तु पत्राङ्गभेषजे ॥ ६३५८ ॥
48.6358 · p. 470
अनुष्टुप्
सलज्जं सत्रपे त्रि क्ली स्तम्बे दमनकाह्वये ।सलम्बस्त्वृषिभेदे ना तन्तुवाये पुनर्द्वयोः ॥ ६३५९ ॥
48.6359 · p. 470
अनुष्टुप्
सलिलं तु जले छन्दोऽन्तरे प्रकृतिनामनि ।यत्र चत्वार्यशीतिश्च वर्णाः स्युर्वाततोऽधिकाः ॥ ६३६० ॥
48.6360 · p. 470
अनुष्टुप्
सल्वा स्त्री क्षत्रियाभेदे देशभेदे नृ भूम्नि ते ।सवस्तु सूतौ सूत्यायां सुतौ यागे च वर्त्तने ॥ ६३६१ ॥
48.6361 · p. 470
अनुष्टुप्
सवनं कालभेदेऽपि स्यात्प्रातःसवनादिषु ।यज्ञस्य सोमाभिषवे स्नाने काण्डे नपुंसकम् ॥ ६३६२ ॥
48.6362 · p. 470
अनुष्टुप्
सवनः-सहायः
यागे तु पुंसि सवनो वनेन सहिते त्रिषु ।सवर्णो ब्राह्मणाज्जाते क्षत्रियायां विवाहतः ॥ ६३६३ ॥
48.6363 · p. 471
अनुष्टुप्
त्रिस्तुल्यवर्णमात्रे च मर्त्त्ये चाप्येकवर्णके ।सव्यं वामे दक्षिणे त्रिः सोतव्यसवितव्ययोः ॥ ६३६४ ॥
48.6364 · p. 471
अनुष्टुप्
तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ।सस्यं धान्ये गुणे धान्यस्तम्बे वृक्षादिनः फले ॥ ६३६५ ॥
48.6365 · p. 471
अनुष्टुप्
सस्यकं सस्यसम्पन्नव्रीहिसस्यादिकेषु च ।तथैव गुणसम्पन्ने भेद्यलिङ्गमथैष ना ॥ ६३६६ ॥
48.6366 · p. 471
अनुष्टुप्
स्यान्नारिकेलसस्याभमणौ खड्गे च सस्यकः ।स्त्रीपुंसयोः सहचरी पीतझिण्ट्याख्यझाटके ॥ ६३६७ ॥
48.6367 · p. 471
अनुष्टुप्
अथो सहचरश्चैष सहचारिणि वाच्यवत् ।सहजोऽस्त्री स्वभावे त्रिः सहोत्पन्नसगर्भ्ययोः ॥ ६३६८ ॥
48.6368 · p. 471
अनुष्टुप्
सहदेवा स्त्रियां सत्त्वे दण्डोत्पल इति श्रुते ।युधिष्ठिरकनिष्ठे तु नायोगार्थे यथायथम् ॥ ६३६९ ॥
48.6369 · p. 471
अनुष्टुप्
सहो जले बले च क्ली हेमन्ते तु पुमानयम् ।मार्गशीर्षे तु मासि स्यात्पुंनपुंसकयोरयम् ॥ ६३७० ॥
48.6370 · p. 471
अनुष्टुप्
सहसानो मयूरे द्वे यजमाने तु स त्रिषु ।सहसानुर्मयूरे च सर्पे चापि द्वयोर्मतः ॥ ६३७१ ॥
48.6371 · p. 471
अनुष्टुप्
सहस्रमस्त्री बहुनि शतानां दशकेऽपि च ।सहस्रपत्रं कमले क्लीबं स्याद्यौगिके त्रिषु ॥ ६३७२ ॥
48.6372 · p. 471
अनुष्टुप्
सहस्रवीर्या स्त्रीलिङ्गे स्याद्दूर्वाश्वेतदूर्वयोः ।तथोर्ध्वकण्टकान्याख्यशतावर्यां प्रकीर्त्तिता ॥ ६३७३ ॥
48.6373 · p. 471
अनुष्टुप्
सहस्रवेधी पुंस्यम्लवेतसे क्ली तु हिङ्गुनि ।सहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणौ तथा ॥ ६३७४ ॥
48.6374 · p. 471
अनुष्टुप्
नीलझिण्ट्यां पीतझिट्यामित्यप्यतिबलाह्वये ।बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि ॥ ६३७५ ॥
48.6375 · p. 471
अनुष्टुप्
मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ।सहायस्तु द्वयोः सख्यौ सेवके तु त्रिषु स्मृतः ॥ ६३७६ ॥
48.6376 · p. 471
अनुष्टुप्
सहुरिः-साधना
सहुरिस्तु पुमान्युद्धेऽन्धकारेऽपि प्रकीर्त्तितः ।चिद्रूपे स्यात्सहृदयो हृदयेन युते त्रिषु ॥ ६३७७ ॥
48.6377 · p. 472
अनुष्टुप्
सहोक्तिः स्यात्स्त्र्यलङ्कारभेदेऽपि सहभाषणे ।सहोरस्तु पुमान्विष्णौ पर्वतेऽपि प्रकीर्त्तितः ॥ ६३७८ ॥
48.6378 · p. 472
अनुष्टुप्
सह्यः पर्वतभेदे ना पश्चिमार्णवपार्श्वगे ।सोढव्ये त्रिषु सह्यं स्यादारोग्ये तु नपुंसकम् ॥ ६३७९ ॥
48.6379 · p. 472
अनुष्टुप्
सा लक्ष्म्यां सर्वनाम्नश्च प्रथमैकस्त्रियां तदः ।सांयात्रिकं प्रभाते क्ली पुमान्पोतवणिज्ययम् ॥ ६३८० ॥
48.6380 · p. 472
अनुष्टुप्
सांवत्सरो वाच्यवत्तु त्रिलिङ्गः परिकीर्त्तितः ।संवत्सरभवादौ च विज्ञेयः फलपर्वणोः ॥ ६३८१ ॥
48.6381 · p. 472
अनुष्टुप्
विद्याज्ज्यौतिषिके चैवं कृष्णशालौ पुनः पुमान् ।स्त्री तु सांवत्सरी श्राद्धे कर्त्तव्ये वत्सरात्यये ॥ ६३८२ ॥
48.6382 · p. 472
अनुष्टुप्
स्यात्सांवत्सरकं वर्षदेयर्णादिषु वाच्यवत् ।सांवत्सरिकवज्ज्योतिर्विज्ञे तु स्मर्यते नरि ॥ ६३८३ ॥
48.6383 · p. 472
अनुष्टुप्
अनिश्चिते सांशयिकस्तथा शङ्कावति त्रिषु ।साज्यं त्र्याज्ययुते नैकादशाहश्राद्धभिद्यपि ॥ ६३८४ ॥
48.6384 · p. 472
अनुष्टुप्
सातं सुखे क्ली क्षीणे त्रि साती स्त्र्यर्थेऽत्र कीर्त्तिता ।तीव्रायां वेदनायां स्त्री सातिर्दानावसानयोः ॥ ६३८५ ॥
48.6385 · p. 472
अनुष्टुप्
सात्त्वतो बलदेवे ना द्वे त्वपत्ये च सत्त्वतः ।स्यात्क्षत्रपूर्ववैश्याजे व्रात्याच्च हरिपूजके ॥ ६३८६ ॥
48.6386 · p. 472
अनुष्टुप्
सात्त्विकं सत्त्वनिर्वृत्ते त्रिष्वथो सात्त्विकी स्त्रियाम् ।नाट्यस्थकैशिकीत्यादिवृत्तीनां क्वचिदिष्यते ॥ ६३८७ ॥
48.6387 · p. 472
अनुष्टुप्
सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ।अत्यन्ताभ्यस्तताहेतोः प्रकृतित्वं गतेऽपि च ॥ ६३८८ ॥
48.6388 · p. 472
अनुष्टुप्
सादी सूते तथैवायमश्वारोहे पुमान्मतः ।साधनं क्ली धने शेफे सिद्धावनुगतौ गतौ ॥ ६३८९ ॥
48.6389 · p. 472
अनुष्टुप्
मारणे मृतसंस्कारेऽप्युपायेऽप्यर्थदापने ।सेनाङ्गे यातनायाञ्च न तु ना साधना मता ॥ ६३९० ॥
48.6390 · p. 472
अनुष्टुप्
साधारणम्-सारङ्गी
निवर्त्तनायां मन्त्रादेश्चाऽभीष्टफलादीकृतौ ।साधारणं तु सामान्ये त्रिषु साधारणीति च ॥ ६३९१ ॥
48.6391 · p. 473
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ला (wrong syllable)
साधारणा च स्त्रीत्वे स्यादथ साधारणी स्त्रियाम् ।कवाटबन्धमोक्षार्थकुञ्चिकायां प्रकीर्त्तिता ॥ ६३९२ ॥
48.6392 · p. 473
अनुष्टुप्
साधिष्ठः स्यात्साधुतमे तथा भृशतरे त्रिषु ।साधीयान्स्यात्साधुतरे तथा भृशतरे त्रिषु ॥ ६३९३ ॥
48.6393 · p. 473
अनुष्टुप्
साधुर्व्याकृतशब्दे त्रिः सज्जनोचित चारुषु ।धर्मशीले संयते च ना तु वार्धुषिके मतः ॥ ६३९४ ॥
48.6394 · p. 473
अनुष्टुप्
पतिव्रतायां तु स्त्रीत्वे साध्वीति परिकीर्त्तिता ।ना तु वार्धुर्षिके कैश्चित्पठितस्तदसद्यतः ॥ ६३९५ ॥
48.6395 · p. 473
अनुष्टुप्
स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषणम् ।साध्यस्त्रि साधनीये ना गणदेवान्तरेऽशुषु ॥ ६३९६ ॥
48.6396 · p. 473
अनुष्टुप्
सानसिस्तु ऋणे पुंसि सुवर्णेऽपि नखेऽपि च ।सान्त्वं तु सान्त्वने क्लीबं वाक्ये तु मधुरे त्रिषु ॥ ६३९७ ॥
48.6397 · p. 473
अनुष्टुप्
सामजो हस्तिनि द्वे स्यात्त्रि तु सामसमुद्भवे ।साम प्रगीतमन्त्रेषु साधुन्यपि तथा मतम् ॥ ६३९८ ॥
48.6398 · p. 473
अनुष्टुप्
नान्तं नपुंसकं प्रोक्तं सान्त्वसामप्रभेदयोः ।सामिधेनी तु समिदाधानर्चि च समिध्यपि ॥ ६३९९ ॥
48.6399 · p. 473
अनुष्टुप्
त्रिः सामुद्रोऽब्धिसम्बन्धिन्यथ क्ली देहलक्षणे ।साम्परायस्तु संग्रामे विपदुत्तरकालयोः ॥ ६४०० ॥
48.6400 · p. 473
अनुष्टुप्
स्यात्साम्परायिकं युद्धे रथे स्यात्साम्परायिकः ।सायकस्तु शरे खड्गे वज्रे ना त्रिस्तु मातरि ॥ ६४०१ ॥
48.6401 · p. 473
अनुष्टुप्
सारः स्थिरांशे सरणे तरोर्मज्ज्ञि धने बले ।व्योम्नि रेतसि ना त्रिस्तूत्कृष्टे न्याय्ये च सुन्दरे ॥ ६४०२ ॥
48.6402 · p. 473
अनुष्टुप्
सारी तु भ्रुकुटावेषा स्त्रीलिङ्गे परिकीर्त्तिता ।सारङ्गश्चातके भृङ्गे कृष्णसारे गजे द्वयोः ॥ ६४०३ ॥
48.6403 · p. 473
अनुष्टुप्
पुमांस्तु शबले वर्णे सारङ्गस्त्रिषु तद्वति ।स्त्रीत्वे तु सारङ्गीत्येतद्रूपं सर्वत्र कीर्त्तितम् ॥ ६४०४ ॥
48.6404 · p. 473
अनुष्टुप्
सारणः-साहस्रम्
सारणस्तु शरद्वायौ पुमांश्च वरुणात्मजे ।सारणं सारणा चेति नना स्यात्सारिकर्मणि ॥ ६४०५ ॥
48.6405 · p. 474
अनुष्टुप्
सारणी तु स्त्रियामेषा ग्रन्थे पद्यात्मके मता ।सारमेयस्तु शुनके मूषिकायां तथा द्वयोः ॥ ६४०६ ॥
48.6406 · p. 474
अनुष्टुप्
सारसः पुष्करखगे द्वे नेन्दौ क्ली तु वारिजे ।मेखलायां सारसनमुरस्त्राणे तथा नपि ॥ ६४०७ ॥
48.6407 · p. 474
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सा (wrong syllable)
सारस्वतो बैल्वदण्डे ना त्रिः सत्रमखान्तरे ।सरस्वत्याश्च सम्बन्धिन्ययं त्रिषु प्रकीर्त्तितः ॥ ६४०८ ॥
48.6408 · p. 474
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 त्रि (wrong syllable)
सारिका काण्डवीणायां सारकस्त्वभिधेयवत् ।सत्तर्यपि तथैवायमुक्तः सारयितर्यपि ॥ ६४०९ ॥
48.6409 · p. 474
अनुष्टुप्
सार्थस्त्वर्थवति त्रि स्यात्प्राणिसङ्घान्तरे तु ना ।सार्वभौमश्चक्रवर्त्तिन्यपि चोत्तरदिग्गजे ॥ ६४१० ॥
48.6410 · p. 474
अनुष्टुप्
सार्वभौमस्तु विदिते वाच्यलिङ्गः प्रकीर्त्तितः ।सालोऽस्त्रियां स्यात्प्राकारे नाऽश्वकर्णतरौ तरौ ॥ ६४११ ॥
48.6411 · p. 474
अनुष्टुप्
गतौ च मत्स्यभेदे तु द्वयोः सालः प्रकीर्त्तितः ।सालावृकः शृगालेऽपि वानरे च वृके द्वयोः ॥ ६४१२ ॥
48.6412 · p. 474
अनुष्टुप्
साल्वास्तु मध्यदेशीयकारकुत्सीयनीवृति ।प्राच्यनीवृद्विशेषे च नृभूम्नि परिकीर्त्तितः ॥ ६४१३ ॥
48.6413 · p. 474
अनुष्टुप्
तयो राज्ञोः पुमान्साल्वस्तदपत्येषु सद्वयोः ।सावनोऽब्दविशेषे स्यात्षष्टित्रिशतवासरे ॥ ६४१४ ॥
48.6414 · p. 474
अनुष्टुप्
त्रिषु त्ववनयुक्ते च सवनस्य च योगिनि ।सावित्र्यनामिकाङ्गुल्यां तथा तत्सवितुर्ऋचि ॥ ६४१५ ॥
48.6415 · p. 474
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 तु (wrong syllable)
विश्वामित्रेण दृष्टायां त्रिः स्यात्सवितृयोगिनि ।साहसं त्वस्त्रियां दण्डशब्दपर्यायके दमे ॥ ६४१६ ॥
48.6416 · p. 474
अनुष्टुप्
अतर्कितप्रवृत्तौ तु बलात्कारे नपुंसकम् ।साहसं स्यात्त्रिषु त्वेतत्कृतकार्ये प्रकीर्त्तितम् ॥ ६४१७ ॥
48.6417 · p. 474
अनुष्टुप्
साहस्रं तु सहस्राणां समूहे स्यान्नपुंसकम् ।सहस्रेण तु निर्वृत्ते सहस्रवति च त्रिषु ॥ ६४१८ ॥
48.6418 · p. 474
अनुष्टुप्
साहस्रः-सिद्धिः
साहस्रस्तु चतुर्षु स्यात्पुंस्येकाहक्रतुष्वयम् ।सिंहो द्वयोमृगेन्द्रेऽथ वेङ्कटाद्रौ पुमान्मतः ॥ ६४१९ ॥
48.6419 · p. 475
अनुष्टुप्
सिंही तु वाशावार्त्ताकीकण्टकारीष्वियं स्त्रियाम् ।सिंहो द्वयोः किशोरे स्यात्पुमानेष वनस्पतौ ॥ ६४२० ॥
48.6420 · p. 475
अनुष्टुप्
स्यात्सिंहकेसरः पुंसि वकुलेऽस्त्री सटे हरेः ।सिंहपुच्छी माषपर्णीपृश्निपर्ण्योः स्त्रियां मता ॥ ६४२१ ॥
48.6421 · p. 475
अनुष्टुप्
क्लीबं सिंहमलं लोहे नीलिकाख्येऽथ यौगिके ।स्यात्सिंहविक्रमोऽश्वे द्वे योगार्थे तु यथायथम् ॥ ६४२२ ॥
48.6422 · p. 475
अनुष्टुप्
सिंहास्यस्त्वटरूषे ना योगार्थे तु यथायथम् ।सिंहिका राक्षसीभेदे राहोर्मातरि च स्त्रियाम् ॥ ६४२३ ॥
48.6423 · p. 475
अनुष्टुप्
नतजानौ चाविवाह्यकन्याभेदे प्रकीर्त्तिता ।सिकता भूम्नि देशे सिकतिले वालुकास्वपि ॥ ६४२४ ॥
48.6424 · p. 475
अनुष्टुप्
सिक्थोऽस्त्रियां मधूच्छिष्टे पुलाकेऽन्नस्य पुंस्ययम् ।सितः शौक्ल्ये जीरके च पुँल्लिङ्ग उशनस्यपि ॥ ६४२५ ॥
48.6425 · p. 475
अनुष्टुप्
अथ प्राप्तावसाने सशौक्ल्ये बुद्धेऽपि च त्रिषु ।शर्करायां पुनः स्त्रीत्वे सितेति परिकीर्त्तिता ॥ ६४२६ ॥
48.6426 · p. 475
अनुष्टुप्
सितकुञ्जर इन्द्रे ना योगार्थे तु यथायथम् ।सितच्छदो द्वयोर्हंसे योगार्थे तु यथायथम् ॥ ६४२७ ॥
48.6427 · p. 475
अनुष्टुप्
सितापाङ्गो मयूरे द्वे योगार्थे तु यथायथम् ।सिताभ्रः पुंसि कर्पूरे क्लीबं त्वभ्रे सिते मतम् ॥ ६४२८ ॥
48.6428 · p. 475
अनुष्टुप्
सितायुधस्त्वेत्थालाख्ये मत्स्यभेदे द्वयोर्मतः ।सितासितस्तु योगार्थे बलभद्रे त्वसौ पुमान् ॥ ६४२९ ॥
48.6429 · p. 475
अनुष्टुप्
सिद्धस्तु सनकादौ ना देवजात्यन्तरे द्वयोः ।निष्पन्ने तु त्रिषु क्ली तु सिद्धौ गत्यादिकेष्वपि ॥ ६४३० ॥
48.6430 · p. 475
अनुष्टुप्
सिद्धो ना वृक्षभेदे स्यादयं साधुजने त्रिषु ।ना पारदे सिद्धरसो रससिद्धे तु स त्रिषु ॥ ६४३१ ॥
48.6431 · p. 475
अनुष्टुप्
सिद्धार्थः सर्षपे बुद्धे नाऽर्थेन तु युते त्रिषु ।सिद्धिः स्त्री गतिसंराद्ध्योर्ऋद्धिवृद्ध्योषधिद्वये ॥ ६४३२ ॥
48.6432 · p. 475
अनुष्टुप्
सिध्मला-सीमिकः
सिध्मलौषधिभेदे स्त्री स्यान्मत्स्यविकृतावपि ।अथाऽभिधेयवत्सिध्मवति सिध्मल इष्यते ॥ ६४३३ ॥
48.6433 · p. 476
अनुष्टुप्
सिनमन्ने शरीरे च क्ली बिल्वाख्यद्रुमे तु ना ।सिनीवाली दृष्टचन्द्रामावास्यापार्वती तथा ॥ ६४३४ ॥
48.6434 · p. 476
अनुष्टुप्
सिन्धुस्तु नद्यां स्त्री ना तु समुद्रेऽपि नदान्तरे ।अशीत्यक्षरके छन्दोभेदे च कृतसंज्ञके ॥ ६४३५ ॥
48.6435 · p. 476
अनुष्टुप्
गजानां दानतोये च कटनेत्रसमुद्भवे ।नीवृद्भेदे तु पुंभूम्नि सिन्धवः परिकीर्त्तिताः ॥ ६४३६ ॥
48.6436 · p. 476
अनुष्टुप्
सैन्धवे लवणे क्लीबं सिन्धु स्याद्द्वे तु हस्तिनि ।सिमस्तु क्षत्रः सर्वार्थे सर्वनाम त्रिषु स्मृतः ॥ ६४३७ ॥
48.6437 · p. 476
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्रः (wrong syllable)
ग्रामगोचरभूमौ तु सिमो ना सर्वनामनः ।क्षत्रस्य मर्यादायां च द्वयोस्त्वश्वे सिमः स्मृतः ॥ ६४३८ ॥
48.6438 · p. 476
अनुष्टुप्
सिमाः स्त्रियो महानाम्नीसंज्ञसामान्तरे स्मृताः ।सिलिन्ध्रो वृक्षभेदे ना स्याच्छत्राके तु न स्त्रियाम् ॥ ६४३९ ॥
48.6439 · p. 476
अनुष्टुप्
मत्स्यभेदे सिलिन्ध्रो द्वे स्त्री तु गण्डपदीमृदि ।सिलिन्ध्रवृक्षप्रसवकदलीपुष्पयोस्तु नप् ॥ ६४४० ॥
48.6440 · p. 476
अनुष्टुप्
सीता तु रामभार्यायां पृथिव्यां हलपद्धतौ ।सस्ये हरितसस्ये च सस्यभूमावपि स्त्रियाम् ॥ ६४४१ ॥
48.6441 · p. 476
अनुष्टुप्
सुमेरुशिरसः प्राग्दिग्गतगङ्गान्तरेऽपि च ।सीत्यं तु धान्ये क्लीबं स्यात्कृष्टभूमितले त्वपि ॥ ६४४२ ॥
48.6442 · p. 476
अनुष्टुप्
सीतायामपि साधौ च [त्रिलिङ्गः परिकीर्त्तितः] ।सीद्गुण्डो द्वे विप्रपराजकीजे ना स्नुहीतरौ ॥ ६४४३ ॥
48.6443 · p. 476
अनुष्टुप्
सीमः स्त्रीपुंसयोरश्वे पुमांस्तु परिकीर्त्तितः ।क्षेत्रस्य मर्यादायाञ्च ग्रामगोचरभुव्यपि ॥ ६४४४ ॥
48.6444 · p. 476
अनुष्टुप्
सीमा टापि क्षितौ कूलेऽवधौ क्षेत्रव्यवस्थयोः ।मन्नन्तापि च सीमेयमेष्वेवार्थेषु कीर्त्तिता ॥ ६४४५ ॥
48.6445 · p. 476
अनुष्टुप्
स्यात् सीमिकं तु वल्मीके शाखायां क्ली तरोरपि ।स्त्रीपुंसयोस्तु सलिलक्रिमौ सीमिक इष्यते ॥ ६४४६ ॥
48.6446 · p. 476
अनुष्टुप्
सीरः-सुनारः
सीरो हलार्कयोः पुंसि सीरी तु स्त्री लताङ्कुरे ।लाङ्गलिक्यां च नद्यां तु सीरा स्त्रीत्वे प्रकीर्त्तिता ॥ ६४४७ ॥
48.6447 · p. 477
अनुष्टुप्
सीवन्युपस्थाधःसूत्रे सूच्यां स्यूतौ तु सीवनम् ।सुकन्दस्तु पलाण्डौ ना त्रि तु शोभनकन्दके ॥ ६४४८ ॥
48.6448 · p. 477
अनुष्टुप्
सुकृतं सत्कृतौ पुण्ये त्रिस्तु सुष्ठुकृते मतम् ।स्त्री सुकेश्यप्सरोभेदे त्रि तु शोभनमूर्धजे ॥ ६४४९ ॥
48.6449 · p. 477
अनुष्टुप्